कथासरित्सागर, वेतालपञ्चविंशतिका · अध्याय 12.23
अथ गत्वा पुनः स्कन्धे वेतालं शिंशपाद्रुमात् ।
स त्रिविक्रमसेनस् तम् आदायोदचलत् ततः ॥
आगच्छन्तं च तं भूपं स वेतालो ऽब्रवीत् पुनः ।
राजञ् शृणु कथाम् एकाम् उदारां कथयामि ते ॥
अस्तीह हिमवान् नाम नगेन्द्रः सर्वरत्नभूः ।
यो गौरीगङ्गयोस् तुल्यः प्रभवो हरकान्तयोः ॥
शूरा-संस्पृष्टस्पृष्ठश् च यो मध्ये कुलभूभृताम् ।
अभिमानोन्नतः सत्यं गीयते भुवनत्रये ॥
तस्यास्ति सानुन्य् अन्वर्थं तत् काञ्चनपुरं पुरम् ।
न्यासीकृतम् इवार्केण रश्मिवृन्दं विभाति यत् ॥
जीमूतकेतुर् इत्य् आसीत् तस्मिन् पुरवरे पुरा ।
विद्याधरेश्वरः श्रीमान् मेराव् इव शतक्रतुः ॥
तस्यासीत् स्वगृहोद्याने कल्पवृक्षो ऽन्वयागतः ।
यथार्थनामा प्रथितो यो मनःरथदायकः ॥
तं प्रार्थ्य देवतात्मानं स राजा तत् प्रसादतः ।
प्राप जातिस्मरं पुत्रं बोधिसत्त्वांशसंभवम् ॥
दानवीरं महासत्त्वं सर्वभूतानुकम्पिनम् ।
गुरुशुश्रूषणपरं नाम्ना जीमूतवाहनम् ॥
संप्राप्तयौवनं तं च यौवराज्ये ऽभिषिक्तवान् ।
तनयं प्रेरितः सद्भिस् तद्गुणैः सचिवैश् च सः ॥
यौवराज्यस्थितश् चैषो जातु जीमूतवाहनः ।
हितैषिभिर् उपागत्य जगदे पितृमन्त्रिभिः ॥
देव कल्पतरुर् यो ऽयम् अस्ति वः सर्वकामदः ।
अधृष्यः सर्वभूतानां सैष पूज्यः सदा तव ॥
नास्मिन् सति हि शक्रो ऽपि बाधेतास्मान् कुतो ऽपरः ।
एतच् छ्रुत्वा स जीमूतवाहनो ऽन्तरचिन्तयत् ॥
अहो बतेदृशम् इमं संप्राप्या-मरपादपम् ।
नासादितं किम् अप्य् अस्मात् पूर्वैर् नस् तादृशं फलम् ॥
केवलं कैःचिद् अप्य् अर्थैर् अर्थितैः कृपणोचितैः ।
आत्मा चैषो महात्मा च नीतौ द्वाव् अपि लाघवम् ॥
तद् अहं साधयीष्यामि कामम् अस्मान् मनःगतम् ।
इति निश्चित्य स ययौ महासत्त्वो ऽन्तिकं पितुः ॥
तत्र संविहिता-शेषशुश्रूषापरितोषितम् ।
सुखासीनं तम् एकान्ते पितरं स व्यजिज्ञपत् ॥
तत त्वम् एव जानासि यद् एतस्मिन् भवाम्बुधौ ।
आशरीरम् इदं सर्वं वीचिविभ्रमचञ्चलम् ॥
विशेषेना-चिरस्थायिप्रकाशप्रविलायिनी ।
संध्या विद्युच् च लक्ष्मीश् च दृष्टा कुत्र कदा स्थिरा ॥
एकः परोपकारस् तु संसारे ऽस्मिन्न् अनश्वरः ।
यो धर्मयशसी सूते युगान्तशतसाक्षिणी ॥
तत् तात क्षणिकेष्व् एषु भोगेष्व् अस्माभिर् ईदृशः ।
एष कल्पतरुः कस्य कृते मोघो ऽभिरक्ष्यते ॥
यैर् वा मम ममेत्य् एवम् आग्रहेनैषो रक्षितः ।
पूर्वैस् ते कुत्र कुत्रायं तेषां कश् चैषः को ऽस्य वा ॥
तस्मात् परोपकारैकफलसिद्ध्यै त्वदाज्ञया ।
तातैनं विनियुञ्जे ऽहं कामदं कल्पपादपम् ॥
एवम् अस्त्व् इति पित्रा च दत्तानुज्ञो ऽथ तेन सः ।
जीमूतवाहनो गत्वा कल्पद्रुमम् उवाच तम् ॥
अभीष्टाः पूरिताः कामाः पूर्वेषां देव नस् त्वया ।
तन् ममैकम् इमं कामम् अनन्यं परिपूरय ॥
अदरिद्रां यथा पृथ्वीम् इमां द्रक्ष्ये तथा कुरु ।
भद्रं ते व्रज दत्तो ऽसि लोकायार्थार्थिने मया ॥
इत्य् उक्तवति जीमूतवाहने रचिताञ्जलौ ।
त्यक्तस् त्वयैषो जातो ऽस्मीत्य् उदभूद् वाक् तरोस् ततः ॥
क्षणाच् चोत्पत्य स दिवं कल्पवृक्षस् तथा वसु ।
ववर्ष भुवि नैवासीत् को ऽप्य् अस्यां दुःगतो यथा ॥
ततस् तस्य तया तीव्रसर्वसत्त्वानुकम्पया ।
जीमूतवाहनस्यात्र त्रैलोक्ये पप्रथे यशः ॥
तेन तद्गोत्रजाः सर्वे मात्सर्याद् असहिष्णवः ।
तं लोकसात्कृतार्तिघ्नकल्पवृक्षविनाकृतम् ॥
जेयं सपितृकं मत्वा संभूय कृतनिश्चयाः ।
युद्धाय समनह्यन्त तद् राज्यापजिहीर्षया ॥
तद् दृष्ट्वा प्राह पितरं स्वं स जीमूतवाहनः ।
तात कस्यापरस्यास्ति शक्तिस् त्वयि धृतायुधे ॥
किं त्व् अस्य पापकस्यार्थे शरीरस्य विनाशिनः ।
हत्वा बन्धून् अकृपनो राज्यं को नाम वाञ्छति ॥
तत् किं राज्येन नः कार्यं गत्वान्यत्र क्वचिद् वयम् ।
धर्मम् एव चरिष्यामो लोकद्वयसुखावहम् ॥
मोदन्तां कृपणा एते दायादा राज्यलोलुपाः ।
इत्य् उक्तवन्तं जीमूतकेतुस् तं स पिताब्रवीत् ॥
अहं त्वदर्थम् इच्छामि राज्यं पुत्र त्वम् एव चेत् ।
तज् जहासि कृपाविष्टस् तन् मे वृद्धस्य तेन किम् ॥
एवं कृताभ्यनुज्ञेन पित्रा मात्रा च सो ऽन्वितः ।
मलयाद्रिम् अगात् त्यक्तराज्यो जीमूतवाहनः ॥
तत्र चन्दनसंछन्नवहन् निःझरकन्दरे ।
शुश्रूषमाणः पितरं स तस्थौ कल्पिताश्रमः ॥
मित्रं चास्यात्र संपेदे मित्रावसुर् इति श्रुतः ।
विश्वावसोः सुतः सिद्धराजस्यैतन्निवासिनः ॥
एकदा चात्र स भ्राम्यन् विवेशोपवनस्थितम् ।
द्रष्टुम् आयतनं देव्या गौर्या जीमूतवाहनः ॥
तत्रोपवीणयन्तीं च ददर्श वरकन्यकाम् ।
सखीजनान्वितां शैलतनयाराधनोद्यताम् ॥
आकर्ण्यमानसंगीतमञ्जुवीणारवां मृगैः ।
दृष्टलोचनलावन्यलज्जितैर् इव निःचलैः ॥
दधता तारकं कृष्णम् अर्जुनेन स्वचक्षुषा ।
पाण्डवीयाम् इव चमूं कर्णमूलं विविक्षतीम् ॥
परःपरविमर्देन मुखेन्दोर् इव दर्शनम् ।
अतृप्ताव् इव वाञ्छन्तौ बिभ्रन्तीं संमुखौ स्तनौ ॥
धातुर् घटयतो मुष्टिग्रहेणेव निपीडिते ।
वलीमग्नाङ्गुलीमुद्रे मध्ये क्षाममनःरमाम् ॥
दृष्टया च तया सद्यः सो ऽभूज् जीमूतवाहनः ।
तन्व्या मुषितचित्तो ऽन्तो दृष्टिमार्गप्रविष्टया ॥
सापि तं भूषितोद्यानं दृष्ट्वोत्कण्ठाविकारदम् ।
कामाङ्गदाहवैराग्याद् वनं मधुम् इवाश्रितम् ॥
तथानुरागविवशा भेजे कन्या विहस्तताम् ।
यथा सखीव वीणास्या व्याकुलालापतां ययौ ॥
ततः स पप्रच्छ सखीं तस्या जीमूतवाहनः ।
किं धन्यं नाम सख्यास् ते को वंशो ऽलंकृतो ऽनया ॥
तच् छ्रुत्वा सा सखी प्राह नाम्ना मलयवत्य् असौ ।
मित्रावसुस्वसा सिद्धराजविश्वावसोः सुता ॥
एवम् उक्त्वा सहृदया सा तं जीमूतवाहनम् ।
नामान्वयौ च पृष्ट्वास्य मुनिपुत्रं सहागतम् ॥
तां ब्रवीति स्म मलयवतीं स्मितमिताक्षरम् ।
सखि विद्याधरेन्द्रस्य नास्यातिथ्यं करोषि किम् ॥
जगत्पूज्यो ऽतिथिर् ह्य् एष प्राप्त इत्य् उदिते तया ।
साभूद् विद्याधरसुता तूष्णीं लज्जानतानना ॥
लज्जावतीयं मत्तो ऽर्चा गृह्यताम् इति वादिनी ।
एकाथ तत् सखी तस्मै सार्घ्यां मालाम् उपानयत् ॥
स चादायैव जीमूतवाहनः प्रेमनिःभरः ।
कण्ठे मलयवत्यास् तां मालां तस्याः समर्पयत् ॥
सापि तिर्यक्प्रसृतया पश्यन्ती स्निग्धया दृशा ।
नीलोत्पलमयीं मालाम् इव तस्मिन् न्यवेशयत् ॥
इत्य् अन्योऽन्यकृता-शब्दस्वयम्वरविशेषयोः ।
तयोर् एत्य जगादैका चेटी तां सिद्धकन्यकाम् ॥
जननी राजपुत्रि त्वां स्मरत्य् आगच्छ माचिरम् ।
तच् छ्रुत्वाकृष्य कामेषुकीलिताम् इव कृच्छ्रतः ॥
सोत्कां प्रियमुखाद् दृष्टिं कथम्चित् सा ययौ गृहम् ।
जीमूतवाहनो ऽप्य् आगात् तन् नतात्मा स्वमाश्रमम् ॥
साथ स्वां जननीं दृष्टा प्राणेशविरहातुरा ।
गत्वा मलयवत्य् आशु पपात शयनीयके ॥
अथान्तर्गतकामाग्निधूमेनेवाविलेक्षणा ।
अश्रुधारां प्रमुञ्चन्ती संतापक्वथिताङ्गका ॥
सखीभिश् चन्दनैर् लिप्ता वीजिता चाब्जिनिदलैः ।
रतिं न भेजे शयने नाङ्के सख्या न भूतले ॥
गते ऽथ वासरे क्वापि रक्तया सह संध्यया ।
हसत्प्राचीमुखं चन्द्रे समाक्रम्य च चुम्बति ॥
स्मरेण प्रेर्यमाणापि दूतीसंप्रेषणादि सा ।
लज्जया नाशकत् कर्तुं जीवितस्पृहयोज्झिता ॥
निनाय च निशाम् इन्दुविषमाम् अब्जिनीव ताम् ।
बद्धमोहालिपटले हृदि संकोचम् एत्य सा ॥
तावच् च तद्वियोगार्तः सो ऽपि जीमूतवाहनः ।
शयनस्थो ऽपि पतितो हस्ते कुसुमधन्वनः ॥
नूतनोद्भिन्नरागो ऽपि प्रोन्मिषत्पाण्डुरछविः ।
ह्रीमूको ऽपि वदन् पीडां कामजाम् अनयन् निशाम् ॥
प्रातश् चात्युत्सुको भूयस् तद् गौर्यायतनं ययौ ।
यत्र दृष्टाभवत् तेन सा सिद्धाधिपपुत्रिका ॥
तत्र तेन स मित्रेण मुनिपुत्रेण पृष्ठतः ।
आगत्याश्वास्यते यावन् मदनानलविह्वलः ॥
तावत् तत्रैव साप्य् आगान् निर्गत्यैकैव निःजने ।
गुप्तं मलयवत्य् आत्मत्यागाय विरहा-सहा ॥
अलक्षयन्ती कान्तं स्वं पादपान्तरितं च सा ।
उदश्रुलोचना बाला देवीं गौरीं व्यजिज्ञपत् ॥
त्वद्भक्त्या देवि संवृत्तो नास्मिञ् जन्मनि चेन् मम ।
जीमूतवाहनो भर्ता तद् भूयात् सो ऽन्यजन्मनि ॥
इत्य् उक्त्वा रचयामास स्वोत्तरीयेण तत् क्षणम् ।
अशोकतरुशाखायां पाशं सा गिरिजाग्रतः ॥
हा नाथ विश्वविख्यातकरुणेनापि न त्वया ।
कथम् अस्मि परित्राता देव जीमूतवाहन ॥
एवम् उक्त्वा गले यावत् सा तं पाशं नियच्छति ।
उच्चचार दिवस् तावद् भारती देव्युदीरिता ॥
पुत्रि मा साहसं कार्षीश् चक्रवर्ती पतिस् तव ।
विद्याधरेन्द्रो जीमूतवाहनो हि भविष्यति ॥
इत्य् उक्तवत्यां देव्यां स श्रुत्वैव सवयस्यकः ।
जीमूतवाहनो हृष्टां प्रियाम् उपजगाम ताम् ॥
स एष देव्या वरः पश्य वितीर्णः सत्य एव ते ।
इति जल्पति बालां तां तन्मित्रे मुनिपुत्रके ॥
जीमूतवाहनस् तत् तद् ब्रुवन् प्रणयपेशलम् ।
स्वहस्तेनैव तं तस्याः कण्ठात् पाशम् अपानयत् ॥
ततो ऽकस्मात् सुधावर्षम् इव मन्वानयोस् तयोः ।
भुवं मलयवत्यां च लिखन्त्यां ह्रीतया दृशा ॥
चिन्वानागत्य सहसा सखी हृष्टा जगाद ताम् ।
सखि कल्याणिनी दिष्ट्या वर्धसे ऽभीष्टसिद्धितः ॥
अद्यैव हि महाराजस् तव विश्वावसुः पिता ।
कुमारमित्रावसुना विज्ञप्तः संनिधौ मम ॥
इहागतो जगन्मान्यस् तात कल्पतरुप्रदः ।
विद्याधरेन्द्रतनयो यो ऽयं जीमूतवाहनः ॥
अतिथित्वात् स नः पूज्यो वरश् चान्यो न तादृशः ।
तस्मान् मलयवत्यासौ कन्यारत्नेन पूज्यताम् ॥
तथेति श्रद्धिते राज्ञा भ्राता मित्रावसुः स ते ।
तादर्थ्येन महाभागस्यास्याश्रमपदं गतः ॥
जाने सद्यश् च भावी ते विवाहस् तत् स्वमन्दिरम् ।
आयाहि यातु चैषो ऽपि महाभागः स्वम् आस्पदम् ॥
इत्य् उक्ता सा तया सख्या राजपुत्री शनैस् ततः ।
ययुः सहर्षा सोत्का च मुहुःवलितकंधरा ॥
जीमूतवाहनो ऽप्य् आशु गत्वा स्वाश्रमम् आगतात् ।
मित्रावसोर् यथाभीष्टं कार्यं श्रुत्वाभिनन्द्य च ॥
जातिस्मरः समाचख्यौ तस्मै स्वं पूर्वजन्म सः ।
यत्र मित्रं स तस्यासीत् सा च भार्यैव तत्स्वसा ॥
ततो मित्रावसुः प्रीतस् तत्पित्रोः परितुष्यतोः ।
आवेद्य गत्वा पितरौ कृतार्थः स्वाव् अनन्दयत् ॥
निनाय च तदैव स्वान् गृहाञ् जीमूतवाहनम् ।
चक्रे चोत्सवसंभारं स्वसिद्ध्युचितवैभवम् ॥
तस्मिन्न् एव च धन्ये ऽह्नि तस्य विद्याधरप्रभोः ।
स्वसुर् मलयवत्याश् च विवाहं समपादयन् ॥
ततो नवोढया साकं तया जीमूतवाहनः ।
तस्थौ मलयवत्या स तत्र सिद्धमनःरथः ॥
एकदा कौतुकाच् चात्र स मित्रावसुना सह ।
मलयाद्रौ भ्रमन्न् अब्धेर् वेलावनम् उपेयिवान् ॥
तत्रास्थिराशीन् सुबहून् दृष्ट्वा मित्रावसुं स तम् ।
केषाम् एते ऽस्थिसंघाताः प्राणिनाम् इति पृष्टवान् ॥
ततो मित्रावसुः श्यालस् तं कारुणिकम् अब्रवीत् ।
शृणु वृत्तान्तम् अत्रेमं संक्षेपाद् वर्णयामि ते ॥
नागमाता पुरा कद्रूर् विनतां तार्क्ष्यमातरम् ।
निनाय किल दासत्वं सव्याजपणनिर्जिताम् ॥
तेन वैरेण गरुडस् ताम् उन्मोच्यापि मातरम् ।
बली भक्षयितुं नागान् कद्रूपुत्रान् प्रचक्रमे ॥
सदा प्रविश्य पातालं सो ऽथ कान्चिज् जघास तान् ।
कान्चिन् ममर्द केचित् तु स्वयं त्रासाद् विपेदिरे ॥
तद् दृष्ट्वैकपदे सर्वक्षयम् आशङ्क्य नागराट् ।
वासुकिः प्रार्थनापूर्वं तार्क्ष्यस्य समयं व्यधात् ॥
एकम् एकम् अहं नागम् आहारार्थं खगेन्द्र ते ।
प्रत्यहं प्रेषयाम्य् अत्र पुलिने दक्षिणोदधेः ॥
त्वया तु न प्रवेष्टव्यं पाताले ऽस्मिन् कथम्चन ।
को हि स्वार्थो विनष्टेषु नागेष्व् एकपदे तव ॥
इत्य् उक्ते नागराजेन समयं प्रत्यपद्यत ।
स्वार्थदर्शी तथेत्य् एव गरुडो गुरुविक्रमः ॥
तदाप्रभृति चैकैकं नागं भुङ्क्ते दिने दिने ।
वासुकिप्रेषितं सो ऽत्र खगेन्द्रः पुलिने ऽम्बुधेः ॥
अतस् तद्भक्ष्यमाणानां नागनाम् अस्थिसंचयाः ।
एते ऽत्र गिरिशृङ्गाभा वृद्धिं कालक्रमाद् गताः ॥
इति मित्रावसोर् वक्त्रात् सान्तःदुःखो निशम्य सः ।
निजगाद दयाधैर्यनिधिर् जीमूतवाहनः ॥
शोच्यः स वासुकी राजा यः स्वहस्तेन विद्विषे ।
उपहारीकरोति स्वाः प्रजाः क्लीबो दिने दिने ॥
धृताननसहस्रः सन्न् एकेनाप्य् आननेन सः ।
माम् आदौ भुङ्क्ष्व तार्क्ष्येति भाषितुं नाशकत् कथम् ॥
कथं चाभ्यर्थयामास निःसत्त्वः स्वकुलक्षयम् ।
तार्क्ष्यं नागाङ्गनाक्रन्दनित्याकर्णननिःघृणः ॥
तार्क्ष्यो ऽपि काश्यपिर् वीरः कृष्णाधिष्ठानपावनः ।
ईदृशं कुरुते पापम् अहो मोहस्य गाढता ॥
इत्य् उक्त्वा स महासत्त्वो हृदि चक्रे मनःरथम् ।
अप्य् असारेण देहेन सारम् अत्राप्नुयाम् अहम् ॥
एकस्याप्य् अद्य नागस्य कुर्यां जीवितरक्षणम् ।
अबान्धवस्य भीतस्य दत्त्वात्मानं गरुत्मते ॥
इति संचिन्तयत्य् एव तस्मिञ् जीमूतवाहने ।
मित्रावसोः पितुः पार्श्वात् क्षत्ताह्वानार्थम् आययौ ॥
व्रज त्वम् अहम् एष्यामि पश्चाद् इति ततश् च तम् ।
मित्रावसुं स जीमूतवाहनो व्यसृजद् गृहम् ॥
गते तस्मिन् स चात्रैको वाञ्छितार्थोन्मुखो भ्रमन् ।
कृपालुर् अशृनोद् दूरात् करुणं रुदितध्वनिम् ॥
गत्वा ददर्श चोत्तुङ्गशिलातलसमीपगम् ।
युवानम् एकं पुरुषं दुःखितं सुन्दराकृतिम् ॥
पुंसा राजभटेनेव त्यक्तम् आनीय तत् क्षणम् ।
निवर्तयन्तं रुदतीं वृद्धां सानुनयं स्त्रियम् ॥
को ऽयं स्याद् इति यावच् च जिज्ञासुः सो ऽत्र तिष्ठति ।
करुणाकुलितश् छन्नः शृण्वञ् जीमूतवाहनः ॥
तावत् सा तत्र वृद्धा स्त्री दुःखभारातिपीडिता ।
प्रावर्तत युवानं तं दृष्ट्वा दृष्ट्वानुशोचितुम् ॥
हा शङ्खचूड हा दुःखशतसंप्राप्त हा गुणिन् ।
कुलैकतन्तो हा पुत्र क्व त्वां द्रक्ष्याम्य् अहं पुनः ॥
वत्स त्वन्मुखचन्द्रे ऽस्मिन् गते ऽस्तं स पिता तव ।
सोकान्धकारपतितः कथं वृद्धो भविष्यति ॥
अथार्ककरसंस्पर्शाद् अङ्गं दूयेत यत् तव ।
कथं शक्ष्यति तत् सोढुं तार्क्ष्यभक्षणजां रुजम् ॥
विस्तीर्णे नागलोके ऽपि धात्रा नागाधिपेन च ।
लब्धस् त्वं किम् अभव्याया विचित्यैकसुतो मम ॥
इति तां विलपन्तीं च स युवा तनयो ऽब्रवीत् ।
दुःखार्तम् अपि माम् अम्ब किं दुःखयसि हा भृशम् ॥
निवर्तस्व गृहान् एष प्रणामः पश्चिमस् तव ।
इहागमनवेला हि भवेज् जातु गरुत्मतः ॥
तच् छ्रुत्वा हा हतास्मीह को मे पास्यति पुत्रकम् ।
इत चक्रन्द सा वृद्धा दिक्षु क्षिप्तार्तलोचना ॥
तावच् च बोधिसत्त्वांशः स तज् जीमूतवाहनः ।
श्रुत्वा दृष्ट्वा च कृपया गाढाक्रान्तो व्यचिन्तयत् ॥
हन्तायं शङ्खचूडाख्यो नागो वासुकिना बत ।
आहारहेतोस् तार्क्ष्यस्य तपस्वी प्रेषितो ऽधुना ॥
इयं चैतस्य जननी स्नेहेनेहान्वग् आगता ।
एतदेकसुता वृद्धा दुःखदीनप्रलापिनी ॥
तद् एनम् एकम् आर्तं चेद् देहेनैकान्तनाशिना ।
रक्षामि नामुना नागं तन् मे धिग् जन्म निःफलम् ॥
इत्य् आलोच्योपगम्यैव मुदा जीमूतवाहनः ।
वृद्धाम् उवाच तां मातः पुत्रं रक्षाम्य् अहं तव ॥
तच् छ्रुत्वा भावितभया वृद्धा गरुडशङ्खिनी ।
संत्रस्ता तार्क्ष्य मां भुङ्क्ष्व मां भुङ्क्ष्वेति जगाद सा ॥
शङ्खचूडस् ततो ऽवादीन् नैषस् तार्क्ष्यो ऽम्ब मा त्रसीः ।
क्वायं चन्द्र इवाह्लादी क्व स तार्क्ष्यो भयंकरः ॥
इत्य् उक्ते शङ्खचूडेन प्राह जीमूतवाहनः ।
विद्याधरो ऽहम् आयातो राक्षितुं सुतम् अम्ब ते ॥
दास्यामि हि शरीरं स्वं वस्त्रछन्नं गरुत्मते ।
क्षुधिताय प्रयाहि त्वम् आदायैनं सुतं गृहम् ॥
तच् छ्रुत्वा साब्रवीद् वृद्धा मैवं त्वं ह्य् अधिको मम ।
पुत्रो यस्येदृशे काले कृपास्मास्व् इयम् ईदृशी ॥
एतच् छ्रुत्वा स जीमूतवाहनः पुनर् अब्रवीत् ।
न मे मनःरथस्यास्य भङ्गं कर्तुम् इहार्हथ ॥
ग्रहाद् एवं ब्रुवाणं च शङ्खचूडो जगाद तम् ।
दर्शितैव महासत्त्व त्वया सत्यं कृपालुता ॥
न त्व् अहं त्वच्छरीरेण रक्ष्यामि स्वशरीरकम् ।
रत्नव्ययेन पाषाणं को हि रक्षितुम् अर्हति ॥
मादृशैस् तु जगत् पूर्णं स्वात्ममात्रानुकम्पिभिः ।
अनुकम्प्यं जगद् येषां विरलास् ते भवादृशाः ॥
न चाहं मलिनीकर्तुं शङ्खपालकुलं शुचि ।
कलङ्क इव तीक्ष्णांशुबिम्बं शक्ष्यामि सन्मते ॥
इति तं प्रतिषिध्यैव शङ्खचूडः स्वमातरम् ।
जगादाम्ब निवर्तस्व कान्ताराद् दुःगमाद् इतः ॥
न पश्यसि किम् अत्रैतन् नागासृक्कर्दमोक्षितम् ।
कृतान्तलीलापर्यङ्करौद्रं वध्यशिलातलम् ॥
अहं चाब्धितटे गत्वा नत्वा गोकर्णम् ईश्वरम् ।
आगच्छामि द्रुतं यावन् नायाति गरुडो ऽत्र सः ॥
इत्य् उक्त्वा कृपणाक्रन्दां प्रणम्यापृच्छ्य मातरम् ।
स गोकर्णप्रणामार्थं शङ्खचूडो ययौ ततः ॥
अस्मिंश् चेद् अन्तरे प्राप्तस् तार्क्ष्यः सिद्धो ममेप्सितः ।
परार्थेति जीमूतवाहनो ऽप्य् अकरोद् धृदि ॥
तावच् चासन्नपक्षीन्द्रपक्षानिलचलांस् तरून् ।
विलोक्यात्र स मा मेति निवारणपरान् इव ॥
मत्वा गरुडवेलां च प्राप्तां जीमूतवाहनः ।
परार्थप्राणदो वध्यशिलाम् अध्यारुरोह ताम् ॥
पवनाघूर्णिते चाब्धौ स्फुरद्रत्नप्रभादृशा ।
तं सत्त्वातिशयं तस्य पश्यतीव सविस्मयम् ॥
आगत्याच्छादितनभा निपत्यैतच्छिलातलात् ।
चञ्च्वा गरुत्मान् आहत्य महासत्त्वं जहार तम् ॥
स्रुतासृग्धारम् उत्खातशिरःरत्नं च तं जवात् ।
नीत्वा भक्षयितुं शृङ्गे मलयाद्रेः प्रचक्रमे ॥
एवम् एव परार्थाय देहः स्यात् प्रतिजन्म मे ।
मा भूतां स्वर्गमोक्षौ तु परोपकृतिवर्जितौ ॥
इति तार्क्ष्याद्यमानस्य तस्यानुध्यायतस् तदा ।
विद्याधरेन्दोर् अपतत् पुष्पवृष्टिर् नभःतलात् ॥
अत्रान्तरे स तद् रक्तधारास्रवशिरःमणिः ।
तस्या मलयवत्याश् च तत्पत्न्याः प्रापतत् पुरः ॥
सा तद् दृष्ट्वा परिज्ञाय चूडारत्नं सुविह्वला ।
अन्तिकस्था श्वशुरयोस् ताभ्यां साश्रुर् अदर्शयत् ॥
तौ च जायापती सूनोः शिरःरत्नं विलोक्य तम् ।
किम् एतद् इति संभ्रान्तौ सहसैव बभूवतुः ॥
ततः स्वविद्यानुध्यानाद् यथावृत्तम् अवेत्य तत् ।
राजा जीमूतकेतुः सा राज्नी कनकवत्य् अपि ॥
वध्वा मलयवत्या तौ प्रावर्तेतां सह द्रुतम् ।
गन्तुं तत्रैव तौ यत्र तार्क्ष्यजीमूतवाहनौ ॥
तावत् स शङ्खचूडो ऽत्र नत्वा गोकर्णम् आगतः ।
ददर्श रुधिरार्द्रं तद् विग्नो वध्यशिलातलम् ॥
हा हतो ऽस्मि महापापो ध्रुवं तेन महात्मना ।
आत्मा गरुत्मते दत्तो मत्कृते सुकृपालुना ॥
तद् अन्विष्यामि नीतः स क्षणे ऽस्मिन् क्वाहिवैरिणा ।
मज्जेयं ना-यशःपङ्के जीवन्तं चेत् तम् आप्नुयाम् ॥
इत्य् उदश्रुर् वदन् सो ऽथ साधुर् दृष्ट्वा निःअन्तराम् ।
पतितां भुवि तद्रक्तधाराम् अनुसरन् ययौ ॥
अत्रान्तरे भक्षयंस् तं दृष्ट्वा जीमूतवाहनम् ।
हृष्टं विरम्य गरुडश् चिन्तयामास तत् क्षणम् ॥
अहो अपूर्वः को ऽप्य् एष भक्ष्यमानो ऽपि यो मया ।
प्रहृष्यति महासत्त्वो न तु प्राणैर् वियुज्यते ॥
बिभर्ति लुप्तशेषे च गात्रे रोमाञ्चकञ्चुकम् ।
किं चोपकारिणीवास्य मयि दृष्टिः प्रसीदति ॥
तन् नैषो नागः को ऽप्य् एष साधुः पृच्छामि नाद्म्य् अमुम् ।
इति तार्क्ष्यं विमृश्यन्तं प्राह जीमूतवाहनः ॥
पक्षीन्द्र किं निवृत्तो ऽसि न हि मे मांसशोणितम् ।
देहे नास्ति न चाद्यापि परितृप्तो ऽसि बुङ्क्ष्व तत् ॥
एतच् छ्रुत्वातिसाश्चर्यस् तं पप्रच्छ स पक्षिराट् ।
नागो नैवासि तद् ब्रूहि महात्मन् को भवान् इति ॥
नाग एवास्मि को ऽयं ते प्रश्नः प्रकृतम् आचर ।
प्रस्तुतार्थविरुद्धं हि को ऽभिदध्याद् अबालिशः ॥
एवं प्रतिवदत्य् एव तार्क्ष्यं जीमूतवाहने ।
प्राप्तः स शङ्खचूडो ऽत्र दूराद् एवाभ्यभाषत ॥
मा मा कृथा महापापं साहसं विनतात्मज ।
को ऽयं भ्रमस् ते न ह्य् एष नागो नागो ऽहम् एष ते ॥
इत्य् उक्त्वा द्रुतम् आगत्य मध्ये स्थित्वा तयोर् द्वयोः ।
दृष्ट्वा च तार्क्ष्यं विभ्रान्तं शङ्खचूडो ऽब्रवीत् पुनः ॥
किं भ्राम्यसि फणाः किं मे जिह्वे द्वे च न पश्यसि ।
विद्याधरस्य किं चास्य सौम्यां पश्यसि नाकृतिम् ॥
शङ्खचूडे वदत्य् एवं भार्या च पितरौ च तौ ।
जीमूतवाहनस्यात्र सर्वे सत्वरम् आययुः ॥
विलुप्ताङ्गं च तं दृष्ट्वा पितरौ तस्य तत् क्षणम् ।
चक्रन्दतुस् तौ हा पुत्र हा हा जीमूतवाहन ॥
हा कारुणिक हा वत्स परार्थप्रत्तजीवित ।
हा कथं वैनतेयेदम् अविमृश्य कृतं त्वया ॥
एतच् छ्रुत्वैव तार्क्ष्यो ऽत्र सो ऽनुतप्तो व्यचिन्तयत् ।
हा कथं बोधिसत्त्वांशः संमोहाद् भक्षितो मया ॥
जीमूतवाहनः सो ऽयं परार्थप्राणदायकः ।
यस्य भ्रमति कृत्स्ने ऽस्मिंस् त्रैलोक्ये कीर्तिघोषणा ॥
तन् मे मृते ऽस्मिन् पापस्य प्राप्तम् अग्निप्रवेशनम् ।
अधर्मविषवृक्षस्य पच्यते स्वादु किं फलम् ॥
इति चिन्ताकुले तार्क्ष्ये दृष्ट्वा बन्धून् निपत्य सः ।
व्रणव्यथायां पञ्चत्वं प्राप जीमूतवाहनः ॥
ततो विलपतोस् तत्र तत्पित्रोः शोकदीनयोः ।
उत्क्रुश्य मुहुर् आत्मानं शङ्खचूडे च निन्दति ॥
भार्या मलयवत्य् अस्य नभो दृष्ट्वाश्रुगद्गदम् ।
पूर्वप्रसन्नां वरदाम् इत्य् उपालभताम्बिकाम् ॥
विद्याधराधिपो भाविचक्रवर्ती पतिस् तव ।
भवितेत्य् अहम् आदिष्टा देवि गौरी तदा त्वया ॥
तन् मिथ्यावादिनी जाता त्वम् अप्य् असि कथं मयि ।
इत्य् उक्तवत्यां तस्यां सा गौरी प्रत्यक्षताम् अगात् ॥
न मे मिथ्या वचः पुत्रीत्य् उक्त्वा सा स्वकमण्डलोः ।
अमृतेनाशु जीमूतवाहनं सिञ्चति स्म तम् ॥
तेन सो ऽक्षतसर्वाङ्गः पूर्वाधिकतरद्युतिः ।
जीवन् सद्यः समुत्तस्थौ कृती जीमूतवाहनः ॥
उत्थितं प्रणतं तं च सर्वेषु प्रणमत्सु सा ।
उवाच देवी तुष्टास्मि देहदानेन ते ऽमुना ॥
तद् एषा त्वाभिषिञ्चामि पुत्रात्मीयेन पाणिना ।
विद्याधराणाम् आकल्पं चक्रवर्तिपदे ऽधुना ॥
एवं वदन्ती जीमूतवाहनं कलशाम्बुधिः ।
तम् अभ्यषिञ्चच् छर्वानी पूजिता च तिरःदधे ॥
निपेतुश् चात्र तत् कालं दिव्याः कुसुमवृष्टयः ।
नदन्ति स्म च सानन्दं देवदुन्दुभयो दिवि ॥
अथोवाच स तं प्रह्वस् तार्क्ष्यो जीमूतवाहनम् ।
चक्रवर्तिन्न् अहं प्रीतः पुरुषातिशये त्वयि ॥
अपूर्वोदारमतिना त्रिजगत्कौतुकावहम् ।
ब्रह्माण्डभित्तिलिखितं येन चित्रम् इदं कृतम् ॥
तन् मां प्रशाधि मत्तश् च वृणुष्वाभीप्सितं वरम् ।
इत्य् उक्तवन्तं गरुडं महासत्त्वो जगाद सः ॥
न भक्ष्याः सानुतापेन भूत्वा नागाः पुनस् त्वया ।
ते ऽप्य् अस्थिशेषा जीवन्तु ये त्वया पूर्वभक्षिताः ॥
एवम् अस्तु न भोक्ष्ये ऽहं नागाञ् शान्तमतः परम् ।
प्राग् ये च भुक्तास् ते जीवन्त्व् इति तार्क्ष्यो ऽप्य् उवाच सः ॥
ततो ऽस्तिशेषा ये ऽप्य् आसन् नागास् तत्पूर्वभक्षिताः ।
ते ऽपि सर्वे समुत्तस्थुस् तद्वरामृतजीविताः ॥
सुरैर् नगैर् मुनिगनैः सानन्दैर् मिलितैर् अथ ।
स लोकत्रितयाभिख्याम् उवाह मलयाचलः ॥
तत् कालं तं च जीमूतवाहनोदन्तम् अद्भुतम् ।
गौर्याः प्रसादाद् विविदुः सर्वे विद्याधरेश्वराः ॥
आगत्य ते च चरणावनता हिमाद्रिं निन्युः क्षणान् मुदितबन्धुसुहृत्समेतम् ।
तं पार्वतीस्वकरकॢप्तमहाभिषेकं सच्चक्रवर्तिनम् अथ प्रतिमुक्ततार्क्ष्यम् ॥
तत्र स पित्रा मात्रा मित्रावसुना च मलयवत्या च ।
निजगृहगतागतेन च संयुक्तः शङ्खचूडेन ॥
लोकोत्तरचरिताद्भुतसिद्धां जीमूतवाहनः सुचिरम् ।
अभजत रत्नोपचितां विद्याधरचक्रवर्तिधुरम् ॥
इत्य् अत्युदारसरसाम् आख्याय कथां तदा स वेतालः ।
पुन एव तं त्रिविक्रमसेनं पप्रच्छ राजानम् ॥
तद् ब्रूहि शङ्खचूडः किं वा जीमूतवाहनो ऽभ्यधिकः ।
सत्त्वेन तयोर् उभयोः पूर्वोक्तश् चात्र समयस् ते ॥
इत्य् अस्माद् वेतालाच् छ्रुत्वा मौनं विहाय शापभयात् ।
तम् उवाच स त्रिविक्रमसेनो नृपतिर् निःउद्वेगः ॥
बहुजन्मसिद्धम् एतच् चित्रं जीमूतवाहनस्य कियत् ।
श्लाघ्यः स शङ्खचूडो मरणोत्तीर्णो ऽपि यो रिपवे ॥
अन्यप्रत्तात्मानं प्राप्य सुदूरं गताय तार्क्ष्याय ।
पश्चाद् धावन् गत्वा स्वं देहम् उपानयत् प्रसभम् ॥
एतन् निशम्यैव नृपस्य तस्य वाक्यं स वेतालवरो जगाम ।
पुनः स्वधामैव तदंसपृष्ठान् नृपो ऽपि तं सो ऽनुययौ तथैव ॥
मूल पाठ: Kathāsaritsāgara, Vetālapañcaviṃśatikā · Data entry Elena Artesani · GRETIL (Göttingen) · CC BY-NC-SA 4.0