कथासरित्सागर, वेतालपञ्चविंशतिका · अध्याय 12.13
ततो गत्वा पुनस् तस्मात् प्राप्य तं शिंशपातरोः ।
वेतालं प्राग्वद् आदाय स्कन्धे मौनेन भूपतिः ॥
स त्रिविक्रमसेनो ऽत्र यावद् आगच्छति द्रुतम् ।
तावत् पथि स वेतालो भूयो ऽप्य् एवम् उवाच तम् ॥
राजन् सुधीः सुसत्त्वश् च भवांस् तेन प्रियो ऽसि मे ।
अतो विनोदिनीं वच्मि कथां प्रश्नं च मे शृणु ॥
आसीद् राजा यशःकेतुर् इति ख्यातो महीतले ।
तस्य शोभावती नाम राजधान्य् अभवत् पुरी ॥
तस्याम् अभून् नगर्यां च गौर्यायतनम् उत्तमम् ।
तस्य दक्षिणतश् चासीद् गौरीतीर्थाभिधं सरः ॥
तस्याषाढचतुर्दश्यां शुक्लायां प्रतिवत्सरम् ।
यात्रायां स्नातुम् एति स्म नानादिग्भ्यो महाजनः ॥
एकदा च तिथौ तस्यां स्नातुम् अत्राययौ युवा ।
रजको धवलो नाम ग्रामाद् ब्रह्मस्थलाभिधात् ॥
सो ऽपश्यद् रजकस्यात्र तीर्थे स्नानागतां सुताम् ।
कन्यां शुद्धपटाख्यस्य नाम्ना मदनसुन्दरीम् ॥
इन्दोर् लावण्यहारिण्या तया स हृतमानसः ।
अन्विष्य तन्नामकुले कामार्तो ऽथ गृहं ययौ ॥
तत्रानवस्थितस् तिष्ठन् निराहारस् तया विना ।
पृष्ठो मात्रार्तया तस्यै तच् छशंस मनःगतम् ॥
सा गत्वा विमलाख्याय तत् स्वभर्त्रे न्यवेदयत् ।
सो ऽप्य् आगत्य तथावस्थं दृष्ट्वा तं सुतम् अभ्यधात् ॥
किं विषीदसि पुत्रैवम् अदुष्प्राप्ये ऽपि वाञ्छिते ।
स हि मद्याचितः शुद्धपटो दास्यति ते सुताम् ॥
अन्यूना हि वयं तस्मात् कुलेनार्थेन कर्मणा ।
तं वेद्म्य् अहं स मां वेत्ति तेनैतन् मे न दुःकरम् ॥
इत्य् आश्वास्य स तं पुत्रम् आहारादौ प्रवर्त्य च ।
तद् युक्तो विमलो ऽन्येद्युर् ययौ स शुद्धपटास्पदम् ॥
ययाचे चात्र पुत्रस्य तस्यार्थे धवलस्य सः ।
कन्यां तस्मात् स चास्मै तां प्रतिशुश्राव सादरम् ॥
लग्नं निश्चित्य चान्येद्युस् तां स शुद्धपटः सुताम् ।
धवलाय ददौ तस्मै तुल्यां मदनसुन्दरीम् ॥
कृतोद्वाहश् च स तया साकं दर्शनसक्तया ।
भार्यया स्वपितुर् गेहं जगाम धवलः कृती ॥
सुखस्थितस्य तस्याथ कदाचिच् छ्वशुरात्मजः ।
तस्या मदनसुन्दर्या भ्राता तत्रागतो ऽभवत् ॥
स कृतप्रश्रयः सर्वैः स्वस्राश्लिष्याभिनन्दितः ।
संबन्धिपृष्टकुशलो विश्रान्तश् च जगाद तान् ॥
अहं मदनसुन्दर्या जामातुश् च निमन्त्रणे ।
तातेन प्रेषितो यस्माद् देवीपूजोत्सवो ऽस्ति नः ॥
श्रद्धाय चैतत् तद्वाक्यं यथार्हैः पानभोजनैः ।
ते संबन्ध्यादयः सर्वे तद् अहस् तम् उपाचरन् ॥
प्रातर् मदनसुन्दर्या स्वशुर्येण च तेन सः ।
सहितो धवलः प्रायाद् गृहं तच् छ्वाशुरं प्रति ॥
प्राप्य शोभावतीं तां च पुरीम् आत्मतृतीयकः ।
ददर्श निकटं प्राप्य स गौर्यायतनं महत् ॥
निजगाद च तौ भार्याश्वशुर्यौ श्रद्धया ततः ।
एतम् एतां भगवतीं पश्यामो देवताम् इह ॥
तच् छ्रुत्वा स श्वशुर्यस् तं निषेधं प्रत्यभाषत ।
इयन्तो रिक्तहस्ताः किं पश्यामो देवताम् इति ॥
अहं तावद् व्रजाम्य् एको युवाम् अत्रैव तिष्ठतम् ।
इत्य् उक्त्वा धवलो द्रष्टुं देवीं तां स ततो ययौ ॥
प्रविश्यायतनं तस्याः प्रणम्य च विभाव्य च ।
ताम् अष्टादशदोःदण्डखण्डितोच्चण्डदानवाम् ॥
पादपद्मतलाक्षिप्तमहिषासुरमर्दिनीम् ।
स विधिप्रेरणोत्पन्नबुद्धिर् एवम् अचिन्तयत् ॥
जीवोपहारैर् विविधैर् इमां देवीं जनो ऽर्चति ।
अहं तु सिद्ध्यै किं नैतां प्रीणाम्य् आत्मोपहारतः ॥
इति ध्यात्वैव तद्गर्भगृहाद् आदाय निःजनात् ।
खड्गं सांयात्रिकैः कैःचिद् देव्याः प्राक् प्राभृतीकृतम् ॥
बद्ध्वा शिरःरुहैर् घण्टाशृङ्खलायां निजं शिरम् ।
चिच्छेदैतेन खड्गेन तच् छिन्नं चापतद् भुवि ॥
चिरं यावत् स नायाति तावद् गत्वा तम् ईक्षितुम् ।
तत्रैव देवीभवने तच्छ्वशुर्यो विवेश सः ॥
सो ऽपि दृष्ट्वा तम् उत्कृत्तमूर्धानं भगिनीपतिम् ।
व्यामोहितस् तथैव स्वं शिरस् तेनासिनाच्छिनत् ॥
सो ऽपि यावच् च नायाति तावद् उद्भ्रान्तमानसा ।
तद्देवीभवनं सापि ययौ मदनसुन्दरी ॥
प्रविश्य दृष्ट्वैव पतिं भ्रातरं च तथागतौ ।
हा किम् एतद् धतास्मीति विलपन्त्य् अपतद् भुवि ॥
क्षणाच् चोत्थाय शोचन्ती ताव् अकाण्डहताव् उभौ ।
किं ममाप्य् अधुनानेन जीवितेनेत्य् अचिन्तयत् ॥
व्यजिज्ञपच् च देवीं तां देहत्यागोन्मुखी सती ।
देवि सौभाग्यचारित्रविधानैकाधिदेवते ॥
अध्यासितशरीरार्धे भर्तुर् माररिपोर् अपि ।
अशेषललनालोकशरण्ये दुःखहारिणि ॥
हृताव् एकपदे कस्माद् भर्ता भ्राता च मे त्वया ।
न युक्तम् एतन् मयि ते नित्यभक्ता ह्य् अहं त्वयि ॥
तन् मे श्रितायाः शरणं शृण्व् एकं कृपणं वचः ।
एतां तावत् त्यजाम्य् अत्र दौर्भाग्योपहतां तनुम् ॥
जनिष्ये देवि भूयस् तु यत्र कुत्रापि जन्मनि ।
तत्रैताव् एव भूयास्तां द्वौ भर्तृभ्रातरौ मम ॥
इति संस्तुत्य विज्ञप्य देवीं नत्वा च तां पुनः ।
पाशं विरचयामास लतयाशोकपादपे ॥
तत्रार्पयति यावच् च पाशे कण्ठं वितत्य सा ।
तावत् तत्रोच्चचारैवं भारती गगनाङ्गणात् ॥
मा कृथाः साहसं पुत्रि बालाया अपि ते ऽमुना ।
सत्त्वोत्कर्षेण तुष्टास्मि पाशम् एतं परित्यज ॥
संश्लेषय शिरः स्वं स्वं भर्तृभ्रातृकबन्धयोः ।
उत्तिष्ठतां ते जीवन्ताव् एतौ द्वाव् अपि मद्वरात् ॥
एतच् छ्रुत्वैव संत्यज्य पाशं हर्षाद् उपेत्य सा ।
अविभाव्यातिरभसाद् भ्रान्ता मदनसुन्दरी ॥
बाला भर्तृशिरो भ्रातृदेहेन समयोजयत् ।
भर्तृदेहेन च भ्रातृशिरो विधिनियोगतः ॥
ततो ऽक्षताङ्गौ जीवन्ताव् उभाव् उत्तस्थतुश् च तौ ।
शिरःविनिमयाज् जातसंकरौ काययोर् मिथः ॥
अथान्योन्योदितस्वस्वयथावृत्तान्ततोषिणः ।
प्रणम्य देवीं शर्वनीं यथेष्टं ते ययुस् त्रयः ॥
यान्ती च दृष्ट्वा स्वकृतं शिरःविनिमयं तयोः ।
विग्ना किम्कार्यतामूढा साभून् मदनसुन्दरी ॥
तद् ब्रूहि राजन् को भर्ता तस्याः संकीर्णयोस् तयोः ।
पुर्वोक्तः स्यात् स शापस् ते जानानो न ब्रवीषि चेत् ॥
इत्य् आकर्ण्य कथाप्रश्नं राजा वेतालतस् ततः ।
स त्रिविक्रमसेनो ऽत्र तम् एवं प्रत्यभाषत ॥
यत् संस्थं तत्पतिशिरः सैष तस्याः पतिस् तयोः ।
प्रधानं च शिरो ऽङ्गेषु प्रत्यभिज्ञा च तद्गता ॥
इत्य् उक्तवतो नृपतेस् तस्यांसात् पुनर् अतर्कितः स ययौ ।
वेतालः स च राजा जगाम भुयस् तम् आनेतुम् ॥
मूल पाठ: Kathāsaritsāgara, Vetālapañcaviṃśatikā · Data entry Elena Artesani · GRETIL (Göttingen) · CC BY-NC-SA 4.0