कथासरित्सागर, वेतालपञ्चविंशतिका · अध्याय 12.15
गत्वा तां शिंशपां भूयो वेतालं प्राप्य भूमिपः ।
तं त्रिविक्रमसेनो ऽत्र स्कन्धे कृत्वोच्चचाल सः ॥
प्रयान्तं स पुनस् तं च वेतालः स्कन्धतो ऽब्रवीत् ।
श्रमविस्मृतये राजन् मत्तः प्रश्नम् इमं शृणु ॥
अङ्गदेशे ऽग्रहारो ऽस्ति महान् वृक्षघटाभिधः ।
विष्णुस्वामीति तत्रासीद् द्विजो यज्वा महाधनः ॥
तस्य च स्वानुरूपायां पत्न्यां जाताः क्रमात् त्रयः ।
बभूवुस् तरुणाः पुत्रा दिव्यवैदग्ध्यशालिनः ॥
ते पित्रा प्रेषितास् तेन कूर्महेतोः कदाचन ।
प्रारब्धयज्ञेन ययुस् ते त्रयो भ्रातरो ऽम्बुधिम् ॥
प्राप्य कूर्मं ततो ज्यायान् कनिष्ठौ ताव् अभाषत ।
गृह्णातु युवयोर् एकः कूर्मं क्रतुकृते पितुः ॥
अहम् एतं न शक्नोमि ग्रहीतुं विस्रपिच्छलम् ।
इत्य् उक्तवन्तं तं ज्येष्ठं कनिष्ठौ ताव् अवोचताम् ॥
तवात्र विचिकित्सा चेन् नावयोर् अपि सा कथम् ।
तच् छ्रुत्वा सो ऽब्रवीज् ज्येष्ठो गृह्णीतं गच्छतं युवाम् ॥
पितुर् यज्ञक्रियालोपो भवेद् युष्मत्कृतो ऽन्यथा ।
ततो नरकपातः स्याद् युवयोस् तस्य च ध्रुवम् ॥
इत्य् उक्ताव् अनुजौ तेन तौ विहस्य तम् ऊचतुः ।
धर्मं वेत्स्य् आवयोर् एव समानम् अपि नात्मनः ॥
ततो ज्येष्ठो ऽब्रवीत् किं मे जानीथो नैव चङ्गताम् ।
अहं भोजनचङ्गो ऽस्मि नार्हः स्प्रष्टुं जुगुप्सितम् ॥
एतत् तस्य वचः श्रुत्वा भ्रातरं मध्यमो ऽब्रवीत् ।
अहं तर्ह्य् अधिकश् चङ्गो नारीचङ्गो विचक्षणः ॥
मध्यमेनैवम् उक्ते तु ज्यायान् पुन उवाच सः ।
कूर्मं गृह्णातु तर्ह्य् एष कनीयान् आवयोर् इति ॥
ततः स भ्रुकुटिं कृत्वा कनीयान् अप्य् उवाच तौ ।
हे मूर्खौ तूलिकाचङ्गश् चङ्गो ऽहं हि विशेषतः ॥
एवं ते कलहासक्तास् त्रयो ऽपि भ्रातरो मिथः ।
निर्णयायाभिमानैकग्रस्ताः कूर्मं विहाय तम् ॥
राज्ञः प्रसेनजिन्नाम्नस् तत्प्रदेशभुवो ऽन्तिकम् ।
नगरं सहसा जग्मुर् विटङ्कपुरनामकम् ॥
तत्र प्रतीहारमुखेनावेद्यान्तः प्रविश्य च ।
नृपं विज्ञापयामासुः स्ववृत्तान्तं तथैव ते ॥
तिष्ठतेहैव यावद् वः परीक्षिष्ये क्रमाद् अहम् ।
इत्य् उक्तस् तेन राज्ञा च तस्थुस् तत्र तथेति ते ॥
स्वाहारकाले चानाय्य तेभ्यः सो ऽग्रासनं नृपः ।
राजार्हं दापयामास षड्रसं स्वादुभोजनम् ॥
भुञ्जानेषु च सर्वेषु तदैको बुभुजे न सः ।
विप्रो भोजनचङ्गो ऽत्र जुगुप्साकूणिताननः ॥
कथं न भोजनं भुङ्क्ते ब्रह्मन् स्वादु सुगन्ध्य् अपि ।
इति रज्ञा स्वयं पृष्टः शनैर् विप्रो जगाद सः ॥
शवधूमदुःआमोदः शालिभक्ते ऽत्र विद्यते ।
तेन नाहम् इदं भोक्तुम् उत्सहे स्वाद्व् अपि प्रभो ॥
इत्य् उक्ते तेन सर्वे ऽपि तत्राघ्राय नृपाज्ञया ।
ऊचुः कलमशाल्यन्नम् अदोषं तत् सुगन्धि च ॥
स तु भोजनचङ्गस् तन् नाश्नात् पिहितनासिकः ।
ततः स राजा संचिन्त्य यावद् अन्विष्यति क्रमात् ॥
तावन् नियोगिजनतस् तद् अन्नं बुबुधे तथा ।
ग्रामश्मशाननिकटक्षेत्रसंभवशालिजम् ॥
ततो ऽतिविस्मितस् तुष्टः स राजा तम् अभाषत ।
सत्यं भोजनचङ्गस् त्वं तदन्यद्भुज्यताम् इति ॥
कृताहारश् च स नृपो विप्रान् वासगृहेषु तान् ।
विसृज्यानाययामास स्वम् एकां गणिकोत्तमाम् ॥
तां च तस्मै द्वितीयस्मै प्राहिणोत् कृतमण्डनाम् ।
विप्राय नारिचङ्गाय सायं सर्वाङ्गसुन्दरीम् ॥
सा च वासगृहं तस्य राजभृत्यान्विता ययौ ।
राकानिशेव पुर्णेन्दुमुखी कम्दर्पदीपिनी ॥
प्रविष्टायां च तस्यां स प्रभाभासितवेश्मनि ।
उत्पन्नमूर्च्छः संरुद्धनासाग्रो वामपाणिना ॥
नारीचङ्गो ऽब्रवीद् राजभृत्यान् निष्कास्यताम् इति ।
न चेन् मृतो ऽहं निर्याति गन्धो ऽस्याश् छागलो यतः ॥
इत्य् उक्तास् तेन निन्युस् ते विग्नां तां राजपूरुषाः ।
राज्ञो ऽन्तिकं वारवधूं वृत्तान्तं जगदुश् च तम् ॥
राजाप्य् आनाय्य तत्कालं नारीचङ्गम् उवाच तम् ।
येयं श्रीखण्डकर्पूरकाला-गुरुमदोत्तमैः ॥
कृतप्रसाधना दिक्षु प्रसरच्चारुसौरभा ।
तस्या वारविलासिन्या गन्धः स्याच् छागलः कुतः ॥
इत्य् उक्तो ऽपि स राज्ञा तन् नारीचङ्गस् तदा न यत् ।
प्रतिपेदे तदा राजा विचारपतितो ऽभवत् ॥
पृच्छंश् च युक्त्या बुबुधे ताम् अजक्षीरवर्धिताम् ।
तन्मुखाद् एव बालत्वे मातृधात्रीवियोगतः ॥
ततो ऽतिविस्मितस् तस्य नारीचङ्गस्य चङ्गताम् ।
प्रशंसन् नृपतिस् तस्मै तृतीयाय द्विजन्मने ॥
तद्रसात् तूलिकाचङ्गायाशु शय्याम् अदापयत् ।
पर्यङ्कोपरि विन्यस्तसप्तसंख्याकतूलिकाम् ॥
तस्यां च तूलिकाचङ्गो महार्हे वासवेस्मनि ।
सुष्वाप धौतसुश्लक्ष्णपटप्रच्छदवाससि ॥
यामार्ध एव च गते स रात्रौ शयनात् ततः ।
उत्तस्थौ पाण्यवष्टब्धपार्श्वः क्रन्दन् व्यथार्दितः ॥
ददृशे तस्य पार्श्वे च तत्र त्यई राजपूरुषैः ।
गाढलग्नस्य बालस्य मुद्रेव कुटिलारुणा ॥
गत्वा च तैस् तदाख्यातं राज्ञे राजाप्य् उवाच तान् ।
तूलिकानां तले किम्चिन् मा स्यात् तद् वीक्ष्यताम् इति ॥
गत्वेक्षन्ते च ते यावद् एकैकं तूलिकातलम् ।
तावत् सर्वतलाद् आपुर् वालं पर्यङ्कपृष्टतः ॥
नीत्वा चादर्शयन् राज्ञे सो ऽप्य् आनीतस्य वीक्ष्य तत् ।
तद्रूपं तूलिकाचङ्गस्याङ्गं राजा विसिस्मिये ॥
सप्तभ्यस् तूलिकाभ्यो ऽस्य वालो लग्नस् तनौ खतम् ।
इति चित्रीयमाणस् तां राजा रात्रिं निनाय सः ॥
प्रातश् चाद्भुतवैदग्ध्यसौकुमार्या अमी इति ।
तेभ्यस् त्रिभ्यो ऽपि चङ्गेभ्यो हेमलक्षत्रयं ददौ ॥
ततस् ते सुखितास् तत्र तस्थुर् विस्मृतकच्छपाः ।
पितुर् विघ्नितयज्ञार्थफलोपार्जितपातकाः ॥
इत्य् आख्याय कथाद्भुतम् अंसनिषण्णः पुनः स वेतालः ।
पप्रच्छ तं त्रिविक्रमसेनं पृथ्वीपतिं प्रश्नम् ॥
राजन् विचिन्त्य शापं पूर्वोक्तं ब्रूहि मे त्वम् एतेषाम् ।
भोजननारीशय्याचङ्गानां को ऽधिकश् चङ्गः ॥
तच् छ्रुत्वैव स धीमान् वेतालं प्रत्युवाच तं नृपतिः ।
अहम् एषां निःकैतवम् अधिकं जानामि तूलिकाचङ्गम् ॥
यस्याङ्गे प्रत्यक्षं वालप्रतिबिम्बम् उद्गतं दृष्टम् ।
इतराभ्यां हि भवेत् तत् पूर्वं जात्व् अन्यतो ऽवगतम् ॥
इति तस्योक्तवतो ऽंसाद् वेतालो भूपतेर् ययौ प्राग्वत् ।
सो ऽपि तथैव च राजा तम् अन्वयासीद् अनिर्विण्णः ॥
मूल पाठ: Kathāsaritsāgara, Vetālapañcaviṃśatikā · Data entry Elena Artesani · GRETIL (Göttingen) · CC BY-NC-SA 4.0