भाषा

ENहिગુ
ग्रंथ पाठ

कथासरित्सागर, वेतालपञ्चविंशतिका · अध्याय 12.21

12.21.1

स त्रिविक्रमसेनो ऽथ गत्वा तं शिंशपातरोः ।
भूयो ऽप्य् आसाद्य वेतालं स्कन्धे जग्राह भूपतिः ॥

12.21.2

प्रस्थितं च तम् उर्वीशं स वेतालो ऽभ्यधात् पुनः ।
राजञ् श्रान्तो ऽसि तच् चित्रां कथाम् आख्यामि ते शृणु ॥

12.21.3

अस्त्य् अयोध्येति नगरी राजधानी बभूव या ।
रक्षःकुलकृतान्तस्य रामरूपस्य शार्ङ्गिणः ॥

12.21.4

तस्यां राजाभवद् वीरकेतुर् नाम ररक्ष यः ।
क्षोणीम् इमां महाबाहुः प्राकारो नगरीम् इव ॥

12.21.5

तस्मिन् महीपताव् अस्यां पुर्याम् एको महावणिक् ।
रत्नदत्ताभिधानो ऽभूद् वणिङ्नीवहनायकः ॥

12.21.6

नन्दयन्त्यभिधानायां पत्न्यां तस्योदपद्यत ।
सुता रत्नवती नाम देवताराधनार्जिता ॥

12.21.7

सा च तस्य पितुर् वेश्मन्य् अवर्धत मनस्विनी ।
रूपलावण्यविनयैः सहैव सहजैर् गुणैः ॥

12.21.8

यौवनस्थां च तां तस्माद् रत्नदत्तान् न केवलम् ।
महान्तो वणिजो यावद् राजानो ऽपि ययाचिरे ॥

12.21.9

सा तु पुम्द्वेषिणी नैच्छद् भर्तारम् अपि वासवम् ।
प्राणत्यागोद्यता सेहे न विवाहकथाम् अपि ॥

12.21.10

तेन तस्याः पिता तूष्णीं तस्थौ वात्सल्यदुःस्थितः ।
स च प्रवादो ऽयोद्यायां तस्यां सर्वत्र पप्रथे ॥

12.21.11

अत्रान्तरे सदा चौरैर् मुष्यमाणाः किलाखिलाः ।
संभूयात्र नृपं पौरा वीरकेतुं व्यजिज्ञपन् ॥

12.21.12

नित्यं मुष्यामहे चौरई रात्रौ रात्राव् इह प्रभो ।
लक्ष्यन्ते ते च नास्माभिस् तद् देवो वेत्तु यत् परम् ॥

12.21.13

इति पौरैः स विज्ञप्तो राजा ताम् अभितः पुरीम् ।
तस्करान्वेषणे छन्नान् आदिशद् रत्रिरक्षकान् ॥

12.21.14

ते ऽपि प्रापुर् न यच् चौरान् पुरी सामुष्यतैव च ।
तदैकदा स्वयं राजा निशि स्वैरं विनिर्ययौ ॥

12.21.15

एकाकी चात्तशस्त्रो ऽत्र भ्रमन् सो ऽपश्यद् एकतः ।
एकं प्राकारपृष्टेन यान्तं कम् अपि पूरुषम् ॥

12.21.16

निःशब्दपदविन्यासविचित्रगतिकौशलम् ।
सशङ्कलोलनयनं पश्यन्तं पृष्टतो मुहुः ॥

12.21.17

अयं स नूनं चौरो मे मुष्णात्य् एकचरः पुरीम् ।
इति मत्वैव निकटं स तस्योपययौ नृपः ॥

12.21.18

ततः स चौरो दृष्ट्वा तं नृपं को ऽसीत्य् अभाषत ।
चौरो ऽहम् इति राजा तं चौरं प्रत्यब्रवीत् स तम् ॥

12.21.19

सो ऽथ चौरो ऽभ्यधाद् दृष्ट्वा तर्हि तुल्यो ऽसि मे सुहृत् ।
तद् एहि मद्गृहं तावन् मित्राचारं करोमि ते ॥

12.21.20

तच् छ्रुत्वा स तथेत्य् उक्त्वा तेनैव सह भूपतिः ।
ययौ वनान्तःधरणीखातान्तःवर्ति तद्गृहम् ॥

12.21.21

अशेषभोगभोगाढ्यं भास्वद्दीपप्रकाशितम् ।
नवीनम् इव पातालं बलिराजानधिष्ठितम् ॥

12.21.22

तत्र प्रविष्टे तस्मिंश् च कृतासनपरिग्रहे ।
राज्ञि सो ऽभ्यन्तरगृहं प्रविवेशाथ तस्करः ॥

12.21.23

तत् क्षणं च तम् एत्यैका दासी तत्रावदन् नृपम् ।
महाभाग प्रविष्टस् त्वम् इह मृत्युमुखे कथम् ॥

12.21.24

एकचौरो ह्य् असौ पापं निःगत्यातः करिष्यति ।
ध्रुवं विस्वासघातीति तद् इतस् त्वरितं व्रज ॥

12.21.25

इत्य् उक्तः स तया राजा निःगत्यैव ततो द्रुतम् ।
गत्वा स्वराजधानीं च निशि सैन्यान्य् असज्जयत् ॥

12.21.26

संनद्धसैन्यश् चागत्य दस्योस् तस्य रुरोध तत् ।
भूगृहद्वारविवरं रसत्तूर्या-कुलैर् बलैः ॥

12.21.27

ततो रुद्धे गृहे वृत्तं प्रतिभेदम् अवेत्य सः ।
मरणे निःचितश् चौरः शूरो युद्धाय निर्ययौ ॥

12.21.28

निःगतश् च रणे चक्रे पराक्रमम् अमानुषम् ।
करांश् चकर्त करिणां जङ्घाश् चिच्छेद वाजिनाम् ॥

12.21.29

जहार च शिरांस्य् एको भटानां खड्गचर्मभृत् ।
ततस् तं क्षपितानीकम् अभ्यधावत् स्वयं नृपः ॥

12.21.30

स तस्य खड्गविद्याज्ञो राजा करणयुक्तितः ।
हस्ताज् जहार निःत्रिंशम् अथ तां क्षुरिकाम् अपि ॥

12.21.31

अशस्त्रं मुक्तशस्त्रो ऽथ बाहुयुद्धेन तं नृपः ।
चौरं निहत्य धरणौ सजीवग्राहम् अग्रहीत् ॥

12.21.32

निनाय तं च संयम्य सधनं नगरीं निजाम् ।
प्रातश् चाज्ञापयत् तस्य शूलारोपणनिग्रहम् ॥

12.21.33

नीयमानं च तं वध्यभूमिं चौरं सडिण्डिमम् ।
ददर्श सा रत्नवती वणिक्कन्यात्र हर्म्यतः ॥

12.21.34

व्रणितं धूलिलिप्ताङ्गम् अप्य् एतं मारमोहिता ।
दृष्ट्वैव गत्वा पितरं रत्नदत्तम् उवाच सा ॥

12.21.35

वधाय नीयते यो ऽयम् एष भर्ता वृतो मया ।
तन् नृपाद् रक्ष तातैनं न चेद् एनम् अनु म्रिये ॥

12.21.36

तच् छ्रुत्वा तां पितावादीत् किम् इदं पुत्रि भाषसे ।
या त्वं नेच्छसि भूपालाम् अपि भर्तॄन् अभीप्सतः ॥

12.21.37

सा पापं तस्करम् इमं वाञ्छस्य् आपद्गतं कथम् ।
इत्य् आदि पित्रा प्रोक्तापि निःचयान् न चचाल सा ॥

12.21.38

ततः स तत्पिता गत्वा तस्य चौरस्य सत्वरम् ।
सर्वस्वेनापि राजानं वधान् मोक्षम् अयाचत ॥

12.21.39

राजा तु तं न तत्याज हेमकोटिशतैर् अपि ।
स्वशरीरपणानीतं चौरं सर्वापहारिणम् ॥

12.21.40

ततः पितर्य् उपायाते विमुखे सा वणिक्सुता ।
अनुमर्तुं कृतस्नाना वार्यमाणापि बन्धुभिः ॥

12.21.41

आरुह्य शिबिकां तस्य दस्योर् वध्यभुवं ययौ ।
अन्वीयमाना रुदता पित्रा मात्रा जनेन च ॥

12.21.42

तावच् च वधकैः सो ऽत्र चौरः शूले ऽधिरोपितः ।
तां ददर्श गलत्प्राणस् तथा सज्ञातिम् आगताम् ॥

12.21.43

जनाच् छ्रुत्वा च वृत्तान्तम् अश्रु मुक्त्वा क्षणं ततः ।
हसन् स चौरः किम् अपि प्राणाञ् शूलगतो जहौ ॥

12.21.44

ततो ऽवतारितं शूलात् सा तच्चौरकलेवरम् ।
आदाय चारुरोहात्र चितां साध्वी वणिक्सुता ॥

12.21.45

तत् क्षणं च श्मशाने ऽत्र भैरवः कृतसंनिधिः ।
अदृश्यो भगवान् एवं ताम् उवाचान्तरिक्षतः ॥

12.21.46

अस्मिन् स्वयम्वरपताव् एवं भक्त्या तवानया ।
तुष्टो ऽस्मि तद् वरं मत्तः प्रार्थयस्व पतिव्रते ॥

12.21.47

तच् छ्रुत्वैव वरं देवाद् एवं वव्रे प्रणम्य सा ।
नाथ पुत्रशतं भूयाद् अपुत्रस्यापि मत्पितुः ॥

12.21.48

येनानन्यसुतो नैषः प्राणाञ् जह्यान् मया विना ।
इति प्रोक्तवतीम् एनां साध्वीं देवो ऽब्रवीत् पुनः ॥

12.21.49

पितुः पुत्रशतं ते ऽस्तु वरम् अन्यं वृणीष्व च ।
त्वादृशी दृढसत्त्वा हि नैतावन्मात्रम् अर्हति ॥

12.21.50

तद् आकर्ण्याथ सावादीत् प्रसन्नो मयि चेत् प्रभुः ।
तज् जीवत्व् एष भर्ता मे धार्मिकश् च सदास्त्व् इति ॥

12.21.51

एवम् अस्त्व् अक्षतो जीवन्न् उत्तिष्ठत्व् एष ते पतिः ।
धार्मिकश् चास्तु राजास्य वीरकेतुश् च तुष्यतु ॥

12.21.52

इत्य् उक्तवत्य् अनालक्ष्यमूर्तौ शर्वे नभःस्थिते ।
उत्तस्थाव् अक्षताङ्गो ऽत्र चौरो जीवंस् तदैव सः ॥

12.21.53

ततो विस्मितहृष्टः सन् रत्नदत्तः सुतां वणिक् ।
आदाय तां रत्नवतीं चौरं जामातरं च तम् ॥

12.21.54

प्रहृष्टैर् बान्धवैः साकं प्रविश्य निजमन्दिरम् ।
लब्धपुत्रवरश् चक्रे स्वानन्दोचितम् उत्सवम् ॥

12.21.55

ज्ञातवृत्तान्ततुष्टश् च तदैवानाय्य तं नृपः ।
एकवीरं वीरकेतुश् चौरं सेनापतिं व्यधात् ॥

12.21.56

चौर्यान् निवृत्तो ऽथ स तां परिणीय वणिक्सुताम् ।
एकवीरः सुखं तस्थौ मार्गस्थो राजसंमतः ॥

12.21.57

इति कथयित्वा स कथां वेतालो दत्तपूर्वशापभयम् ।
अंसस्थितस् त्रिविक्रमसेनं पप्रच्छ तं क्षितिपम् ॥

12.21.58

राजन् ब्रूहि सपितृकाम् उपस्थितां तां वणिक्सुतां दृष्ट्वा ।
चौरेण शूलपृष्टे रुदितं हसितं च किं तेन ॥

12.21.59

अथ राजा प्रत्यवदद् रुदितं चौरेण दुःखतस् तेन ।
नास्यानृण्यम् अकारणबन्धोर् यातो ऽस्मि वणिज इति ॥

12.21.60

आश्चर्यतश् च हसितं किम् इयं कन्या नृपान् वरान् हित्वा ।
मय्य् अस्मिन्न् अनुरक्ता स्त्रीचित्तम् अहो विचित्रम् इति ॥

12.21.61

इत्य् उक्तवाक्यस्य महीभृतो ऽंसान् मायी स्वशक्त्यैव तदा जगाम ।
स्वं धाम वेतालवरः स राजाप्य् एतं पुनः पूर्ववद् अन्वगच्छत् ॥

मूल पाठ: Kathāsaritsāgara, Vetālapañcaviṃśatikā · Data entry Elena Artesani · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc