भाषा

ENहिગુ
ग्रंथ पाठ

कथासरित्सागर, वेतालपञ्चविंशतिका · अध्याय 12.19

12.19.1

स त्रिविक्रमसेनो ऽथ पुनस् तं शिंशपातरुम् ।
गत्वा प्राप्य च वेतालं राजा स्कन्धे चकार तम् ॥

12.19.2

प्रतस्थे च तम् आदाय तूष्णीम् एव स पूर्ववत् ।
ततो भूयस् तम् आह स्म वेतालः सो ऽंसपृष्ठतः ॥

12.19.3

राजन्न् एवम् अनुद्विग्नः पर्याप्तम् असि मे प्रियः ।
तद् एतां शृण्व् अखेदाय हृद्याम् आख्यामि ते कथाम् ॥

12.19.4

अङ्गदेशे यशःकेतुर् इति राजाभवत् पुरा ।
क्ष्माम् आश्रितो ऽङ्गगुप्त्यर्थम् अदग्धो ऽन्य इव स्मरः ॥

12.19.5

बाहुवीर्यजिताशेषवैरिवर्गस्य तस्य च ।
दीर्घदर्शीत्य् अभून् मन्त्री शक्रस्येव बृहस्पतिः ॥

12.19.6

तस्मिन् मन्त्रिणि विन्यस्य राज्यं स हतकण्टकम् ।
शनैः सुखैकसक्तो ऽभूद् वयःरूपमदान् नृपः ॥

12.19.7

तस्थाव् अन्तःपुरे शश्वन् नास्थाने प्रमदास्पदे ।
शुश्राव रक्तिमद् गीतं वचनं न हितैषिणाम् ॥

12.19.8

रज्यति स्म च निःचिन्तो जालवातायनेषु सः ।
न पुना राजकार्येषु बहुछिद्रेषु जात्व् अपि ॥

12.19.9

दीर्घदर्शी तु तद् राज्यचिन्ताभारं समुद्वहन् ।
अतिष्ठत् स महामन्त्री दिवानिशम् अतन्द्रितः ॥

12.19.10

नाममात्रे कृतधृतिं प्रक्षिप्य व्यसने नृपम् ।
मन्त्री राज्ञः श्रियं भुण्क्ते दीर्घदर्शीह साम्प्रतम् ॥

12.19.11

इत्य् उत्पन्ने महत्य् अत्र जनवादे ऽथ गेहिनीम् ।
स्वैरं मेधाविनीं नाम दीर्घदर्शी जगाद सः ॥

12.19.12

प्रिये राज्ञि सुखासक्ते तद्भारं वहतो ऽपि मे ।
राज्यं भक्षितम् एतेनेत्य् उत्पन्नम् अयशो जने ॥

12.19.13

लोकवादश् च मिथ्यापि महताम् इह दोषकृत् ।
तत्याज किं न रामो ऽपि जनवादेन जानकीम् ॥

12.19.14

तद् अत्र किं मया कार्यम् इत्य् उक्ते तेन मन्त्रिणा ।
भार्या मेधाविनी धीरा सान्वर्था तम् अभाषत ॥

12.19.15

तीर्थयात्रापदेशेन युक्त्यापृच्छ्य महीपतिम् ।
कम्चित् कालं विदेशं ते गन्तुं युक्तं महामते ॥

12.19.16

एवं ते निःस्पृहस्यैष जनवादो निवर्त्स्यति ।
त्वय्य् अस्थिते ततो राज्यम् उद्वक्ष्यति नृपः स्वयम् ॥

12.19.17

ततश् चास्य शनैर् एतद् व्यसनं हानिमेष्यति ।
आगतस्यात्र निःगर्हा भवित्री मन्त्रिता च ते ॥

12.19.18

इत्य् उक्तो भार्यया गत्वा दीर्घदर्शी तथेति सः ।
कथाप्रसङ्गे तं भूपं यशःकेतुं व्यजिज्ञपत् ॥

12.19.19

अनुजानीहि मां राजन् दिवसान् कान्चिद् अप्य् अहम् ।
व्रजामि तीर्थयात्रायै धर्मो हि प्रेप्सितः स मे ॥

12.19.20

तच् छ्रुत्वा सो ऽब्रवीद् राजा मैवं तीर्थैर् विना परः ।
दानादिः किं न धर्मो ऽस्ति स्वर्ग्यस् ते स्वगृहेष्व् अपि ॥

12.19.21

अथावोचत् स मन्त्री तम् अर्थशुद्ध्यादि मृग्यते ।
दानादौ नित्यशुद्धानि तीर्थानि नृपते पुनः ॥

12.19.22

यावच् च यौवनं राजंस् तावद् गम्यानि धीमता ।
अविश्वास्ये शरीरे हि संगमस् तैः कुतो ऽन्यदा ॥

12.19.23

इति तस्मिन् वदत्य् एव राज्ञि चैवं निषेधति ।
प्रविश्यात्र प्रतीहारो राजानं तं व्यजिज्ञपत् ॥

12.19.24

देव व्योमसरःमध्यम् अंशुमाली विगाहते ।
तद् उत्तिष्ठत सैषा वः स्नानवेलातिवर्तते ॥

12.19.25

श्रुत्वैतत् सहसा स्नातुम् उदतिष्ठन् महीपतिः ।
यात्रोन्मुखः स मन्त्री च तं प्रणम्य गृहं ययौ ॥

12.19.26

तत्रावस्थाप्य भार्यां ताम् अनुयात्रानिवारिताम् ।
स प्रतस्थे ततो युक्त्या स्वभृत्यैर् अप्य् अतर्कितः ॥

12.19.27

एकाकी च भ्रमंस् तांस् तान् देशांस् तीर्थानि च व्रजन् ।
स प्राप पुण्ड्रविषयं दीर्घदर्शी सुनिःचयः ॥

12.19.28

तत्र पत्तन एकस्मिन्न् अदूरे ऽब्धेः प्रविश्य सः ।
एकं देवकुलं शैवं तत्प्राङ्गण उपाविशत् ॥

12.19.29

तत्रार्ककरसंतापक्लान्तं दूराध्वधूसरम् ।
ददर्श निधिदत्ताख्यो वणिग् देवार्चनागतः ॥

12.19.30

स तं तथाविधं दृष्ट्वा सोपवीतं सुलक्षणम् ।
संभाव्य चोत्तमं विप्रम् आतिथेयो ऽनयद् गृहम् ॥

12.19.31

तत्र चापूजयत् स्नानभोजनाद्यैस् तम् उत्तमैः ।
कः कुतस् त्वं क्व यासीति विश्रान्तं च स पृष्टवान् ॥

12.19.32

दीर्घदर्शीति विप्रो ऽहम् अङ्गदेशाद् इहागतः ।
तीर्थयात्रार्थम् इत्य् एव गाम्भीर्यात् सो ऽप्य् उवाच तम् ॥

12.19.33

ततः स निधिदत्तो ऽपि तं जगाद महावणिक् ।
सुवर्णद्वीपगमनायोद्यतो ऽहं वणिज्यया ॥

12.19.34

तत् त्वं तिष्ठेह मद्गेहे यावद् एष्याम्य् अहं ततः ।
तीर्थयात्रापरिश्रान्तो विश्रान्तो ह्य् अथ यास्यसि ॥

12.19.35

तच् छ्रुत्वा सो ऽब्रवीद् दीर्घदर्शी तर्हि ममेह किम् ।
त्वयैव सह यास्यामि सार्थवाह यथासुखम् ॥

12.19.36

एवम् अस्त्व् इति तेनोक्ते साधुना सो ऽथ तद्गृहे ।
चिराद् अवाप्तशयनो निशां मन्त्री निनाय ताम् ॥

12.19.37

अन्येद्युर् अथ तेनैव वणिजा सह वारिधिम् ।
गत्वारुरोह तद्भाण्डपूर्णं प्रवहणं च सः ॥

12.19.38

तेन गच्छन् प्रवहणेनाब्धिम् अद्भुतभीषणम् ।
विलोकयन् स संप्राप स्वर्णद्वीपं क्रमेण तत् ॥

12.19.39

क्व मन्त्रिमुख्यता चास्य क्व वाध्वोल्लङ्घिताम्बुधिः ।
अयशःभीरवः किं न कुर्वते बत साधवः ॥

12.19.40

तत्र द्वीपे समं तेन कम्चित् कालम् उवास सः ।
वणिजा निधिदत्तेन कुर्वता क्रयविक्रयौ ॥

12.19.41

आगच्छंश् च ततो ऽकस्मात् तद्युक्तो वहनस्थितः ।
कल्पवृक्षं ददर्शाब्धऊर्मेः पश्चात् समुत्थितम् ॥

12.19.42

प्रवालशाखासुभगैः स्कन्धैर् जाम्बूनदोज्ज्वलैः ।
फलैर् मणिमयैः कान्तैः कुसुमैश् चोपशोभितम् ॥

12.19.43

तस्य स्कन्धे च सद्रत्नपर्यङ्कोत्सङ्गवर्तिनीम् ।
कन्याम् अत्यद्भुताकारकमनीयाम् अवैक्षत ॥

12.19.44

अहो किम् एतद् इत्य् एवं यावद् ध्यायति स क्षणम् ।
तावत् सा वीणिनी कन्या गातुम् एवं प्रचक्रमे ॥

12.19.45

यत् कर्मबीजम् उप्तं येन पुरा निःचितं स तद् भुङ्क्ते ।
पूर्वकृतस्य हि शक्यो विधिनापि न कर्तुम् अन्यथाभावः ॥

12.19.46

इत्य् उद्गाय क्षणात् तस्मिन्न् अम्भःधौ दिव्यकन्यका ।
सकल्पद्रुमपर्यङ्कशय्यात्रैव ममज्ज सा ॥

12.19.47

किमप्य् अपूर्वम् अद्येदं मया दृष्टम् इहाद्भुतम् ।
क्वाब्धिः क्व दृष्टनष्टो ऽत्र गायद्दिव्याङ्गनस् तरुः ॥

12.19.48

यदि वा वन्द्य एषो ऽब्धिर् आकरः शश्वद् ईदृशाम् ।
लक्ष्मीन्दुपारिजाताद्या नास्मात् ते ते किम् उद्गताः ॥

12.19.49

इति तं चिन्तयन्तं च तत्क्षणं दीर्घदर्शिनम् ।
विलोक्य विस्मयाविष्टं कर्णधारादयो ऽब्रुवन् ॥

12.19.50

एवम् एषा सदैवेह दृश्यते वरकन्यका ।
निमज्जति च तत्कालं तवैतद् दर्शनं नवम् ॥

12.19.51

इत्य् उक्तस् तैः समं तेन निधिदत्तेन स क्रमात् ।
मन्त्री चित्रीयमाणो ऽब्धेस् तीरं पोतगतो ऽभ्यगात् ॥

12.19.52

तत्रोत्तारितभाण्डेन तेनैव वणिजा सह ।
जगाम हृष्टभृत्येन सोत्सवं सो ऽथ तद्गृहम् ॥

12.19.53

स्थित्वा नातिचिरं तत्र निधिदत्तम् उवाच तम् ।
सार्थवाह भवद्गेहे विश्रान्तो ऽहं चिरं सुखम् ॥

12.19.54

इदानीं गन्तुम् इच्छामि स्वदेशं भद्रम् अस्तु ते ।
इत्य् उक्त्वा तम् अनिच्छन्तम् अप्य् आमन्त्र्य वणिक्पतिम् ॥

12.19.55

दीर्घदर्शी स सत्त्वैकसहायः प्रस्थितस् ततः ।
क्रमोल्लङ्घितदूराध्वा प्रापाङ्गविषयं निजम् ॥

12.19.56

तत्र तं ददृशुश् चारा बहिर् नगरम् आगतम् ।
ये यशःकेतुना राज्ञा प्राङ्न्यस्तास् तद्गवेषणे ॥

12.19.57

तैश् च गत्वा स विज्ञप्तश् चारई राजा तम् अभ्यगात् ।
स्वयं निःगत्य नगरात् तद्विश्लेषसुदुःखितः ॥

12.19.58

उपेत्य च परिष्वङ्गपूर्वं तम् अभिनन्द्य सः ।
निनायाभ्यन्तरं भूपश् चिराध्वक्षामधूसरम् ॥

12.19.59

त्यक्त्वास्मान् किं त्वया नीतं न परं बत मानसम् ।
यावच् छरीरम् अप्य् एतन् निःस्नेहपरुषां दशाम् ॥

12.19.60

किं वा भगवतो वेत्ति भवितव्यस्य को गतिम् ।
यद् अकस्मात् तवैषाभूत् तीर्थादिगमने मतिः ॥

12.19.61

तद् ब्रूहि के त्वया भ्रान्ता देशा दृष्टं च किं नवम् ।
इति तत्र च तं राजा स जगाद स्वमन्त्रिणम् ॥

12.19.62

ततः सुवर्णद्वीपान्तं सो ऽध्वानं वर्णयन् क्रमात् ।
अब्धाव् उद्गमिनीं तस्मै तां दृष्टां दिव्यकन्यकाम् ॥

12.19.63

गायन्तीं त्रिजगत्सारभूतां कल्पतरुस्थिताम् ।
यथावत् कथयामास दीर्घदर्शी महीभृते ॥

12.19.64

स तां श्रुत्वैव च नृपस् तथा स्मरवशो ऽभवत् ।
यथा तया विना मेने निष्फले राज्यजीविते ॥

12.19.65

जगाद च तम् एकान्ते नीत्वा स्वसचिवं तदा ।
द्रष्टव्यासौ मया-वश्यं जीवितं नास्ति मे ऽन्यथा ॥

12.19.66

यामि त्वदुक्तेन पथा प्रणम्य भवितव्यताम् ।
निवारणीयो नाहं ते नानुगम्यश् च सर्वथा ॥

12.19.67

गुप्तम् एको हि यास्यामि राज्यं रक्ष्यं तु मे त्वया ।
मद्वचो मान्यथा कार्षीः शापितो ऽसि ममासुभिः ॥

12.19.68

इत्य् उक्त्वा तत्प्रतिवचो निरस्य विससर्ज तम् ।
मन्त्रिणं स्वगृहं राजा चिरोत्कं स्वजनं प्रति ॥

12.19.69

तत्रानल्पोत्सवे ऽप्य् आसीद् दीर्घदर्शी सुदुःमनाः ।
स्वामिन्य् असाध्यव्यसने सुखं सन्मन्त्रिणां कुतः ॥

12.19.70

अन्येद्युश् च स तद्धस्तन्यस्तराज्यभरो नृपः ।
यशःकेतुस् ततः प्रायान् निशि तापसवेषभृत् ॥

12.19.71

गच्छंश् च कुशनाभाख्यं मुनिं मार्गे ददर्श सः ।
सो ऽत्र तं तापसाकल्पं प्रणतं मुनिर् आदिशत् ॥

12.19.72

लक्ष्मीदत्तेन वणिजा सह पोतेन वारिधौ ।
गत्वा प्रप्स्यसि ताम् इष्टां कन्यां व्रज निःआकुलः ॥

12.19.73

इति तद्वचसा प्रीतास् तं प्रणम्य स पार्थिवः ।
गच्छन् देशान् नदीर् अद्रीन् क्रान्त्वा तं प्रापद् अम्बुधिम् ॥

12.19.74

सुतारशङ्खधवलैर् वीचिभ्रूभिर् विकस्वरैः ।
वीक्षमाणम् इवावर्तनेत्रैर् आतिथ्यसंभ्रमात् ॥

12.19.75

तत्तीरे वणिजा तेन मुनिप्रोक्तेन संगतिः ।
लक्ष्मीदत्तेन जज्ञे ऽस्य स्वर्णद्वीपं यियासुना ॥

12.19.76

तेनैव सह चक्राङ्कपादमुद्रादि दर्शनात् ।
प्रह्वेणारुह्य वहनं प्रतस्थे सो ऽम्बुधौ नृपः ॥

12.19.77

मध्यम् अब्धेश् च संप्राप्ते वहने वारिमध्यतः ।
उदगात् कल्पविटपिस्कन्धस्था सात्र कन्यका ॥

12.19.78

यावत् पश्यति तां राजा चकोर इव चन्द्रिकाम् ।
तावत् सा गायति स्मैवं वल्लकीवाद्यसुन्दरम् ॥

12.19.79

यत् कर्मबीजम् उप्तं येन पुरा निःचितं स तद् भुङ्क्ते ।
पूर्वकृतस्य हि शक्यो विधिनापि न कर्तुम् अन्यथाभावः ॥

12.19.80

तस्माद् यत्र यथा यद् भवितव्यं यस्य दैवयोगेन ।
तत्र तथा तत्प्राप्त्यै विवशो ऽसौ नीयते ऽत्र न भ्रान्तिः ॥

12.19.81

इति सूचितभव्यार्थां गायन्तीं तां विभावयन् ।
निःस्पन्दः स क्षणं तस्थौ राजा स्मरशराहतः ॥

12.19.82

रत्नाकर नमः सत्यम् अगाधहृदयाय ते ।
येन त्वयैतां प्रच्छाद्य विप्रलब्धो हरिः श्रिया ॥

12.19.83

तत् सुरैर् अप्य् अलभ्यान्तं सपक्षक्ष्माभृदाश्रयम् ।
शरणं त्वां प्रपन्नो ऽहम् इष्टसिद्धिं विधत्स्व मे ॥

12.19.84

एवं यावत् समुद्रं तं स नतः स्तौति भूमिपः ।
तावत् सा कन्यका तत्र निममज्ज सपादपा ॥

12.19.85

तद् दृष्ट्वैवानुमार्गे ऽस्याः स राजात्मानम् अक्षिपत् ।
वारिधाव् अत्र कामाग्निसंतापस्येव शान्तये ॥

12.19.86

तद् वीक्ष्या-शङ्कितं मत्वा विनष्टं तं स सज्जनः ।
लक्ष्मीदत्तो वणिग् दुःखाद् देहत्यागोद्यतो ऽभवत् ॥

12.19.87

मा कार्षीः साहसं नास्ति मग्नस्यास्याम्भुधौ भयम् ।
एषो राजा यशःकेतुर् नाम्ना तापसवेषभृत् ॥

12.19.88

एतत् कन्यार्थम् आयातः पूर्वभार्येयम् अस्य च ।
एतां प्राप्य पुनश् चासाव् अङ्गराज्यं समेष्यति ॥

12.19.89

इत्य् अथाश्वासितो वाचा तत्कालं गगनोत्थया ।
सार्थवाहो यथाकामं स जगामेष्टसिद्धये ॥

12.19.90

स राजापि यशःकेतुर् निमग्नो ऽन्तो महोदधौ ।
अकस्मान् नगरं दिव्यम् अपश्यज् जातविस्मयः ॥

12.19.91

भास्वन्मणिमयस्तम्भैः काञ्चनोज्ज्वलभित्तिभिः ।
विराजमानं प्रासादैर् मुक्ताजालगवाक्षकैः ॥

12.19.92

नानारत्नशिलापट्टबद्धसोपानवापिकैः ।
कामदैः कल्पवृक्षाढ्यैर् उद्यानैर् उपशोभितम् ॥

12.19.93

समृद्धे ऽपि पुरे तत्र निःजने ऽथ गृहं गृहम् ।
अनुप्रविश्य न यदा तां ददर्श प्रियां क्वचित् ॥

12.19.94

तदा विचिन्वन् दृष्ट्वैकम् उत्तुङ्गं मणिमन्दिरम् ।
आरुह्य द्वारम् उद्घाट्य प्रविवेश स भूपतिः ॥

12.19.95

प्रविश्य चान्तः सद्रत्नपर्यङ्कस्थितम् एककम् ।
वस्त्राच्छादितसर्वाङ्गं शयानं कम्चिद् ऐक्षत ॥

12.19.96

किं स्यात् सैवेति सोत्कण्ठम् उद्घाटयति तन्मुखम् ।
यावत् तावद् अपश्यत् तां स्वेप्सिताम् एव सो ऽङ्गनाम् ॥

12.19.97

स्रस्तनीलांशुकध्वान्तहसन्मुखशशिश्रियम् ।
ज्योत्स्नावदातां पातालगताम् इव दिवा निशाम् ॥

12.19.98

तद्दर्शनेन चास्याभूद् अवस्था कापि सा तदा ।
ग्रीष्मऋतौ मरुपान्थस्य सरित्संदर्शनेन या ॥

12.19.99

साप्य् उन्मीलितचक्षुस् तं कल्याणाकृतिलक्षणम् ।
वीक्ष्याकस्मात् तथाप्राप्तं संभ्रमाच् छयनं जहौ ॥

12.19.100

कृतातिथ्या नतमुखी पूजयन्तीव पादयोः ।
फुल्लेक्षणोत्पलन्यासैः शनैर् एतम् उवाच च ॥

12.19.101

को भवान् किम् अगम्यं च प्रविष्ठो ऽसि रसातलम् ।
राजचिह्नाङ्किततनोः किं च ते तापसव्रतम् ॥

12.19.102

इत्य् आदिश महाभाग प्रसादो यदि ते मयि ।
एवं तस्या वचः श्रुत्वा स राजा प्रत्युवाच ताम् ॥

12.19.103

अङ्गराजो यशःकेतुर् इति नाम्नास्मि सुन्दरि ।
आप्ताद् अन्वहदृश्यां च त्वाम् अश्रौषम् इहाम्बुधौ ॥

12.19.104

ततस् त्वदर्थं कृत्वेमं वेषं राज्यं विमुच्य च ।
आगत्यैष प्रविष्टो ऽहम् अनुमार्गेण ते ऽम्बुधिम् ॥

12.19.105

तन् मे कथय कासि त्वम् इत्य् उक्ते तेन चाथ सा ।
सलज्जा सानुरागा च सानन्दा चैवम् अभ्यधात् ॥

12.19.106

मृगाङ्कसेन इत्य् अस्ति श्रीमान् विद्याधराधिपः ।
मां मृगाङ्कवतीं नाम्ना विद्धि तस्य सुताम् इमाम् ॥

12.19.107

स माम् अस्मिन् स्वनगरे विमुच्यैकाकिनीं पिता ।
न जाने हेतुना केन गतः क्वापि सपौरकः ॥

12.19.108

तेनाहं शून्यवसतेर् निर्विण्णोन्मज्ज्य वारिधेः ।
यन्त्रकल्पद्रुमारूढा गायामि भवितव्यताम् ॥

12.19.109

एवम् उक्तवती तेन स्मरता तन् मुनेर् वचः ।
तथारज्यत सा राज्ञा वचोभिः प्रेमपेशलैः ॥

12.19.110

यथानुरागविवशा भार्यात्वं तस्य तत्क्षणम् ।
अङ्गीचकार वीरस्य समयं त्व् एकम् अभ्यधात् ॥

12.19.111

शुक्लकृष्णचतुर्दश्याम् अष्टम्यां चार्यपुत्र ते ।
प्रतिमासम् अनायत्ता चतुरो दिवसान् अहम् ॥

12.19.112

यत्र क्वापि दिनेष्व् एषु गच्छन्ती चास्मि न त्वया ।
प्रष्टव्या न निषेद्धव्या कारणं ह्य् अत्र विद्यते ॥

12.19.113

एवं ताम् उक्तसमयां स राजा दिव्यकन्यकाम् ।
तथेत्य् उक्त्वैव गान्धर्वविधिना परिणीतवान् ॥

12.19.114

भेजे ततश् च संभोगसुखं तत्र तया सह ।
यथाभूद् अन्य एवास्या मान्मथो मण्डनक्रमः ॥

12.19.115

केशेषु स्रस्तमाल्येषु कचग्रहनखावली ।
बिम्बाधरे ऽथ निष्पीतनीरागे दशनक्षतिः ॥

12.19.116

कुचयोः करजश्रेणिर् भिन्नमाणिक्यमालयोः ।
लुप्ताङ्गरागेष्व् अङ्गेषु गाढालिङ्गनरागिता ॥

12.19.117

इति तद्दिव्यसंभोगसुखावस्थितम् अत्र तम् ।
सा मृगाङ्कवती भार्या भूपं प्राहेदम् एकदा ॥

12.19.118

त्वम् इहैव प्रतीक्षेथाः कार्यार्थं क्वापि याम्य् अहम् ।
अद्य सैषा हि संप्राप्ता मम कृष्णचतुर्दशी ॥

12.19.119

इह स्थस् त्व् आर्यपुत्रामुं मा स्म गाः स्फाटिकं गृहम् ।
मात्र वाप्यां निपतितो भूलोकं त्वं गमिष्यसि ॥

12.19.120

इत्य् उक्त्वा सा तम् आमन्त्र्य ययौ तस्मात् पुराद् बहिः ।
राजापि प्राप्तखड्गस् तां छन्नो जिज्ञासुर् अन्वगात् ॥

12.19.121

तत्रापश्यत् तमःश्यामं व्यात्तवक्रबिलं च सः ।
साकारम् इव पातालम् आयान्तं राक्षसं नृपः ॥

12.19.122

स राक्षसो निपत्यैव मुक्तघोररवस् तदा ।
तां मृगाङ्कवतीं वक्त्रे निक्षिप्यैव निगीर्णवान् ॥

12.19.123

तद् दृष्ट्वैवातिकोपेन सहसा स ज्वलन्न् इव ।
निःमोकमुक्तभुजगश्यामलेन महासिना ॥

12.19.124

कोषाकृष्टेन धावित्वा राजसिंहो ऽभिधावतः ।
चिच्छेद रक्षसस् तस्य संदष्टौष्ठपुटं शिरः ॥

12.19.125

रक्षःकबन्धवान्तेन राज्ञस् तस्यास्रवारिणा ।
क्रोधजो ऽथ शशामाग्निर् न तु कान्तावियोगजः ॥

12.19.126

ततो मोहनिशान्धे ऽस्मिन् विनष्टगतिके नृपे ।
अकस्मान् मेघमलिनस्याङ्गं भित्त्वेव रक्षसः ॥

12.19.127

तस्योद्द्योतितदिक्चक्रा चन्द्रमूर्तिर् इवा-मला ।
सा मृगाङ्कवती जीवन्त्य् अक्षताङ्गी विनिर्ययौ ॥

12.19.128

तां तथा संकटोत्तीर्णां दृष्ट्वा कान्तां ससंभ्रमम् ।
एह्य् एहीति वदन् राजा प्रधाव्यैवालिलिङ्ग सः ॥

12.19.129

प्रिये किम् एतत् स्वप्नो ऽयम् उत मायेति तेन सा ।
पृष्टा नृपेण संस्मृत्य विद्याधर्य् एवम् अब्रवीत् ॥

12.19.130

शृण्व् आर्यपुत्र न स्वप्नो न मायेयम् अयं पुनः ।
विध्याधरेन्द्रात् स्वपितुः शापो ऽभूद् ईदृशो मम ॥

12.19.131

बहुपुत्रो ऽपि स हि मे पिता पूर्वं वसन्न् इह ।
मया विनातिवात्सल्यान् नाहरम् अकरोत् सदा ॥

12.19.132

अहं च सर्वदा शर्वपूजासक्तेह निःजने ।
चतुर्दश्योर् अथाष्टम्योर् आगच्छं पक्षयोर् द्वयोः ॥

12.19.133

एकदा च चतुर्दश्याम् इहागत्य रसान् मम ।
चिरं गौरीं समर्चन्त्या दैवाद् अवसितं दिनम् ॥

12.19.134

तद् अहर् मत्प्रतीक्षः सन् क्षुधितो ऽपि स मत्पिता ।
नाभुङ्क्त नापिबत् किम्चिद् आसीत् क्रुद्धस् तु मां प्रति ॥

12.19.135

ततो रात्राव् उपेतां मां सापराधाम् अधःमुखीम् ।
भवितव्यबलग्रस्तमत्स्नेहः शपति स्म सः ॥

12.19.136

यथा त्वदवलेपेन ग्रस्तो ऽद्याहम् अयं क्षुधा ।
मासि मासि तथाष्टम्योश् चतुर्दश्योश् च केवलम् ॥

12.19.137

हरार्चनरसाद् यन्तीम् अत्रैव त्वां बहिः पुरे ।
नाम्ना कृतान्तसंत्रासो राक्षसो निगरिष्यति ॥

12.19.138

भित्त्वा भित्त्वास्य हृदयं जीवन्ती च निरेष्यसि ।
न स्मरिष्यसि शापं च न तां निगरणव्यथाम् ॥

12.19.139

स्थास्यस्य् एकाकिनी चात्रेत्य् उक्तशापवचाः शनैः ।
सो ऽनुनीतो मया ध्यात्वा शापान्तं मे ऽब्रवीत् पिता ॥

12.19.140

भर्ता भूत्वा यशःकेतुनामाङ्गनृपतिर् यदा ।
राक्षसेन निगीर्णां त्वां दृष्ट्वा तं निहनिष्यति ॥

12.19.141

तदा त्वं मोक्ष्यसे शापाद् धृदयात् तस्य निःगता ।
संस्मरिष्यसि शापादि विद्याः सर्वास् तथा निजाः ॥

12.19.142

इत्य् आदिश्य स शापान्तं त्यक्त्वा माम् एककाम् इह ।
निषधाद्रिं गतस् तातो भूलोकं सपरिच्छदः ॥

12.19.143

अहं तथा चरन्ती च शापमोहाद् इहावसम् ।
क्षीणश् चैष स शापो मे जाता सर्वत्र च स्मृतिः ॥

12.19.144

तत् तातपार्श्वम् अधुना निषधाद्रिं व्रजाम्य् अहम् ।
शापान्ते स्वां गतिं याम इत्य् एष समयो हि नः ॥

12.19.145

त्वम् इहास्व स्वराष्ट्रं वा व्रज स्वातन्त्र्यम् अत्र ते ।
एवं तयोक्ते स नृपो दुःखितो ऽर्थयते स्म ताम् ॥

12.19.146

सप्ताहानि न गन्तव्यं प्रसीद सुमुखि त्वया ।
क्षिपाव तावद् औत्सुक्यम् उद्याने क्रीडनैर् इह ॥

12.19.147

त्वं गच्छाथ पितुः स्थानं यास्याम्य् अहम् अपि स्वकम् ।
एतत् तद्वचनं मुग्धा तथेत्य् अङ्गीचकार सा ॥

12.19.148

ततो ऽत्र रेमे स तया सहोद्यानेषु कान्तया ।
सजलोत्पलनेत्रासु वापीषु षडहं नृपः ॥

12.19.149

मा स्म यातं विहायास्मान् इति पूत् कुर्वतीष्व् इव ।
उत्क्षिप्तवीचिहस्तासु हंससारसनिःस्वनैः ॥

12.19.150

सप्तमे ऽह्नि स युक्त्या तां प्रियां तत्रानयद् गृहे ।
भूलोकप्रापिणी यत्र सा यन्त्रद्वारवापिका ॥

12.19.151

तत्र कण्ठे गृहीत्वा तां तस्यां वाप्यां निपत्य सः ।
उत्तस्थौ स्वपुरोद्यानवापीमध्यात् तया सह ॥

12.19.152

तत्र कान्तासखं प्राप्तं तं दृष्ट्वोद्यानपालकाः ।
हृष्टास् तन् मन्त्रिणे गत्वा जगदुर् दीर्घदर्शिने ॥

12.19.153

सो ऽप्य् एत्य पादपतितस् तम् आनीतेप्सिताङ्गनम् ।
दृष्ट्वा प्रावेशयन् मन्त्री सपौरो ऽभ्यन्तरं नृपम् ॥

12.19.154

अहो सैषा कथं प्राप्ता राज्ञा दिव्याङ्गनामुना ।
व्योम्नीव विद्युद् इव या क्षणदृश्या मयेक्षिता ॥

12.19.155

यद् यस्य लिखितं धात्रा ललाटा-क्षरपङ्क्तिषु ।
तद् अवश्यम् असंभाव्यम् अपि तस्योपतिष्ठते ॥

12.19.156

इत्य् अत्र मन्त्रिमुख्ये ऽस्मिन् ध्यायत्य् अन्यजने ऽपि च ।
दिव्यस्त्रीप्राप्तिसाश्चर्यं राजागमनसोत्सवे ॥

12.19.157

सा मृगाङ्कवती दृष्ट्वा तं स्वदेशगतं नृपम् ।
इयेष पूर्णसप्ताहा यातुं वैद्याधरीं गतिम् ॥

12.19.158

नाविरासीच् च विद्यास्याः स्मृताप्य् उत्पतनी तदा ।
ततः सा मुषितेवात्र विषादम् अगमत् परम् ॥

12.19.159

किम् अकस्माद् विषण्णेव दृश्यसे वद मे प्रिये ।
इत्य् उक्ता तेन राज्ञा सा विध्यादर्य् एवम् अब्रवीत् ॥

12.19.160

स्थिताहं शापमुक्तापि त्वत्स्नेहाद् यद् इयच् चिरम् ।
तेन विद्या मम भ्रष्टा नष्टा दिव्या च सा गतिः ॥

12.19.161

तच् छ्रुत्वा हन्त सिद्धेयं मम विद्याधरीति सः ।
राजा ततो यशःकेतुः पूर्णं चक्रे महोत्सवम् ॥

12.19.162

तद् दृष्ट्वा दीर्घदर्शी स मन्त्री गत्वा गृहं निशि ।
शयनीयगतो ऽकस्माद् धृत्स्फोटेन व्यपद्यत ॥

12.19.163

ततो ऽनुभूय तच्छोकं धृतराज्यभरः स्वयम् ।
यशःकेतुश् चिरं तस्थौ स मृगाङ्कवतीयुतः ॥

12.19.164

इत्य् एतां कथयित्वा मार्गे तस्मै कथां स वेतालः ।
अवदत् पुनस् त्रिविक्रमसेनं नृपतिं तम् अंसगतः ॥

12.19.165

तद् ब्रूहि भूपते ते संपन्ने स्वामिनस् तथाभ्युदये ।
हृदयं सपदि स्फुटितं तस्य महामन्त्रिणः किम् इति ॥

12.19.166

दिव्यस्त्री न मया किं प्राप्तेति शुचास्फुटद् धृदयम् ।
किं वा राज्यम् अभीप्सोर् राजागमजेन दुःखेन ॥

12.19.167

एतच् च यदि न वक्ष्यसि मह्यं जानन्न् अपीह तद् राजन् ।
धर्मश् च तव विनङ्क्ष्यति यास्यति दलशश् च झटिति शिरः ॥

12.19.168

श्रुत्वेति तु त्रिविक्रमसेनो राजा जगाद वेतालम् ।
नैतत् तस्मिन् द्वयम् अपि शुभचरिते युज्यते हि मन्त्रिवरे ॥

12.19.169

किं तु स्त्रीमात्ररसाद् उपेक्षितं येन भूभुजा राज्यम् ।
तस्याधुना तु दिव्यस्त्रीरक्तस्यात्र का वार्ता ॥

12.19.170

तन् मे कष्टे ऽपि कृते प्रत्युत दोषो बताधिकीभूतः ।
इति तस्य विभावयतो हृदयं तन्मन्त्रिणः स्फुटितम् ॥

12.19.171

इत्य् उक्ते नरपतिना पुनः स मायी वेतालो निजपदम् एव तज् जगाम ।
राजापि प्रसभम् अवाप्तुम् अन्वधावद् भूयो ऽपि द्रुतम् अथ तं स धीरचेताः ॥

मूल पाठ: Kathāsaritsāgara, Vetālapañcaviṃśatikā · Data entry Elena Artesani · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc