कथासरित्सागर, वेतालपञ्चविंशतिका · अध्याय 12.26
अथ गत्वा पुनः स्कन्धे वेतालं शिंशपाद्रुमात् ।
स त्रिविक्रमसेनस् तं गृहीत्वोदचलन् नृपः ॥
आगच्छन्तं च तं भूयो वेतालः सो ऽभ्यभाषत ।
राजञ् शृणु कथम् एकां हृद्यां ते कथयाम्य् अहम् ॥
अस्ति वक्रोलकं नाम पुरं सुरपुरोपमम् ।
तस्मिन् सूर्यप्रभाख्यो ऽभूद् राजा जन्भारिसंनिभः ॥
सौकर्योद्यतया मूर्त्या दत्तानन्दो वसुंधराम् ।
इमां हरिर् इवोद्धृत्य यो बभार चिरं भुजे ॥
धूमासङ्गे ऽश्रुसंपातः शृङ्गारे मारसंकथाः ।
द्वाःस्थेषु हेमदण्डाश् च राष्ट्रे यस्याभवन् प्रभोः ॥
सर्वसंपत्समृद्धस्य तस्यैकाभूद् अनिर्वृतिः ।
नोदपद्यत यत् पुत्रो बहुष्व् अन्तःपुरेष्व् अपि ॥
एतस्मिंश् च कथासंधौ ताम्रलिप्त्यां महापुरि ।
बभूव धनपालाख्यो धुर्यो धनवतां वनिक् ॥
तस्य चाजायतैकैव नाम्ना धनवती सुता ।
विद्याधरी च्युता शापात् सौन्दर्येणैव सूचिता ॥
तस्यां च यौवनस्थायां स वणिक् पञ्चतां ययौ ।
तद्धनं राजसानाथ्यआद् आक्रान्तम् अथ गोत्रजैः ॥
ततो हिरण्यवत्याख्या वणिजस् तस्य गेहिनी ।
आदाय रत्नभरणं निजम् अप्रकटस्थितम् ॥
धनवत्या तया साकं स्वदुहित्रा निशामुखे ।
पलाय्य दायादभयाद् गृहाद् गुप्तं विनिर्ययौ ॥
ध्वान्तेन बहिर् अन्तश् च सा दुःखेनान्धकारिता ।
कृच्छ्राद् बहिःपुरं प्रायात् सुताहस्तावलम्बिनी ॥
तत्र संतमसे यान्ती विधियोगाद् अलक्षितम् ।
अंसेनाताडयच् चौरं शूलाग्रारोपितस्थितम् ॥
स सजीवस् तदंसाग्रघट्टनाधिकपीडितः ।
आः क्षते क्षारम् एतन् मे क्षिप्तं केनेत्य् अभाषत ॥
ततस् तत्रैव सा को ऽसीत्य् अपृच्छत् तं वणिग्वधूः ।
प्रत्युवाच ततश् चौरश् चौरो ऽहम् इह सूचितः ॥
शूले पापस्य चाद्यापि नोत्क्रामन्ति ममासवः ।
तद् आर्ये त्वं मम ब्रूहि कासिक्वैवं प्रयासि च ॥
तच् छ्रुत्वा तं वणिग्भार्या यावत् स्वोदन्तम् आह सा ।
तावत् तिलकितं प्राच्या मुखम् उद्भासितेन्दुना ॥
ततो दिक्षु प्रकाशासु स चौरस् तां वणिक्सुताम् ।
दृष्ट्वा धनवतीं कन्यां तन्मातरम् उवाच ताम् ॥
शृणु मे प्रार्थनाम् एकां सहस्रं काञ्चनस्य ते ।
ददामि तद् इमां मह्यं स्वसुतां देहि कन्यकाम् ॥
किम् एतया तवेत्य् उक्तो हसन्त्याथ तयात्र सः ।
पुनश् चौरो ऽब्रवीन् नास्ति पुत्रो मम गतायुषः ॥
न चा-पुत्रो ऽश्नते लोकांस् तद् एषा यं मदाज्ञया ।
कुत्रचिज् जनयेत् पुत्रं क्षेत्रजः स भवेन् मम ॥
इत्य् एतां प्रार्थये त्वं तु तद् विधत्स्व ममेप्सितम् ।
तच् छ्रुत्वा सा वणिग्योषिल् लोभात् तत् प्रत्यपद्यत ॥
आनीय च कुतो ऽप्य् अम्बु पाणौ चौरस्य तस्य सा ।
एषा सुता मया तुभ्यं कन्या दत्तेत्य् अपातयत् ॥
सो ऽपि तद्दुहितुर् दत्तयथोक्ताज्ञो जगाद ताम् ।
गच्छामुष्य वटस्याधः खात्वा स्वर्णं गृहाण तत् ॥
गतासोर् दाहयित्वा मे देहं युक्त्या विसृज्य च ।
अस्थीनि तीर्थे ससुता गच्छेर् वक्रोलकं पुरम् ॥
तत्र सूर्यप्रभे राज्ञि सौराज्यसुखिते जने ।
निःउपद्रवनिःचिन्ता स्थास्यसि त्वं यथेच्छसि ॥
इत्य् उक्त्वा तृषितः पीत्वा तयैवोपहृतं जलम् ।
शूलव्यधव्यथोत्क्रान्तजीवश् चौरो बभूव सः ॥
ततो गत्वा वणिक्स्त्री सा स्वर्णं वटतरोस् तलात् ।
गृहीत्वा ससुता गुप्तम् अगाद् भर्तृसुहृद्गृहम् ॥
तत्र स्थित्वा च युक्त्या तद् दाहयित्वा कलेवरम् ।
चौरस्य तस्य तीर्थे ऽस्थिक्षेपादिकम् अकारयत् ॥
अन्येद्युश् चात्तगुप्तार्था ततो निर्गत्य सात्मजा ।
प्रयान्ती क्रमशः प्राप सा तद् वक्रोलकं पुरम् ॥
तत्रैकं वसुदत्ताख्याद् गृहं क्रीत्वा वणिग्वरात् ।
तस्मिन्न् उवास सुतया धनवत्या तया सह ॥
तदा च तत्रोपाध्यायो विष्णुस्वामीत्य् अभूत् पुरे ।
मनःस्वामीति तस्यासीच् छिष्यो विप्रो ऽतिरूपवान् ॥
विध्याभिजनयुक्तो ऽपि स यौवनवशीकृतः ।
तत्र हंसावलीं नाम वाञ्छति स्म विलासिनीम् ॥
सा च सौवर्णदीनारशतपञ्चकम् अग्रहीत् ।
भाटिं तस्य च तन् नाभूद् व्यषीदत् तेन सो ऽन्वहम् ॥
एकदा च तम् अद्राक्षीत् तादृशं सा वणिक्सुता ।
क्षामाभिरामवपुषं धनवत्य् अत्र हर्म्यतः ॥
तद्रूपहृतचित्त च भर्तुश् चौरस्य तस्य सा ।
स्मृत्वानुज्ञां समीपस्थां युक्त्यावोचत् स्वमातरम् ॥
अम्ब विप्रसुतस्यास्य पश्यैते रूपयौवने ।
कीदृशे बत विश्वस्य नयनामृतवर्षिणी ॥
एतच् छ्रुत्वैव तस्मिंस् तां बद्धभावाम् अवेत्य च ॥
तन् माता सा वणिग्भार्या मनस्य् एवम् अचिन्तयत् ।
मद्दुहित्रानया तावद् वरणीयः सुताप्तये ।
कश्चिद् भर्त्राज्ञया तस्माद् एष एवार्थ्यते न किम् ॥
इत्य् आकलय्य व्यसृजत् तत् संदिश्य मनीषितम् ।
रहस्यधारिणीं चेटीं तम् आनेतुं सुताकृते ॥
सा गत्वा विजने नीत्वा चेटी तस्मै शशंस तत् ।
स च श्रुत्वा द्विजयुवा व्यसनी ताम् अभाषत ॥
यदि हंसावलीहेतोर् दीनारशतपञ्चकम् ।
सौवर्णं दीयते सह्यं तद् एकाम् एमि यामिनीम् ॥
इति तेनोक्तया चेट्या तया गत्वा तथैव सा ।
उक्ता वणिक्स्त्री तस्मै तत् तद्धस्ते प्राहिणोद् धनम् ॥
तद् गृहीत्वा मनःस्वामी तत्पुत्र्या वासकं ययौ ।
तस्याः स तन्निसृष्टाया धनवत्यः सचेटिकः ॥
तत्र तां विततोत्कण्ठां कान्तां भूषितभूतलाम् ।
स चकोर इव ज्योत्स्नां ददर्श च जहर्ष च ॥
तया समं च नीत्वा तां रात्रिं संभोगलीलया ।
निर्गत्य स ततो गुप्तं ययौ प्रातर् यथागतम् ॥
सापि तस्माद् धनवती सगर्भाभूद् वणिक्सुता ।
काले च सुषुवे पुत्रं लक्षणानुमितायतिम् ॥
परितुष्टां तदा तां च सुतोत्पत्त्या समातृकाम् ।
आदिदेश हरः स्वप्ने दर्शितस्ववपुर् निशि ॥
युक्तं हेमसहस्रेण नीत्वा बालम् उषस्य् अमुम् ।
सूर्यप्रभनृपस्येह मञ्चस्थं द्वारि मुञ्चतम् ॥
एवं स्यात् क्षेमम् इत्य् उक्ता शूलिना सा वणिक्सुता ।
तन्माता च प्रबुध्यैतं स्वप्नन्न् अन्योऽन्यम् ऊचतुः ॥
नीत्वा च तं तत्यजतुर् भगवत्प्रत्ययाच् छिशुम् ।
राज्ञः सूर्यप्रभस्यास्य सिंहद्वारे सहेमकम् ॥
तावच् च तम् अपि स्वप्ने सुतचिन्तातुरं सदा ।
तत्र सूर्यप्रभं भूपम् आदिदेश वृषध्वजः ॥
उत्तिष्ठ राजन् बालस् ते सिंहद्वारे सकाञ्चनः ।
केनापि स्थापितो भव्यो मञ्चकस्थं गृहाण तम् ॥
इत्य् उक्तः शंभुना प्रातः प्रबुद्धो ऽपि तथैव सः ।
द्वाःस्थैः प्रविश्य विज्ञप्तो निर्ययौ नृपतिः स्वयम् ॥
दृष्ट्वा च सिंहद्वारे तं बालं सकनकोत्करम् ।
रेखाछत्त्रध्वजाद्यङ्कपाणिपादं शुभाकृतिम् ॥
दत्तो ममोचितः पुत्रः शंभुनायम् इति ब्रुवन् ।
स्वयं गृहीत्वा बाहुभ्यां राजधानीं विवेश सः ॥
चकार चोत्सवं तावद् असंख्यातं ददद् वसु ।
दरिद्रशब्दस्यैकस्य यावद् आसीन् निःअर्थता ॥
नृत्तवाद्यादिभिर् नीत्वा द्वादशाहं ततः स तम् ।
पुत्रं चन्द्रप्रभं नाम्ना चक्रे सुर्यप्रभो नृपः ॥
ववृधे राजपुत्रो ऽत्र सो ऽथ चन्द्रप्रभः क्रमात् ।
वपुषेव गुणौघेनाप्य् आश्रितानन्ददायिना ॥
शनैर् युवा च संजञ्जे शौर्यौदार्यश्रुतादिभिः ।
आवर्जितप्रकृतिकः क्ष्माभारोद्वहनक्षमः ॥
तादृशं च ततो दृष्ट्वा तं स सूर्यप्रभः पिता ।
राजये ऽभिषिज्यैव कृती वृद्धो वाराणसीं ययौ ॥
पृथ्वीं शासति तस्मिंश् च तनये नयशालिन ।
स राजा तत्र तत्याज चरंस् तीव्रतपस् तनुम् ॥
बुद्ध्वा पितृविपत्तिं ताम् अनुशोच्य कृतक्रियः ।
सो ऽथ चन्द्रप्रभो राजा सचिवान् धार्मिको ऽब्रवीत् ॥
तातस्य तावत् केनाहम् अनृणो भवितुं क्षमः ।
तथाप्य् एकां स्वहस्तेन ददाम्य् एतस्य निष्कृतिम् ॥
नीत्वा क्षिपामि गङ्गायाम् अस्थीन्य् अस्य यथाविधि ।
गत्वा सर्वपितृह्यश् च गयां पिण्डं ददाम्य् अहम् ॥
प्रसङ्गात् तीर्थयात्रां च करोम्य् आपूर्वसागरम् ।
इत्य् उक्तवन्तं राजानं मन्त्रिणस् तं व्यजिज्ञपन् ॥
न देव युज्यते कर्तुम् एतद् राज्ञः कथम्चन ।
न हि राज्यं बहुछिद्रं क्षणं तिष्ठत्य् अरक्षितम् ॥
तद् एषा परहस्तेन कार्या ते पित्रुपक्रिया ।
स्वधर्मपालनाद् अन्या तीर्थयात्रा च का तव ॥
बह्वपायं क्व पान्थत्वां नित्यगुप्तआः क्व पार्थिवाः ।
इति मन्त्रिवचः श्रुत्वा राजा चन्द्रप्रभो ऽब्रवीत् ॥
अलं विकल्पैः पित्रर्थे गन्तव्यं निश्चितं मया ।
द्रष्टव्यानि च तीर्थानि यावन् मे क्षमते वयः ॥
पश्चा को वेत्ति किं भावि शरिरे क्षणनश्वरे ।
राज्यं चागमनं यावद् रक्ष्यं युष्माभिर् एव मे ॥
श्रुत्वैतं निश्चयं राज्ञस् तूष्णीम् आसत मन्त्रिणः ।
ततः प्रयणसंभारं सज्जीचक्रे स भूपतिः ॥
अथाह्नि स शुभे स्नातो हुताग्निः पूजितद्विजः ।
सुयुक्तं रथम् आस्थाय प्रयतः शान्तवेषभृत् ॥
सामन्तान् रजपुत्रांश् च पौराञ् जनपदान् अपि ।
निवर्त्यानिच्छतः कृच्छ्राद् आसीमान्तानुयायिनः ॥
ब्राह्मणैर् वाहनारूढैः समं स सपुरोहितः ।
प्रतस्थे सचिवन्यस्तराज्यश् चन्द्रप्रभो नृपः ॥
विचित्रवेषभाषादिविलोकनविनोदितः ।
पश्यन् नानाविधान् देशान् क्रमात् प्राप च जाह्नवीम् ॥
ददर्श ता च जन्तूनां जलकल्लोलपङ्क्तिभिः ।
त्रिदिवारोहसोपानपद्धतिं सृजतीम् इव ॥
हिमवत्प्रभवां शंभोः कृतक्रीडाकचग्रहाम् ।
बिभ्रतीं चाम्बिकालीलां देवर्षिगणवन्दिताम् ॥
रथावतीर्णस् तस्यां च कृतस्नानो यथाविधि ।
चिक्षेपास्थीनि भूपस्य तस्य सूर्यप्रभस्य सः ॥
दत्तदानः कृतश्राद्धो रथारूढस् ततो ऽपि च ।
प्रस्थितः क्रमशः प्राप प्रयागम् ऋषिसंस्तुतम् ॥
यत्रार्चिःआद्यधूमादिम् आग्राव् इव समागतौ ।
गङ्गायमुनयोर् वाहौ भातः सुगतये नृणाम् ॥
तत्रोपोष्य कृतस्नानदानश्राद्धादिसत्कृइयः ।
वाराणसीं जगामाथ स चन्द्रप्रभभूपतिः ॥
एत मोक्षं प्रयातेति वदन्ताम् इव दूरतः ।
वाताक्षिप्तसमुत्क्षिप्तैः सुरसद्मध्वजांशुकैः ॥
तस्यां दिनान्य् उपोष्य त्रीण्य् अभ्यर्च्याथ वृषध्वजम् ।
भोगैर् निजोचितैस् तैस् तैः प्रययौ स गयां प्रति ॥
ततः फलौघनमितैर् मञ्जुगुञ्जद्विहंगमैः ।
पदे पदे सप्रणामं स्तूयमान इवाङ्घ्रिपैः ॥
विक्षिप्तवन्यकुसुमैर् अर्च्यमान इवानिलैः ।
नानारण्यान्य् अतिक्रम्य पुण्यं प्राप गयाशिरः ॥
विधाय तत्र च श्राद्धं विधिवद् भूरिदक्षिणम् ।
चन्द्रप्रभः स राजात्र धर्मारण्यम् उपेयिवान् ॥
गयाकूपे ऽस्य ददतः पितुः पिण्डं तदन्तरात् ।
समुत्तस्थुस् तम् आदातुं त्रयो मानुषपणयः ॥
तद् दृष्ट्वैव स विभ्रान्तः किम् एतद् इति पार्थवः ।
कस्मिन् हस्ते क्षिपे पिण्डम् इत्य् अपृच्छन् निजान् द्विजान् ॥
ते तम् ऊचुर् अयं तावद् एकश् चौरस्य निश्चतम् ।
हस्तो लोहमयः शङ्कुर् यस्मिन् देवैषो दृश्यते ॥
द्वितीयो ब्राह्मणस्यायं करो धृतपवित्रकः ।
राज्ञः पाणिस् तृतीयो ऽयं साङ्गुलीयः सुलक्षणः ॥
तन् न विद्मः क्व पिण्डो ऽयं निक्षेप्यः किम् इदं भवेत् ।
इत्य् उक्तस् तैर् द्विजैः सो ऽत्र राजा लेभे न निश्चयम् ॥
इत्य् आख्याय कथाश्चर्यं वेतालो ऽंसस्थितस् तदा ।
स त्रिविक्रमसेनं तं जगाद नृपतिं पुनः ॥
तत् कस्य हस्ते देयः स्यात् स पिण्ड इति वक्तु मे ।
भवांस् तावत् स एवात्र प्राक्तनः समयश् च ते ॥
इति वेतालतः श्रुत्वा मुक्तमौनः स भूपतिः ।
तं त्रिविक्रमसेनो ऽत्र धर्मज्ञः प्रत्यभाषत ॥
चौरस्य हस्ते दातव्यः स पिण्डः क्षेत्रजो यतः ।
चन्द्रप्रबः स नृपतिः पुत्रस् तस्यैव नान्ययोः ॥
विप्रस्य जनकस्यापि स हि पुत्रो न बुध्यते ।
विक्रीतो हि धनेनात्मा ताम् एकां तेन यामिनीम् ॥
राज्ञः सूरप्रबस्यापि संस्कारादानवर्धनैः ।
भवेत् स पुत्रो न स्याच् चेत् स्वधनं तस्य तत्कृते ॥
शिशोस् तस्य हि शीर्षान्ते मञ्चस्थस्यैव हेम यत् ।
न्यस्तम् आसीत् तद् एवास्य मूल्यं संवर्धनादिके ॥
तस्माद् धस्तोदकप्राप्ता तन्माता यस्य येन सा ।
अज्ञा तज्जनने दत्ता यस्य तन् निखिलं धनम् ॥
तस्य स क्षेत्रजः पुतश् चौरस्यैव महीपतिः ।
पिण्डस् तस्यैव हस्ते च देयस् तेनेति मे मतिः ॥
इत्य् उक्त्वतो नृपतेस् तस्यांसात् स्वपदम् एव वेतालः ।
प्रययौ स च त्रिविक्रमसेनो राजा तम् अन्वयाद् भूयः ॥
मूल पाठ: Kathāsaritsāgara, Vetālapañcaviṃśatikā · Data entry Elena Artesani · GRETIL (Göttingen) · CC BY-NC-SA 4.0