भाषा

ENहिગુ
ग्रंथ पाठ

कथासरित्सागर, वेतालपञ्चविंशतिका · अध्याय 12.14

12.14.1

ततो गत्वा पुनः प्राप्य वेतालं शिंशपातरोः ।
स त्रिविक्रमसेनस् तं स्कन्धे जग्राह भूपतिः ॥

12.14.2

गृहीत्वा प्रस्थितं तं च वेतालः सो ऽब्रवीत् पथि ।
राजञ् श्रमविनोदार्थं कथाम् आख्यामि ते शृणु ॥

12.14.3

अस्तीह ताम्रलिप्तीति पुरी पूर्वाम्बुधेस् तटे ।
चण्डसेनाभिधानश् च राजा तस्याम् अभूत् पुरि ॥

12.14.4

पराङ्मुखः परस्त्रीषु यो न सङ्ग्रामभूमिषु ।
हर्ता च शत्रुलक्ष्मीणां न परद्रव्यसंपदाम् ॥

12.14.5

तस्यैकदा दाक्षिणात्यो राजपुत्रो जनप्रियः ।
आययौ सत्त्वशीलाख्यः सिंहद्वारे ऽत्र भूपतेः ॥

12.14.6

तत्र चात्मानम् आवेद्य नैर्धन्यात्तं नृपं प्रति ।
कपटं पाटयामास राजपुत्रैः सहापरैः ॥

12.14.7

ततः कार्पटिको भूत्वा बहून्य् अब्दानि तत्र सः ।
तस्थौ कुर्वन् सदा सेवान् नैव प्राप फलं नृपात् ॥

12.14.8

यदि राजान्वये जन्म निःधनत्वं किम् ईदृशम् ।
निःधनत्वे ऽपि किं धात्रा कृतेयं मे महेच्छता ॥

12.14.9

अयं हि सेवमानं माम् एवं क्लिष्टपरिच्छदम् ।
चिरं क्षुधावसीदन्तं राजा नाद्यापि वीक्षते ॥

12.14.10

इति यावच् च स ध्यायत्य् अत्र कार्पटिकस् ततः ।
तावद् आखेटकार्थं स निरगाद् एकदा नृपः ॥

12.14.11

तस्मिन् कार्पटिके धावत्य् अग्रे लगुडवाहिनि ।
जगाम चाश्वपादातयुतः सो ऽथ मृगाटवीम् ॥

12.14.12

कृताखेटश् च तत्रारान् महान्तं मत्तसूकरम् ।
अनुधावन् क्षणात् प्रापद् अतिदूरं वनान्तरम् ॥

12.14.13

तत्र पर्णतृणछन्नमार्गे हारितसूकरः ।
श्रान्तो महावने सो ऽथ राजा दिङ्मोहम् आययौ ॥

12.14.14

एकः कार्पटिकश् चाथ स तं वाताश्वपृष्ठगम् ।
प्रानानपेक्षो ऽनुययौ पदातिः क्षुत्तृषार्दितः ॥

12.14.15

तं च दृष्ट्वा तथाभूतम् अन्वायातं स भूपतिः ।
सस्नेहम् अवदत् कच्चिद् वेत्सि मार्गं यथागतम् ॥

12.14.16

तदाकर्ण्याञ्जलिं बद्ध्वा स तं कार्पटिको ऽभ्यधात् ।
वेद्मि किं च क्षणं तावद् इह विश्राम्यतु प्रभुः ॥

12.14.17

द्युवधूमेखलामध्यमणिर् एष हि संप्रति ।
देदीप्यते स्फुरद्रश्मिशिखाजालो ऽब्जिनीपतिः ॥

12.14.18

एतच् छ्रुत्वा स राजा तं सोपरोधम् अभाषत ।
तर्हि क्वापीह पानीयं भवता प्रेक्ष्यताम् इति ॥

12.14.19

तथेत्य् आरुह्य स ततस् तुङ्गं कार्पटिकस् तरुम् ।
नदीं दृष्ट्वावरुह्याथ नृपं तत्र निनाय तम् ॥

12.14.20

तद् वाहं च विपर्यानीकृतं कृतविवर्तनम् ।
दत्ताम्बुशष्पकवलं विदधे विगतश्रमम् ॥

12.14.21

कृतस्नानाय राज्ञे च प्रोन्मुच्य वसनाञ्चलात् ।
प्रक्षाल्योपानयत् तस्मै हृद्यान्य् आमलकानि सः ॥

12.14.22

एतानि कुत इत्य् एतं पृच्छन्तं स च भूपतिम् ।
एवं व्यजिज्ञपज् जानुस्थितः सामलकाञ्जलिः ॥

12.14.23

एतद्वृत्तिर् अहं नित्यं व्यतीतदशवत्सरः ।
चराम्य् आराधयन् देवम् अनेकान्तमुनिव्रतम् ॥

12.14.24

तच् छ्रुत्वा सत्यनामा त्वं सत्त्वशीलः किम् उच्यते ।
इत्य् उक्त्वा स कृपाक्रान्तो ह्रीतश् चाचिन्तयन् नृपः ॥

12.14.25

धिङ् नृपान् क्लिष्टम् अक्लिष्टं ये भृत्येष न जानते ।
धिक् च तं परिवारं यो न ज्ञापयति तांस् तथा ॥

12.14.26

इति संचिन्त्य जग्राह स राजामलकद्वयम् ।
हस्तात् कार्पटिकस्याथ कथम्चिद् अनुबध्नतः ॥

12.14.27

भुक्त्वा च तन् निपीयाम्बु विशश्रामात्र स क्षणम् ।
जग्धामलकसंपीतजलकार्पटिकान्वितः ॥

12.14.28

ततः सज्जीकृतं तेन वाहं कार्पटिकेन सः ।
आरुह्याग्रेसरे तस्मिन्न् एव मार्गप्रदर्शिनि ॥

12.14.29

पश्चाद्भागम् अनारूढे हयस्याभ्यर्थिते ऽप्य् अलम् ।
ययौ स राजा स्वपूरिं पथि प्राप्तात्मसैनिकः ॥

12.14.30

तत्र प्रख्याप्य तद्भक्तिं वसुभिर् विषयैश् च तम् ।
अपूरयत् कार्पटिकं न चामन्यत निष्कृतिम् ॥

12.14.31

ततः कृतार्थः पार्श्वे ऽस्य चण्डसिंहस्य भूपतेः ।
मुक्तकार्पटिकाचारः सत्त्वशीलः स तस्थिवान् ॥

12.14.32

एकदा तेन राज्ञा च स सिंहलपतेः सुताम् ।
याचितुं सिंहलद्वीपम् आत्मार्थं प्रेषितो ऽभवत् ॥

12.14.33

तत्राब्धिवर्त्मना गच्छन्न् अर्चिताभीष्टदेवतः ।
आरुरोह प्रवहणं राजादिष्टैः सह द्विजैः ॥

12.14.34

गते तस्मिन् प्रवहणे मध्यभागम् अशङ्कितम् ।
उत्तस्थौ जलधेस् तस्माद् ध्वजो जनितविस्मयः ॥

12.14.35

अभ्रम्लिहाग्रः सुमहाञ् जाम्बूनदविनिर्मितः ।
विचित्रवर्णविचलद्वैजयन्तीविराजितः ॥

12.14.36

तत्कालं चात्र सहसा समुन्नम्य घनावली ।
भृशं वर्षितुम् आरेभे ववौ तीव्रश् च मारुतः ॥

12.14.37

तैर् वर्षवातैः स बलाद् आकृष्याधोरनैर् इव ।
आसज्यत ध्वजस्तम्भे तस्मिन् प्रवहणद्विपः ॥

12.14.38

तावच् च स ध्वजस् तस्मिन् वारिधौ वीचिविप्लुते ।
वहनेन समं तेन प्रावर्तत निमज्जितुम् ॥

12.14.39

ततो द्विजास् ते तत्रस्थाश् चण्डसिंहं स्वभूपतिम् ।
उद्दिश्योद्घोषयामासुर् अभ्रह्मण्यं भयाकुलाः ॥

12.14.40

तद् आकर्ण्यासहिष्णुश् च स्वामिभक्तेर् अनुध्वजम् ।
स सत्त्वशीलो निःत्रिंशहस्तो बद्धोत्तरीयकः ॥

12.14.41

आत्मानम् अक्षिपत् तत्र निःअपेक्षो महोदधौ ।
उदधेः कारणाशङ्की वीरः प्रतिविधित्सया ॥

12.14.42

मग्ने च तस्मिन् वातोर्मिदूरोत्क्षिप्तम् अभज्यत ।
वहनं तच् च तत्स्ताश् च निपेतुर् यादसां मुखे ॥

12.14.43

स च मग्नो ऽम्बुधौ तत्र सत्त्वशीलो निरीक्षते ।
यावत् तावद् ददर्शात्र पुरीं दिव्यां न वारिधिम् ॥

12.14.44

तस्मिन् मणिमयस्थम्भैर् भास्वरे हेममन्दिरे ।
सद्रत्नबद्धसोपानवापीकोद्यानशोभिनि ॥

12.14.45

नानामणिशिलाभित्तिरत्नचित्रोच्छ्रितध्वजम् ।
कात्यायनीदेवगृहं मेरुप्रोन्नतम् ऐक्षत ॥

12.14.46

तत्र प्रणम्य देवीं तां स्तुत्याभ्यर्च्य तदग्रतः ।
इन्द्रजालं किम् एतत् स्याद् इत्य् आश्चर्याद् उपाविशत् ॥

12.14.47

तावच् च देव्यग्रगतप्रभामण्डलकान्तरात् ।
अकस्मान् निरगात् कन्या दिव्योद्घाट्य कवाटकम् ॥

12.14.48

इन्दी वराक्षी फुल्लाब्जवदना कुसुमस्मिता ।
मृणालनालमृद्वङ्गी जङ्गमेव सरोजिनी ॥

12.14.49

स्त्रीसहस्रपरीवारा देवीगर्भगृहं च सा ।
विवेश सत्त्वशीलस्य हृदयं च ततः समम् ॥

12.14.50

निरगात् कृतपूजा च देवीगर्भगृहात् ततः ।
न पुनः सत्त्वशीलस्य हृदयात् सा कथं चन ॥

12.14.51

प्राविशत् सा च तत्रैव प्रभामण्डलकान्तरे ।
सत्त्वशीलो ऽप्य् असौ तस्याः पश्चात् तत्र प्रविष्टवान् ॥

12.14.52

प्रविश्य च ददर्शान्तर् अन्यद् एवोत्तमं पुरम् ।
संकेतोद्यानम् इव यत् सर्वासां भोगसंपदाम् ॥

12.14.53

तत्रान्तःमणिपर्यङ्कनिषण्णां तां विलोक्य सः ।
कन्याम् उपेत्य तत्पार्श्वे सत्त्वशील उपाविशत् ॥

12.14.54

आसीच् च तन्मुखासक्तलोचनो लिखितो यथा ।
अङ्गैः सोत्कम्पपुलकैर् वदन्न् आलिङ्गनोत्कताम् ॥

12.14.55

दृष्ट्वा च तं स्मराविष्टं चेटीनाम् अत्र सा मुखम् ।
अद्राक्षीत् ताश् च तत्कालम् इङ्गितज्ञास् तम् अब्रुवन् ॥

12.14.56

अतिथिस् त्वम् इह प्राप्तस् तद् अस्मत्स्वामिनीकृतम् ।
भजस्वातिथ्यम् उत्तिष्ठ स्नाहि भुङ्क्स्व ततः परम् ॥

12.14.57

तच् छ्रुत्वा सो ऽवलम्ब्याशां खतम् अप्य् उत्थितस् ततः ।
ययौ प्रदर्शितां ताभिर् एकाम् उद्यानवापिकाम् ॥

12.14.58

तस्यां निमग्नश् चोत्तस्थौ ताम्रलिप्त्यां स तत्क्षणात् ।
चण्डसिंहनृपोद्यानवापीमध्यात् ससंभ्रमः ॥

12.14.59

तत्र प्राप्तम् अकस्माच् च विक्ष्यात्मानम् अचिन्तयत् ।
अहो किम् एतत् क्वोद्यानम् इदं दिव्यं क्व तत् पुरम् ॥

12.14.60

तत्रामृतासारसमं क्व तत् तस्याश् च दर्शनम् ।
क्व चानन्तरम् एवेदं तद्विश्लेषमहाविषम् ॥

12.14.61

स्वप्नश् च नायं सुस्पष्टो विनिद्रो ऽनुभवो हि मे ।
ध्रुवं पातालकन्याभिस् ताभिर् मूढो ऽस्मि वञ्चितः ॥

12.14.62

इति ध्यायन् विना तां स कन्याम् उन्मादवान् इव ।
उद्याने तत्र बभ्राम कामार्तो विललाप च ॥

12.14.63

तदवस्थं च तं दृष्ट्वा पिशङ्गैः पुष्परेणुभिः ।
वातोद्धूतैः परीताङ्गं विप्रयोगानलैर् इव ॥

12.14.64

उद्यानपाला गत्वैव चण्डसिंहमहीभृतम् ।
व्यजिज्ञपन् स चोद्भ्रान्तः स्वयम् एत्य ददर्श तम् ॥

12.14.65

सान्त्वयित्वा च पप्रच्छ किम् इदं ब्रूहि नः सखे ।
क्व प्रस्थितस् त्वं क्व प्राप्तः क्वास्तः क्व पतितः शरः ॥

12.14.66

तच् छ्रुत्वा स स्ववृत्तान्तं तस्मै सर्व शशंस तम् ।
सत्त्वशीलो नृपतये सो ऽप्य् अथैवम् अचिन्तयत् ॥

12.14.67

हन्त वीरो ऽपि मत्पुण्यैः कामेनैषो विडम्बितः ।
आनृण्यं गन्तुम् एतस्य लब्धो ह्य् अवसरो मया ॥

12.14.68

इत्य् अन्तश् चिन्तयित्वा स वीरो राजा जगाद तम् ।
तह्रि मुञ्च मुधा शोकम् अहं त्वां प्रापयामि ताम् ॥

12.14.69

नीत्वा तेनैव मार्गेण प्रियाम् असुरकन्यकाम् ।
इति चाश्वासयामास तं स स्नानादिना नृपः ॥

12.14.70

अन्येद्युर् मन्त्रिविन्यस्तराज्यस् तेन समं च सः ।
प्रायात् प्रवहणारूढस् तद्दर्शितपथो ऽम्बुधिम् ॥

12.14.71

प्राप्य तन्मध्यभागं च दृष्ट्वा तं प्राग्वद् उत्थितम् ।
सपताकं ध्वजं सत्त्वशीलस् तं नृपम् अभ्यधात् ॥

12.14.72

सो ऽयम् अभ्युत्थितो दिव्यप्रभावो ऽत्र महाध्वजः ।
मयि मग्ने ऽत्र मङ्क्तव्यं देवेनैतम् अनु ध्वजम् ॥

12.14.73

इत्य् उक्त्वा निकटं प्राप्य ध्वजस्यास्य निमज्जतः ।
मार्गे स सत्त्वशीलो ऽसौ पूर्वम् आत्मानम् अक्षिपत् ॥

12.14.74

ततो राजापि चिक्षेप तत्रात्मानं तथैव सः ।
अन्तो मग्नौ च तौ क्षिप्रं तद् दिव्यं प्रापतुः पुरम् ॥

12.14.75

तत्र दृष्ट्वा स साश्चर्यो राजा देवीं प्रणम्य ताम् ।
पार्वतीं सत्त्वशीलेन सहितः समुपाविशत् ॥

12.14.76

तावच् च निरगात् तत्र सा सखीजनसंगता ।
रूपिनीव प्रभा कन्या प्रभामण्डलकात् ततः ॥

12.14.77

इयं सा सुमुखीत्य् उक्ते सत्त्वशीलेन तां नृपः ।
दृष्ट्वा युक्तम् अभिष्वङ्गं तस्य तस्याम् अमन्यत ॥

12.14.78

सापि तं वीक्ष्य राजानं शुभशारीरलक्षणम् ।
पुरुषातिशयो ऽपूर्वः को ऽयं स्याद् इत्य् अचिन्तयत् ॥

12.14.79

विवेश चाम्बिकाधाम पूजायै सा नृपो ऽपि सः ।
जगामोद्यानम् आदाय सत्त्वशीलम् अवज्ञया ॥

12.14.80

क्षणाच् च कृतपूजा सा निरगाद् दैत्यकन्यका ।
याचित्वा सत्पतिप्राप्तिं देव्या गर्भगृहान्तरात् ॥

12.14.81

निर्गत्य सा जगादैकां सखीं सखि गवेष्यताम् ।
यो ऽसाव् इह मया दृष्टो महात्मा क्व स तिष्ठति ॥

12.14.82

आतिथ्यं गृह्यताम् एत्य प्रसादः क्रियतां त्वया ।
इति चैषो ऽर्थ्यतां पूज्यः पुमान् को ऽप्य् उत्तमो ह्य् असौ ॥

12.14.83

एवं सखी तयोक्ता सा विचित्योद्यानवर्तिने ।
स्वस्वामिनीनिदेशं तं प्रह्वा तस्मै न्यवेदयत् ॥

12.14.84

तच् छ्रुत्वा स नृपो वीरः सावहेलम् उवाच ताम् ।
एषैवातिथ्यम् अस्माकम् अन्यत् किम् उपयुज्यते ॥

12.14.85

एतच् छ्रुत्वा तया गत्वा सख्या सा श्राविता तदा ।
मेने मान्यम् उदारं तं सर्वथा दैत्यकन्यका ॥

12.14.86

ततश् चाकृष्यमानेव धैर्यपाशेन तेन सा ।
नृपेण मानुषायोग्ये ऽप्य् आतिथ्ये निःस्पृहात्मना ॥

12.14.87

पत्यर्थं पार्वतीसेवापरिपाकसमर्पितम् ।
मत्वा तत् स्वयम् उद्यानं विवेशासुरपुत्रिका ॥

12.14.88

विचित्रशकुनालापैर् वाताञ्चितलताभुजैः ।
विकीर्णकुसुमैर् आरान् नन्द्यमानेव पादपैः ॥

12.14.89

उपगम्य च सा तत्र यथावत् प्रश्रयानता ।
आतिथ्यग्रहणार्थं तं प्रार्थयामास पार्थिवम् ॥

12.14.90

ततः स सत्त्वशीलं तम् उद्दिश्योवाच तां नृपः ।
अनेन कथितां देवीम् इहाहं द्रष्टुम् आगतः ॥

12.14.91

गौरीं ध्वजपथप्राप्यपरमाद्भुतकेतनाम् ।
सा दृष्टा तदनु त्वं च कान्यातिथ्यार्थितात्र नः ॥

12.14.92

तच् छ्रुत्वा साब्रवीत् कन्या कौतुकात् तर्हि वीक्षितुम् ।
आगम्यतां द्वितीयं मे पुरं त्रिजगदद्भुताम् ॥

12.14.93

एवम् उक्तवतीं तां च स विहस्य नृपो ऽब्रवीत् ।
तद् अप्य् अनेनैवोक्तं मे यत्र सा स्नानवापिका ॥

12.14.94

ततः सा कन्यकावादीद् देव मा स्मैवम् आदिश ।
न विडम्बनशीलाहं का वा पूज्ये विडम्बना ॥

12.14.95

अहं हि सत्त्वोत्कर्षेण युष्माकं किम्करीकृता ।
तन्मम प्रार्थनाभङ्गं नैवैवं कर्तुम् अर्हथ ॥

12.14.96

एतच् छ्रुत्वा तथेत्य् उक्त्वा सत्त्वशीलसखः स तत् ।
प्रभामण्डलकोपान्तं ययौ राजा तया सह ॥

12.14.97

अपावृतकवाटे च तस्मिन्न् अन्तस् तथैव सः ।
प्रवेशितो ददर्शास्यास् तद् दिव्यम् अपरं पुरम् ॥

12.14.98

नित्य संनद्धसर्वऋतु सदापुष्पफलद्रुमम् ।
मेरुपृष्ठम् इवाशेषं निर्मितं रत्नकाञ्चनैः ॥

12.14.99

रत्नासने महार्हे तं राजानम् उपवेश्य सा ।
यथोचितोपनीतार्घ्या दैत्यराजसुताब्रवीत् ॥

12.14.100

कन्याहम् असुरेन्द्रस्य कालनेमेर् महात्मनः ।
चक्रायुधेन च स मे स्वःगतिं प्रापितः पिता ॥

12.14.101

विश्वकर्मकृतं चेदं पैतृकं मे पुरद्वयम् ।
न जरात्र न मृत्युश् च बाधते सर्वकामदे ॥

12.14.102

इदानीं च पिता त्वं मे सपुराहं वशे तव ।
इत्य् अर्पितात्मसर्वस्वां ताम् उवाच स भूपतिः ॥

12.14.103

यद्य् एवं तत् सुते ह्य् अस्मै मया दत्तास्य् अनिन्दिते ।
सत्त्वशीलाय वीराय सुहृदे बान्धवाय च ॥

12.14.104

एवं देवीप्रसादेन मूर्तेनेव नृपेण सा ।
उक्ता गुणज्ञा विनता तत् तथेत्य् अन्वमन्यत ॥

12.14.105

ततः कृतार्थं तं तस्याः कृतपाणिग्रहं नृपः ।
दत्तासुरपुरैश्वर्यं सत्त्वशीलम् उवाच सः ॥

12.14.106

बुक्तयोर् आमलकयोस् तयोर् एकं मया तव ।
संशोधितम् असंशुद्धाद् ऋणी ते ऽहं द्वितीयतः ॥

12.14.107

इति प्रणतम् उक्त्वा तं दैत्यपुत्रीं जगाद ताम् ।
मार्गो मे दर्श्यतां येन स्वपुरीं प्राप्नुयाम् इति ॥

12.14.108

ततो ऽपराजितं नाम खड्गं भक्ष्यं फलं च सा ।
एकं जरामृत्युहरं तस्मै दैत्यसुता ददौ ॥

12.14.109

ताभ्यां युक्तस् तयोक्तायां वाप्यं मग्नः स्वदेशतः ।
उत्थाय सर्वसंसिद्धकामो ऽभूत् स क्रमान् नृपः ॥

12.14.110

सत्त्वशीलो ऽपि दैत्यस्त्रीपुरराज्यं शशास सः ।
तद् ब्रूहि को ऽब्धिपतने द्वयोः सत्त्वाधिको ऽनयोः ॥

12.14.111

इति श्रुत्वा तथा प्रश्नं वेतालाच् छपभीतितः ।
स त्रिविक्रमसेनस् तं भूपतिः प्रत्यभाषत ॥

12.14.112

एतयोः सत्त्वशीलो ऽत्र स मे सत्त्वाधिको मतः ।
स ह्य् अविज्ञाततत्त्वार्थो निरास्थः पतितो ऽम्बुधौ ॥

12.14.113

राजा तु तत्त्वं विज्ञाय विवेशाम्भःधिम् आस्थया ।
दैत्यकन्यां च नावञ्छद् असाध्या स्पृहयेति सः ॥

12.14.114

इति तस्याकर्ण्य वचो निरस्तमौनस्य भूपतेः स्कन्धात् ।
स जगाम पूर्ववत् तं वेतालः शिंशपातरुं स्वपदम् ॥

12.14.115

राजापि तथैव स तं पुनर् अप्य् आनेतुम् अनुजगाम जवात् ।
प्रारब्धे ह्य् असमाप्ते कार्ये शिथिलीभवन्ति किं सुधियः ॥

मूल पाठ: Kathāsaritsāgara, Vetālapañcaviṃśatikā · Data entry Elena Artesani · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc