कथासरित्सागर, वेतालपञ्चविंशतिका · अध्याय 12.24
ततो गत्वा पुनस् तस्मात् स राजा शिंशपातरोः ।
तं त्रिविक्रमसेनो ऽंसे वीरो वेतालम् अग्रहीत् ॥
प्रस्थितं च ततस् तं स वेतालः स्कन्धतो ऽब्रवीत् ।
राजञ् श्रमविनोदाय शृण्व् एतां वच्मि ते कथाम् ॥
अखण्डधर्ममर्यादं गङ्गाकूले कृतास्पदम् ।
कलेर् अगम्यं कनकपुरं नाम्नाभवत् पुरम् ॥
तस्मिन् यशोधनाख्यो ऽभूद् अन्वर्थो वसुधाधिपः ।
ररक्ष विप्लवाम्भःधेर् यो वेलाद्रिर् इव क्षितिम् ॥
जगादाह्लादकश् चण्डप्रतापो ऽखण्डमण्डलः ।
विधिना यश् च चन्द्रार्काव् एकीकृत्येव निर्ममे ॥
मौर्ख्यं परपरीवादे न शास्त्रार्थे दरिद्रता ।
दोषे न कोषदण्डाभ्यां यस्यासीच् च महीपतेः ॥
पापभीरुर् यशःलुब्धः षण्ढः परपुरंध्रिषु ।
यः शौर्यौदार्यशृङ्गारमयो जनतया जगे ॥
तस्य राज्ञः पुरे तस्मिन्न् अभूद् एको महावणिक् ।
उन्मादिनीति ख्याता च कन्या तस्याभवत् सुता ॥
यो यस् तां हि ददर्शात्र स स तद्रूपसंपदा ।
उन्माद्यति स्म मदनस्यापि मोहनशक्तया ॥
तस्यां च यौवनस्थायां स गत्वा तत्पिता वणिक् ।
यशोधनं तं राजानं नीतिवेदी व्यजिज्ञपत् ॥
त्रैलोक्यरत्नभूता मे प्रदेयास्ति सुता प्रभो ।
ताम् अनावेद्य देवस्य नान्यस्मै दातुम् उत्सहे ॥
देवो ऽपि सर्वरत्नानां प्रभुः कृत्स्ने ऽपि भूतले ।
तत्स्वीकृत्यानुगृह्णातु देवस् तां प्रतिमुच्य वा ॥
इत्य् आकर्ण्य वणिग्वाक्यं स राजा ब्राह्मणान् निजान् ।
सादरं व्यसृजत् तस्याः सौलक्षण्यम् अवेक्षितुम् ॥
ते गत्वा ब्राह्मणा दृष्ट्वा तां त्रैलोक्यैकसुन्दरीम् ।
सद्यः क्षोभं ययुः क्षिप्राल् लब्ध्वा धैर्यम् अचिन्तयन् ॥
इमां प्राप्नोति चेद् राजा तद् राष्ट्रम् अवसीदति ।
एतन्मोहितचित्तो हि किं स राज्यम् अवेक्षते ॥
तस्मात् सुलक्षणेत्य् एषा नाख्येया क्षितिपाय नः ।
इत्य् एव मन्त्रं संमन्त्र्य राज्ञस् ते जग्मुर् अन्तिकम् ॥
कुलक्षणा सा देवेति तम् ऊचुश् चात्र ते मृषा ।
तेन राजा स नैवैतां स्वीचकार वणिक्सुताम् ॥
ततस् तदाज्ञया तां स कन्याम् उन्मादिनीं पिता ।
वणिग् बलधराख्याय तत् सेनापतये ददौ ॥
अथ सा तद्गृहे तस्थौ भर्त्रा तेन समं सुखम् ।
कुलक्षणेत्य् अहं रज्ञा त्यक्तेत्य् आत्तविमानना ॥
याति काले च जात्व् अत्र हत्वा हेमन्तहस्तिनम् ।
फुल्लकुन्दलतादन्तं मथिताम्बुजिनीवनम् ॥
आजगाम लसत्पुष्पमञ्जरीकेसरावलिः ।
चूताङ्कुरनखः क्रीदन् कानने मधुकेसरी ॥
तत् कालं चात्र नगरे तं वसन्तमहोत्सवम् ।
स राजा निर्ययौ द्रष्टुं गजारूढो यशोधनः ॥
तद्रूपालोकसंभाव्यविप्लवाः कुलयोषितः ।
अपसारयितुं दत्तं तदा चोद्घोषडिण्डिमम् ॥
सा श्रुत्वोन्मादिनी तस्मै राज्ञे स्वगृहहर्म्यतः ।
आत्मानं दर्शयामास परित्यागावमानतः ॥
स च तां चक्षुभे दृष्ट्वा राजा ज्वालाम् इवोद्गताम् ।
संधुक्षितस्य कामाग्नेर् मधुना मलयानिलैः ॥
निर्वर्णयंश् च तद्रूपं जैत्रम् अस्त्रं मनःभुवः ।
गाढं प्रविष्टं हृदये क्षणान् मोहम् उपाययौ ॥
भृत्यैर् आश्वासितश् चात्र राजधानीं प्रविश्य सः ।
पृष्टेभ्यो बुबुधे तेभ्यस् तां प्रागुपनतोज्झिताम् ॥
ततो निर्वास्य देशात् तांस् तत्कुलक्षणवादिनः ।
विप्रान् अनुदिनं दध्यौ ताम् एवोत्कः स भूपतिः ॥
अहो जडात्मा निःलज्जश् चन्द्रो नित्यम् उदेति यत् ।
जगन्नेत्रोत्सवे तस्या निःकलङ्के मुखे सति ॥
कठोरौ हेमकलशौ गजकुम्भौ च कर्कशौ ।
लभेते नोपमाम् अस्याः स्तनयोः पीनतुङ्गयोः ॥
काञ्चीनक्षत्रमालाङ्कं तत् तस्या जघनस्थलम् ।
कं न कंदर्पमातङ्गमस्तकाभं विलोभयेत् ॥
इति तां चिन्तयन्न् अन्तः क्षीयते स्म दिने दिने ।
कामाग्निपुटपाकेन पच्यमानः स भूपतिः ॥
ह्रिया निगूहमानश् च पृच्छद्भ्यो बाह्यलक्षणैः ।
कृच्छ्राच् छशंस चाप्तेभ्यः स्वपीडाकारणं स तत् ॥
अलं संतप्य भजसे स्वाधीनां तर्हि किं न ताम् ।
इत्य् उक्तस् तैश् च नैवैतद् अनुमेने स धार्मिकः ॥
ततो बलधरो बुद्ध्वा स सेनापतिर् एत्य तम् ।
प्रभुम् अभ्यर्थयामास सद्भक्तश् चरणानतः ॥
दासस्त्री तव दास्य् एव सा देव न पराङ्गना ।
स्वयं चाहं प्रयच्छामि तद् भार्यां स्वीकुरुष्व मे ॥
अथवा तां त्यजामीह देव देवकुले ततः ।
न दोषो ग्रहणे तस्यास् तव देवकुलस्त्रियः ॥
इति स्वसेनापतिना निर्बन्धेन स पार्थिवः ।
तेनानुनाथ्यमानो ऽपि सान्तःकोपम् उवाच तम् ॥
राजा भूत्वा कथं कुर्याम् अधर्मम् अहम् ईदृशम् ।
मय्य् उल्लङ्घितमर्यादे को हि तिष्ठेत् स्ववर्त्मनि ॥
भक्तो ऽपि च भवान् पापे नियोजयति मां कथम् ।
परलोकमहादुःखहेतौ क्षणसुखावहे ॥
न क्षमिष्ये च ते धर्म्यान् दारान् यदि विहास्यसि ।
सहते मादृशः को हि तादृशं धर्मविप्लवम् ॥
तद् वरं मृत्युर् इत्य् उक्त्वा स राजा निषिषेध तम् ।
त्यजन्त्य् उत्तमसत्त्वा हि प्राणान् अपि न सत्पथम् ॥
तथैवार्थयमानांश् च पौरजानपदान् अपि ।
मिलितान् स निराचक्रे राजा सुदृढनिश्चयः ॥
ततः क्रमेण तेनैव स्मरज्वरभरोष्मणा ।
प्रक्षीणदेहः प्रययौ स यशःशेषतां नृपः ॥
सेनापतिश् चा-सहिष्णुस् तं तथा प्रमयं प्रभोः ।
सो ऽग्निं विवेश भक्तानाम् अनिर्वाच्यं हि चेष्टितम् ॥
इत्य् आख्यातकथाश्चर्यो वेतालो ऽंसस्थितस् तदा ।
स त्रिविक्रमसेनं तं भूयः पप्रच्छ पार्थिवम् ॥
तद् एतयोः को नृपतेः सेनापतिमहीभृतोः ।
सत्त्वेनाभ्यधिको ब्रूहि पूर्वोक्तः समयश् च ते ॥
इति वेतालतः श्रुत्वा मुक्तमौनः स तं नृपः ।
प्रत्युवाच द्वयोर् राजा सत्त्ववान् अधिकस् तयोः ॥
तद् आकर्ण्यैव वेतालः साक्षेपस् तम् अभाषत ।
सेनापतिः कथं नात्र राजन्न् अभ्यधिको वद ॥
यस् तथा स्वामिने भक्त्या स्वभार्यां तां तथाविधाम् ।
सुचिरज्ञाततद्भोगसुखास्वादो ऽप्य् उपानयत् ॥
आत्मानं चाग्निसाच् चक्रे तस्मिन् पञ्चत्वम् आगते ।
अनास्वादिततद्भोगस् तत्कान्तां तु जहौ नृपः ॥
वेतालेनैवम् उक्तस् तु विहस्य स नृपो ऽब्रवीत् ।
यद्य् अप्य् एवं तथाप्य् एतत् किं चित्रं कुलपुत्रकः ॥
सेनापतिः स भक्त्या यत् स्वाम्यर्थे तत् तथाकरोत् ।
प्राणैर् अपि हि भृत्यानां स्वामिसंरक्षणं व्रतम् ॥
राजानस् तु मदाध्माता गजा इव निःअङ्कुशाः ।
छिन्दन्ति धर्ममर्यादाशृङ्खलां विषयोन्मुखाः ॥
तेषां ह्य् उद्रिक्तचित्तानाम् अभिषेकाम्बुभिः समम् ।
विवेको विगलत्य् ओघेनोह्यमान इवाखिलः ॥
क्षिप्यन्त इव चोद्धूय चलच्चामरमारुतैः ।
वृद्धोपदिष्टशास्त्रार्थरजोमशकमक्षिकाः ॥
आतपत्रेण सत्यं च सूर्यालोको निवार्यते ।
विभूतिवात्योपहता दृष्टिर् मार्गं च नेक्षते ॥
ते ते च विपदं प्राप्ता मारमोहितचेतसः ।
जगद्विजयिनो ऽपीह राजानो नहुषादयः ॥
एषो राजा पुनः पृथ्व्याम् एकछत्रो ऽपि यत् तया ।
उन्मदिन्या चपलया लक्ष्म्येव न विमोहितः ॥
प्राणान् अपि स धर्मात्मा तत्याज न पुनः पदम् ।
अमार्गे निदधे धीरस् तेनासौ मे ऽधिको मतः ॥
इत्य् आकर्ण्य नृपस्य तस्य वचनं भूयस् तदंसस्थलाद् वतालः सहसा स्वम् एव स पदं मायाप्रभावाद् ययौ ।
राजाप्य् अन्वसरत् तथैव स पुनः संप्राप्तुम् एतं जवाद् आरब्धे हि सुदुःकरे ऽपि महतां मध्ये विरामः कुतः ॥
मूल पाठ: Kathāsaritsāgara, Vetālapañcaviṃśatikā · Data entry Elena Artesani · GRETIL (Göttingen) · CC BY-NC-SA 4.0