कथासरित्सागर, वेतालपञ्चविंशतिका · अध्याय 12.10
अथ भूयो ऽपि वेतालम् आनेतुं नृपसत्तमः ।
स त्रिविक्रमसेनस् तम् उपागाच् छिंशम्पातरुम् ॥
तत्रस्थम् एतं संप्राप्य मृतदेहगतं पुनः ।
स्कन्धे गृहीत्वैवागन्तुं तूष्णीं प्रववृते ततः ॥
प्रयान्तं च तम् आह स्म स वेतालो ऽस्य पृष्ठगः ।
चित्रं नोद्विजसे राजन् निशि कुर्वन् गमागमम् ॥
तद् अखेदाय भूयस् ते वर्णयामि कथां शृणु ।
अस्ति पाटलिपुत्राख्यं ख्यातं भूमण्डले पुरम् ॥
तत्रासीन् नृपतिः पूर्वं नाम्ना विक्रमकेसरी ।
गुणानाम् इव रत्नानाम् आश्रयं यं व्यधाद् विधिः ॥
तत्र शापावतीर्णो ऽभूद् दिव्यविज्ञानवाञ् शुकः ।
विदग्धचूदमणिर् इत्य् आख्यया सर्वशास्त्रवित् ॥
तेनोपदिष्टां सदृशीं राजपुत्रीं नृपात्मजः ।
मागधीम् उपयेमे स भार्यां चन्द्रप्रभाभिधाम् ॥
तस्या अपि तथाभूता सर्वविज्ञानशालिनी ।
शारिका सोमिका नाम राजपुत्र्याः किलाभवत् ॥
ते चैकपञ्जरस्थे द्वे तत्रास्तां शुकशारीके ।
सेवमाने स्वविञ्जानैर् दंपती तौ निजप्रभू ॥
एकदा साभिलाषस् तां शारिकां सो ऽब्रवीच् छुकः ।
एकशय्यासनाहारं सुभगे भज माम् इति ॥
नाहं पुरुषसंसर्गम् इच्छामि पुरुषा यतः ।
दुष्टाः कृतघ्ना इति सा सारिका प्रत्युवाच तम् ॥
न दुष्टाः पुरुषा दुष्टा नृशंसहृदयाः स्त्रियः ।
इति भूयः शुकेनोक्ते विवादो ऽत्रालगत् तयोः ॥
कृतदासत्वभार्यात्वपणौ तौ शकुनी मिथः ।
निश्चयायाथे सभ्यं तं राजपुत्रम् उपेयतुः ॥
स विवादपदं श्रुत्वा तयोर् आस्थानगः पितुः ।
कथं कृतघ्नाः पुरुषा ब्रूहीत्य् आह स्म शारिकाम् ॥
ततः सा शृणुतेत्य् उक्त्वा निजपक्षप्रसिद्धये ।
पुंदोषाख्यायिनीम् एतां शारिकाकथयत् कथाम् ॥
अस्ति कामन्दिका नाम या महानगरी भुवि ।
अर्थदत्ताभिधानो ऽस्ति वणिक् तस्यां महाधनः ॥
धनदत्ताभिधानश् च पुत्रस् तस्योदपद्यत ।
पितर्य् उपरते सो ऽपि बभूवोच्छृङ्खलो युवा ॥
द्यूतादिसङ्गे दूर्ताश् च मिलित्वा तम् अपातयन् ।
कामं व्यसनवृक्षस्य मूलं दुःजनसंगतिः ॥
अचिराद् व्यसनक्षीणधनो दौर्गत्यलज्जया ।
सो ऽथ त्यक्त्वा स्वदेशं तं भ्रान्तुं देशान्तराण्य् अगात् ॥
गच्छंश् च चन्दनपुरं नाम स्थानम् अवाप्य सः ।
विवेश भोजनार्थी सन्न् एकस्य वणिजो गृहम् ॥
स वणिक् सुकुमारं तं दृष्ट्वा पृष्ट्वान्वयादिकम् ।
ज्ञात्वा कुलीनं सत्कृत्य स्वीचक्रे दैवयोगतः ॥
ददौ च सधनां तस्मै नाम्ना रत्नावलीं सुताम् ।
ततः स धनदत्तो ऽत्र तस्थौ श्वशुरवेश्मनि ॥
दिनेष्व् एव च यातेषु सुखविस्मृतदुःगतिः ।
स्वदेशं गन्तुकामो ऽभूत् प्राप्तार्थो व्यसनोन्मुखः ॥
ततो ऽनुमान्य कथम् अप्य् अवशं श्वशुरं शठः ।
तं दुहितृएकसंतानं गृहीत्वा ताम् अलंकृताम् ॥
भार्यां रत्नावलीं युक्ताम् एकया वृद्धया स्त्रिया ।
स आत्मना तृतीयः सन्देशात् प्रस्थितवांस् ततः ॥
क्रमात् प्राप्याटवीं दूराम् उक्त्वा तस्करजां भियम् ।
गृहीत्वाभरणं तस्या भार्यायाः स्वीचकार सः ॥
दृश्यतां द्यूतवेश्यादिकष्टव्यसनसङ्गिनाम् ।
हृदयं हा कृतघ्नानां पुंसां निस्त्रिंशकर्कशम् ॥
सो ऽथ पापो ऽर्थहेतोस् तां भार्यां गुणवतीम् अपि ।
हन्तुं श्वभ्रे निचिक्षेप तया वृद्धस्त्रिया युताम् ॥
क्षिप्त्वैव च गते तस्मिन् साथ वृद्धा व्यपद्यत ।
तद् भार्या तु लतागुल्मविग्नया न व्यपादि सा ॥
उत्तस्थौ च ततः श्वभ्रात् क्रोशन्ती करुणं शणैः ।
आलम्ब्य तृणगुल्मादि सशेषत्वात् किलायुषः ॥
आययौ विक्षताङ्गी च पृष्ट्वा मार्गं पदे पदे ।
यथागतेनैव पथा कृच्छ्रात् तत् सदनं पितुः ॥
तत्राकस्मात् तथाभूता प्राप्ता पृष्टा ससंभ्रमम् ।
मात्रा पित्रा च रुदती साध्वी सैवम् अभाषत ॥
मुषिताः स्म पथि स्तेनैर् नीतो बद्ध्वा च मत्पतिः ।
वृद्धा मृता निपत्यापि श्वभ्रे नाहं मृता पुनः ॥
अथागतेन केनापि पथिकेन कृपालुना ।
उद्धृताहं ततः श्वभ्रात् प्राप्तास्मीह च दैवतः ॥
एवम् उक्तवती मात्रा पित्रा चाश्वासिता ततः ।
भर्तृचित्तैव सा तस्थौ तत्र रत्नावली सती ॥
याति काले च तद्भर्ता स स्वदेशगतः पुनः ।
द्यूतक्षपिततद्वित्तो दनदत्तो व्यचिन्तयत् ॥
आनयामि पुनर् गत्वा मार्गित्वा श्वशुराद् धनम् ।
गृहे स्थिता मे त्वत् पुत्रीत्य् अभिधास्ये च तत्र तम् ॥
एवं स हृदये ध्यात्वा प्रायाच् छ्वशुरवेश्म तत् ।
प्राप्तं च तत्र तं दूरात् स्वभार्या पश्यति स्म सा ॥
धावित्वा चापतत् तस्य सा पापस्यापि पादयोः ।
दुष्टे ऽपि पत्यौ साध्वीनां नान्यथावृत्तिमानसम् ॥
भीताय च ततस् तस्मै तद् अशेषं न्यवेदयत् ।
यन् मृषा चौरपातादि पित्रोः प्राग् वर्णितं तया ॥
ततस् तया समं तत्र निर्भयः श्वाशुरे गृहे ।
प्रविष्टः श्वशुराभ्यां स हर्षाद् दृष्ट्वाभ्यनन्द्यत ॥
दिष्ट्या जीवन्न् अयं मुक्तश् चौरैर् इति महोत्सवः ।
तेन तच्छ्वशुरेणाथ चक्रे मिलितबन्धुना ॥
ततः स धनदत्तो ऽत्र भुञ्जानः श्वशुरश्रियम् ।
रत्नावल्या तया साकम् आसीत् पत्न्या यथासुखम् ॥
एकदा तत्र रात्रौ च स नृशंसश् चाकर यत् ।
कथोपरोधतः शान्तम् अवाच्यम् अपि कथ्यते ॥
हत्वाङ्कसुप्तां भार्यां तां तदाभरणसंचयम् ।
अपहृत्य ततः प्रायात् स स्वदेशम् अलक्षितः ॥
ईदृशाः पुरुषाः पापा इति शारिकयोदिते ।
त्वम् इदानीं वदेत्य् आह राजपुत्रस् तदा शुकम् ॥
ततो जगाद स शुको देव दुःसहसाहसाः ।
स्त्रियो दुःचरिताः पापास् तथा च श्रूयतां कथा ॥
अस्ति हर्षवती नाम नगरी तत्र चाभवत् ।
अग्रणीर् धर्मदत्ताख्यो बहुकोटीश्वरो वणिक् ॥
वसुदत्ताभिधाना च रूपे ऽनन्यसमा सुता ।
बभूव तस्य वणिजः प्राणेभ्यो ऽप्य् अधिकप्रिया ॥
सा च तेन समानाय रूपयौवनशालिने ।
दत्ता वराङ्गनानेत्रचकोरामृतरश्मये ॥
नाम्ना समुद्रदत्ताय वणिक्पुत्राय साधवे ।
नगर्याम् आर्यजुष्टायां ताम्रलिप्त्यां निवासिने ॥
कदाचित् सा स्वदेशस्थे पत्यौ स्वस्य पितुर् गृहे ।
स्थिता वणिक्सुता दूरात् कम्चित् पुरूषम् ऐक्षत ॥
तं युवानं सुकान्तं सा चपला मारमोहिता ।
गुप्तं सखीमुखानीतं भेजे प्रच्छन्नकामुकम् ॥
ततःप्रभृति तेनैव सह तत्र सदा रहः ।
रात्रौ रात्राव् अरंस्तासौ तदेकासक्तमानसा ॥
एकदा च स कौमारः पतिस् तस्याः स्वदेशतः ।
आजगामात्र तत्पित्रोः प्रमोद इव मूर्तिमान् ॥
सोत्सवे च दिने तस्मिन् सा नक्तं कृतमण्डना ।
मात्रानुप्रेषिता भेजे शय्यास्थापि न तं पतिम् ॥
प्रार्थिता तेन चालीकसुप्तं चक्रे ऽन्यमानसा ।
पानमत्तो ऽध्वखिन्नश् च सो ऽपि जह्रे ऽथ निद्रया ॥
ततश् च सुप्ते सर्वस्मिन् भुक्तपीते जने शनैः ।
संधिं भित्त्वा विवेशात्र चौरो वासगृहान्तरे ॥
तत्कालं तम् अपश्यन्ती साप्य् उत्थाय वणिक्सुता ।
स्वजारकृतसंकेता निरगान् निभृतं ततः ॥
तदालोक्य स चौरो ऽत्र विघ्नितेच्छो व्यचिन्तयत् ।
येषाम् अर्थे प्रविष्टो ऽहं तैर् एवाभरणैर् वृता ॥
निशीथे निर्गतैषा तद् वीक्षे ऽहं सा क्व गच्छति ।
इत्य् आकलय्य निर्गत्य स चौरस् तां वणिक्सुताम् ॥
वसुदत्ताम् अनु ययौ दत्तदृष्टिर् अलक्षितः ।
सापि पुष्पादिहस्तैकससंकेतसखीयुता ॥
गत्वा बाह्यं प्रविष्टाभूद् उद्यानं नातिदूरगम् ।
तत्रापश्यच् च तं वृक्षे लम्बमानं स्वकामुकम् ॥
संकेतकागतं रात्रौ लब्ध्वा नगररक्षिभिः ।
उल्लम्बितं चौरबुद्ध्या पाशकण्ठं मृतं स्थितम् ॥
ततः सा विह्वलोद्भ्रान्ता हा हतास्मीति वादिनी ।
पपात भूमौ कृपणं विलपन्ती रुरोद च ॥
अवतार्याथ वृक्षात् तं गतासुं निजकामुकम् ।
उपवेश्याङ्गरागेण पुष्पैश् चालम्चकार सा ॥
समालिङ्ग्य च निःसंज्ञं रागशोकान्धमानसा ।
उन्नमय्य मुखं यावत् तस्यार्ता परिचुम्बति ॥
तावत् स तस्याः सहसा निःजीवः परपूरुषः ।
वेतालानुप्रविष्टः सद् दन्तैश् चिच्छेद नासिकाम् ॥
तेन सा विह्वला तस्मात् सव्यथापसृताप्य् अहो ।
किं स्विज् जीवेद् इति हता पुन एत्य तम् ऐक्षत ॥
दृष्ट्वा च वीतवेतालं निःचेष्टं मृतम् एव तम् ।
सा भीता परिभूत च चचाल रुदती शनैः ॥
तावच् छन्नः स्थितः सो ऽथ चौरः सर्वं व्यलोकयत् ।
अचिन्तयच् च किम् इदं पापया कृतम् एतया ॥
अहो बताशयः स्त्रीणां भीषणो घनतामसः ।
अन्धकूप इवागाधः पाताय गहनः परम् ॥
तद् इदानीम् इयं किं नु कुर्याद् इति विचिन्त्य सः ।
कौतुकाद् दूरतश् चौरो भूयो ऽप्य् अनुससार ताम् ॥
सापि गत्वा प्रविश्यैव तत् सुप्तस्थितभर्तृकम् ।
गृहं तदा स्वकं प्रौच्चैः प्ररुदत्य् एवम् अब्रवीत् ॥
परित्रायध्वम् एतेन दुष्टेन मम नासिका ।
छिन्ना निरपराधाया भर्तृरूपेण शत्रुणा ॥
श्रुत्वैतं मुहुर् आक्रन्दं तस्याः सर्वे ससंभ्रमम् ।
उदतिष्ठन् प्रबुध्यात्र पतिः परिजनः पिता ॥
एत्याथ तत्पिता दृष्ट्वा ताम् आर्द्रछिन्ननासिकाम् ।
क्रुद्धस् तं बन्धयामास भार्याद्रोहीति तत् पतिम् ॥
स तु नैवाब्रवीत् किम्चिद् बध्यमानो ऽपि मूकवत् ।
विपर्यस्तेषु सर्वेषु शृण्वत्सु श्वशुरादिषु ॥
ततो ज्ञत्वैव तच् चौरे तस्मिन्न् अपसृते लघु ।
कोलाहलेन तस्यां च व्यतीतायां क्रमान् निशि ॥
स निन्ये वणिजा तेन श्वशुरेण वणिक्सुतः ।
राजान्तिकं तया सार्धं भार्यया छिन्ननासया ॥
राजा च कृतविज्ञप्तिः स्वदारद्रोह्य् असाव् इति ।
तस्यादिशद् वणिक्सूनोर् वधं न्यक्कृततद्वचाः ॥
ततो वध्यभुवं तस्मिन् नीयमाने सडिण्डिमम् ।
उपागम्य स चौरो ऽत्र बभाषे राजपूरुषान् ॥
निःकारणं न वध्यो ऽयं यथावृत्तं तु वेद्म्य् अहम् ।
मां प्रापयत राजाग्रं यावत् सर्वं वदाम्य् अतः ॥
इत्य् ऊचिवान् स नीतस् तैर् नृपस्याग्रं वृताभयः ।
आ मूलाद् रात्रिवृत्तान्तं चौरः सर्वं न्यवेदयत् ॥
अब्रवीच् च न चेद् देव मद्वाचि प्रत्ययस् तव ।
तत् सा नासा मुखे तस्य शवस्याद्यापि वीक्ष्यताम् ॥
तच् छ्रुत्वा वीक्षितुं भृत्यान् प्रेष्य सत्यम् अवेत्य तत् ।
स राजा तं वणिक्पुत्रं मुक्तवान् वधनिग्रहात् ॥
तां च कर्णाव् अपि छित्वा दुष्टां देशान् निरस्तवान् ।
तद् भार्यां श्वशुरं चास्य तं सर्वस्वम् अदण्डयत् ॥
चौरं च तं पूराध्यक्षं तुष्टश् चक्रे स भूपतिः ।
एवं स्त्रियो भवन्तीह निसर्गविषमाः शठाः ॥
इत्य् उक्तवान् एव शुको भूत्वा चित्ररथाभिधः ।
क्षीणेन्द्रशापो गन्धर्वो दिव्यरूपो दिवं ययौ ॥
शारिका सापि तत्कालं भूत्वा स्वःस्त्री तिलोत्तमा ।
तथैव क्षीणतच्छापा जगाम सहसा दिवम् ॥
विवादश् चाप्य् अनिर्णितः सभायां सो ऽभवत् तयोः ।
इत्य् आख्याय कथां भूयस् तं वेतालो ऽब्रवीन् नृपम् ॥
तद् भवान् वक्तु किं पापाः पुरुषाः किमुत स्त्रियः ।
अजल्पतो जान तस् ते शिरो यस्यति खण्डशः ॥
एतन् निशम्य वचनं वेतालस्यांसवर्तिनस् तस्य ।
स जगाद भूपतिस् तं योगेश्वर योषितः पापाः ॥
पुरुषः को ऽपीह तादृक् क्वापि कदाचिद् भवेद् दुःआचारः ।
प्रायः सर्वत्र सदा स्त्रियस् तु तादृग्विधा एव ॥
इत्य् उक्तवतो नृपतेः प्राग्वत् स्कन्धात् स तस्य वेतालः ।
नष्टो ऽभूत् स च राजा जग्राह पुनस् तदानयनयत्रम् ॥
मूल पाठ: Kathāsaritsāgara, Vetālapañcaviṃśatikā · Data entry Elena Artesani · GRETIL (Göttingen) · CC BY-NC-SA 4.0