भाषा

ENहिગુ
ग्रंथ पाठ

कथासरित्सागर, वेतालपञ्चविंशतिका · अध्याय 12.18

12.18.1

ततो गत्वा पुनः प्राप्य शिंशपातो ऽग्रहीन् नृपः ।
स त्रिविक्रमसेनो ऽंसे वेतालं तं चचाल च ॥

12.18.2

आयान्तं च तम् अंसस्थो वेतालः सो ऽब्रवीन् नृपम् ।
राजन् विचित्राम् एकां ते वर्णयामि कथां शृणु ॥

12.18.3

उज्जयिन्याम् अभूत् पूर्वं नाम्ना धर्मध्वजो नृपः ।
तिस्रस् तस्याभवन् भार्या राजपुत्र्यो ऽतिवल्लभाः ॥

12.18.4

एका तास्व् इन्दुलेखेति तारावल्य् अपरा तथा ।
नाम्ना मृगाङ्कवत्य् अन्या निःसामान्यवपुःगुणाः ॥

12.18.5

ताभिः स विहरन् राजा राज्ञीभिस् तिसृभिः सह ।
आसांचक्रे कृती तत्र जिताशेषरिपुः सुखम् ॥

12.18.6

एकदा तत्र संप्राप्ते वसन्तसमयोत्सवे ।
प्रियाभिः सहितस् ताभिर् उद्यानं क्रीडितुं ययौ ॥

12.18.7

तत्रालिमालामौर्वीकाः पश्यन् पुष्पानता लताः ।
चापयष्टीर् अनङ्गस्य मधुना सज्जिता इव ॥

12.18.8

शृण्वंश् च तद्द्रुमाग्रस्थकोकिलोदीरितां गिरम् ।
सम्भोगैकरसस्याज्ञाम् इव मानसजन्मनः ॥

12.18.9

सिषेवे ऽन्तःपुरैः साकं स राजा वासवोपमः ।
पानं मदस्य कंदर्पजीवितस्यापि जीवितम् ॥

12.18.10

तन्निःश्वाससुगन्धीनि तद्बिम्बौष्ठरुचीनि च ।
प्रियापीतावशेषाणि पिबन् रेमे मधूनि सः ॥

12.18.11

तत्र तस्येन्दुलेखाया राज्ञः केलिकचग्रहात् ।
तस्याः पपात कर्णाग्राद् उत्सङ्गे त्वङ्गद् उत्पलम् ॥

12.18.12

तेनोरुपृष्ठे सहसा क्षते जाते ऽभिघातजे ।
अभिजाता महादेवी हा हेत्य् उक्त्वा मुमूर्च्छ सा ॥

12.18.13

तद् दृष्ट्वा विह्वलेनार्त्या राज्ञा परिजनेन च ।
समाश्वास्यत राज्ञी सा शनैः शीताम्बुमारुतैः ॥

12.18.14

ततो नीत्वा स राजा तां राजधानीं भिषक्कृतैः ।
प्रियाम् उपाचरद् दिव्यैर् आमुक्तव्रणपट्टिकाम् ॥

12.18.15

रात्रौ च सुस्थितां दृष्ट्वा तां स राजा द्वितीयया ।
तारावल्या सहारोहच् चन्द्रप्रासादम् ईश्वरः ॥

12.18.16

तत्र तस्याङ्कसुप्ताया राज्ञस् तस्या हिमत्विषः ।
करा जालपथैः पेतुर् अङ्गे चलितवाससि ॥

12.18.17

ततः क्षणात् प्रबुद्धा सा हा दग्धास्मीति वादिनी ।
शयनात् सहसोत्तस्थौ तदङ्गपरिमर्शिनी ॥

12.18.18

किम् एतद् इति संभ्रान्तः प्रबुद्धो ऽथ ददर्श सः ।
उत्थाय राजा विस्फोटान् अङ्गे तस्या विनिर्गतान् ॥

12.18.19

पृच्छन्तं सा च तं प्राह राज्ञी तारावली तदा ।
नग्नाङ्गे पतितैर् इन्दोः करैर् एतत् कृतं मम ॥

12.18.20

इत्य् उक्तवत्याः क्रन्दन्त्याः सार्तिर् आह्वयति स्म सः ।
तस्याः परिजनं राजा विह्वलाकुलधावितम् ॥

12.18.21

तेनास्याः कारयामास सजलैर् नलिनीदलैः ।
शय्याम् अदापयच् चाङ्गे श्रीखण्डार्द्रविलेपनम् ॥

12.18.22

तावद् बुद्ध्वा तृतीयास्य सा मृगाङ्कवती प्रिया ।
तत्पार्श्वम् आगन्तुमना निर्ययौ निजमन्दिरात् ॥

12.18.23

निर्गता साशृणोत् क्वापि गृहे धान्यावघातजम् ।
निःशब्दायां निशि व्यक्तं विदूरे मुसलध्वनिम् ॥

12.18.24

श्रुत्वैव हा मृतास्मीति ब्रुवाणा धुन्वती करौ ।
उपाविशद् व्यथाक्रान्ता मार्गे सा मृगलोचना ॥

12.18.25

ततः प्रतिनिवृत्यैव नीत्वा परिजनेन सा ।
स्वम् एवान्तःपुरं बाला रुदती शयने ऽपतत् ॥

12.18.26

ददर्श तत्र तस्याश् च चिन्वन् साश्रुः परिच्छदः ।
आलीनभ्रमरौ पद्माव् इव हस्तौ किणाङ्कितौ ॥

12.18.27

गत्वा च सो ऽब्रवीद् राज्ञे राजाप्य् आगत्य विह्वलः ।
किम् एतद् इति पप्रच्छ सो ऽथ धर्मध्वजः प्रियाम् ॥

12.18.28

सापि प्रदर्श्य हस्तौ तम् इत्य् उवाच रुजान्विता ।
श्रुते मुसलशब्दे मे जताव् एतौ किणाङ्कितौ ॥

12.18.29

ततः स दाहशमनं दापयामास हस्तयोः ।
तस्याश् चन्दनलेपादि राजाद्भुतविषादवान् ॥

12.18.30

एकस्या उत्पलेनापि पतता क्षतम् आहितम् ।
द्वितीयस्याः पुनर् दग्धम् अङ्गं शशिकरैर् अपि ॥

12.18.31

एकस्यास् तु तृतीयस्याः श्रुतेनापि विनिर्गताः ।
कष्टं मुसलशब्देन हस्तयोर् ईदृशाः किणाः ॥

12.18.32

अहो युगपद् एतासां प्रेयसीनां ममाधुना ।
गुणो ऽप्य् अत्यभिजातत्वं जातो दोषाय दैवतः ॥

12.18.33

इति चिन्तयतस् तस्य भ्रमतो ऽन्तःपुरेषु च ।
त्रियामा शतयामेव कृच्छ्रात् सा नृपतेर् ययौ ॥

12.18.34

प्रातश् च स भिषक्शल्यहर्तृभिः सह संव्यधात् ।
तथा यथाभूद् अचिरात् स्वस्थान्तःपुरनिर्वृत्तः ॥

12.18.35

एवम् एतां कथाम् उक्त्वा वेतालो ऽत्यद्भुतां तदा ।
स त्रिविक्रमसेनं तं पप्रच्छांसस्थितो नृपम् ॥

12.18.36

अभिजाततरैतासु राजन् राज्ञीषु का वद ।
पूर्वोक्तः सो ऽस्तु शापस् ते जानन् यदि न जल्पसि ॥

12.18.37

तच् छ्रुत्वा सो ऽब्रवीद् राजा सुकुमारतरात्र सा ।
अस्पृष्टे मुसले यस्याः शब्देनैवोद्गताः किणाः ॥

12.18.38

उत्पलेन्दुकरैः स्पर्शे वृत्ते त्व् इतरयोर् द्वयोः ।
संजाता व्रणविस्फोटास् तेन तस्या न ते समे ॥

12.18.39

इति तस्योक्तवतो ऽंसाद् राज्ञो भूयो जगाम स स्वपदम् ।
वेतालः स च राजा तथैव तं सुदृढनिश्चयो ऽनुययौ ॥

मूल पाठ: Kathāsaritsāgara, Vetālapañcaviṃśatikā · Data entry Elena Artesani · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc