कथासरित्सागर, वेतालपञ्चविंशतिका · अध्याय 12.20
अथ गत्वा पुनः प्राप्य शिंशपातस् ततो नृपः ।
स त्रिविक्रमसेनस् तं स्कन्धे वेतालम् आददे ॥
आयान्तं च स वेतालो भूयस् तं नृपम् अब्रवीत् ।
राजञ् शृणु कथाम् एकां संक्षिप्तां वर्णयामि ते ॥
अस्ति वाराणसी नाम पुरी हरनिवासभूः ।
देवस्वामीति तत्रासीन् मान्यो नरपतेर् द्विजः ॥
महाधनस्य तस्यैको हरिस्वामीत्य् अभूत् सुतः ।
तस्य भार्या च लावण्यवतीत्य् अत्युत्तमाभवत् ॥
तिलोत्तमादिनाकस्त्रीनिःमाणे प्राप्तकौशलः ।
अनर्घरूपलावण्यां मन्ये यां निर्ममे विधिः ॥
तया स कान्तया साकं हरिस्वामी कदाचन ।
रतिश्रान्तो ययौ निद्रां हर्म्ये चन्द्रांशुशीतले ॥
तत् कालं तेन मार्गेण कामचारी विहायसा ।
आगान् मदनवेगाख्यो विद्याधरकुमारकः ॥
स तत्र लावण्यवतीं पत्युः पार्श्वे ददर्श ताम् ।
सुप्तां रतिक्लमस्रस्तवस्त्रव्यक्ताङ्गसौष्ठवाम् ॥
तद्रूपहृतचित्तः सन् मदनान्धः स तत् क्षणम् ।
सुप्ताम् एव निपत्यैतां गृहीत्वा नभसा ययौ ॥
क्षणात् प्रबुद्धो ऽथ युवा हरिस्वामी स तत्पतिः ।
प्राणेश्वरीम् अपश्यंस् ताम् उदतिष्ठत् ससंभ्रमः ॥
अहो किम् एतत् क्व गता कुपिता सा नु किं मयि ।
छन्ना जिज्ञासितुं किं मे चित्तं परिहसत्य् उत ॥
इत्य् अनेकविकल्पौघव्याकुलस् ताम् इतस् ततः ।
हर्म्यप्रासादवलभीष्व् अन्विष्यन् सो ऽभ्रमन् निशि ॥
अगृहोद्यानतश् चिन्वन् यन् न प्राप कुतो ऽपि ताम् ।
तत् स शोकाग्निसंतप्तो विललापाश्रुगद्गदम् ॥
हा चन्द्रबिम्बवदने हा ज्योत्स्नागौरी हा प्रिये ।
रात्र्या तुल्यगुणद्वेषात् किं नु सोढासि नानया ॥
त्वया कान्त्या जितो बिभ्यद् इव चन्दनशीतलैः ।
करैर् असुखयद् यो मां सो ऽयम् इन्दुस् त्वया विना ॥
लब्धान्तर इवेदानीं तैर् एव तुदति प्रिये ।
प्रज्वलद्भिर् इवाङ्गारैर् विषदिग्धैर् इवाशुगैः ॥
इत्य् आदि क्रन्दतस् तस्य सा हरिस्वामिनस् तदा ।
कृच्छ्राद् व्यतीयाय निशा न पुनर् विरहव्यथा ॥
प्रातर् बिभेद विश्वस्य करैः संतमसं रविः ।
भेत्तुं न चक्षमे तस्य मोहान्धतमसं पुनः ॥
विलब्ध इव चक्राह्वैस् तस्य तीर्णनिशैस् तदा ।
भेजे शतगुनीभावं करुणाक्रन्दितध्वनिः ॥
स्वजनैः सान्त्व्यमानो ऽपि वियोगानलदीपितः ।
न च लेभे द्विजयुवा धृतिं तां प्रेयसीं विना ॥
इह स्थितम् इह स्नातं कृतम् अत्र प्रसाधनम् ।
विहृतं च तयात्रेति ययौ त्व् इत इतो रुदन् ॥
मृता तावन् न सा तत् किम् आत्मैवं हन्यते त्वया ।
अवश्यं ताम् अवाप्तासि जीवञ् जातु कुतःचन ॥
तद् धैर्यम् अवलम्बस्व तां गवेषय च प्रियाम् ।
अप्राप्यं नाम नेहास्ति धीरस्य व्यवसायिनः ॥
इति बन्धुसुहृद्वाक्यैर् बोधितः सो ऽथ कृच्छ्रतः ।
दिनैः कैःचिद् धरिस्वामी बबन्ध धृतिम् आस्थया ॥
अचिन्तयच् च सर्वस्वं कृत्वा ब्राह्मणसाद् अहम् ।
भ्रमामि तावत् तीर्थानि क्षपयाम्य् अघसंचयम् ॥
पापक्षयाद् धि तां जातु प्रियां भ्राम्यन्न् अवाप्नुयाम् ।
इत्य् आलोच्य यथावस्थं स्नानाद्य् उत्थाय सो ऽकरोत् ॥
अन्येद्युश् च विचित्रान्नपानं सत्त्रे द्विजन्मनाम् ।
चकारावारितं किं च ददौ धनम् अशेषतः ॥
ब्राह्मण्यमात्रवित्तस्य निःगत्यैव स्वदेशतः ।
प्रियाप्राप्तीच्छया सो ऽथ तीर्थानि भ्रमितुं ययौ ॥
भ्राम्यतश् च जगामास्य भीमो ग्रीष्मर्तुकेसरी ।
प्रचण्डादित्यवदनो दीप्ततद्रश्मिकेसरः ॥
प्रियाविरहसंतप्तपान्थनिःश्वासमारुतैः ।
न्यस्तोष्माण इवात्युष्णा वान्ति स्म च समीरणाः ॥
शुष्यद्विदीर्णपङ्काश् च हृदयैः स्फुटितैर् इव ।
जलाशया ददृशिरे घर्मलुप्ताम्बुसंपदः ॥
चीरीचीत्कारमुखरास् तापम्लानदलाधराः ।
मधुश्रीविरहान् मार्गेष्व् अरुदन्न् इव पादपाः ॥
तस्मिन् काले ऽर्कतापेन वियोगेन क्षुधा तृषा ।
नित्याध्वना च स क्लान्तो विरूक्षक्षामधूसरः ॥
भोजनार्थि हरिस्वामी प्राप ग्रामं क्वचिद् भ्रमन् ।
पद्मनाभाभिधानस्य गृहं विप्रस्य सत्त्रिणः ॥
तत्र दृष्ट्वा स भुञ्जानान् विप्रान् अभ्यन्तरे बहून् ।
द्वारशाखां समालम्ब्य तस्थौ निःशब्दनिःचलः ॥
तथास्थितं तम् आलोक्य सत्त्रिणस् तस्य गेहिनी ।
पद्मनाभस्य संजातदया साध्वी व्यचिन्तयत् ॥
अहो क्षुन् नाम गुर्व्य् एषा न कुर्यात् कस्य लाघवम् ।
यद् एवम् अयम् अन्नार्थी को ऽप्य् आस्ते द्वार्य् अधःमुखः ॥
दूराध्वाभ्यागतः स्नातस् तावत् क्षीणेन्द्रियः क्षुधा ।
तद् एषश् चान्नदानस्य पात्रम् इत्य् अवधार्य सा ॥
परमान्नभृतं साध्वी तस्मै सघृतशर्करम् ।
पात्रम् उत्क्षिप्य पाणिभ्याम् आनीय प्रश्रिता ददौ ॥
जगाद चैतं भुङ्क्ष्वैतद् गत्वा वापीतटे क्वचित् ।
इदं स्थानं समुच्छिष्टं भुञ्जानैर् ब्राह्मनैर् वृतम् ॥
तथेति सो ऽन्नपात्रं तद् गृहीत्वा नातिदूरतः ।
गत्वा स्थापितवान् वाप्यास् तटे वटतरोर् अधः ॥
प्रक्षाल्य पाणिपादं च वाप्याम् आचम्य चात्र सः ।
यावद् भक्षयितुं तुष्टः परमान्नम् उपैति तत् ॥
तावद् गृहीत्वा कृष्णाहिं चञ्च्वा पादयुगेन च ।
श्येनः कुतःचिद् आगत्य तरौ तस्मिन्न् उपाविशत् ॥
तेन तस्योह्यमानस्य सर्पस्याक्रम्य पक्षिणा ।
उत्क्रान्तजीवितस्यास्याद् विषलाला विनिर्ययौ ॥
सा तत्राधःस्थिते तस्मिन्न् अन्नपात्रे ऽपतत् तदा ।
तच् चादृष्ट्वा हरिस्वामी स एत्यान्नम् अभुङ्क्त तत् ॥
क्षुधार्तस्य तदा तस्य मृष्टान्नं तत् क्षणेन तत् ।
कृत्स्नं भुक्तवतस् तीव्रा प्रोदभूद् विषवेदना ॥
अहो विधौ विपर्यस्ते न विपर्यस्यतीह किम् ।
यद् विषीभूतम् अन्नं मे सक्षीरघृटशर्करम् ॥
इति जल्पन् विषार्तः स हरिस्वामी परिस्खलन् ।
गत्वा तां सत्त्रिणस् तस्य विप्रस्योवाच गेहिनीम् ॥
त्वद्दत्ताद् विषम् अन्नान् मे जातं तद् विषमन्त्रिणम् ।
कम्चिन् ममानय क्षिप्रं ब्रह्महत्यान्यथास्ति ते ॥
इत्य् उक्त्वैव स तां साध्वीं किम् एतद् इति विह्वलाम् ।
हरिस्वामी परावृत्तनेत्रः प्राणैर् व्ययुज्यत ॥
ततः सा तेन निःदोषाप्य् आतिथेय्य् अपि सत्त्रिणा ।
भार्या निष्कासिता गेहान् मिथ्यातिथिवधक्रुधा ॥
साप्य् उत्पन्नमृषावद्या सुशुभाद् अपि कर्मणः ।
जातावमाना तपसे साध्वी तीर्थम् अशिशृइयत् ॥
कस्य विप्रवधः सो ऽस्तु सर्पश्येनान्नदेश्व् इति ।
तद् अभूद् धर्मराजाग्रे वादो नासीत् तु निःणयः ॥
तत् त्रिविक्रमसेन त्वं रजन् ब्रूहि ममाधुना ।
कस्य सा ब्रह्महत्येति पूर्वः शापः स ते ऽन्यथा ॥
इति वेतालतो राजा श्रुत्वा शापनियन्त्रितः ।
स त्रिविक्रमसेनस् तं मुक्तमौनो ऽब्रवीद् इदम् ॥
तस्य तत् पातकं तावत् सर्पस्य यदि वास्य कः ।
विवशस्यापराधो ऽस्ति भक्ष्यमाणस्य शत्रुणा ॥
अथ स्येनस्य तेनापि किं दुष्टं क्षुधितात्मना ।
अकस्मात् प्राप्तम् आनीय भक्ष्यं भक्षयता निजम् ॥
दंपत्योर् अन्नदात्रोर् वा तयोर् एकस्य वा कुतः ।
अभाव्यदोषौ धर्मैकप्रवृत्तौ ताव् उभौ यतः ॥
तद् अहं तस्य मन्ये सा ब्रह्महत्या जडात्मनः ।
अविचार्यैव यो ब्रूयाद् एषाम् एकतमस्य ताम् ॥
इत्य् उक्तवतो ऽस्य नृपस्यांसाद् भूयो ऽप्य् अगात् स वेतालः ।
निजपदम् एव नृपो ऽपि स पुनर् अपि धीरस् तम् अन्वगाद् एव ॥
मूल पाठ: Kathāsaritsāgara, Vetālapañcaviṃśatikā · Data entry Elena Artesani · GRETIL (Göttingen) · CC BY-NC-SA 4.0