कथासरित्सागर, वेतालपञ्चविंशतिका · अध्याय 12.28
अथ गत्वा पुनः प्राप्य शिंशपातस् ततो ऽग्रहीत् ।
स त्रिविक्रमसेनो ऽंसे वेतालं तं नराधिपः ॥
आगच्छन्तं च तं भूयः स वेतालो ऽब्रवीन् नृपम् ।
राजन्न् उद्गाढकन्दर्पां शृण्व् एकां वच्मि ते कथाम् ॥
अस्ति शक्रपुरीवान्या धात्रा सुकृतिनां कृते ।
दिवश् च्युतानां विहिता विशालाख्या पुरी भूवि ॥
तस्यां बभूव नृपतिः पद्मनाभ इति श्रुतः ।
सच्चक्रनन्दकः स्रीमान् आक्रान्तबलिराजकः ॥
तस्मिन् पृथ्वीपतौ तस्यां नगर्यां सुमहावणिक् ।
अर्थदत्ताभिधानो ऽभूद् धनैर् विजितवित्तपः ॥
तस्यैका च सुतानङ्गमञ्जरीत्य् उदपद्यत ।
स्वःसुन्दरीप्रतिकृतिर् भुवि धात्रेव दर्शिता ॥
दत्ता च तेन वणिजा वणिग्वरसुताय सा ।
मणिवर्माभिधानाय ताम्रलिप्तीनिवासिने ॥
एकापत्यतया चातिवत्सलः स न तां वणिक् ।
भर्तृयुक्तां सुतां गेहात् तत्याजानङ्गमञ्जरीम् ॥
तस्याश् चानङ्गमञ्जर्याः पतिर् द्वेष्यो बभूव सः ।
मणिवर्मा सरोगस्य कटुतिक्तम् इवौषधम् ॥
पत्युस् तु सास्य सुमुखी जीविताद् अप्य् अभूत् प्रिया ।
धनऋद्धिः कृपणस्येव कृच्छ्रात् सुचिरसंचिता ॥
एकदा चान्तिकं पित्रोस् ताम्रलिप्तीं निजं गृहम् ।
उत्कण्ठादिनिमित्तेन मणिवर्मा जगाम सः ॥
ततो दिनेषु यातेषु तीक्ष्णसूर्यांशुसायकैः ।
प्रोषितानां निरुद्धाध्वा घर्मकाल इहाभ्यगात् ॥
वसन्तविरहाद् उष्णा निःश्वासाः ककुभाम् इव ।
मल्लिकापाटलामोदमेदुरा मरुतो ववुः ॥
उत्पेतुः पवनोद्धूता गगने रेणुराजयः ।
दूत्यो घनागमायेव प्रहितास् तप्तया भुवा ॥
आकाङ्क्षिततरुछायाः कठोरातपतापिताः ।
पथिका इव यान्ति स्म चिरेण दिवसा अपि ॥
चन्द्रांशुपाण्डुरुचयो गाढाश्लेषसुखप्रदम् ।
विना हेमन्तम् अगमन्न् अतिदुर्बलतां निशाः ॥
तत्कालं चन्दनालेपधवला सा वणिक्सुता ।
संवीततनुकौशेयशोभितानङ्गमञ्जरी ॥
ददर्श स्वगृहोत्तुङ्गवातायनगतैकदा ।
आप्तसख्या युता भव्यं युवानं विप्रपुत्रकम् ॥
संचरन्तं रतिप्राप्त्यै नवोत्पन्नम् इव स्मरम् ।
कमलाकरनामानं पुत्रं राजपुरःधसः ॥
सो ऽपीन्दोर् इव मूर्तिं तां कान्तां दृष्ट्वोपरि स्थिताम् ।
कुमुदाकरतां भेजे सानन्दः कमलाकरः ॥
तयोर् अभूद् अमूल्यं तन् मनःसंवननं तदा ।
स्मरगुर्वाज्ञया यूनोर् अन्यओऽन्यस्यावलोकनम् ॥
उन्मूलितह्रियौ तौ च दूरविक्षिप्तचेतसा ।
रजोऽभिभूतौ जह्राते मन्मथावेगवात्यया ॥
दृष्ट्वा च मदनाविष्टः सख्या स कमलाकरः ।
सहस्थितेन नीतो ऽभूत् कथम्चिद् भवनं निजम् ॥
सापि तं नामतो ऽन्विष्य विवशानङ्गमञ्जरी ।
तया स्वया समं सख्या प्राविशद् वासकं शनैः ॥
तत्र संचिन्तयन्ती च कान्तं कामज्वरातुरा ।
नापश्यन् नाशृणोत् किम्चिल् लुठन्ती शयनीयके ॥
गतेष्व् अहःसु द्वित्रेषु सत्रपा सभया च सा ।
असहा विरहोन्मादं विसोढुं कृशपाण्डुरा ॥
दुःप्रापप्रियसंयोगनिःआस्था नक्तम् एकदा ।
गवाक्षप्रेरितकरेणाकृष्टेव हिमांशुना ॥
सुप्ते परिजने स्वैरं निर्गत्य मरणोन्मुखी ।
जगाम स्वगृहोद्यानवापीं तरुलतावृताम् ॥
तत्र पित्रा कृतोदारप्रतिष्ठां कुलदेवताम् ।
उपेत्य चण्डिकां देवीं नत्वा स्तुत्वा व्यजिज्ञपत् ॥
अस्मिञ् जन्मनि चेद् भर्ता न मया कमलाकरः ।
प्राप्तस् तद् देवि भूयान् मे सो ऽन्यस्मिन्न् अपि जन्मनि ॥
इत्य् उक्त्वा पुरतस् तस्या देव्याः साशोकपादपे ।
पाशं विरचयामास स्वोत्तरीयेण रागिणी ॥
तावद् आप्ता सखी तस्याः सा प्रबुध्यात्र वासके ।
ताम् अदृष्ट्वा तद् उद्यानं दैवाद् आगाद् विचिन्वती ॥
तत्र दृष्ट्वा च तां पाशम् अर्पयन्तीं तथा गले ।
मा मेत्य् उक्त्वा प्रधाव्यैव पाशं तस्याह् तम् अच्छिनत् ॥
सापि तां वीक्ष्य संप्राप्तां कृत्तपाशां निजां सखीम् ।
अनङ्गमञ्जरी भूमौ पपाताधिकदुःखिता ॥
आश्वासिता स्वसख्या च तया पृष्टा च सा क्षणात् ।
दुःखहेतुं समाख्याय पुन एनाम् अभाषत ॥
सखि मालतिके तन् मे दुःलभे प्रियसंगमे ।
गुर्वादिपरतन्त्राया न सुखं मरणात् परम् ॥
इति ब्रुवाणैवानङ्गशराग्निज्वलिता भृशम् ।
सानङ्गमञ्जरी मोहं ययौ नैराश्यनिःसहा ॥
कष्टं स्मराज्ञा दुःलङ्घ्या यया नीता दशाम् इमाम् ।
अन्या-विनीतवनिताहासिनीयं सखी मम ॥
इत्यादिविलपन्ती च तां सा मालतिका सखी ।
शनैर् आश्वासयामास शीताम्बुपवनादिभिः ॥
तापोपशान्तये चास्याश् चकार नलिनीदलैः ।
शय्यां ददौ च हृदये हारं तुहिनशीतलम् ॥
ततः साश्रुर् उवाचैतां सखीं सानङ्गमञ्जरी ।
सखि हारादिभिर् नायं दाहो ऽन्तो मम शाम्यति ॥
येन प्रशाम्यति पुनः स्वबुद्ध्यैव विधत्स्व तत् ।
मां संयोजय कान्तेन जीवितं मे यदीच्छसि ॥
एवम् उक्तवतीं तां सा स्नेहान् मालतिकाब्रवीत् ।
सखि भूयिष्टयाताद्य रात्रिः प्रातर् अहं पुनः ॥
इहैव कृतसंकेतम् आनेष्यामि प्रियं तव ।
तद् आलम्ब्य धृतिं तावन् निजं प्रविश मन्दिरम् ॥
इत्युक्तवत्यै संतुष्य तस्यै सानङ्गमञ्जरी ।
हारं स्वकण्ठाद् आकृष्य प्रददौ पारितोषिकम् ॥
गच्छाधुनैव स्वगृहं प्रातः सिद्ध्यै ततो व्रज ।
इति चैतां सखीं प्रेष्य सा विवेश स्ववासकम् ॥
प्रातश् च सा मालतिका केनाप्य् अनुपलक्षिता ।
तत्सखी तस्य कमलाकरस्य भवनं ययौ ॥
चिन्वती तत्र चोद्याने तरुमूले ददर्श तम् ।
चन्दनार्द्राम्बुरुहिणीपत्त्रशय्याविवर्तिनम् ॥
रहस्यधारिणैकेन कदलीदलमारुतैः ।
आश्वास्यमानं सुहृदा दह्यमानं स्मराग्निना ॥
तस्या विनेयम् अस्य स्यात् कामावस्थेदृशीति सा ।
विचिन्त्य तस्थौ प्रच्छन्ना ज्ञातुं तत्र विनिश्चयम् ॥
तावच् च सुहृदा तेन स ऊचे कमलाकरः ।
क्षणम् एकम् इहोद्याने दत्त्वा दृष्टिं मनःरमे ॥
विनोदय मनो मित्र मात्र विक्लवताम् अगाः ।
तच् छ्रुत्वा तं स्वसुहृदं विप्रपुत्रो जगाद सः ॥
यन् ममानङ्गमञ्जर्या वणिक्पुत्र्या तया हृतम् ।
विनोदयामि तद् इदं कुतः शून्याशयो मनः ॥
स्मरेण शून्यहृदयो बाणतूणीकृतो ह्य् अहम् ।
तत् प्राप्स्यामि मनःचौरीं तां यथा कुरु मे तथा ॥
इत्य् उक्ते विप्रपुत्रेण तेनात्मानं प्रदर्श्य सा ।
हृष्टा मालतिकाभ्येत्य तम् उवाचास्तसंशया ॥
तवास्म्य् अनङ्गमञ्जर्या सुभग प्रहितान्तिकम् ।
संदेशं चाहम् एवैषा विस्पष्टार्थं ब्रवीमि ते ॥
एष कः शिष्टधर्मो यत् प्रविश्य हृदयं हठात् ।
मनो मुषित्वा मुग्धाया गम्यते स्थगितात्मना ॥
चित्रं च यद् वामदृशा तुभ्यम् एव तयाधुना ।
मनःहराय देहो ऽपि दातुं प्राणैः सहेष्यते ॥
निःश्वासान् सा हि संतप्तान् विमुञ्चति दिवानिशम् ।
ज्वलतो हृदि कन्दर्पवह्नेर् धूमोद्गमान् इव ॥
संपतन्ति मुहुश् चास्याः साञ्जना बाष्पबिन्दवः ।
वदनाम्भःजसौगन्ध्यलुब्धा मधुकरा इव ॥
तद् यदीच्छसि तद् वच्मि शिवं वाम् उभयोर् अहम् ।
इत्य् उक्तो मालतिकया सो ऽब्रवीत् कमलाकरः ॥
भद्रे भयं करोत्य् एषा वाक् तवाश्वासयत्य् अपि ।
वदन्ती विधुरावस्थां बद्धभावां च मे प्रियाम् ॥
तद् एका गतिर् अत्र त्वं यथा वेत्सि तथा कुरु ।
इत्युक्तवाक्ये कमलाकरे मालतिकाब्रवीत् ॥
अनङ्गमञ्जरीम् अद्य गुप्तं तां प्रापयाम्य् अहम् ।
नक्तं स्वभवनोद्यानं त्वं तिष्ठेस् तत्र बाह्यतः ॥
ततः प्रवेशयिष्यामि त्वाम् अत्रान्तः स्वयुक्तितः ।
एवं यथेष्टो युवयोर् भविष्यति समागमः ॥
इत्य् उक्त्वानन्द्य तं विप्रपुत्रं मालतिका ततः ।
गत्वा कृतार्था सानङ्गमञ्जरीम् अप्य् अनन्दयत् ॥
अथाह्ना सह याते ऽर्के क्वापि संध्यानुरागिणि ।
ऐन्द्र्या दिशेन्दुतिलकेनानने सुप्रसाधिते ॥
त्यक्तपद्माकरा प्राप्ता श्रीर् मयेतीव हर्षतः ।
हसत्य् उफुल्लवदने विशदे कुमुदाकरे ॥
कृतप्रसाधनः सोत्कः स्वैरं स कमलाकरः ।
कामी कान्तागृहोद्यानद्वारबाह्यम् उपागमत् ॥
तावच् च सा मालतिका तां युक्त्यानङ्गमञ्जरीम् ।
आनिनाय तद् उद्यानं कृच्छ्राद् गमितवासराम् ॥
उपवेश्य च तां मध्ये गुल्मके चूतशाखिनाम् ।
प्रावेशयत् तं निर्गत्य तत्रैव कमलाकरम् ॥
स च प्रविश्य पत्त्रौघघनपादपमध्यगाम् ।
ताम् अध्वग इव छायां ददर्शानङ्गमञ्जरीम् ॥
उपैति यावच् च स तां तावद् दृष्ट्वा प्रधाव्य सा ।
कामवेगहृतव्रीडा कण्ठे तं सहसाग्रहीत् ॥
क्व यासि लब्धो ऽसि ममेत्य् आलपन्ती च तत् क्षणम् ।
सातिहर्षभरस्तब्धनिःश्वासा पञ्चताम् अगात् ॥
पपात च महीपृष्ठे वातरुग्णा लतेव सा ।
विचित्रो बत कामस्य विपाकविषमः क्रमः ॥
तद् दृष्ट्वाशनिपातोग्रं सद्यः स कमलाकरः ।
हा हा किम् एतद् इत्य् उक्त्वा मूर्च्छितो न्यपतद् भुवि ॥
लब्धसंज्ञः क्षणेनाथ ताम् अङ्कारोपितां प्रियाम् ।
आलिङ्गन् परिचुम्बंश् च तत् तच् च विलपन् बहु ॥
तथा दुखातिभारेण स प्रसह्य निपीडितः ।
यथा तस्य टसत्कृत्य क्षणाद् धृदयम् अस्फुटत् ॥
अथ तौ मालतिकया शोच्यमानाव् उभाव् अपि ।
दृष्ट्वा प्राप्तक्षयौ शोकाद् इव क्षीणाभवत् क्षपा ॥
प्रात उद्यानपालेभ्यो ज्ञात्वा बन्धुजनस् तयोः ।
तत्राययौ त्रपाश्चर्यदुःखमोहाकुलीकृतः ॥
आसीत् कर्तव्यतामूढश् चिरं खेदाद् अवाङ्मुखः ।
कष्टाः कुलखलीकारहेतवो बत कुस्त्रियः ॥
तावच् च ताम्रलिप्तीतः स तस्याः पतिर् आगमत् ।
सोत्कण्ठो ऽनङ्गमञ्जर्या मणिवर्मा पितुर् गृहात् ॥
स श्वाशुरं गृहं प्राप्य यथातत्त्वम् अवेत्य तत् ।
बाष्पान्धलोचनो ध्यायंस् तद् एवोद्यानम् आययौ ॥
तत्र भार्यां गतासुं तां दृष्ट्वान्यसहिताम् अपि ।
शोकाग्निज्वलितो रागी सद्यः सो ऽपि जहाव् असून् ॥
ततः क्रन्दति तत्रस्थे जने कोलाहलाकुलाः ।
आययुर् ज्ञातवृत्तान्ताः पौराः सर्वे ऽत्र विस्मिताः ॥
अथात्रानङ्गमञ्जर्याः पित्रा पूर्वावतारीता ।
देवी संनिहिता चण्डी विज्ञप्ताभून् निजैर् गणैः ॥
त्वदाकारप्रतिष्ठाकृद् अर्थदत्तः सदैषस् ते ।
भक्तो वणिक् तद् अस्यास्मिन् दुःखे देवि दयां कुरु ॥
एतद् गणेभ्यः श्रुत्वा सा शरण्या शङ्करप्रिया ।
शान्तानङ्गास् त्रयो ऽप्य् एते जीवन्त्व् इति समादिशत् ॥
अथ सर्वे ऽपि ते सुप्तप्रतिबुद्धा इव क्षणात् ।
तत्प्रसादात् समुत्तस्थुर् जीवन्तो वीतमन्मथाः ॥
ततो दृष्ट्वा तद् आश्चर्यं सानन्दे सकले जने ।
लज्जानतमुखः प्रायात् स्वगृहं कमलाकरः ॥
अर्थदत्तो ऽपि तां ह्रीताम् आदायानङ्गमञ्जरीम् ।
सुतां स्वभर्तृसहितां ययौ बद्धोत्सवो गृहान् ॥
इति कथयित्वा तस्यां रात्रौ मार्गे कथां स वेतालः ।
निजगाद तं त्रिविक्रमसेनं क्षोणीपतिं भूयः ॥
राजन् कस्य वदैतेष्व् अधिको मोहो ऽनुरागमूढेषु ।
सो ऽत्र च पूर्वोक्तस् ते शापो जानन् न चेद् वदसि ॥
इत्य् एतद् वेतालाच् छ्रुत्वा स प्रत्युवाच तं नृपतिः ।
एतेषु रागमूढः प्रतिभाति ममाधिकः स मणिवर्मा ॥
इतरौ हि ताव् उभाव् अपि कालक्रमपक्वमन्मथावस्थौ ।
अन्योऽन्यसानुरागौ यदि जीवितम् उज्झतः स्म तद् भवतु ॥
मणिवर्मा त्व् अतिमूढो यो भार्याम् अन्यपुरुषसक्तमृताम् ।
दृष्ट्वैव कोपकाले प्रत्युत रक्तः शुचामुचत् प्राणान् ॥
इति गदित वतः स तस्य राज्ञो बत वेतालपतिः पुनर् जगाम ।
निजम् एव पदं तद् अंसपीठाद् अथ राजापि तम् अन्वगात् स भूयः ॥
मूल पाठ: Kathāsaritsāgara, Vetālapañcaviṃśatikā · Data entry Elena Artesani · GRETIL (Göttingen) · CC BY-NC-SA 4.0