भाषा

ENहिગુ
ग्रंथ पाठ

कथासरित्सागर, वेतालपञ्चविंशतिका · अध्याय 12.31

12.31.1

ततस् तां तिमिरश्यामां चिताग्निज्वलितेक्षणाम् ।
स्मशाने भीषणे तस्मिन् वीरो रजनिराक्षसीम् ॥

12.31.2

घोराम् अगणयन् राजा गत्वा तां शिंशपां पुनः ।
स त्रिविक्रमसेनस् तं तस्या वेतालम् आददे ॥

12.31.3

स्कन्धे कृत्वा च तं यावत् प्रक्रामति स पूर्ववत् ।
तावद् भूयः स वेतालो नरदेवम् उवाच तम् ॥

12.31.4

भो राजन्न् अहम् उद्विग्नो न पुनस् त्वं गतागतैः ।
तद् एकं मे महाप्रश्नम् इमं कथयतः शृणु ॥

12.31.5

आसीन् माण्डलिकः को ऽपि नृपतिर् दक्षिणापथे ।
धर्माभिधानो धौरेयः साधूनां बहुगोत्रजः ॥

12.31.6

तस्य चन्द्रवतीनाम भार्या मालवदेशजा ।
अभून् महाकुलोत्पन्ना वरस्त्रीमौलिमालिका ॥

12.31.7

तस्यां च तस्य भार्यायां भूपतेर् उदपद्यत ।
एकैव लावण्यवती नामान्वर्थाभिधा सुता ॥

12.31.8

प्रदेयायां च तस्यां स सुतायां धर्मभूपतिः ।
उन्मूलितो ऽभून् मिलितैर् दायादई राष्ट्रभेदिभिः ॥

12.31.9

ततः पलाय्य निरगात् स देशाद् भार्यया सह ।
दुहित्रा च तया रात्रव् आत्तसद्रत्नसंचयः ॥

12.31.10

मालवं प्रति च स्वैरं प्रस्थितः श्वशुरास्पदम् ।
विन्ध्याटवीं तया रात्र्या प्राप भार्यासुतायुतः ॥

12.31.11

तस्यां प्रविष्टस्योदश्रुर् इवावश्यायशीकरैः ।
निशानुयात्रां दत्त्वेव ययौ तस्य महीक्षितः ॥

12.31.12

आरुरोहाथ पूर्वाद्रिम् उत्क्षिप्ताग्रकरो रविः ।
मा गाश् चौराटवीम् एताम् इति तं वारयन्न् इव ॥

12.31.13

ततो ऽत्र ससुताजानिः क्षताङ्घ्रिः कुशकण्टकैः ।
पदातिः स नृपो गच्छन् भिल्लानां प्राप पल्लिकाम् ॥

12.31.14

परेषां प्राणसर्वस्वहारिभिः पुंभिर् आवृताम् ।
वर्जितां धार्मिकैर् दुर्गां कृतान्तनगरीम् इव ॥

12.31.15

तत्र दृष्ट्वैव तं दूरात् सवस्त्राभरणं नृपम् ।
मोषितुं बहवो ऽधावञ् शबरा विविधायुधाः ॥

12.31.16

तान् विलोक्य सुताभार्ये राजा धर्मो जगाद सः ।
पुरा स्पृशन्ति वां म्लेच्छास् तद् इतो विशतं वनम् ॥

12.31.17

इति राज्ञोदिता रज्ञी वनमध्यं विवेश सा ।
लावण्यवत्या सुतया सार्धं चन्द्रवती भयात् ॥

12.31.18

राजाप्य् अभिमुखायातान् खड्गचर्मधरो ऽत्र सः ।
अवधीत् तान् बहूञ् शूरः शबराञ् शरवर्तिणः ॥

12.31.19

ततस् तेना-खिला पल्ली पत्याज्ञप्ता निपत्य तम् ।
प्रहारक्षतचर्माणम् अवधीन् नृपम् एककम् ॥

12.31.20

गृहीताभरणे याते दस्युसैन्ये विलोक्य तम् ।
भर्तारं निहतं दूराद् वनगुल्मान्तरस्थिता ॥

12.31.21

राज्ञी चन्द्रवती सात्र दुहित्रा सह विह्वला ।
पलायमाना गहनं दूरम् अन्वग् अगाद् वनम् ॥

12.31.22

तत्र मध्याह्नतापार्तास्व् इव मूलानि शाखिनाम् ।
छायास्व् अपि प्रविष्टासु शिशिराणि सहाध्वगैः ॥

12.31.23

एकदेशे ऽब्जसरसस् तीरे ऽशोकतरोस् तले ।
शोकार्ता रुदती श्रान्ता ससुता समुपाविशत् ॥

12.31.24

तावत् तद् वनम् अभ्यर्णनिवासी मृगयाकृते ।
महामनुष्यः को ऽप्य् आगाद् अश्वारूढः सपुत्रकः ॥

12.31.25

स चण्डसिंहनामा तं पुत्रं सिंहपराक्रमम् ।
उवाच दृष्ट्वात्र तयोः पांसूत्थे पदपद्धती ॥

12.31.26

एते सुरेखे सुभगे अनुसृत्याप्नुवो यदि ।
स्त्रीयौ ते तत् तयोर् एकां स्वीकुरुष्व यथारुचि ॥

12.31.27

इत्य् उक्तवन्तं तं स्माह पुत्रः सिंहपराक्रमः ।
यस्याः सूक्ष्माव् इमौ पादौ सा भार्या प्रतिभाति मे ॥

12.31.28

सा हि स्वल्पवया नूनं जाने समुचिता मम ।
बृहत्पादा तु योग्येयम् एतज्ज्येष्ठवयास् तव ॥

12.31.29

इति सूनोर् वचः श्रुत्वा चण्डसिंहो जगाद तम् ।
कैषा कथा भवन्माता प्रत्यग्रं हि गता दिवम् ॥

12.31.30

तादृशे सुकलत्रे च गते कान्यत्र वासना ।
तच् छ्रुत्वा सो ऽपि पुत्रस् तं चण्डसिंहम् अभाषत ॥

12.31.31

तात मैवम् अभार्यं हि शून्यं गृहपतेर् गृहम् ।
अन्यच् च मूलदेवोक्ता गाथा किं न श्रुता त्वया ॥

12.31.32

यत्र घनस्तनजघना नास्ते मार्गावलोकिनी कान्ता ।
अजडः कस् तद् अनिगडं प्रविशति गृहसंज्ञकं दुर्गम् ॥

12.31.33

तज् जीवितेन मे तात शापितो ऽसि न तां यदि ।
द्वितीयां मदभीष्टायां भार्यार्थे स्वीकरीष्यसि ॥

12.31.34

एतत् पुत्रवचः श्रुत्वा प्रतिपद्य च तत्सखः ।
स चण्डसिंहो ऽनुसरन् पदपङ्क्तिं शनैर् ययौ ॥

12.31.35

प्राप्य तच् च सरःस्थानं मुक्तातारौघमण्डिताम् ।
श्यामां चण्द्रवतीं राज्ञीं तां ददर्शावभासिताम् ॥

12.31.36

लावण्यवत्या सुतया ज्योत्स्नयेवावदातया ।
नैशीं द्याम् इव मध्याह्ने तरुच्छायाम् उपाश्रिताम् ॥

12.31.37

उपाययौ च पुत्रेण साकं तां स सकौतुकः ।
सापि दृष्ट्वा तम् उत्तस्थौ वित्रस्ता चौरशङ्किनी ॥

12.31.38

अलं त्रासेन नाम्बैतौ चौरौ सौम्याकृती इमौ ।
सुवेषौ कौचिद् आखेटकृते नूनम् इहागतौ ॥

12.31.39

इत्य् उक्ता सुतया राज्ञी यावद् दोलायते ऽत्र सा ।
तावद् अश्वावतीर्णस् ते चण्डसिंःओ ऽब्रवीद् उभे ॥

12.31.40

किं संभ्रमेण वाम् आवां प्रणयाद् द्रष्टुम् आगतौ ।
तद् विस्वस्य निःआतङ्के वदतं के युवाम् इति ॥

12.31.41

हरनेत्रानलज्वालादग्धमन्मथदुःस्थिते ।
रतिप्रीती इवारण्यम् इदम् एवम् उपागते ॥

12.31.42

प्रविष्टे स्थः कथं चेह बत निःमानुषे वने ।
रत्नप्रासादवासार्हम् इदं हि युवयोर् वपुः ॥

12.31.43

कथं वराङ्गनोत्सङ्गयोग्यौ कण्टकिनीम् इमाम् ।
भुवं वां चरणौ भ्रान्ताव् इति नौ मनसि व्यथा ॥

12.31.44

एषा च चित्रं युवयोः पतन्ती धूलिर् आनने ।
वातोद्धूता हतछायम् आवयोः कुरुते मुखम् ॥

12.31.45

भवत्योर् एषश् चाङ्गे ऽस्मिन् निपतन् पुष्पपेशले ।
किरणोष्मा दहत्य् अस्मान् उच्चण्डश् चण्डदीधितेः ॥

12.31.46

तद् ब्रूतम् आत्मवृत्तान्तं दूयते हृदयं हि नः ।
द्रष्टुं न शक्नुमो ऽरण्ये स्थितिं वां स्वापदावृते ॥

12.31.47

इत्य् उक्ते चण्डसिंहेन राज्ञी निःस्वस्य सा शनैः ।
लज्जाशोकाकुला तस्मै स्वं वृत्तान्तम् अवर्णयत् ॥

12.31.48

ततो निःस्वामिकां मत्वा ताम् आश्वास्य च सात्मजाम् ।
स्वीचक्रे मधुरैर् वाक्यैश् चण्डसिंहो ऽनुरञ्जयन् ॥

12.31.49

आरोप्य चास्वयोः पृष्ठं सपुत्रस् तां सपुत्रिकाम् ।
निनाय वित्तपपुरीसमृद्धां वसतिं निजाम् ॥

12.31.50

सापि जन्मान्तरगतेवा-वशाङ्गीचकार तम् ।
अनाथा कृच्छ्रपतिता विदेशे स्त्री करोति किम् ॥

12.31.51

ततस् तां सूक्ष्मपादत्वाद् राज्ञीं सिंहपराक्रमः ।
चण्डसिंहसुतस् तत्र भार्यां चण्द्रवतीं व्यधात् ॥

12.31.52

तत्सुतां तां च लावण्यवतीं नृपतिकन्यकाम् ।
बृहत्त्वात् पादयोर् भार्यां चण्डसिंहश् चकार सः ॥

12.31.53

प्राक् हि सूक्ष्मबृहत्पादमुद्रापङ्क्तिद्वयेक्षणात् ।
प्रतिपन्नं तथा ताभ्यां सत्यं कश् चातिवर्तते ॥

12.31.54

एवं पादविपर्यासात् ते पितापुत्रयोस् तयोः ।
दुहितामातरौ भार्ये जाते श्वश्रूस्नुषे तदा ॥

12.31.55

कालेन च तयोस् ताभ्यां भर्तृभ्यां जज्ञिरे द्वयोः ।
पुत्रा दुहितरश् चैव तेषाम् अन्ये ऽप्य् अथ क्रमात् ॥

12.31.56

इत्थं संप्राप्य तौ चण्डसिंहसिंहपराक्रमौ ।
तस्थतुस् तत्र लावण्यवतीं चन्द्रवतीं च ते ॥

12.31.57

इति व्यावर्ण्य वेतालस् तदा पथि कथां निशि ।
स त्रिविक्रमसेनं तं पप्रच्छ नृपतिं पुनः ॥

12.31.58

तयोर् मातादुहित्रोर् ये पुत्रपित्रोस् तयोर् नृप ।
सकाशाज् जन्तवो जाताः क्रमाद् उभयपक्षयोः ॥

12.31.59

ज्ञात्वेदं ब्रूहि मे तेषाम् अन्योऽन्यं के भवन्ति ते ।
पूर्वोक्तः सो ऽत्र शापस् ते जानानश् चेन् न वक्ष्यसि ॥

12.31.60

एतद् वेतालतः श्रुत्वा विमृशन् बहुधापि सः ।
नाज्ञासीत् तद् यदा राजा तूष्णीकः प्रययौ तदा ॥

12.31.61

ततस् तदंसकूटस्थो वेतालो विहसन् हृदि ।
मृतपूरुषदेहान्तो निविष्टः समचिन्तयत् ॥

12.31.62

नायं राजा महाप्रश्ने वेत्त्य् अस्मिन् दातुम् उत्तरम् ।
तेन तूष्णीं व्रजत्य् एष हृष्टो ऽतिचतुरैः पदैः ॥

12.31.63

न च वञ्चयितुं शक्यः सत्त्वराशिर् अयं परम् ।
क्रीडन् भिक्षुः स चास्माभिर् इयतैव न शाम्यति ॥

12.31.64

तद् अद्य वञ्चयित्वा तं दुरात्मानम् उपायतः ।
तत्सिद्धिं भाविकल्याणे राजन्य् अस्मिन् निवेशये ॥

12.31.65

इत्य् आलोच्य स वेतालो नृपं तम् अवदत् तदा ।
राजन् कृष्णनिशाघोरे स्मशाने ऽस्मिन् गतागतैः ॥

12.31.66

एतैः क्लिष्टः सुखार्हस् त्वं न विकल्पश् च को ऽपि ते ।
तद् आश्चर्येण धैर्येण तुष्टो ऽहम् अमुना तव ॥

12.31.67

शवम् एतं नयेदानीं निर्गच्छाम्य् अमुतो ह्य् अहम् ।
इदं तु शृणु यद् वच्मि हितं तव कुरुष्व च ॥

12.31.68

आनीतम् एतद् भवता यस्यार्थे नृकलेवरम् ।
कुभिक्षुः सो ऽद्य माम् अस्मिन् समाहूयार्चयिष्यति ॥

12.31.69

उपहारीचिकीर्षुश् च त्वाम् एव स शठस् ततः ।
भूमौ प्रणामम् अष्टाभिर् अङ्गैः कुर्व् इति वक्ष्यति ॥

12.31.70

त्वं प्राग् दर्शय तावन् मे करिष्ये ऽहं तथैव तत् ।
इति सो ऽपि महाराज वक्तव्यह् श्रमणस् त्वया ॥

12.31.71

ततो निपत्य भूतौ स प्रणामं यावद् एव ते ।
दर्शयिष्यति तावत् त्वं छिन्द्यास् तस्यासिना शिरः ॥

12.31.72

ततो विद्याधरैश्वर्यसिद्धिर् या तस्य वाञ्छिता ।
तां त्वं प्राप्स्यसि भुङ्क्ष्वेमं भुवं तदुपहारतः ॥

12.31.73

अन्यथा तु स भिक्षुस् त्वाम् उपहारीकरिष्यति ।
एतदर्थं कृतो विघ्नस् तवात्रेयच् चिरं मया ॥

12.31.74

तत् सिद्धिर् अस्तु ते गच्छेत्य् उक्त्वा तस्यांसपृष्ठगात् ।
निर्गत्य स ययौ तस्माद् वेतालः प्रेतकायतः ॥

12.31.75

अथ स नरपतिस् तं प्रीतवेतालवाक्याच् छ्रमणम् अहितम् एव क्षान्तिशीलं विचिन्त्य ।
वटविटपितलं तत् तस्य पार्श्वं प्रतस्थे मृतपुरुषशरीरं तद् गृहीत्वा प्रहृष्टः ॥

मूल पाठ: Kathāsaritsāgara, Vetālapañcaviṃśatikā · Data entry Elena Artesani · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc