कथासरित्सागर, वेतालपञ्चविंशतिका · अध्याय 12.29
ततो राजा पुनर् गत्वा वेतालं शिंशपाग्रतः ।
स त्रिविक्रमसेनस् तं प्राप्यांसारोपितं व्यधात् ॥
आयान्तं तं च राजानं स वेतालो ऽब्रवीत् पथि ।
राजन् साधुः सुसत्त्वस् त्वं तद् अपूर्वां कथां शृणु ॥
बभूव पूर्वं कुसुमपुराख्यनगरेश्वरः ।
पृथ्वीतले ऽस्मिन् धरणीवराहो नाम भूपतिः ॥
तस्य ब्राह्मणभूयिष्ठे राष्ट्रे ब्रह्मस्थलाभिधः ।
अग्रहारो ऽभवत् तत्र विष्णुस्वामीत्य् अभूद् द्विजः ॥
तस्यानुरूपा भार्याभूद् यथा स्वाहा हविर् भुजः ।
तस्यां च तस्य चत्वारः क्रमाद् उत्पेदिरे सुताः ॥
अधीतवेदेषूत्क्रान्तशैशवेषु च तेषु सः ।
विष्णुस्वामी दिवं प्रायाद् भार्ययानुगतस् तया ॥
ततस् ते तत्र तत्पुत्राः सर्वे ऽप्य् आनाय्य दुःस्थिताः ।
गोत्रजैर् हृतसर्वस्वा मन्त्रयांचक्रिरे मिथः ॥
नास्तीह गतिर् अस्माकं तद् व्रजामो वयं न किम् ।
इतो मातामहगृहं ग्रामं यञ्जस्थलाभिधम् ॥
एतद् एव विनिश्चित्य प्रस्थिता भैक्ष्यभोजनाः ।
मातामहगृहं प्रापुस् ते ऽथ तद् बहुभिर् दिनैः ॥
तत्र मातामहा-भावान् मातुलैर् दत्तसंश्रयाः ।
भुञ्जानास् तद्गृहे तस्थुः स्वाध्यायाभ्यासतत्पराः ॥
कालक्रमाच् च तेषां ते मातुलानाम् अकिम्चनाः ।
अवज्ञापात्रतां जग्मुर् भोजनाच्छादनादिषु ॥
ततः स्वजनसंस्फूर्जदवमानहतात्मनाम् ।
तेषां रहः सचिन्तानां ज्येष्ठो भ्राताब्रवीद् इदम् ॥
भो भ्रातरः किं क्रियते सर्वम् आचेष्टते विधिः ।
न शक्यं पुरुषस्येह क्वचित् किम्चित् कदाचन ॥
अहं ह्य् उद्वेगतो भ्राम्यन् प्राप्तो ऽद्य पितृकानने ।
विपन्नस्थितम् अद्राक्षं त्रस्ताङ्गं पुरुषं भुवि ॥
अचिन्तयं च दृष्ट्वा तम् अहं तां स्पृहयन् गतिम् ।
धन्यो ऽयम् एवं विश्रान्तो दुःखभारं विमुच्य यः ॥
इति संचिन्त्य तत् कालं कृत्वा मरणनिश्चयम् ।
वृक्षाग्रसङ्गिना पाशेनात्मानम् उदलम्बयम् ॥
यावच् च मे विसंज्ञस्य तदा निर्यान्ति नासवः ।
तावत् त्रुटितपाशो ऽत्र पतितो ऽस्मि महीतले ॥
लब्धसंज्ञश् च केनापि पुंसा क्षिप्रात् कृपालुना ।
आश्वास्यमानम् आत्मानम् अपश्यं पटमारुतैः ॥
सखे कथय विद्वान् अप्य् एवं कं प्रति खिद्यसे ।
सुखं हि सुकृताद् दुःखं दुःकृताद् एति नान्यतः ॥
दुःखाद् यदि तवोद्वेगः सुकृतं तत् समाचर ।
कथं तु नारकं दुःखम् आत्मत्यागेन वाञ्छसि ॥
इत्य् उक्त्वा मां समाश्वास्य स च क्वापि गतः पुमान् ।
अहं चेहागतस् त्यक्त्वा तादृशं मरणोद्यमम् ॥
तद् एवं नेच्छति विधौ न मर्तुम् अपि लभ्यते ।
इदानीं च तनुं तीर्थे तपसा दाहयाम्य् अहम् ॥
येन निःधनतादुःखभागी न स्याम् अहं पुनः ।
इत्य् उक्तवन्तं ज्येष्ठं तं कनिष्ठा भ्रातरो ऽब्रुवन् ॥
अर्थैर् विना कथं प्राज्ञो ऽप्य् आर्य दुःकेन बाध्यसे ।
किं न वेत्सि यद् अर्थानां शरदभ्रचला गतिः ॥
आहृत्य रक्ष्यमाणापि यत्नेनान्तविरागिणी ।
असन्मैत्री च वेश्या च श्रीश् च कस्य कदा स्थिरा ॥
तद् उद्योगेन स गुणः को ऽप्य् उपार्ज्यो मनस्विना ।
आनीयन्ते हटाद् बद्ध्वा येनार्थहरिणा मुहुः ॥
इत्य् उक्तो भ्रातृभिर् धैर्यं क्षणाज् ज्येष्ठो ऽवलम्ब्य सः ।
उवाच को गुणस् तादृगर्जनीयो भवेद् इति ॥
ततो विचित्य सर्वे ते वदन्ति स्म परस्परम् ।
विचिन्त्य पृथ्वीं विज्ञानं किम्चिच् छिक्षामहे वयम् ॥
निश्चित्यैतच् च संकेतस्थानम् उक्त्वा समागमे ।
एकैकशस् ते चत्वारश् चतस्रः प्रययुर् दिशः ॥
याति काले च मिलितास् ते संकेतनिकेतने ।
किं केन शिक्षितम् इति भ्रातरो ऽन्योऽन्यम् अब्रुवन् ॥
अथात्रैको ऽब्रवीद् ईदृग् विज्ञानं शिक्षितं मया ।
येनास्थिशकलं प्राप्य प्राणिनो यस्य कस्यचित् ॥
उत्पादयाम्य् अहं तस्मिन् मांसं तदुचितं क्षणात् ।
एतत् तस्य वचः श्रुत्वा द्वितीयस् तेष्व् अभाषत ॥
अहं तत्रैव संजातमांसे ऽस्थिशकले किल ।
जाने जनयितुं लोमत्वचं तत्प्राणिसंभवि ॥
ततस् तृतीयो ऽप्य् अवदज् जाने तत्रैव चास्म्य् अहम् ।
तत्प्रान्यवयवान् स्रष्टुं जातत्वङ्मांसलोमनि ॥
चतुर्थश् च ततो ऽवादीद् उत्पन्नावयवाकृतिम् ।
तम् एव प्राणिनं प्रानैर् युक्तं कर्तुम् अवैम्य् अहम् ॥
एवम् उक्त्वा मिथः स्वस्वविज्ञानप्रथनाय ते ।
चत्वारो ऽप्य् अस्थिखण्डाय प्रययुर् भ्रातरो ऽटवीम् ॥
तत्र सिंहस्य ते प्रापुर् अस्थिखण्डं विधेर् वशात् ।
अविज्ञातविशेषाश् च गृह्नन्ति स्म तथैव तत् ॥
एकश् च तत् समुचितैस् ततो मांसैर् अयोजयत् ।
द्वितीयो ऽजनयत् तस्य तद्वत् त्वग्लोमसंहतीः ॥
तृतीयश् चा-खिलैर् अङ्गैस् तद्योग्यैस् तद् अपूरयत् ।
चतुर्थश् च ददौ तस्य सिंहीभूतस्य जीवितम् ॥
उदतिष्ठद् अथोद्धूतसटाभारो ऽतिभैरवः ।
स दंष्ट्रासंकटमुखः सिंहः खरनखाङ्कुशः ॥
धावित्वा च स्वनिर्मातॄंस् तान् एव चतुरो ऽपि सः ।
अवधीत् केसरी तृप्तो विवेश च वनं ततः ॥
एवं ते सिंहनिर्माणदोषान् नष्टा द्विजातयः ।
दुष्टं हि जन्तुम् उत्थाप्य कस्यात्मनि सुखं भवेत् ॥
इत्थं चोपार्जितो यत्नाद् गुणो ऽपि विधुरे विधौ ।
संपत्तये न न परं जायते तु विपत्तये ॥
मूले ह्य् अविकृते दैवे सिक्ते प्रज्ञानवारिणा ।
नयालवालः फलति प्रायः पौरुषपादपः ॥
इति तस्यां निशि मार्गे वेतालेनांसतः कथां तेन ।
आख्याय स त्रिविक्रमसेनो राजा पुनर् जगदे ॥
राजंस् तेष्व् अपराध्यति चतुर्षु कस् तत्र सिंहनिर्माणे ।
यन् न्यवधीत् तत्कॢप्तो वद समयः सो ऽत्र पूर्वस् ते ॥
इति वेतालाच् छ्रुत्वा राजा सो ऽचिन्तयद् विमौनस्य ।
इच्छति गन्तुम् अयं मे यात्व् आनेष्याम्य् अमुं भूयः ॥
इति हृदि निश्चित्य स तं महीपतिः प्रत्युवाच वेतालम् ।
यस् तस्य जीवदायी सिंहस्य स पापभाक् तेषु ॥
प्राणिविशेषम् अबुद्ध्वा मांसत्वग्लोमगात्रनिर्माणम् ।
युक्तिबलात् तु कृतं यैस् तेषां दोषो ऽस्ति नाज्ञानात् ॥
येन तु सिंहाकारं दृष्ट्वा विद्याप्रकाशनोत्केन ।
प्राणास् तस्य वितीर्णास् तेन कृता ब्रह्महत्यास् ताः ॥
एतत् स राज्ञो वचनं निशम्य स्वधाम वेतालवरो जगाम ।
तस्यांसतस् तत् पुन एव मायी राजापि तं सो ऽनुससार भूयः ॥
मूल पाठ: Kathāsaritsāgara, Vetālapañcaviṃśatikā · Data entry Elena Artesani · GRETIL (Göttingen) · CC BY-NC-SA 4.0