कथासरित्सागर, वेतालपञ्चविंशतिका · अध्याय 12.16
ततो गत्वा पुनस् तस्माच् छिंशपापादपान् नृपः ।
स त्रिविक्रमसेनस् तं स्कन्धे वेतालम् अग्रहीत् ॥
प्रस्थितश् च ततस् तेन वेतालेनाभ्यधायि सः ।
राजन् क्व राज्यं क्वैतस्मिञ् श्मशाने भ्रमणं निशि ॥
किम् एतन् नेक्षसे भूतसंकुलं रात्रिभीषणम् ।
चिताधूमैर् इव ध्वान्तैर् निरुद्धं पितृकाननम् ॥
कष्टं कीदृग् ग्रहो ऽयं ते भिक्षोस् तस्यानुरोधतः ।
तद् इदं शृणु तावन् मे प्रश्नं मार्गविनोदनम् ॥
अवन्तिष्व् अस्ति नगरी युगादौ देवनिर्मिता ।
शैवी तनुर् इवोद्दामभोगिभूतिविभूषिता ॥
पद्मावती भोगवती या हिरण्यवतीति च ।
कृतादिषु त्रिषु ख्याता कलाव् उज्जयिनीति च ॥
तस्यां च वीरदेवाख्यो राजाभूद् भूभृतां वरः ।
तस्य पद्मरतिर् नाम महादेवी बभूव च ॥
सो ऽथ राजा तया साकं गत्वा मन्दाकिनीतटे ।
हरम् आराधयामास तपसा पुत्रकाम्यया ॥
चिरं तपःस्थितश् चात्र परितुष्टेश्वरोदिताम् ।
कृतस्नानार्चनविधिः शुश्रावेमां गिरं दिवः ॥
राजन्न् उत्पत्स्यते पुत्रः शूरस् तव कुलोद्भवः ।
कन्या चानन्यसामान्यलावण्यन्यक्कृताप्सराः ॥
श्रुत्वैतां नाभसीं वाणीं सिद्धाभीष्टः स भूपतिः ।
वीरदेवः स्वनगरीम् आययौ महिषीसखः ॥
तत्रास्य शूरदेवाख्ये जाते प्रथमम् आत्मजे ।
तस्यां पद्मरतौ देव्यां क्रमाद् अजनि कन्यका ॥
अनङ्गस्यापि रूपेण रतिम् उत्पादयेद् इयम् ।
इत्य् अनङ्गरतिर् नाम्ना पित्रा तेन व्यधायि सा ॥
वृद्धिं गतायास् तस्याश् च स पिता सदृशं वरम् ।
प्रेप्सुर् आनाययत् पृथ्व्यां पटेषु लिखिथान् नृपान् ॥
तेष्व् एको ऽपि न यत् तस्य तत्तुल्यः प्रत्यभासत ।
तेन राजा स वात्सल्यात् तां सुतां प्रत्यभाषत ॥
अहं तावन् न पश्यामि सदृशं पुत्रि ते वरम् ।
तत् कुरुष्व नृपान् सर्वान् मेलयित्वा स्वयम्वरम् ॥
एतत् पितृवचः श्रुत्वा राजपुत्री जगाद सा ।
तात स्वयम्वरं कर्तुं ह्रेपणान् नाहम् उत्सहे ॥
किं त्व् एकं वेत्ति यो ऽपूर्वं विज्ञानं स्वाकृतिर् युवा ।
तस्मै त्वयाहं दातव्या नार्थो ऽन्येनाधिकेन मे ॥
इत्य् अनङ्गरतेस् तस्याः श्रुत्वा स्वदुहितुर् वचः ।
तादृशं तद्वरं यावद् अन्विष्यति स भूपतिः ॥
तावत् तल्लोकतो बुद्ध्वा चत्वारस् तम् उपाययुः ।
वीरा विज्ञानिनो भव्याः पुरुषा दक्षिणापथात् ॥
ते राज्ञा पूजितास् तस्मै स्वं स्वं विज्ञानम् एकशः ।
शशंसुः संनिधौ तस्या राजपुत्र्यास् तदर्थिनः ॥
एको जगाद शूद्रो ऽहम् आख्यया पञ्चपट्टिकः ।
पञ्चाग्र्यवस्त्रयुग्मानि करोम्य् एको ऽहम् अन्वहम् ॥
तेभ्य एकं प्रयच्छामि देवायैकं द्विजन्मने ।
एकं च परिगृह्णामि वाससोर् आत्मनः कृते ॥
एकं ददामि भार्यायै यदि सा भवतीह मे ।
एकं विक्रीय चाहारपानादि विदधाम्य् अहम् ॥
एवं विज्ञानिने ऽनङ्गरतिर् मे दीयताम् इति ।
इत्य् एकेनोदिते तेन द्वितीयः पुरुषो ऽब्रवीत् ॥
भाषाज्ञो नाम वैश्यो ऽहं सर्वेषां मृगपक्षिणाम् ।
रुतं वेद्मि तद् एषा मे राजपुत्री प्रदीयताम् ॥
एवम् उक्ते द्वितीयेन तृतीयः प्रोक्तवांस् ततः ।
अहं खड्गधरो नाम दोःशाली क्षत्रियो नृप ॥
न खड्गविद्याविज्ञाने प्रतिमल्लो ऽस्ति मे क्षितौ ।
तद् एषा तनया राजंस् त्वया मह्यं वितीर्यताम् ॥
इत्य् उक्ते तु तृतीयेन चतुर्थ इदम् अभ्यधात् ।
विप्रो ऽहं जीवदत्ताख्यो विज्ञानं च ममेदृशम् ॥
जन्तूं मृतान् अप्य् आनीय दर्शयाम्य् आशु जीवतः ।
तद्वीरचर्यासिद्धं मां पतिम् एषा प्रपद्यताम् ॥
एवं वक्तॄन् स तान् पश्यन् दिव्यवेषाकृतीन् नृपः ।
वीरदेवः सुतायुक्तो दोलारूढ इवाभवत् ॥
इत्य् आख्याय कथाम् एतां वेतालः पृष्टवान् नृपम् ।
स त्रिविक्रमसेनं तं दत्तपूर्वोक्तशापभीः ॥
तद् भवान् वक्तु तावन् मे कस्मै देया विशाम्पते ।
तेषां चतुर्णां मध्यात् सा कन्यानङ्गरतिर् भवेत् ॥
एतच् छ्रुत्वा स राजा तं वेतालं प्रत्यभाषत ।
मौनं त्याजयति प्रायः कालक्षेपाय मां भवान् ॥
अन्यथा गहनः को ऽयं प्रश्नो योगेश्वरोच्यताम् ।
शूद्राय हि कुविन्दाय क्षत्रिया दीयते कथम् ॥
वैश्यायापि कथं देया क्षत्रिया यच् च तद् गतम् ।
मृगादिभाषाविज्ञानं कार्ये तत् क्वोपयुज्यते ॥
यो ऽपि विप्रस् तृतीयो ऽत्र तेनापि पतितेन किम् ।
स्वकर्मप्रच्युतेनेन्द्रजालिना वीरमानिना ॥
तस्मात् तस्मै क्षत्रियाय चतुर्थाय समाय सा ।
देया खड्गधरायैव स्वविद्यावीर्यशालिने ॥
एतत् तस्य वचो निशम्य नृपतेर् अंसस्थलात् पूर्ववत् वेतालः स जगाम योगबलतः स्वस्थानम् एवाशु तत् ।
भूपालो ऽपि स तं तथैव पुनर् अप्य् आनेतुम् अन्वग् ययौ उत्साहैकघने हि वीरहृदये नाप्नोति खेदो ऽन्तरम् ॥
मूल पाठ: Kathāsaritsāgara, Vetālapañcaviṃśatikā · Data entry Elena Artesani · GRETIL (Göttingen) · CC BY-NC-SA 4.0