भाषा

ENहिગુ
ग्रंथ पाठ

कथासरित्सागर, वेतालपञ्चविंशतिका · अध्याय 12.27

12.27.1

ततो गत्वा गृहीत्वांसे वेतालं शिंशपातरोः ।
स त्रिविक्रमसेनस् तम् उच्चचाल पुनर् नृपः ॥

12.27.2

मौनेन प्रस्थितं तं च वेतालो ऽंसाद् उवाच सः ।
राजन् कस् ते ऽनुबन्धो ऽयं गच्छ रात्रिसुखं भज ॥

12.27.3

न युक्तं तव नेतुं मां कुभिक्षोस् तस्य गोचरम् ।
ग्रहो वा तत्र चेद् अस्तु कथाम् एकाम् इमां शृणु ॥

12.27.4

अस्ति स्वरेखानुत्क्रान्तवर्णभेदव्यवस्थिति ।
नगरं चित्रकूटाख्यं बिभ्राणं सत्यनामताम् ॥

12.27.5

तत्रामृतरसासारवर्षी प्रणयिचक्षुषाम् ।
चन्द्रावलोक इत्य् आसीद् राजा राजशिखामणिः ॥

12.27.6

आलानं शौर्यकरिणस् त्यागस्योत्पत्तिकेतनम् ।
विलासवेश्म रूपस्य शशंसुर् यं विचक्षणाः ॥

12.27.7

सतीषु सर्वसंपत्सु यन् न प्राप निजोचिताम् ।
भार्यां सैका परं चिन्ता यूनस् तस्याभवद् धृदि ॥

12.27.8

एकदा च तदुद्वेगविनोदाय महाटवीम् ।
जगामाश्वीयसहितो मृगयायै स भूपतिः ॥

12.27.9

तत्र सूकरवृन्दानि भिन्दन् बाणैर् निःअन्तरैः ।
श्यामलाम्बररोचिष्णुस् तमांसीव रविः करैः ॥

12.27.10

शाययञ् शरशय्यासु सिंहान् समरदुःमदान् ।
मूर्धजैर् धवलैर् भीष्मान् अर्जुनाधिकविक्रमः ॥

12.27.11

विपक्षीकृत्य शरभान् पातयन् पर्वतोपमान् ।
दम्भोलिकर्कशप्रासपातैर् जम्भारिविक्रमः ॥

12.27.12

रसाद् विविक्षुः स नृपो वनाभ्यन्तरम् एककः ।
तीव्रपार्ष्णिप्रहारेण प्रेरयामास वाजिनम् ॥

12.27.13

स वाजी तेन च कशाघातेनोत्तेजितो भृशम् ।
पार्ष्णिघातेन विषमं समं चा-गणयन् क्षणात् ॥

12.27.14

वनान्तरं ततो ऽनैषीद् वाताधिकजवो नृपम् ।
मोहितेन्द्रियवृत्तिं तं व्यतीत्य दशयोजनीम् ॥

12.27.15

तत्र तस्मिन् स्थिते वाहे राजा दिङ्मोहम् एत्य सः ।
भ्रमञ् श्रान्तो ददर्शैकम् आरात् सुविपुलं सरः ॥

12.27.16

मारुतेनाभिमुख्येन नमितोन्नमितैर् मुहुः ।
इत एहीति हस्ताभैः संज्ञां कुर्वद् इवाम्बुजैः ॥

12.27.17

तत्र गत्वा च तुरगं विपर्याणोपवर्तितम् ।
स्नातपीतं तरुछायाबद्धं दत्ततृणोत्करम् ॥

12.27.18

कृत्वा स्वयं कृतस्नानः पीताम्बुर् गलितश्रमः ।
रम्येषु तत्प्रदेशेषु ददौ दृष्टिम् इतस् ततः ॥

12.27.19

एकत्र चाशोकतरोर् अधस्तान् मुनिकन्यकाम् ।
आमुक्तपुष्पाभरणां वल्कलांशुकशोभिनीम् ॥

12.27.20

मुग्धबद्धजटाजूटसविशेषमनःरमाम् ।
सखीद्वितीयाम् आश्चर्यरूपां राजा ददर्श सः ॥

12.27.21

अचिन्तयच् च पुष्पेषोः पतितः शरगोचरे ।
केयं स्यात् सरसि स्नातुं सावित्री किं स्विद् आगता ॥

12.27.22

किं हरस्याङ्कविभ्रष्टा गौरी भूयः श्रिता तपः ।
अहन्य् अस्तम्गतस्येन्दोः कान्तिः किं वा धृतव्रता ॥

12.27.23

तद् एताम् उपसृत्येह शनैर् उपलभे वरम् ।
इत्य् आलोच्य ययौ तस्याः कन्यायाः सो ऽन्तिकं नृपः ॥

12.27.24

सापि दृष्ट्वा तम् आयान्तं तद्रूपाकुलितेक्षणा ।
पूर्वप्रारब्धपुष्पस्रक्सन्नहस्ता व्यचिन्तयत् ॥

12.27.25

को ऽयम् ईदृग् अरण्ये ऽस्मिन् सिद्धो विद्याधरो नु किम् ।
बतास्य रूपं विश्वस्य कृतार्थीकरणं दृशोः ॥

12.27.26

एवं वितर्क्य पश्यन्ती तिर्यक् तं त्रपया ततः ।
उत्थाय सोरुस्तम्भापि गन्तुं प्रावर्ततैव सा ॥

12.27.27

अथोपेत्य स राजा ताम् एवं नागरिको ऽब्रवीत् ।
आस्तां प्रथमदृष्टस्य दर्शनैकफलार्थिनः ॥

12.27.28

जनस्य दूरायातस्य सुन्दरि स्वागतादिकम् ।
को ऽयं न्व् आश्रमिणां धर्मो यद् एतस्मात् पलाय्यते ॥

12.27.29

इत्य् उक्ते भूभुजा तस्याः सखी तद्वद् विचक्षणा ।
तत्रोपवेश्य नृपतेह् चकारातिथ्यसत्क्रियाम् ॥

12.27.30

अथ सप्रणयं राजा तां स पप्रच्छ सोत्सुकः ।
भद्रे कः पुण्यवान् वंशस् त्वत्सख्यालंकृतो ऽनया ॥

12.27.31

कानि श्रोत्रामृतस्यन्दीन्य् अस्या नामाक्षराणि च ।
किं चैवम् अनया पुष्पसुकुमारम् इदं वपुः ॥

12.27.32

तापसोचितया वृत्त्या विजने ऽस्मिन् कदर्थ्यते ।
इति राज्ञो वचः श्रुत्वा तत्सखी प्रत्युवाच सा ॥

12.27.33

एषा महाऋषेः कण्वस्य दुहिता वर्धिताश्रमे ।
मेनकासंभवा कन्या नाम्ना चेन्दीवरप्रभा ॥

12.27.34

इहास्मिन् सरसि स्नातुम् आगतानुज्ञया पितुः ।
इतो ऽत्र नातिदूरे ऽस्ति तस्यैतत् पितुर् आश्रमः ॥

12.27.35

इत्य् उक्तः स तया हृष्टो राजारुह्य तुरङ्गमम् ।
याचितुं तां सुतां तस्य कण्वर्षेर् आश्रमं ययौ ॥

12.27.36

विवेश च विनीतस् तं बहिः स्थापितवाहनः ।
जटावल्कलिभिः पूर्णं पादपैर् इव तापसैः ॥

12.27.37

तन्मध्ये च तम् अद्राक्षीद् ऋषिभिः परिवारितम् ।
तेजसाह्लादनं कण्वमुनिं चन्द्रम् इव ग्रहैः ॥

12.27.38

उपेत्य पादयोस् तं च ववन्दे सो ऽपि तं मुनिः ।
कल्पितातिथ्यविश्रान्तं ज्ञानी क्षिप्राद् अभाषत ॥

12.27.39

वत्स चन्द्रवलोकैतच् छृणु यद् वच्मि ते हितम् ।
जानासि यादृक् संसारे प्राणिनां मृत्युतो भयम् ॥

12.27.40

तन् निःकारणम् एवैतान् वराकान् हंसि किं मृगान् ।
शस्त्रं हि भीतरक्षार्थं धात्रा क्षत्रस्य निर्मितम् ॥

12.27.41

तत् प्रजा रक्ष धर्मेण समुन् मूलय कण्टकान् ।
हस्त्यश्वास्त्रादियोग्याभिश् चललक्ष्म्यादि साधय ॥

12.27.42

भुङ्क्ष्व राज्यसुखं देहि धनं दिक्षु यशः किर ।
कृतान्तक्रीडितं हिंस्रं मृगयाव्यसनं त्यज ॥

12.27.43

हन्तुर् वध्यस्य चान्यस्य यत्र तुल्या प्रमादिता ।
किं तेन बह्वनर्थेन पाण्डोर् वृत्तं न किं श्रुतम् ॥

12.27.44

एतत् कण्वमुनेर् वाक्यं श्रुत्वा समभिनन्द्य च ।
राजा चन्द्रावलोकस् तम् अर्थज्ञः प्रत्यभाषत ॥

12.27.45

अनुशिष्टो ऽस्मि भगवन् कृतो मे ऽनुग्रहः परः ।
मृगयाया निवृत्तो ऽहं प्राणिनः सन्तु निःभयाः ॥

12.27.46

तच् छ्रुत्वोवाच स मुनिस् तुष्टो ऽहम् अमुना तव ।
प्राणिष्व् अभयदानेन तद् वृणीष्वेप्सितं वरम् ॥

12.27.47

इत्य् उक्तस् तेन मुनिना कालज्ञः स नृपो ऽभ्यधात् ।
तुष्टो ऽसि चेत् सुतां देहि मह्यम् इन्दीवरप्रभाम् ॥

12.27.48

इत्य् अर्थितवते सो ऽस्मै राज्ञे स्नानगतां मुनिः ।
अप्सरःसंभवां कन्यां तां ददाव् अनुरूपिकाम् ॥

12.27.49

ततः कृतविवाहस् तां मुनिभार्याप्रसाधिताम् ।
कृतानुयात्राम् उद्बाष्पैस् तापसैर् आ निजाश्रमात् ॥

12.27.50

इन्दीवरप्रभां भार्याम् आदायारुह्य वाजिनम् ।
चन्द्रावलोकस् तरसा प्रतस्थे स ततो नृपः ॥

12.27.51

गच्छतश् चास्य विततं दृष्ट्वा तद्दिनचेष्टितम् ।
रविः खिन्न इवास्ताद्रिम् अस्तके समुपाविशत् ॥

12.27.52

ददृशे मृगनेत्रा च क्रमाद् उद्रिक्तमन्मथा ।
ध्वान्तनीलपटछन्नरूपा रात्र्यभिसारिका ॥

12.27.53

तस्मिन् काले पथि प्राप स राजाश्वत्थपादपम् ।
सज्जनाशयसुस्वच्छवापीजलतटस्थितम् ॥

12.27.54

शाखापत्त्रौघसंछन्नशाद्वलश्यामलस्थलम् ।
दृष्ट्वा च तं वसामीह रात्रिम् इत्य् अकरोद् धृदि ॥

12.27.55

ततो ऽवतीर्य तुरगाद् दत्त्वा तस्मै तृणोदकम् ।
विश्रम्य पुलिने वाप्या उपयुक्ताम्बुमारुतः ॥

12.27.56

मुनिपुत्रिकया सार्धं तया तस्य तरोस् तले ।
प्रियया पुष्पशय्यायां संविवेश स भूपतिः ॥

12.27.57

तत्क्षणं च समाक्रम्य तिमिरांशुकहारिणा ।
सरागम् आननं प्राच्याश् चुचुम्बे शशलक्ष्मणा ॥

12.27.58

विरेजुश् चन्द्रकिरणैः समाश्लिष्य प्रसारिताः ।
वीतमानावकाशाश् चा-शेषा वितमसो दिशः ॥

12.27.59

अत्रान्तरे लतागुल्मविवरप्रसृतैः करैः ।
ऐन्दवई रत्नदीपाभैस् तरुमूले विभासिते ॥

12.27.60

सो ऽपि राजा सिषेवे ताम् आश्लिष्येन्दीवरप्रभाम् ।
नवसंगमसोत्कण्ठसरसं सुरतोत्सवम् ॥

12.27.61

विस्रंसयामास शनैर् नीवीं तस्यास् त्रपाम् इव ।
अखण्डयच् च दशनैर् मुग्धभावम् इवाधरम् ॥

12.27.62

रचयामास कुचयोर् यौवनद्विपकुम्भयोः ।
करजक्षतसद्रत्ननवनक्षत्रमालिकाम् ॥

12.27.63

मुखं कपोलौ नयने मुहुः परिचुचुम्ब च ।
लावण्यामृतनिःष्यन्दम् आपिबन्न् इव सर्वतः ॥

12.27.64

इत्थन् निधुवनक्रीडासुखेन स तया सह ।
निनाय कान्तया तत्र राजा क्षणम् इव क्षपाम् ॥

12.27.65

प्रातश् च मुक्तशयनः सांध्यस्यानन्तरं विधेः ।
स्वसैन्यावाप्तये यातुम् उन्मुखो ऽभूद् वधूसखः ॥

12.27.66

तावच् च नक्तं लुप्ताब्जखण्डशोभं निशापतिम् ।
भियेवास्ताद्रिकुहरप्रलीनं ध्वस्ततेजसम् ॥

12.27.67

हन्तुकाम इव क्रोधाद् आताम्रतररोचिषि ।
प्रसारितकरोत्क्षिप्तमण्डलाग्रे विवस्वति ॥

12.27.68

अकस्माद् आजगामात्र विद्युत्पिङ्गशिरःरुहः ।
कज्जलश्यामलः कालमेघाभो ब्रह्मराक्षसः ॥

12.27.69

अन्त्रमालाकृतोत्तंसः केशयज्ञोपवीतभृत् ।
खादन् नरशिरःमांसं कपालेन पिबन्न् असृक् ॥

12.27.70

सो ऽट्टहासं विमुच्योग्रं मुखेनाग्निं वमन् क्रुधा ।
दंष्ट्राकरालो राजानं भर्त्सयन् निजगाद तम् ॥

12.27.71

पाप ज्वालामुखं नाम विद्धि मां ब्रह्मराक्षसम् ।
निवासश् चैष मे ऽश्वत्थो देवैर् अपि न लङ्घ्यते ॥

12.27.72

सो ऽयं त्वया समाक्रम्य परिभुक्तः स्त्रिया सह ।
रात्रिचर्यागतस्याद्य तद् भुङ्क्ष्वा-विनयात् फलम् ॥

12.27.73

एषो ऽहं ते दुःआचार कामोपहतचेतसः ।
उत्पाट्य हृदयं भोक्ष्ये पास्याम्य् एव च शोणितम् ॥

12.27.74

तच् छ्रुत्वैव तथा घोरं तम् अवध्यम् अवेक्ष्य च ।
त्रस्ताङ्गनः सविनयं भयात् प्रत्यब्रवीन् नृपः ॥

12.27.75

अजानतापराद्धं यन् मया ते तत् क्षमस्व मे ।
तवाहम् आश्रमे ह्य् अस्मिन्न् अतिथिः शरणाश्रितः ॥

12.27.76

दास्यामि चेप्सितं तुभ्यम् आनीय पुरुषं पशुम् ।
येन ते भविता तृप्तिस् तत् प्रसीद क्रुधं त्यज ॥

12.27.77

इति राज्ञो वचः श्रुत्वा शान्तः स ब्रह्मराक्ससः ।
अस्तु को दोष इत्य् अन्तो विचिन्त्यैवम् अभाषत ॥

12.27.78

यः सप्तवर्षदेश्यो ऽपि महासत्त्वो विवेकवान् ।
त्वदर्थे स्वेच्छयात्मानं दद्याद् ब्राह्मणपुत्रकः ॥

12.27.79

हन्यमानं च यं माता हस्तयोः पादयोः पिता ।
अवष्टभ्यातिसुदृढं संनिवेश्य महीतले ॥

12.27.80

तादृशं पुरुषं मह्यम् उपहारीकरोषि चेत् ।
स्वयं खड्गप्रहारेण हत्वा सप्तदिनान्तरे ॥

12.27.81

तत् ते क्षमिष्ये न्यक्कारम् अन्यथा तु महीपते ।
सद्यो विनाशयिष्यामि त्वाम् अहं सपरिच्छदम् ॥

12.27.82

श्रुत्वैतत् स भयाद् राजा प्रतिपेदे तथेति तत् ।
तिरःबभूव च ब्रह्मराक्षसः सो ऽपि तत् क्षणम् ॥

12.27.83

अथ चन्द्रावलोको ऽसौ राजा सेन्दीवरप्रभः ।
हयारूढस् ततः प्रायात् सैन्यं चिन्वन् सुदुर्मनाः ॥

12.27.84

अहो अहं मृगयया मदनेन च मोहितः ।
गतः पाण्डुर् इवा-काण्डे विनाशं बत बालिशः ॥

12.27.85

प्राप्यते ह्य् उपहारो ऽस्य राक्षसस् तादृशः कुतः ।
तन् निजं नगरं तावद् यामि पश्यामि भावि किम् ॥

12.27.86

इति ध्यायन् स च प्राप स्वसैन्यं चिन्वद् आगतम् ।
तद्युक्तश् च सदारः स्वं चित्रकूटम् अगात् पुरम् ॥

12.27.87

तत्र तस्योचितां भार्याप्राप्तिं वीक्ष्य कृतोत्सवे ।
राष्ट्रे ऽन्तर्गतदुःखस्य दिनशेषो जगाम सः ॥

12.27.88

द्वितीये ऽह्नि रहः सर्वं स्ववृत्तान्तं शशंस सः ।
मन्त्रिभ्यस् तेषु चैकस् तं मन्त्री सुमतिर् अब्रवीत् ॥

12.27.89

विषादो देव ते मा भूद् उपहारं हि तादृशम् ।
आनेष्याम्य् अहम् अन्विष्य बह्वाश्चर्या हि मेदिनी ॥

12.27.90

एवम् आश्वास्य राजानं स सौवर्णीम् अकारयत् ।
मन्त्री सप्ताब्ददेशीयबालकप्रतिमां द्रुतम् ॥

12.27.91

रत्नैर् अलंकृतां तां च कृत्वा कर्णिरथार्पिताम् ।
भ्रामयामास नगरग्रामघोषेष्व् इतस् ततः ॥

12.27.92

यः सप्तवर्षदेशीयः स्वेच्छया विप्रपुत्रकः ।
ददाति सर्वसत्त्वार्थम् आत्मानं ब्रह्मरक्षसे ॥

12.27.93

उपहाराय सत्त्वस्थो मातापित्रोर् अनुज्ञया ।
हन्यमानश् च यस् ताभ्यां हस्तपादे प्रगृह्यते ॥

12.27.94

तस्मै ग्रामशतोपेतां हेमरत्नमयीम् इमाम् ।
ददाति प्रतिमां राजा पित्रोर् उपचिकीर्षवे ॥

12.27.95

इति च भ्राम्यमानायास् तस्याः प्रतिकृतेः शिशोः ।
पटहोद्घोषणां मन्त्री सो ऽग्रे ऽजस्रम् अदापयत् ॥

12.27.96

तावच् छ्रुत्वा तद् एकस्मिन्न् अग्रहारे द्विजार्भकः ।
को ऽपि सप्ताब्ददेशीयो ऽप्य् अतिधीरो ऽद्भुताकृतिः ॥

12.27.97

पूर्वाभ्यासेन बाल्ये ऽपि सदा परहिते रतः ।
प्रजापुण्यपरीपाक इव साकारतां गतः ॥

12.27.98

उवाचोद्घोषकान् एत्य युष्मदर्थे ददाम्य् अहम् ।
आत्मानं पितरौ गत्वा बोधयित्वाभ्युपैमि च ॥

12.27.99

इति ऊचिवांस् तान् मुदितान् स बालो ऽनुमतश् च तैः ।
गत्वा गृहं जगाद स्वौ पितरौ रचिताञ्जलिः ॥

12.27.100

ददामि सर्वसत्त्वार्थं देहम् एतं विनश्वरम् ।
तन् माम् अभ्यनुजानीतं हतां चापदम् आत्मनः ॥

12.27.101

आत्मप्रतिकृतिं ह्य् एतां गृहीत्वा वितरामि वाम् ।
हेमरत्नमयीं राज्ञा दत्तां ग्रामशतान्विताम् ॥

12.27.102

एवं मे युष्मदानृण्यं परार्थश् चैव सिध्यति ।
युवां च ध्वस्तदारिद्र्यौ बहून् पुत्रान् अवाप्स्यथः ॥

12.27.103

इत्य् उक्तवन्तं सहसा पितरौ तौ तम् ऊचतुः ।
किम् एतद् भाषसे पुत्र वातेन क्षुभितो ऽसि किम् ॥

12.27.104

किं वा ग्रहगृहीतो ऽसि प्रलपस्य् अन्यथा कथम् ।
को ह्य् अर्थैर् घातयेत् पुत्रं देहं दद्याच् च कः शिशुः ॥

12.27.105

एतत् पित्रोर् वचः श्रुत्वा बालः पुन उवाच सः ।
न बुद्धिमोहाज् जल्पामि शृणुतं मे ऽर्थवद् वचः ॥

12.27.106

अवाच्या-शुचिसंपूर्णम् उत्पत्त्यैव सुगुप्सितम् ।
दुःखक्षेत्रं विनाश्य् एव शरीरम् अचिराद् इदम् ॥

12.27.107

तद् एतेनात्य-सारेण सुकृतं यद् उपार्ज्यते ।
तद् एव सारं संसारे कृतबुद्धिभिर् उच्यते ॥

12.27.108

सर्वभूतोपकाराच् च किम् अन्यत् सुकृतं परम् ।
तत्रापि पित्रोर् भक्तिश् चेत् किं देहाद् दृश्यते फलम् ॥

12.27.109

इत्यादिवाक्यैः स शिशुः शोचन्तौ दृढनिश्चयः ।
ताव् अङ्गीकारयामास पितरौ स्वमनीषितम् ॥

12.27.110

गत्वा च राजभृत्येभ्यः प्रतिमां तं हिरण्मयीम् ।
आनीय प्रददौ ताभ्यां सग्रामशतशासनाम् ॥

12.27.111

ततः कृत्वाग्रतो राजभृत्यांस् तान् एव स द्रुतम् ।
पितृभ्याम् अन्वितः प्रायाच् चित्रकूटं नृपान्तिकम् ॥

12.27.112

तत्र चन्द्रावलोकस् तं वीक्ष्या-खण्डिततेजसम् ।
रक्षारत्नम् इव प्राप्तं बालं राजा ननन्द सः ॥

12.27.113

आरोप्य गजपृष्टं च रचितस्रग्विलेपनम् ।
नीनाय तं सपितृकं केतनं ब्रह्मरक्षसः ॥

12.27.114

तत्र मण्डलम् आलिख्य तस्याश्वत्थस्य पार्श्वतः ।
विहितोचितपूजेन हुते वह्नौ पुरःधसा ॥

12.27.115

आविर्बभूव मुक्ताट्टहासः सो ऽध्ययनं पठन् ।
घूर्णन् रक्तासवक्षीबो जृम्भमाणो मुहुः श्वसन् ॥

12.27.116

ज्वलन्नेत्रो दिशः कुर्वन् देहछायान्धकारिताः ।
ज्वालामुखो महारौद्रदर्शनो ब्रह्मराक्षसः ॥

12.27.117

ततश् चन्द्रावलोकस् तं दृष्ट्वा प्रह्वो ऽब्रवीन् नृपः ।
नरोपहारो भगवन्न् आनीतः स मया तव ॥

12.27.118

सप्तमो दिवसश् चाद्य प्रतिज्ञातस्य सो ऽस्य ते ।
तत् प्रसीद गृहाणैतम् उपहारं यथाविधि ॥

12.27.119

इति राञ्जार्थितो विप्रकुमारं ब्रह्मराक्षसः ।
स तम् आलोकयामास जिह्वया सृक्किणी लिहन् ॥

12.27.120

तत् क्षणं स महासत्त्वो बालो हृष्यन्न् अचिन्तयत् ।
स्वदेहदानेनानेन सुकृतं यन् मयार्जितम् ॥

12.27.121

तेन मा भून् मम स्वर्गो मोक्षो वा निःउपक्रियः ।
भूयात् तु मे परार्थाय देहो जन्मनि जन्मनि ॥

12.27.122

इति संकल्पयत्य् एव तस्मिन्न् आपूर्यत क्षणात् ।
विमानैः सुरसंघानां पुष्पवृष्टिमुचां नभः ॥

12.27.123

अथाग्रे प्रापितं तस्य बालं तं ब्रह्मरक्षसः ।
माता जग्राह करयोः पिता चरणयोस् तथा ॥

12.27.124

ततो यावत् तम् आकृष्टखड्गो राजा जिघांसति ।
तावज् जहास स शिशुस् तथा सर्वे ऽत्र ते यथा ॥

12.27.125

सब्रह्मराक्षसास् त्यक्त्वा स्वं स्वं कर्म सविस्मयाः ।
रचिताञ्जलयः प्रह्वास् तन्मुखप्रेक्षिणो ऽभवन् ॥

12.27.126

इति व्याख्याय वेतालो विचित्रसरसां कथाम् ।
तं त्रिविक्रमसेनं स निजगाद नृपं पुनः ॥

12.27.127

तद् ब्रूहि राजन् को हेतुर् यत् तेन हसितं तदा ।
बालेनैतादृशे ऽप्य् अस्मिन् प्राणान्तसमये ऽप्य् अहो ॥

12.27.128

कौतुकं च महन् मे ऽत्र तद् एतच् चेन् न वक्ष्यसि ।
जानानो ऽपि ततो मूर्धा शतधा ते स्फुटिष्यति ॥

12.27.129

इति वेतालतः श्रुत्वा स राजा प्रत्युवाच तम् ।
शृणु यो ऽभूद् अभिप्रायो हासे तस्य शिशोस् तदा ॥

12.27.130

यो नाम दुःबलो जन्तुः स भये प्रत्युपस्थिते ।
क्रन्दति प्राणहेतोः स्वं पितरं मातरं तथा ॥

12.27.131

तद्व्यपाये च राजानम् आर्तत्राणाय निर्मितम् ।
तदलाभे ऽपि यद्य् अत्र यथासंभवि दैवतम् ॥

12.27.132

तस्य त्व् एकस्थम् अप्य् एतत् सर्वं संजातम् अन्यथा ।
पितृभ्यां हस्तपादं हि रुद्धं तस्यार्थतृष्णया ॥

12.27.133

राजा च त्रातुम् आत्मानं स्वयं तं हन्तुम् उद्यतः ।
दैवतं तत्र यद् ब्रह्मरक्षस् तत् तस्य भक्षकम् ॥

12.27.134

अध्रुवस्यान्तविरसस्याधिव्याधिक्षतस्य च ।
देहस्यार्थे विमूढानां तेषाम् ईदृग् विडम्बना ॥

12.27.135

ब्रह्मेन्द्रविष्णुरुद्राद्या यत्रावश्यं विनाशिनः ।
तत्रैषाम् ईदृशी कापि शरीरस्थैर्यवासना ॥

12.27.136

एतत् तन् मोहवैचित्र्यं दृष्ट्वा मत्वा च वाञ्छितम् ।
सिद्धम् आश्चर्यहर्षाभ्यां स जहास द्विजार्भाकः ॥

12.27.137

इत्य् उक्त्वा विरतस्य तस्य नृपतेर् अंसात् स भूयो ऽपि तद् वेतालो झगिति स्वकं पदम् अगाद् अन्तर्हितो मायया ।
राजा सो ऽप्य् अविकल्पम् एव पुनर् अप्य् अन्वग् ययौ तं जवाद् अक्षोभ्यं हृदयं बतेह महताम् अम्भःनिधीनाम् इव ॥

मूल पाठ: Kathāsaritsāgara, Vetālapañcaviṃśatikā · Data entry Elena Artesani · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc