भाषा

ENहिગુ
ग्रंथ पाठ

कथासरित्सागर, वेतालपञ्चविंशतिका · अध्याय 12.25

12.25.1

ततः पितृवने तस्मिन् क्रव्यभक्षिभिर् आवृते ।
ज्वालाविलोलरसनैर् भूतैर् इव चिताग्निभिः ॥

12.25.2

गत्वैव तस्याम् अक्षोभ्यः क्षपायां शिंशपातरुम् ।
स त्रिविक्रमसेनस् तम् आससाद पुनर् नृपः ॥

12.25.3

तत्रापश्यच् च वेतालविकृतान् सदृशाकृतीन् ।
उल्लम्बमानान् सुबहून् प्रेतकायान् अशङ्कितम् ॥

12.25.4

अहो किम् एतत् किं वान्यन् मायी कालं क्षिपत्य् अयम् ।
वेतालो मे न वेद्म्य् एषां ग्राह्यं येनेह भूयषाम् ॥

12.25.5

असिद्धार्थस्य चेद् रात्रिर् इयं मम गमिष्यति ।
ततो वह्निं प्रवेक्ष्यामि न सहिष्ये तु हास्यताम् ॥

12.25.6

इति चिन्तयतस् तस्य राज्ञो विज्ञाय निश्चयम् ।
सत्त्वतुष्टः स वेतालः स्वमायां संजहार ताम् ॥

12.25.7

ततो दृष्ट्वैकम् एवात्र वेतालं नृकलेवरे ।
अवतीर्य गृहीत्वांसे स प्रतस्थे पुनर् नृपः ॥

12.25.8

प्रक्रामन्तं च तं भूयः स वेतालो ऽभ्यभाषत ।
राजन् नोद्विजसे चित्रं तद् इमां मे कथां सृणु ॥

12.25.9

अस्ति गौरीतपःक्लेशवृतेन त्रिपुरारिणा ।
असामान्यगुणोत्कर्षलुब्धेनेव स्वयम्वृता ॥

12.25.10

भोगवत्यमरावत्योस् तृतीयोज्जयिनी पुरी ।
उदारसुकृतप्राप्यनानाभोगोपबृंहिता ॥

12.25.11

यस्यां स्तब्धत्वकार्कश्ये कुचेषु वरयोषिताम् ।
तासाम् एव भ्रुवोर् भङ्गो लोचनेषु च चापलम् ॥

12.25.12

तमो निशासु वक्रत्वं यस्यां कविवरोक्तिषु ।
मदो दन्तिषु जाड्यं च मुक्तामलयजेन्दुषु ॥

12.25.13

तस्यां चन्द्रप्रभाख्यस्य राज्ञो ऽमात्यो बहुश्रुतः ।
देवस्वामीत्य् अभूद् विप्रो भूरियज्ञो महाधनः ॥

12.25.14

तस्य कालेन तनयश् चन्द्रस्वामीत्य् अजायत ।
सो ऽधीतविद्यो ऽपि युवा द्यूतैकव्यसनो ऽभवत् ॥

12.25.15

एकदा च द्विजसुतश् चन्द्रस्वामी स कांचन ।
द्यूतकारमहाठिण्ठां द्यूतेन क्रीडितुं ययौ ॥

12.25.16

आश्लिष्यामः कम् अत्रेति विपद्भिर् इव वीक्षितुम् ।
विक्षिप्तैः कृष्णशाराभैर् नेत्रैर् अक्षैर् निरन्तराम् ॥

12.25.17

कः सो ऽस्ति न श्रियं यस्य हराम्य् अप्य् अलकापतेः ।
इतीव तन्वतीं नादान् द्यूतकृत्कलहस्वनैः ॥

12.25.18

तां प्रविश्य क्रमाद् दीव्यन्न् अक्षैः स कितवैः सह ।
वस्त्रादि हारयित्वापि धनम् अन्यद् अहारयत् ॥

12.25.19

मृग्यमाणं च यन् नादात् स तद् धनम् असंभवि ।
तद् अवष्टभ्य सभ्येन लगुडैः पर्यताड्यत ॥

12.25.20

लगुडाहतसर्वाङ्गः पाषाणम् इव निःचलम् ।
कृत्वा मृतम् इवात्मानं तस्थौ विप्रसुतो ऽथ सः ॥

12.25.21

तथैव दिवसान् द्वित्रांस् तत्र तस्मिन्न् अवस्थिते ।
क्रुद्धः स सभ्यष् ठिण्ठायां कितवान् स्वान् अभाषत ॥

12.25.22

श्रितानेनाश्मता तावत् तद् एतं क्षिपत क्वचित् ।
नीत्वान्धकूपे निःसत्त्वं धनं दास्याम्य् अहं तु वः ॥

12.25.23

इत्य् उक्तास् तेन कितवास् तं चन्द्रस्वामिनं ततः ।
अरण्यं निन्युर् उत्क्षिप्य दूरं कूपगवेषिणः ॥

12.25.24

तत्रैको वृद्धकितवस् तान् अन्यान् एवम् अभ्यधात् ।
मृतो ऽयं प्रायशस् तत् किं कूपे क्षिप्तेन नो ऽमुना ॥

12.25.25

तद् इहैवैनम् उज्झित्वा वक्ष्यामः कूप उज्झितम् ।
इति ते तद्वचः सर्वे तथेति प्रतिपेदिरे ॥

12.25.26

ततस् त्यक्त्वा गतेष्व् एषु कितवेषु स उत्थितः ।
चन्द्रस्वामी विवेशात्र शून्यम् एकं शिवालयम् ॥

12.25.27

तत्र किम्चित् समाश्वस्य चिन्तयामास दुःखितः ।
विश्वस्तो मायया कष्टं मुषितः कितवैर् अहम् ॥

12.25.28

तद् ईदृशः क्व गच्छामि नाग्नोपहतपांशुलः ।
पिता बन्धुः सुहृद् वापि दृष्ट्वा किं हि वदेन् मम ॥

12.25.29

तत् संप्रति स्थितो ऽस्मीह नक्तं च क्षुत्प्रशान्तये ।
पश्यामि निर्गत्य कथं यतिष्ये भोजनं प्रति ॥

12.25.30

इत्य् आलोचयतस् तस्य क्लान्तस्यानम्बरस्य च ।
मन्दीकृतातपो ऽस्ताद्रिं रविस् त्यक्ताम्बरो ययौ ॥

12.25.31

तावच् च भूतिदिग्धाङ्गस् तत्रायाति स्म तापसः ।
महाव्रती जटाशूलधरो हर इवापरः ॥

12.25.32

स चन्द्रस्वामिनं दृष्ट्वा को ऽसीति परिपृच्छ्य च ।
स्रुत्वा तस्माच् च वृत्तान्तं प्रह्वं तं तापसो ऽब्रवीत् ॥

12.25.33

त्वं ममेहाश्रमं प्राप्तः क्षुत्क्लान्तो ऽचिन्तितो ऽतिथिः ।
तद् उत्तिष्ठ कृतस्नानो भिक्षाभागं ममाहर ॥

12.25.34

इत्य् उक्तो व्रतिना सो ऽथ चन्द्रस्वामी जगाद तम् ।
विप्रो ऽहं भगवन् भोक्ष्ये भिक्षाभागं कथं तव ॥

12.25.35

तच् छ्रुत्वा स व्रती सिद्धः प्रविश्य मठिकां निजाम् ।
इष्टसंपादिनीं विद्यां सस्मारातिथिवल्लभः ॥

12.25.36

संस्मृतोपस्थितां तां च किं करोमीति वादिनीम् ।
अमुष्यातिथ्यम् अतिथेः कुरुष्वेति शशास ताम् ॥

12.25.37

तथेत्य् उक्ते तया तत्र सोद्यानं साङ्गनाजनम् ।
पुरं सौवर्णम् उत्पन्नं चन्द्रस्वामी ददर्श सः ॥

12.25.38

विस्मितं च तम् अभ्येत्य तस्माद् वाराङ्गनाः पुरात् ।
ऊचुर् उत्तिष्ठ भद्रैहि स्नाहि भुङ्क्ष्व त्यज श्रमम् ॥

12.25.39

इत्य् उक्त्वाभ्यन्तरं नीत्वा स्नापयित्वानुलिप्य च ।
ताभिः स दत्तसद्वस्त्रो निन्ये ऽन्यद् वासकोत्तमम् ॥

12.25.40

तत्रान्तः स ददर्शैकां प्रधानयुवतिं युवा ।
सर्वाङ्गसुन्दरीं धात्रा कौतुकाद् इव निर्मिताम् ॥

12.25.41

तया स सोत्कयोत्थाय स्वासनार्धोपवेशितः ।
बुभुजे दिव्यम् आहारं तयैवात्र समं ततः ॥

12.25.42

भुक्तपक्वफलस्वादुताम्बूलः स्वरसेन च ।
पर्यङ्कशयने भेजे तत्संभोगसुखं निशि ॥

12.25.43

प्रातः प्रबुद्धश् चापश्यत् तद् एवात्र शिवायलम् ।
नापि दिव्याङ्गनां नापि पुरं तन् न परिच्छदम् ॥

12.25.44

ततः स विग्नो निर्यातं मठिकातः स्मिताननम् ।
पृष्टरात्रिसुखं प्रातस् तापसं तं व्यजिज्ञपत् ॥

12.25.45

तत्प्रसादाद् अहं रात्राव् उषितो भगवन् सुखम् ।
किं तु यास्यन्ति मे प्राणास् तया दिव्यस्त्रिया विना ॥

12.25.46

तच् छ्रुत्वा स तपस्वी तं हसन् कारुणिको ऽब्रवीत् ।
इहैवास्स्व पुनर् नक्तं भविष्यति तथैव ते ॥

12.25.47

इत्य् उक्ते व्रतिना तेन तद्युक्त्यैव प्रतिक्षपम् ।
चन्द्रस्वाम्य् अत्र सो ऽभुङ्क्त भोगांस् तांस् तत्प्रसादतः ॥

12.25.48

बुद्ध्वा च तं शनैर् विद्याप्रभावं विधिचोदितः ।
एकदा तापसेन्द्रं तं स प्रसाद्यान्वयाचत ॥

12.25.49

सत्यं कृपा चेद् भगवन् मयि ते शरणागते ।
तद् एतां देहि मे विद्यां यत्प्रभावो ऽयम् ईदृशः ॥

12.25.50

इति ब्रुवाणं निर्बन्धात् तं प्रत्याह स तापसः ।
असाध्या तव विद्येयं साध्यते ऽन्तर्जले ह्य् असौ ॥

12.25.51

तत्र चैषा सृजत्य् आशु जपतः साधकस्य तत् ।
मायाजालं विमोहाय येन सिद्धिं न सो ऽश्नुते ॥

12.25.52

स हि तत्र पुनर् जातं बालम् आत्मानम् ईक्षते ।
ततो युवानम् उद्व्यूढदारं जातात्मजं तथा ॥

12.25.53

सुहृन् मे ऽयम् अयं शत्रुर् इति मिथ्या स मुह्यति ।
न च स्मरति जन्मेदं न विद्यासाधने क्रियाम् ॥

12.25.54

यस् तु त्रिःअष्टवर्षः सन् गुरुविद्याप्रबोधितः ।
जन्म स्मृत्वा विदित्वा तद् धीरो मायाविजृम्भितम् ॥

12.25.55

तद्वशो ऽप्य् अत्र कुरुते तथैवाग्निप्रवेशनम् ।
परमार्थं जलोत्तीर्णः सिद्धविद्यः स पश्यति ॥

12.25.56

अन्यस्य न परं विद्या शिष्यस्यैषा हि सिध्यति ।
अस्थानार्पणतो यावद् गुरोर् अपि विनश्यति ॥

12.25.57

मत्सिद्ध्यैव फले सिद्धे किं ग्रहेणामुना तव ।
मत्सिद्धिहान्या मा जातु तवैतद् अपि नङ्क्ष्यति ॥

12.25.58

एवं तपस्विनोक्ते ऽपि चन्द्रस्वामी ग्रहेण सः ।
शिक्ष्यामि सर्वं मा भूद् वश् चिन्तात्रेति तम् अब्रवीत् ॥

12.25.59

ततो ऽस्मै प्रतिपेदे तां विद्यां दातुं स तापसः ।
बताश्रितानुरोधेन किं न कुर्वन्ति साधवः ॥

12.25.60

ततो नीत्वा नदीतीरं स तं स्माह महाव्रती ।
वत्स विद्यां जपन् मायां यदि द्रक्ष्यसि तां तदा ॥

12.25.61

मायाग्निम् एव प्रविशेर् विध्यया बोधितो मया ।
अहं च तावत् स्थास्यामि तवेहैव नदीतटे ॥

12.25.62

इत्य् उक्त्वाध्यापयामास तम् आचान्तं शुचिं शुचिः ।
स चन्द्रस्वामिनं विद्यां सम्यक् तां व्रतिनां वरः ॥

12.25.63

ततस् तीरे स्थिते तस्मिन् गुरौ मूर्ध्ना प्रणम्य तम् ।
चन्द्रस्वामी स रभसान् नदीम् अवततार ताम् ॥

12.25.64

तस्याम् अन्तःजले विद्यां तां जपन् सहसैव सः ।
तन्मायामोहितो मिथ्या सर्वं विस्मृत्य जन्म तत् ॥

12.25.65

वीक्षते यावद् अन्यस्याम् उत्पन्नः स्वात्मना पुरि ।
पुत्रो विप्रस्य कस्यापि बुद्धिं स शनकैर् गतः ॥

12.25.66

कृतोपनयनो ऽधीतविद्यो दारान् अवाप्य च ।
तद्दुःखसुखसंमूढः संपूर्णो ऽपत्यवान् क्रमात् ॥

12.25.67

ततश् चात्र सुतस्नेहस्वीकृतस् तत् तद् आचरत् ।
स्थितो बद्धरतिः सार्धं पितृभ्यां बन्धुभिस् तथा ॥

12.25.68

एवं जन्मान्तरं मिथ्या तस्यानुभवतो ऽत्र सः ।
काले प्रबोधिनीं विद्यां गुरुः प्रायुङ्क्त तापसः ॥

12.25.69

स तद्विद्याप्रयोगेण सद्यस् तेन प्रबोधितः ।
स्मृत्वात्मानं गुरुं तं च मायाजालम् अवेत्य तत् ॥

12.25.70

उद्यतो ऽग्निप्रवेशाय दिव्यासाध्यफलाप्तये ।
पर्यवारि निषेधद्भिर् वृद्धाप्तगुरुबन्धुभिः ॥

12.25.71

बहुधा बोध्यमानो ऽपि तैर् दिव्यसुखलोलुपः ।
स सज्जितचितं प्रायान् नदीतीरं सबान्धवः ॥

12.25.72

दृष्ट्वात्र वृद्धौ पितरौ भार्यां च मरणोद्यताम् ।
क्रन्दन्ति बालापत्यानि सो ऽथ मोहाद् अचिन्तयत् ॥

12.25.73

कष्टं म्रियन्ते स्वजनाः सर्वे मे विशतो ऽनलम् ।
न च जानामि किं सत्यं गुरोस् तद् वचनं न वा ॥

12.25.74

तत् किं नु प्रविशाम्य् अग्निम् उत न प्रविशामि किम् ।
अथवा तत् कथं मिथ्या स्यात् संवादि गुरोर् वचः ॥

12.25.75

तद् विशाम्य् अनलं कामम् इत्य् अन्तः प्रविमृश्य सः ।
अग्निप्रवेशं विदधे चन्द्रस्वामी किल द्विजः ॥

12.25.76

अनुभूतहिमस्पर्शो वह्नेश् च स सविस्मयः ।
शान्तमायो नदीतीराद् उत्थायोपययौ तटम् ॥

12.25.77

तत्र स्थितं च दृष्ट्वा तं गुरुं नत्वा च पादयोः ।
पृच्छन्तं चाग्निशैत्यान्तं स्वम् उदन्तम् अबोधयत् ॥

12.25.78

ततस् तं स गुरुः प्राह वत्स शङ्के कृतस् त्वया ।
अपचारो ऽत्र शीतस् ते कथं जातो ऽग्निर् अन्यथा ॥

12.25.79

अदृष्टम् एतद् एतस्या विद्यायाः साधने यतः ।
एतद् गुरोर् वचः श्रुत्वा चन्द्रस्वामी जगाद सः ॥

12.25.80

नापचारो मया कःचिद् विहितो भगवन्न् इति ।
ततः स तद्गुरुर् विद्यां जिज्ञासुस् तां समस्मरत् ॥

12.25.81

न च साविःअभूत् तस्य न तच्छिष्यस्य तस्य वा ।
नष्टविद्याव् अथोभौ तौ विषण्णौ जग्मतुस् ततः ॥

12.25.82

इत्य् आख्याय कथाम् अथ वेतालः पृष्टवान् स तं भूयः ।
पृथ्वीपतिं त्रिविक्रमसेनं समयं निगद्य पूर्वोक्तम् ॥

12.25.83

राजन् संशयम् एतं छिन्द्धि मम ब्रूहि हेतुना केन ।
विहिते ऽपि यथोद्दिष्टे कर्मणि विद्योभयोस् तयोर् नष्टा ॥

12.25.84

एतत् स वेतालवचो निशम्य तं प्रत्यवोचन् मनुजेन्द्रवीरः ।
जाने भवान् मे क्षिपतीह कालं योगेश्वरैवं तद् अपि ब्रवीमि ॥

12.25.85

न दुष्करेणापि हि कर्मणैव शुद्धेन सिद्धिः पुरुषस्य लभ्या ।
यावन् न निष्क्रम्य विकल्पशुद्धं धीरं मनो निर्मलसत्त्ववृत्ति ॥

12.25.86

तस्यात्र मन्दस्य तु विप्रयूनश् चित्तं प्रबुध्यापि विकल्पते स्म ।
विद्या न सा तेन गतास्य सिद्धिर् अस्थानदानाच् च गुरोर् विनष्टा ॥

12.25.87

इति तस्य नृपस्य सृष्टवाचो बत वेतालवरो ऽंसतः स भूयः ।
निजम् एव पदं ययाव् अलक्ष्यो नृपतिस् तं तथैव सो ऽन्वयासीत् ॥

मूल पाठ: Kathāsaritsāgara, Vetālapañcaviṃśatikā · Data entry Elena Artesani · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc