कथासरित्सागर, वेतालपञ्चविंशतिका · अध्याय 12.30
ततो गत्वा पुनः प्राप शिंशपापादपात् ततः ।
स त्रिविक्रमसेनस् तं वेतालं राजसत्तमः ॥
स्कन्धे कृत्वा च तं मौनी दर्शितानेकवैकृतम् ।
यावत् प्रतिष्ठते तावत् स वेतालस् तम् अब्रवीत् ॥
राजन्न् अकार्ये ऽप्य् एतस्मिन् दुःवारो ऽयं ग्रहस् तव ।
तत् ते श्रमविनोदाय कथयामि कथां शृणु ॥
आसीत् कलिङ्गविषये नाम्ना शोभावती पुरी ।
दिवीव शक्रनगरी वसतिः शुभकर्मणाम् ॥
यां प्रद्युम्न इवैश्वर्यवीर्यातिशयविश्रुतः ।
प्रद्युम्ननामा नृपतिः शशासोर्जितशासनः ॥
गुणापकर्षश् चापेषु मुरजेषु कराहतिः ।
युगेष्व् अश्रूयत कलिर् यस्यां प्रज्ञासु तीक्ष्णता ॥
एकदेशे पुरस् तस्या नृपेण प्रतिपादितः ।
यज्ञस्थलाभिधानो ऽभूद् अग्रहारो बहुद्विजः ॥
तत्रासीद् यज्ञसोमाख्यो ब्राह्मणो वेदपारगः ।
महाधनो ऽग्निहोत्री च पूजितातिथिदेवतः ॥
तस्य व्यतीते तारुण्ये मनःरथशतैः सुतः ।
भार्यायाम् अनुरूपायाम् एक एवोदपद्यत ॥
ववृधे च पितुः सो ऽस्य गृहे बालः सुलक्षणः ।
कृताभिधानो विधिवद् देवसोम इति द्विजैः ॥
प्राप्तषोडशवर्षश् च स विद्याविनयादिभिः ।
आवर्जितजनो ऽकस्माज् ज्वरेण प्राप पञ्चताम् ॥
ततः परासुं स्नेहात् तम् आश्लिष्य सह भार्यया ।
यज्ञसेनः पिता शोचन् न दाहाय जहौ चिरम् ॥
ब्रह्मन् संसारगन्धर्वनगरस्य न वेत्सि किम् ।
परावरज्ञो ऽपि गतिं वारिबुद्बुदभङ्गुराम् ॥
ये सैन्यैः पूरितधरा हर्म्यपृष्ठेषु हारिषु ।
लसत्संगीतनादेषु रत्नपर्यङ्कवर्तिनः ॥
श्रीखण्डद्रवलिप्ताङ्गा वरस्त्रीपरिवारिताः ।
व्यलसन्न् अमरम्मन्या भूलोके ऽस्मिन् नराधिपाः ॥
ते ऽप्य् एककाः श्मशानेषु रुदत्प्रेतानुयायिषु ।
चिताधिशयिनो यत्र जग्धाः क्रव्यात्कृशानुभिः ॥
शिवाभिर् वलितोपान्ताः कालेन कवलीकृताः ।
न रोद्धुं शकिताः कैःचित् तत्रान्येषां कथैव का ॥
तद् एतं प्रेतम् आश्लिष्य विद्वन् वद करोषि किम् ।
इत्याद्य् अबोधयन् वृद्धा मिलितास् तं द्विजं ततः ॥
ततस् तेन कथम्चित् तं मुक्तम् आरोप्य तत्सुतम् ।
शिबिकायां गतप्राणं कृतप्रेतप्रसाधनम् ॥
बान्धवा वैशसोदश्रुमिलद्बन्धुजनान्विताः ।
श्मशानं प्रापयामासुः कोलाहलसमाकुलाः ॥
अत्रान्तरे च तत्रासीच् छ्मशाने को ऽपि तापसः ।
वृद्धः पाशुपतो योगी मठिकायां कृतस्थितिः ॥
वयसा तपसा चातिभूयसा सुकृशां तनुम् ।
बिभ्राणो भङ्गभीत्येव सिराभिः परिवेष्टितम् ॥
नाम्ना वामशिवो भस्मपाण्डुरोमावृताकृतिः ।
विद्युत्पिङ्गजटाजूटो महेश्वर इवा-परः ॥
स तापसो ऽत्र तत् कालं दत्तोपालम्भखेदितम् ।
मूर्खं शठं ध्यानयोगाद्यवलिप्तम् अहम्कृतम् ॥
भिक्षाफलव्रतधरं शिष्यम् अन्तिकवासिनम् ।
जगाद दूराच् छ्रुत्वा तं जनकोलाहलं बहिः ॥
उत्तिष्ठ गत्वात्र बहिर् विज्ञायागच्छ सत्वरम् ।
कुतो ऽत्रा-श्रुतपूर्वो ऽयं श्मशाने तुमुलारवः ॥
इत्य् उक्ते गुरुणा तेन स शिष्यः प्रत्युवाच तम् ।
नाहं यामि स्वयं याहि भिक्षावेला ह्य् अपैति मे ॥
तच् छ्रुत्वोवाच स गुरुर् धिङ् मूर्खोदरतत्पर ।
अह्नो ऽर्धप्रहरे याते भिक्षावेलात्र का तव ॥
श्रुत्वैवैतत् स तं क्रुद्धः कुशिष्यः प्राह तापसम् ।
धिग् जराजीर्ण नाहं ते शिष्यो न त्वं गुरुर् मम ॥
अहम् अन्यत्र यास्यामि वह पात्रीम् इमां स्वयम् ।
इत्य् उक्त्वोत्थाय स प्रायात् त्यक्त्वाग्रे दण्डकुण्डिकाम् ॥
विहसन्न् अथ निर्गत्य मठिकायाः स तापसः ।
तत्रागाद् यत्र दाहार्थम् आनीतः स द्विजार्भकः ॥
दृष्ट्वा च तं जनतया शोच्यमानाग्र्ययौवनम् ।
योगी प्रवेष्टुं तद्देहं मतिं चक्रे जरार्दितः ॥
गत्वा च द्रुतम् एकान्ते मुक्तकण्ठं प्ररुद्य च ।
ननर्त स ततः क्षिप्रम् अङ्गहारैर् यथोचितैः ॥
ततो विवेश योगात् तद् द्विजपुत्रकलेवरम् ।
क्षणात् स स्वतनुं त्यक्त्वा तपस्वी यौवनेच्छया ॥
तत् क्षणं रचितायां च चितायां सहसैव सः ।
लब्धजीवो द्विजयुवा प्रोत्तस्थौ कृतजृम्भिकः ॥
तद् दृष्ट्वा बन्धुवर्गस्य दिष्ट्या जीवति जीवति ।
इत्य् उद्बभूव नादो ऽत्र निखिलस्य जनस्य च ॥
अथा-मोक्ष्यन् व्रतं सर्वान् मृषा योगेस्वरः स तान् ।
विप्रपुत्रशरीरान्तःप्रविष्टस् तापसो ऽब्रवीत् ॥
लोकान्तरगतस्याद्य महापाशुपतव्रतम् ।
ग्राह्यं साक्षान् ममा-भाष्य दत्तं शर्वेण जीवितम् ॥
अधुनैव च धार्यं तद् गत्वैकान्ते व्रतं मया ।
जीवितं मे ऽन्यथा नास्ति तद् यूयं यात याम्य् अहम् ॥
इति सर्वान् स तत्रस्थान् संबोध्य दृढनिश्चयः ।
स्वगृहान् प्रेषयामास हर्षशोकाकुलान् व्रती ॥
स्वयं च गत्वा श्वभ्रे तत् क्षिप्त्वा पूर्वकलेवरम् ।
आत्तव्रतो महायोगी युवीभूतो ऽन्यतो ययौ ॥
इति व्याख्याय वेतालः कथां निशि तदा पथि ।
तं त्रिविक्रमसेनं स राजानं पुनर् अब्रवीत् ॥
राजन् ब्रूहि स योगीन्द्रः कस्मात् परपुरे वसन् ।
प्ररुरोद ननर्ताथ कौतुकं महद् अत्र मे ॥
इति वेतालतः श्रुत्वा शापशङ्की स भूपतिः ।
विमुच्य मौनम् एवं तम् अवादीद् धीमतां वरः ॥
शृणु तत्र बभूवास्य यो ऽभिप्रायस् तपस्विनः ।
सह वृद्धं चिरायेदं शरीरं सिद्धिसाधनम् ॥
पितृभ्यां लालितं बाल्ये त्यजाम्य् अद्येति दुःखितः ।
स जरत् तापसो ऽरोदीद् देहस्नेहो हि दुःत्यजः ॥
नवं देहं प्रवेक्ष्यामि साधयिष्याम्य् अतो ऽधिकम् ।
इति हर्षाद् अनृत्यच् च कस्य नेष्टं हि यौवनम् ॥
एतत् तस्य वचो निशम्य नृपतेर् अंसत् स भूयो ऽप्य् अगाद् वेतालो मृतपूरुषान्तरगतस् तं शिंशपापादपम् ।
राजा सो ऽपि तम् अन्वधावद् अधिकोत्साहः पुनः प्रेप्सया कल्पान्ते ऽप्य् अचलं कुलाद्रिविजयि स्थैर्यं हि धीरात्मनाम् ॥
मूल पाठ: Kathāsaritsāgara, Vetālapañcaviṃśatikā · Data entry Elena Artesani · GRETIL (Göttingen) · CC BY-NC-SA 4.0