कथासरित्सागर, वेतालपञ्चविंशतिका · अध्याय 12.17
स त्रिविक्रमसेनो ऽथ गत्वा तं शिंशपातरोः ।
राजा जग्राह वेतालं पुनर् अंसे चचाल च ॥
प्रयान्तं च तम् आह स्म वेतालः सो ऽंसपृष्ठगः ।
श्रान्तो ऽसि राजंस् तद् इमां शृणु श्रमहरां कथाम् ॥
अभूत् सकलभूपालमस्तकन्यस्तशासनः ।
वीरबाहुर् इति ख्यातो नाम्ना पार्थिवसत्तमः ॥
तस्यानङ्गपुरं नाम बभूव नगरोत्तमम् ।
तत्रासीद् अर्थदत्ताख्यः सार्थवाहो महाधनः ॥
तस्यासीद् धनदत्ताख्यज्येष्ठपुत्रकनीयसी ।
सुता मदनसेनेति कन्यारत्नं वणिक्पतेः ॥
ताम् एकदा निजोद्याने क्रीडन्तीं ससखीजनाम् ।
ददर्श धर्मदत्ताख्यो भ्रातृमित्रं वणिक्सुतः ॥
स ताम् आलोक्य लावण्यरसनिःभरनिःझराम् ।
आलक्ष्य कुचकुम्भाग्रां वलित्रयतरङ्गिताम् ॥
यौवनद्विरदस्येव क्रीडामज्जनवापिकाम् ।
सद्यो ऽभूत् स्मरबाणौघसंतापहृतचेतनः ॥
अहो धाराधिरूढेन रूपेण द्योतितामुना ।
इयं मे मानसं भेत्तुं भल्ली मारेण निर्मिता ॥
इत्य् आदि यावद् ध्यायन् स निर्वर्णयति तां चिरम् ।
तावत् तस्यातिचक्राम चक्राह्वस्येव वासरः ॥
ततो मदनसेना सा विवेश स्वगृहान्तरम् ।
चित्तं च धर्मदत्तस्य तदनालोकनव्यथा ॥
तद-दर्शनदुःखाग्निसंतापेनेव च ज्वलन् ।
लोहितो निपपाताशु भास्वान् अप्य् अपराम्बुधौ ॥
तां विज्ञायैव सुमुखीं नक्तम् अभ्यन्तरे गताम् ।
उदियाय शनैश् चन्द्रस् तन्मुखाब्जविनिर्जितः ॥
तावद् गत्वा गृहं तां स धर्मदत्तो ऽनुचिन्तयन् ।
तस्थौ निपत्य शयने चन्द्रपादाहतो लुठन् ॥
यत्नेन पृच्छ्यमानो ऽपि सखिभिर् बन्धुभिस् तथा ।
न किम्चित् कथयामास स्मरग्रहविमोहितः ॥
निशि कृच्छ्राच् च संप्राप्तनिद्रः स्वप्ने तथैव ताम् ।
पश्यन्न् अनुनयन् कान्तां किं किं चक्रे न सोत्सुकः ॥
प्रातः प्रबुद्धो गत्वा च ददर्शैकाकिनीं रहः ।
सखीं प्रतीक्षमानां तां तत्रोद्यानस्थितां पुनः ॥
उपेत्य च परिष्वङ्गलालसः प्रेमपेशलैः ।
ताम् उपच्छन्दयामास वचोभिश् चरणानतः ॥
कन्याहं परदाराश् च न तवास्मीह संप्रतम् ।
पित्रा समुद्रदत्ताय दत्ताहं वणिजे यतः ॥
दिनैः कतिपयैर् एव विवाहो भविता च मे ।
तद् गच्छ तूष्णीं मा कश्चित् पश्येद् दोषो भवेत् ततः ॥
इत्य् उक्तः स तयात्य् अर्थं धर्मदत्तो जगाद ताम् ।
यद् अस्तु मे न जीवेयं विना हि भवतीम् अहम् ॥
तच् छ्रुत्वा सा वाणिक्कन्या बलात्कारभयाकुला ।
तम् उवाच विवाहो मे तावत् संपद्यताम् इह ॥
कन्यादानफलं तातः प्राप्नोतु चिरकाङ्क्षितम् ।
ततो ऽहं त्वाम् उपैष्यामि निःचितं प्रणयार्जिता ॥
श्रुत्वैतत् सो ऽब्रवीन् नेष्टा ह्य् अन्यपूर्वा मम प्रिया ।
परभुक्ते हि कमले किम् अलेर् जायते रतिः ॥
इत्य् उक्ता तेन सावादीत् कृतोद्वाहैव तर्ह्य् अहम् ।
पूर्वं त्वाम् उपयास्यामि ततो ऽभ्येष्यामि तं पतिम् ॥
एवम् उक्तवतीं तस्मिन् नोज्झति प्रत्ययं विना ।
वणिक्पुत्रे सशपथं सत्यवाचं बबन्ध सा ॥
ततस् तेनोज्झता विग्ना सा विवेश स्वमन्दिरम् ।
प्राप्ते च लग्नदिवसे निःवृत्तोद्वाहमङ्गला ॥
गत्वा पतिगृहं नीत्वा सोत्सवेन च तद्दिनम् ।
सा पत्या समम् अध्यास्त शयनीयगृहं निशि ॥
तत्र शय्यानिषण्णापि न तस्य प्रत्यपद्यत ।
पत्युः समुद्रदत्तस्य परिष्वङ्गम् असंमुखी ॥
तेनानुनीयमानापि यद् उदश्रुर् बभूव सा ।
तत् स नाभिमतो ऽस्म्य् अस्या नूनम् इत्य् अकरोद् धृदि ॥
जगाद चानभिमतो यद्य् अहं तव सुन्दरि ।
तन् मे नार्थस् त्वया गच्छ यः प्रियस् तव तं प्रति ॥
तच् छ्रुत्वा सा नतमुखी शनैर् एवम् उवाच तम् ।
त्वं मे प्राणाधिकः प्रेयान् विज्ञप्तिं किं तु मे शृणु ॥
अनुतिष्ठ सहर्षं च प्रयच्छ च ममाभयम् ।
कुरुष्व शपथं यावद् आर्यपुत्र वदामि ते ॥
एवम् उक्तवती कृच्छ्रात् तथा तेन कृते पुनः ।
सलज्जं सविषादं च सभयं च जगाद सा ॥
एकाकिनीं गृहोद्याने दृष्ट्वा माम् एकदा युवा ।
अरुणद् धर्मदत्ताख्यः सखा भ्रातुः स्मरातुरः ॥
रक्षन्त्या सपरीवादं कन्यादानफलं पितुः ।
मया हठप्रवृत्तस्य तस्य वाक्संयमः कृतः ॥
पूर्वं कृतविवाहा त्वाम् उपैष्यामि ततः प्रियम् ।
तन् मे सत्यवचः पाल्यम् अनुमन्यस्व तत् प्रभो ॥
यावत् तन् निकटं गत्वा क्षणेनोपैमि ते ऽन्तिकम् ।
न हि शक्नोम्य् अतिक्रान्तुं सत्यम् आबाल्य सेवितम् ॥
इति तस्या वचःवज्रपातेन सहसा हतः ।
समुद्रदत्तः सत्येन बद्धः क्षणम् अचिन्तयत् ॥
अहो धिग् अन्यरक्तेयं गन्तव्यं ध्रुवम् एतया ।
तत्सत्यं हन्मि किं यातु को ऽस्याः परिणयग्रहः ॥
इत्य् आलोच्यानुमेने तां यथेष्टगमनाय सः ।
साप्य् उत्थाय ततस् तस्मान् निर्ययौ पतिवेश्मनः ॥
तावद् अत्रोदयाद्रीन्द्रहर्म्याग्रं हिमदीधितिः ।
आरुरोह कराक्रान्तहसत्पूर्वदिगङ्गनः ॥
ततस् तमःस्व् अप्य् आश्लिष्य स्थितेष्व् अद्रिदरी प्रियाः ।
सेवमानेषु भृङ्गेष्व् अप्य् अपरं कुमुदाकरम् ॥
यान्ती मदनसेना सा मार्गे दृष्ट्वैकका निशि ।
चौरेणाधाव्य केनापि रुरुधे वसनाञ्चले ॥
का त्वं ब्रूहि क्व यासीति तेनोक्ता बिभ्यती च सा ।
उवाच किं तवानेन मुञ्च कार्यम् इहास्ति मे ॥
ततश् चौरो ऽब्रवीन् मत्तश् चौरात् त्वं मुच्यसे कथम् ।
तच् छ्रुत्वा सावदत् तं च गृहाणाभरणानि मे ॥
अथ चौरो ऽभ्यधान् मुग्धे किम् एभिर् उपलैर् मम ।
चन्द्रकान्ताननां तार्क्ष्यरत्नासितशिरःरुहाम् ॥
वज्रमध्यां सुवर्णाङ्गीं पद्मरागाङ्घ्रिहारिणीम् ।
जगदाभरणं नैव मोक्ष्यामि भवतीम् अहम् ॥
इत्य् उक्ता तेन चौरेण विवशा सा वणिक्सुता ।
आख्याय निजवृत्तान्तम् एवं प्रार्थयते स्म तम् ॥
क्षमस्व मे क्षणं यावत् कृत्वा सत्यानुपालनम् ।
इहस्थस्यैव ते पार्श्वम् आगमिष्यामि सत्वरम् ॥
नाहम् उल्लङ्घयिष्यामि भद्र सत्याम् इमां गिरम् ।
श्रुत्वैतत् सत्यसंधां तां मत्वा चौरो मुमोच सः ॥
तस्थौ प्रतीक्षमानश् च तत्रैव स तदागमम् ।
सापि तस्यान्तिकं धर्मदत्तस्य वणिजो ययौ ॥
स चाभीष्टाम् अपि प्राप्तां तथा तां विजने स्थिताम् ।
दृष्ट्वा पृष्ट्वा यथावृत्तं विचिन्त्य क्षणम् अब्रवीत् ॥
सत्येन तव तुष्टो ऽस्मि किं त्वया मे परस्त्रिया ।
यावत् त्वां नेक्षते कश्चित् तावद् गच्छ यथागतम् ॥
इति तेन परित्यक्ता सा तथेत्य् आययौ ततः ।
चौरस्य निकटं तस्य प्रतिपालयतः पथि ॥
ब्रूहि कस् ते ऽत्र वृत्तान्तो गताया इति पृच्छते ।
तस्मै सा तेन वणिजा यथा मुक्ता तथाब्रवीत् ॥
ततः स चौरो ऽवादीत् तां यद्य् एवं तन् मयाप्य् असि ।
विमुक्ता सत्यतुष्टेन गृहं साभरणा व्रज ॥
एवं तेनापि सा त्यक्ता रक्षिता चानुयायिना ।
अलुप्तशीला मुदिता पत्युर् एवाययौ गृहम् ॥
तत्र गुप्तं प्रविष्टा सा प्रहृष्टोपागता सती ।
दृष्ट्वा पृष्टवते तस्मै पत्ये सर्वम् अवर्णयत् ॥
सो ऽप्य् अलुप्तमुखछायां ताम् असंभोगलक्षणाम् ।
संभाव्याभग्नचारित्रां सत्यलाभरतां सतीम् ॥
अदृष्टमनसं भार्याम् अभिनन्द्य कुलोचितम् ।
तस्थौ समुद्रदत्तो ऽथ तया सह यथासुखम् ॥
इति तत्र कथाम् उक्त्वा पितृवनभूमौ तदा स वेतालः ।
वदति स्म तं त्रिविक्रमसेनं वसुधाधिपं भूयः ॥
तद् ब्रूहि चौरवणिजाम् एषां मध्यान् नरेन्द्र कस् त्यागी ।
जानन् यदि न वदिष्यसि विदलिष्यति ते शिरः शतधा ॥
तच् छ्रुत्वा स महीपतिर् उज्झितमौनस् तम् आह वेतालम् ।
एषां चौरस् त्यागी न पुनर् वणिजाव् उभाव् अपि तौ ॥
यो हि पतिस् ताम् अजहाद् अत्याज्यां तादृशीं विवाह्य् अपि ।
कुलजः सो ऽन्यासक्तां भार्यां जानन् कथं वहतु ॥
यो ऽप्य् अपरः स भयात् ताम् अत्याक्षीत् कालजीर्णसंवेगः ।
विदितार्थो भर्तास्याः प्रातर् ब्रूयान् नृपायेति ॥
चौरस् तु गुप्तचारी निरपेक्षः पापकर्मकृत् प्राप्तम् ।
स्त्रीरत्नं यद् अमुञ्चत् साभरणं तेन स त्यागी ॥
एतच् छ्रुत्वैवांसतस् तस्य राज्ञो वेतालो ऽगात् पूर्ववत् स्वं पदं सः ।
राजा भूयो ऽप्य् अत्र संप्राप्तुम् एतत् प्रायाद् एवा-खन्डितोद्दामधैर्यः ॥
मूल पाठ: Kathāsaritsāgara, Vetālapañcaviṃśatikā · Data entry Elena Artesani · GRETIL (Göttingen) · CC BY-NC-SA 4.0