कथासरित्सागर, वेतालपञ्चविंशतिका · अध्याय 12.22
ततो गत्वा पुनः प्राप्य वेतालं शिंशपातरोः ।
स त्रिविक्रमसेनस् तम् आदायोदचलत् पुनः ॥
आयान्तं तं च राजानं स वेतालो ऽंसपृष्ठगः ।
जगाद भूयो ऽप्य् एतां ते राजन् वच्मि कथां शृणु ॥
अभून् नेपालविषये नाम्ना शिवपुरं पुरम् ।
यथार्थनामा तत्रासीद् यशःकेतुः पुरा नृपः ॥
स मन्त्रिणि न्यस्य भरं प्रज्ञासागरसंज्ञके ।
चन्द्रप्रभाख्यया देव्या सार्धं भोगान् असेवत ॥
कालेन तस्यां देव्यां च तस्याजायत कन्यका ।
राज्ञः शशिप्रभा नाम जगन्नेत्रशशिप्रभा ॥
क्रमेण यौवनस्था सा मधुमासे कदाचन ।
ययौ यात्रोत्सवं द्रष्टुम् उद्यानं सपरिच्छदा ॥
तत्रैकदेशे ऽपश्यत् तां कुसुमावचयोद्यताम् ।
उत्क्षिप्तबाहुलतिकालक्षितैकपयःधराम् ॥
प्रसूनवृन्तविगलत्संदंशकरशोभिनीम् ।
आढ्यपुत्रो मनःस्वामी नाम यात्रागतो द्विजः ॥
स तया दृष्टया सद्यो हृतस्य मनसो युवा ।
मनःस्वाम्य् अपि नैवाभूत् स्वामी मदनमोहितः ॥
मार्गणानां कृते किं स्विद् रतिर् एषा मनःभुवः ।
वसन्तसंभृतानीह पुष्पाण्य् उच्चिनुते स्वयम् ॥
किं वार्चयितुकामेयं माधवं वनदेवता ।
इति संचिन्तयन्तं तं साप्य् अपश्यन् नृपात्मजा ॥
दृष्टमात्रे च सा तस्मिन् साङ्गे नव इव स्मरे ।
न पुष्पाणि न चाङ्गानि सोत्का नात्मानम् अस्मरत् ॥
इत्य् अन्योऽन्यनवप्रेमसरसौ यावद् अत्र तौ ।
तिष्ठतस् तावद् उदभूद् धाहाहेति महारवः ॥
किम् एतद् इति चोत्क्षिप्तकम्धरं पश्यतोस् तयोः ।
आयाद् अत्रोपलब्धान्यगजगन्धोत्थया रुषा ॥
भग्नालानो विनिर्गत्य मत्तो मार्गद्रुमान् रुजन् ।
पतिताधोरनो धावंल् लम्बमानाङ्कुशः करी ॥
ततः परिजने त्रस्तविद्रुते तां ससंभ्रमम् ।
राजपुत्रीं प्रधाव्यैव दोर्भ्याम् उत्क्षिप्य चैककाम् ॥
अङ्गैः किम्चित् कृताश्लेषां भयप्रेमत्रपाकुलाम् ।
निनाय स मनःस्वामी सुदूरं गजगोचरात् ॥
अथागतैः परिजनैः स्तुवद्भिस् तं द्विजोत्तमम् ।
मुहुर् विवृत्य पश्यन्ती सा निन्ये निजमन्दिरम् ॥
तत्र तस्थौ तम् एवार्ता स्मरन्ती प्राणदायिनम् ।
स्मराग्निपुटपाकेन पच्यमाना दिवानिशम् ॥
सो ऽप्य् उद्यानान् मनःस्वामी तदा तस्माद् अनुव्रजन् ।
स्वान्तःपुरप्रविष्टां तां दृष्ट्वा सोत्को व्यचिन्तयत् ॥
नैतां विनाधुना स्थातुं जीवितुं वाहम् उत्सहे ।
तन् मे श्रीमूलदेवो ऽत्र धूर्थः सिद्धो गुरुर् गतिः ॥
इति संचिन्त्य कथम् अप्य् अस्मिन्न् अवसिते दिने ।
प्रतो ययौ गुरोस् तस्य मूलदेवस्य सो ऽन्तिकम् ॥
ददर्श तं च मित्रेण शशिना नित्य संगतम् ।
सिद्धमायाद्भुतपथं सशरीरम् इवाम्बरम् ॥
न्यवेदयच् च तत् तस्मै प्रणम्य स्वमनीषितम् ।
सो ऽपि साधयितुं तस्य प्रतिपेदे विहस्य तत् ॥
ततः स योगगुलिकां क्षिप्त्वा धूर्तपतिर् मुखे ।
मूलदेवो व्यधाद् वृद्धब्राह्मणाकृतिम् आत्मनः ॥
द्वितीयां गुलिकां दत्त्वा मुखक्षेप्यां चकार च ।
सुकान्तकन्यकारूपं तं मनःस्वामिनं द्विजम् ॥
तद्रूपं तं समादाय गत्वा धूर्ताधिपो ऽथ सः ।
तत्प्रियाजनकं भूपम् आस्थाने तं व्यजिज्ञपत् ॥
राजन्न् एको ऽस्ति मे पुत्रः कन्या दूराच् च तत्कृते ।
मयैषा याचितानीता स च क्वापि गतो ऽधुना ॥
तम् अन्वेष्टुम् अहं यामि तद् एषा रक्ष्यतां त्वया ।
आनयामि सुतं यावत् त्वं हि विश्वस्य रक्षिता ॥
तच् छ्रुत्वा शापभीत्या च प्रतिपद्य स भूपतिः ।
सुताम् आनाययामास यशःकेतुः शशिप्रभाम् ॥
जगाद चैतां पुत्रीमां कन्यां रक्षेः स्वमन्दिरे ।
स्वपार्श्व एव चाहारं शय्यां चास्याः प्रकल्पयेः ॥
इति पित्रोक्तया निन्ये कन्यारूपस् तथेति सः ।
अन्तःपुरं मनःस्वामी राजपुत्र्या तया निजम् ॥
यथारुचि ततो याते मुलदेवे द्विजाकृतौ ।
कन्यारूपः स तत्रासीन् मनःस्वामी प्रियान्तिके ॥
दिनैश् च तां सखीप्रीतिविस्रम्भं सम्यगागताम् ।
एकदा विरहक्षामां शयनीयलुठत्तनुम् ॥
रात्रौ रहो राजसुताम् आसन्नशयनस्थितः ।
कन्यारूपप्रतिच्छन्नो मनःस्वामी स पृष्टवान् ॥
सखि किं पाण्डुरछाया क्षीयमाणा दिने दिने ।
कान्तपक्षवियुक्तेव दुःखितासि शशिप्रभे ॥
ब्रूहि मे को ह्य् अविश्वासः स्निग्धमुग्धे सखिजने ।
इदानीं नैव भोक्ष्ये ऽहं न वदिष्यसि चेन् मम ॥
तच् छ्रुत्वा सा विनिःश्वस्य शनई राजसुताब्रवीत् ।
किं मे त्वय्य् अप्य् अविश्वासः शृणु तत् सखि वच्मि ते ॥
एकदाहं मधूद्यानयात्रां द्रष्टुं गताभवम् ।
तत्रापश्यं च सुभगं कम्चिद् ब्राह्मणपुत्रकम् ॥
हिममुक्तेन्दुसश्रीकं दर्शनोद्दीपितस्मरम् ।
मधुमासम् इवालोकक्रीडालंकृतकाननम् ॥
चकोरायितुम् एते च प्रवृत्ते यावद् उन्मुखे ।
तन्मुखेन्दुद्युतिसुधापायिनी मे विलोचने ॥
तावत् स्रवन्मदजलस् तत्राकस्मान् निःअर्गलः ।
अकालकालमेघाभो गर्जन्न् आगान् महागजः ॥
तत्संभ्रमात् परिजने नष्टे ऽहं भयविह्वला ।
उत्क्षिप्य विप्रपुत्रेण नीता तेनैव दूरतः ॥
श्रीखण्डेनानुलिप्तेव सिक्तेव सुधया तथा ।
अहं तदङ्गस्पर्शेन न जाने कां दशाम् अगाम् ॥
क्षनाच् च परिवारेण मिलितेना-वशा ततः ।
इहानीतास्मि निक्षिप्ता स्वर्गाद् इव भुवस् तले ॥
तदाप्रभृति संकल्पैस् तैस् तैः कल्पितसंगमम् ।
पश्यामि तं प्रबुद्धापि पार्श्वस्थं प्राणदं पतिम् ॥
सुप्ता स्वप्ने च कुर्वाणं चाटून्य् आलोकयामि तम् ।
त्याजयन्तं हठाल् लज्जां चुम्बनालिङ्गनाधिभिः ॥
न च प्राप्नोम्य् अभव्या तन्नामाद्यज्ञानमोहिता ।
तद् एवं मां दहत्य् एष प्राणेशविरहानलः ॥
इति वाक्सुधया तस्याः पूर्णस्वश्रवणोदरः ।
सानन्दः स मनःस्वामी विप्रकन्यावपुःधरः ॥
कृतार्थमानी मत्वा तं कालम् आत्मप्रकाशने ।
स्वरूपं प्रकटीचक्रे निष्कृष्य गुलिकां मुखात् ॥
जगाद च विलोलाक्षि सो ऽहम् एवैषो यस् त्वया ।
उद्याने दर्शनक्रीतो नीतो निःव्याजदासताम् ॥
त्वत् संस्तवक्षणभ्रंशात् क्लेशं तं चाप्तवान् अहम् ।
यस्यैषः परिणामो मे कन्यारूपग्रहो ऽभवत् ॥
तस्मात् सफलयैतां मे विसोढां विरहव्यथाम् ।
आत्मनश् च न तन्वङ्गि क्षमते ऽतः परं स्मरः ॥
एवं वदन्तं सहसा प्राणेशं तं विलोक्य सा ।
आसीद् राजसुता क्षिप्रं स्नेहाश्चर्यत्रपाकुला ॥
अथात्यौत्सुक्यनिर्वृत्तगान्धर्वोद्वाहयोस् तयोः ।
प्रेम्णस् तस्य मतो यादृक् तादृशो ऽभूद् रतोत्सवः ॥
ततः सो ऽत्र मनःस्वामी कृती तस्थौ द्विरूपभृत् ।
दिवा सगुलिकाः कन्या रात्राव् अगुलिकाः पुमान् ॥
गतेष्व् अथ दिनेष्व् अत्र यशःकेतोर् महीपतेः ।
मृगाङ्कदत्तसंज्ञेन स्वशुर्येण निजा सुता ॥
दत्ता मृगाङ्कवत्याख्या महार्हविभवोत्तरा ।
द्विजातये महामन्त्रिप्रज्ञासागरसूनवे ॥
तस्मिन् मातुलपुत्र्याः सा राजपुत्री शशिप्रभा ।
विवाहे मातुलगृहं तज् जगाम निमन्त्रिता ॥
तया सह ययौ सो ऽपि कन्यकापरिवारया ।
विप्रपुत्रो मनःस्वामी कान्तकन्यास्वरूपधृत् ॥
तत्र तं कन्यकारूपधरं मन्त्रिसुतो ऽथ सः ।
दृष्ट्वा किल स्मरव्याधगाढबाणाहतो ऽभवत् ॥
ततो मुषितचित्तः संस् तया कपटकन्यया ।
ययौ मन्त्रिसुतः शून्यं स्वगृहं स्ववधूसखः ॥
तत्र तन्मुखलावन्यध्यानासक्तो जगाम सः ।
तीव्ररागमहाव्यालदष्टो मोहम् अशङ्कितम् ॥
किम् एतद् इति संभ्रान्ते जने तत्रोत्सवोज्झिते ।
तम् उपागाद् द्रुतं बुद्ध्वा स प्रज्ञासागरः पिता ॥
तेन चाश्वास्यमानो ऽपि पित्रा मोहात् प्रबुध्य सः ।
प्रलपन्न् इव सोन्मादम् उज्जगार मनःगतम् ॥
अस्वाधीनं च तं मत्वा तत् पितर्य् अतिविह्वले ।
तस्मिन् राजापि तद् बुद्ध्वा तत्रैव समुपाययौ ॥
स तं दृष्ट्वा झटित्य् एव गाढाभिष्वङ्गतो गतम् ।
सप्तमीं मदनावस्थां जगाद प्रकृतीर् नृपः ॥
कथं ब्राह्मणनिक्षेपः कन्या सास्मै प्रदीयते ।
तया विना च नियतं पश्चिमाम् एत्य् असौ दशाम् ॥
अस्मिन् नष्टे पितास्यैषो मम मन्त्री विनङ्क्ष्यति ।
एतन्नाशे राज्यनाशस् तद् इह ब्रूत का गतिः ॥
इत्य् उक्तास् तेन राज्ञा ताः सर्वाः प्रकृतयो ऽब्रुवन् ।
राज्ञो धर्मं निजं प्राहुः प्रजानां धर्मरक्षणम् ॥
मूलं तस्य विदुर् मन्त्रं स च मन्त्रिष्व् अवस्थितः ।
मन्त्रिनाशे मूलनाशाद् रक्ष्या धर्मक्षतिर् ध्रुवम् ॥
पापं च स्याद् द्विजस्यास्य ससूनोर् मन्त्रिणो वधात् ।
तस्माद् रक्ष्यो ऽयम् आसन्नो ऽवश्यं ते धर्मविप्लवः ॥
दातव्या मन्त्रिपुत्राय विप्रन्यस्ता कुमारिका ।
कालान्तरागते विप्रे क्रुद्धे प्रतिविधास्यते ॥
एवम् उक्तः प्रकृतिभिस् तथेति प्रत्यपद्यत ।
स राजा मन्त्रिपुत्राय दातुं तां कूटकन्यकाम् ॥
आनीतश् च स निश्चित्य लग्नं राजसूतागृहात् ।
कन्यारूपो मनःस्वामी तं जगाद महीपतिम् ॥
अन्येनान्यार्थम् आनीताम् अन्यस्मै मां ददासि चेत् ।
कामं तद् अस्तु राजा त्वं धर्माधर्मौ तवाद्य तौ ॥
अहं विवाहम् इच्छामि समयेनेदृशेन तु ।
एकशय्यां न नेतव्या पत्या तावद् अहं हठात् ॥
यावत् तीर्थानि षण्मासान् परिभ्रम्य स नागतः ।
एवं न चेत् कृत्तजिह्वां दन्तैर् जानीहि मां मृताम् ॥
इत्य् उक्ते समये तेन यूना कन्यावपुःभृता ।
राज्ञा स बोधितः प्राप निःवृत्तिं मन्त्रिपुत्रकः ॥
तथेति प्रतिपद्यैतत् कृत्वोद्वाहं किलाशु तम् ।
एकस्मिन् स्थापयित्वा च वासके ते सुरक्षिते ॥
तां मृगाङ्कवतीम् आद्यां वधूं कूटवधूं च ताम् ।
जगाम तीर्थयात्रायै मूडः कान्ताप्रियेच्छया ॥
स चोवास मनःस्वामी स्त्रीरूपो ऽत्र तया सह ।
मृगाङ्कवत्येकगृहे समानशयनासनः ॥
तथा स्थितं कदाचित् तं सा मृगाङ्कवती निशि ।
शय्यागृहे रहो ऽवादीद् बहिःसुप्ते परिच्छदे ॥
कथां काम्चित् त्वम् आख्याहि निद्रा नास्ति हि मे सखि ।
तच् छ्रुत्वाकथयत् सो ऽस्यै स्त्रीरूपस् तां कथां युवा ॥
यत्रेलाख्यस्य राजऋषेः सूर्यवंशभुवः पुरा ।
प्राप्तस्य गौरीशापेन स्र्तीत्वं विश्वैकमोहनम् ॥
अन्योन्यदर्शनप्रीत्या देवोद्यानवनान्तरे ।
अभूद् बुधेन संयोगः समभूच् च पुरूरवाः ॥
तां कथां कथयित्वा च धूर्तः पुन उवाच सः ।
तद् एवं देवतादेशान् मन्त्रौषधवशेन वा ॥
पुरुषः स्त्री कदाचित् स्यात् स्त्री वा जातु पुमान् भवेत् ।
भवन्ति चैवं संयोगाः कामजा महताम् अपि ॥
श्रुत्वैतत् तरुणी मुग्धा विवाहप्रोषितानुका ।
सा मृगाङ्कवती स्माह विश्वस्ता सहवासतः ॥
श्रुत्वैतां मे कथाम् एतद् अङ्गं सिमिसिमायते ।
हृदयं सीदतीवेदं तद् एतत् सखि किं वद ॥
तच् छ्रुत्वा सो ऽङ्गनारूपो विप्रः पुन उवाच ताम् ।
एतानि कामचिह्नानि नन्व् अपूर्वाणि ते सखि ॥
मयैतान्य् अनुभूतानि निगूहे न ह्य् अहं तव ।
इति तेनोदितावादीत् सा मृगाङ्कवती शनैः ॥
सखि प्राणसमा त्वं मे तत् कालज्ञा न वच्मि किम् ।
अपि पुंसः प्रवेशः स्याद् उपायेन हि केनचित् ॥
एवम् उक्तवतीम् एतां स च लब्धाशयस् तदा ।
प्राह धूर्तपतेः शिष्यो यद्य् एवं तद् वदामि ते ॥
वैष्णवो ऽस्ति प्रसादो मे येनाहं स्वेच्छया निशि ।
पुरुषः स्यां तद् एष अद्य भवामि त्वत्कृते पुमान् ॥
इत्य् उक्त्वा स मनःस्वामी निष्कृष्य गुलिकां मुखात् ।
यौवनोद्दामम् आत्मानं तस्यै कान्तम् अदर्शयत् ॥
ततः कथितविस्रम्भः सर्वस्वगतयन्त्रणः ।
कालोचितरसः को ऽपि तयोर् आसीद् रतोत्सवः ॥
अथ तत्र तया साकं स मन्त्रिसुतभार्यया ।
तस्थौ द्विजो दिवा नारी रात्रौ च पुरुषो भवन् ॥
आसन्नागमनं तं च बुद्ध्वा मन्त्रिसुतं दिनैः ।
ताम् आदाय निशि स्वैरं पलाय्य स ययौ ततः ॥
एतस्मिंश् च कथासंधौ मूलदेवः स तद्गुरुः ।
बुद्ध्वा तद् अखिलं भूत्वा भूयो वृद्धद्विजाकृतिः ॥
शशिनानुगतः सख्या तरुणद्विजरूपिणा ।
आगत्य तं यशःकेतुं प्रह्वो राजानम् अब्रवीत् ॥
आनीतो ऽयं मया पुत्रो देहि मे तां स्नुषाम् इति ।
ततः संमन्त्र्य स नृपः शापभीतस् तम् अभ्यधात् ॥
ब्रह्मन् न जाने क्व गता सा स्नुषा ते क्षमस्व तत् ।
अपराधात् सुतस्यार्थे ददामि स्वसुतां तव ॥
इत्य् उक्त्वा धूर्तराजं तं कृतकक्रोधनिष्ठुरम् ।
विब्रुवाणं जरद्विप्ररूपं प्रार्थ्य स भूपतिः ॥
तत्सख्ये कृततत्पुत्रव्यपदेशाय तां ददौ ।
तनयां शशिने तस्मै यथाविधि शशिप्रभाम् ॥
ततः स मूलदेवस् तौ यथाभूतौ वधूवरौ ।
आदाय स्वास्पदं प्रायाद् राजार्थेष्व् अकृतस्पृहः ॥
तत्र तस्मिंश् च मिलिते मनःस्वामीन्य् अभून् महान् ।
विवादो मूलदेवाग्रे शशिनस् तस्य चोभयोः ॥
मनःस्वाम्य् अब्रवीद् एषा दीयतां मे शशिप्रभा ।
कन्यैव हि मयोदूडा प्राग् असौ गुर्वनुग्रहात् ॥
शशी जगाद को ऽस्यास् त्वं मूर्ख दारा इयं मम ।
अग्निसाक्षिकम् एषा हि पित्रा मे प्रतिपादिता ॥
एवं मायाबलप्राप्तराजपुत्रीनिमित्ततः ।
विवादासक्तयोर् नासीत् परिच्छेदस् तयोर् द्वयोः ॥
तद् राजंस् त्वं मम ब्रूहि तावत् कस्योपपद्यते ।
भार्या सा संशयं छिन्धि पूर्वोक्तः समयो ऽस्ति ते ॥
इति वेतालतः श्रुत्वा तस्मात् स्कन्धाग्रवर्तिनः ।
स त्रिविक्रमसेनस् तं नृपतिः प्रत्यभाषत ॥
मन्ये शशिन एवासौ भार्या न्याय्या नृपात्मजा ।
यस्मै प्रदत्ता प्रकटं पित्रा धर्म्येण वर्त्मना ॥
मनःस्वामी तु तां भेजे चौर्याद् गान्धर्वधर्मतः ।
चौरस्य तु परस्वेषु स्वत्वं न्याय्यं न जातु चित् ॥
इति तस्य वचो निशम्य राज्ञो वेतालः स ययौ पुनस् तद् एव ।
सहसैव तद् अंसतः स्वधाम क्षितिपः सो ऽपि तम् अन्वियाय तूर्णम् ॥
मूल पाठ: Kathāsaritsāgara, Vetālapañcaviṃśatikā · Data entry Elena Artesani · GRETIL (Göttingen) · CC BY-NC-SA 4.0