भाषा

ENहिગુ
ग्रंथ पाठ

कथासरित्सागर, वेतालपञ्चविंशतिका · अध्याय 12.32

12.32.1

ततस् तस्यान्तिकं भिक्षोः क्षान्तिशीलस्य भूपतिः ।
स त्रिविक्रमसेनो ऽत्र प्राप स्कन्धे शवं वहन् ॥

12.32.2

ददर्श तं च श्रमणं मार्गाभिमुखम् एककम् ।
कृष्णपक्षक्षपारौद्रे श्मशाने तरुमूलगम् ॥

12.32.3

असृग्लिप्तस्थले गौरेणास्थिचूर्णेन निर्मिते ।
मण्डले दिक्षु विन्यस्तपूर्णशोणितकुम्भके ॥

12.32.4

महातैलप्रदीपाढ्ये हुतपार्श्वस्थवह्निनि ।
संभृतोचितसंभारे स्वेष्टदैवतपूजने ॥

12.32.5

उपागाच् च स तं राजा सो ऽपि भिक्षुर् विलोक्य तम् ।
आनीतमटकं हर्षाद् उत्थायोवाच संस्तुवन् ॥

12.32.6

दुःकरो मे महाराज विहितो ऽनुग्रहस् त्वया ।
त्वा दृशाः क्व क्व चेष्टेयं देशकालौ क्व चेदृशौ ॥

12.32.7

निःकम्पं सत्यम् एवाहुर् मुख्यं त्वां कुलभूभृताम् ।
एवम् आत्मानपेक्षेण परार्थो येन साध्यते ॥

12.32.8

एतद् एव महत्त्वं च महताम् उच्यते बुधैः ।
प्रतिपन्नाद् अचलनं प्राणानाम् अत्यये ऽपि यत् ॥

12.32.9

इति ब्रुवन् स सिद्धार्थमानी भिक्षुर् महीपतेः ।
तस्यावतारयामास स्कन्धात् तं मटकं तदा ॥

12.32.10

स्नपयित्वा समालभ्य बद्धमाल्यं विधाय च ।
मटकं मण्डलस्यान्तः स्थापयामास तस्य तत् ॥

12.32.11

भस्मोद्धूलितगात्रश् च केशयज्ञोपवीतभृत् ।
प्रावृतप्रेतवसनो भूत्वा ध्यानस्थितः क्षणम् ॥

12.32.12

तस्मिन् मन्त्रबलाहूतं प्रवेश्य नृकलेवरे ।
तं वेतालवरं भिक्षुः पूजयामास स क्रमात् ॥

12.32.13

ददौ तस्मै कपालार्घपात्रेणार्घ्यं सुनिःमलैः ।
नरदन्तैस् ततः पुष्पं सुगान्धि च विलेपनम् ॥

12.32.14

दत्त्वा मानुषनेत्रैश् च धूपं मांसैर् बलिं तथा ।
समाप्य पूजां राजानं तम् उवाच स पार्श्वगम् ॥

12.32.15

राजन्न् इहास्य मन्त्राधिराजस्य कृतसंविधेः ।
प्रणामम् अङ्गैर् अष्टाभिर् निपत्य कुरु भूतले ॥

12.32.16

येनाभिप्रेतसिद्धिं ते दास्यत्य् एष वरप्रदः ।
श्रुत्वैतत् स्मृतवेतालवचा राजाब्रवीत् स तम् ॥

12.32.17

नाहं जानामि तत् पूर्वं प्रदर्शयतु मे भवान् ।
ततस् तथैव तद् अहं करिष्ये भगवन्न् इति ॥

12.32.18

ततो दर्शयितुं यावत् स भिक्षुः पतितो भुवि ।
तावत् खड्गप्रहारेण स राजास्य शिरो ऽच्छिनत् ॥

12.32.19

आचकर्ष च हृत्पद्मम् उदराद् अस्य पाटितम् ।
वेतालाय च तस्मै तच्छिरःहृत्कमलं ददौ ॥

12.32.20

साधुवादे ततो दत्ते प्रीतैर् भूतगणैस् ततः ।
तुष्टो ऽब्रवीत् स वेतालो नृपं तं नृकलेवरात् ॥

12.32.21

राजन् विद्याधरेन्द्रत्वं भिक्षोर् आसीद् यद् ईप्सितम् ।
तत् तावद् भूमिसाम्राज्यभोगान्ते ते भविष्यति ॥

12.32.22

क्लेशितो ऽसि मया यत् त्वं तद् अभीष्टं वरं वृणु ।
इत्य् उक्तवन्तं वेतालं स राजा तम् अभाषत ॥

12.32.23

त्वं चेत् प्रसन्नः को नाम न सिद्धो ऽभिमतो वरः ।
तथाप्य् अमोघवचनाद् इदं त्वत्तो ऽहम् अर्थये ॥

12.32.24

आद्याः प्रश्नकथा एता नानाख्यानमनःरमाः ।
चतुर्विंशतिर् एषा च पञ्चविंशी समाप्तिगा ॥

12.32.25

सर्वाः ख्याता भवन्त्व् एताः पूजनीयाश् च भूतले ।
इति तेनार्थितो राज्ञा वेतालो निजगाद सः ॥

12.32.26

एवम् अस्तु विशेषं च शृणु वच्म्य् अत्र भूतले ।
याश् चतुर्विंशतिः पूर्वा यैषा चैका समापिनी ॥

12.32.27

कथावलीयं वेतालपञ्चविंशतिकाख्यया ।
ख्याता जगति पूज्या च शिवा चैव भविष्यति ॥

12.32.28

यः श्लोकमात्रम् अप्य् अस्याः कथयिष्यति सादरः ।
यो वा श्रोष्यति तौ सद्यो मुक्तपापौ भविष्यतः ॥

12.32.29

यक्षवेतालकूष्माण्डडाकिनीराक्षसादयः ।
न तत्र प्रभविष्यन्ति यत्रैषा कीर्तयिष्यते ॥

12.32.30

इत्य् उक्त्वा स ययौ तस्मान् निर्गत्य नृकलेवरात् ।
यथाभिरुचितं धाम वेतालो योगमायया ॥

12.32.31

ततस् तत्र सुरैः सार्धं राज्ञस् तस्य महेश्वरः ।
साक्षाद् आविरभूत् तुष्टः प्रणतं चादिदेश तम् ॥

12.32.32

साधु वत्स हतो ऽद्यायं यत् त्वया कूटतापसः ।
विद्याधरमहाचक्रवर्तिताहठकामुकः ॥

12.32.33

त्वम् आदौ विक्रमादित्यः सृष्टो ऽभूः स्वांशतो मया ।
म्लेच्छरूपावतीर्णानाम् असुराणां प्रशान्तये ॥

12.32.34

अद्य चोद्दामदुःवृत्तदमनाय मया पुनः ।
त्वं त्रिविक्रमसेनाख्यो हीरः सृष्टो ऽत्र भूपतिः ॥

12.32.35

अतः सद्वीपपातालां स्थापयित्वा महीं वशे ।
विद्याधराणम् अचिराद् अधिराजो भविष्यसि ॥

12.32.36

भुक्त्वा दिव्यांश् चिरं भोगान् उद्विग्नः स्वेच्छयैव तान् ।
त्यक्त्वा ममैव सायुज्यम् अन्ते यास्यस्य् असंशयम् ॥

12.32.37

अपराजितनामानं खड्गं चैतं गृहाण मे ।
यस्य प्रसादात् सर्वं त्वं प्राप्स्यस्य् एतद् यथोदितम् ॥

12.32.38

इत्य् उक्त्वा खड्गरत्नं तद् दत्त्वा तस्मै महीभृते ।
वाक्पुष्पाभ्यर्चितस् तेन देवः शंभुस् तिरःदधे ॥

12.32.39

अथ दृष्ट्वा समाप्तं कार्यम् अशेषं निशि प्रभातायाम् ।
प्रविवेश स त्रिविक्रमसेनः स्वपुरं नृपः प्रतिष्ठानम् ॥

12.32.40

तत्र क्रमावगतरात्रिविचेष्टिताभिर् अभ्यर्चितः प्रकृतिभिर् विततोत्सवाभिः ।
स्नानप्रदानगिरिशार्चननृत्तगीतवाद्यादिभिस् तद् अखिलं स दिनं निनाय ॥

12.32.41

अल्पैर् एव च वासरैः स नृपतिः शार्वस्य वीर्याद् असेः सद्वीपां सरसा तलां च बुभुजे निःकण्टकां मेदिनीम् ।
संप्राप्याथ हराज्ञया सुमहतीं विद्याधराधीशतां भुक्त्वा तां सुचिरं जगाम भगवत्सायुज्यम् अन्ते कृती ॥

मूल पाठ: Kathāsaritsāgara, Vetālapañcaviṃśatikā · Data entry Elena Artesani · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc