भाषा

ENहिગુ
ग्रंथ पाठ

कथासरित्सागर, वेतालपञ्चविंशतिका · अध्याय 12.12

12.12.1

ततस् तस्य पुनर् गत्वा शिंशपाशाखिनो ऽन्तिकम् ।
तथैवोल्लम्बमानं तं दृष्ट्वा नरशरीरगम् ॥

12.12.2

वेतालम् अवतार्यैव कृत्वास्मै बहु वैकृतम् ।
स त्रिविक्रमसेनो द्राग् गन्तुं प्रववृते ततः ॥

12.12.3

आगच्छन्तं च तं तूष्णीं वेतालः पूर्ववत्पथि ।
रात्रौ महाश्मशाने ऽत्र स्कन्धस्थो व्याजहार सः ॥

12.12.4

राजन्न् अभिनिविष्टो ऽसि कष्टे ऽत्यन्तप्रियो ऽसि च ।
तत् ते चेतोविनोदाय वर्णयामि कथां शृणु ॥

12.12.5

उज्जयिन्याम् अभूद् विप्रः पुण्यसेनस्य भूपतेः ।
अनुजीवी प्रियो ऽमात्यो हरिस्वामीति सद्गुणः ॥

12.12.6

तस्यात्मनो ऽनुरूपायां भार्यायां गृहमेधिनः ।
गुणवान् सदृशः पुत्रो देवस्वामीत्य् अजायत ॥

12.12.7

तद्वच् चानन्य सामान्य रूपलावण्य विश्रुता ।
कन्या सोमप्रभा नाम तस्यान्वर्थोदपद्यत ॥

12.12.8

सा प्रदेया सती कन्या रूपोत्कर्षाभिमानिनी ।
मातुर् मुखेन पितरं भ्रातरं च जगाद तम् ॥

12.12.9

शूरस्य ज्ञानिनो वाहं देया विज्ञानिनो ऽपि वा ।
अन्यस्मै नास्मि दातव्या कार्यं मज्जीवितेन चेत् ॥

12.12.10

तच् छ्रुत्वा तादृशं तस्याश् चिन्वन्न् एकतमं वरम् ।
तत्पिता स हरिस्वामी यावच् चिन्तां वहत्य् अलम् ॥

12.12.11

तावद् व्यसर्जी रज्ञा स पुण्यसेनेन दूत्यया ।
संध्यर्थं विग्रहायात दाक्षिणात्यनृपान्तिकम् ॥

12.12.12

कृतकार्यश् च तत्रासाव् एकेनाभ्येत्य तां सुताम् ।
याचितो ऽभूद् द्विजाग्र्येण श्रुततद्रूपसंपदा ॥

12.12.13

विज्ञानिनो ज्ञानिनो वा शूराद् वा नापरं पतिम् ।
मत्पुत्रीच्छति तत् तेषां मध्यात् कथय को भवान् ॥

12.12.14

इत्य् उक्तस् तेन भार्यार्थः स हरिस्वामिना द्विजः ।
अहं जानामि विज्ञानम् इति तं प्रत्यभाषत ॥

12.12.15

तर्हि तद् दर्शयस्वेति पुन उक्तश् च तेन सः ।
विज्ञानी कल्पयामास स्वशक्त्या द्युचरं रथम् ॥

12.12.16

मायायन्त्ररथे तत्र तं हरिस्वामिनं क्षणात् ।
आरोप्य नीत्वा स्वर्गादीं लोकांस् तस्मा अदर्शयत् ॥

12.12.17

आनिनाय च तुष्टं तं तत्रैव कटकं पुनः ।
दाक्षिणात्यस्य नृपतेर् यत्रायातः स कार्यतः ॥

12.12.18

ततः सो ऽस्मै हरिस्वामी प्रतिशुश्राव तां सुताम् ।
विज्ञानिने विवाहं च निश्चिकायाह्नि सप्तमे ॥

12.12.19

तत्कालम् उज्जयिन्याम् अप्य् अन्येनैत्य द्विजन्मना ।
देवस्वामी स तत्पुत्रः स्वसारं ताम् अयाच्यत ॥

12.12.20

ज्ञानिविज्ञ्नानिशूरेभ्यो नान्यम् इच्छति सा पतिम् ।
इति तेनापि सो ऽप्य् उक्तः शूरम् आत्मानम् अभ्यधात् ॥

12.12.21

ततो दर्शितशस्त्रास्त्रश्रिये तस्मै द्विजो ऽनुजाम् ।
देवस्वामी स शूराय दातुं तां प्रत्यपद्यत ॥

12.12.22

सप्तमे ऽह्नि च तत्रैव विवाहं गणकोक्तितः ।
तस्यापि सो ऽभ्यधान् मातुः परोक्षं कृतनिश्चयः ॥

12.12.23

तन्मातापि ःअरिस्वामिभार्या तत्कलम् एव सा ।
केनाप्य् एत्य तृतीयेन सुतां तां याचिता पृथक् ॥

12.12.24

ज्ञानी शूरो ऽथ विज्ञनी भर्तास्मद् दुहितुर् मतः ।
इत्य् उक्तश् च तया मातर् अहं ज्ञनीति सो ऽभ्यधात् ॥

12.12.25

पृष्ट्वा भूतं भविष्यच् च तस्मै तां ज्ञानिने सुताम् ।
प्रतिजज्ञे प्रदातुं साप्य् अह्नि तत्रैव सप्तमे ॥

12.12.26

अन्येद्युश् चागतः सो ऽत्र हरिस्वामी यथा कृतम् ।
पत्न्यैः पुत्राय चाचख्यौ तं कन्यादाननिश्चयम् ॥

12.12.27

तौ च तं स्वकृतं तस्मै भिन्नं भिन्नम् एवोचताम् ।
सो ऽपि तेनाकुलो जज्ञे वरत्रयनिमन्त्रणात् ॥

12.12.28

अथोद्वाहदिने तस्मिन् हरिस्वामिगृहे वराः ।
आययुर् ज्ञानिविज्ञानिशूरास् तत्र त्रयो ऽपि ते ॥

12.12.29

तत्कालं चात्र सा चित्रं कन्या सोमप्रभा वधुः ।
अशङ्कितं गता क्वापि न विचित्याप्य् अलभ्यत ॥

12.12.30

ततो ऽब्रवीद् धरिस्वामी ज्ञानिनं तं ससंभ्रमः ।
ज्ञानिन्न् इदानीं ब्रूह्य् आशु दुहिता मे क्व सा गता ॥

12.12.31

तच् छ्रुत्वा सो ऽवदज् ज्ञानी राक्षसेनापहृत्य सा ।
नीता विन्ध्याटवीं धूमशिखेन वसतिं निजाम् ॥

12.12.32

इत्य् उक्तो ज्ञानिना भीतो हरिस्वामी जगाद सः ।
हा धिक् कथं सा प्रप्येत विवाहश् चापि हा कथम् ॥

12.12.33

श्रुत्वैतत् प्राह विज्ञानी धीरो भव नयामि वः ।
तत्राधुनैव यत्रैषो ज्ञानी वदति तां स्थिताम् ॥

12.12.34

इत्य् उक्त्वा तत्क्षणं कृत्वा रथं सर्वास्त्रसंयुतम् ।
तत्रारोप्य हरिस्वामिज्ञानिशूरान् खगामिनि ॥

12.12.35

तान् स संप्रापयामास क्षणाद् विन्ध्याटवीभुवि ।
ज्ञानिना तां समाख्यातां वसतिं तत्र रक्षसः ॥

12.12.36

तत्र तं राक्षसं क्रुद्धं ज्ञातवृत्तान्तनिर्गतम् ।
शूरो ऽथ योधयामास हरिस्वामिपुरस्कृतः ॥

12.12.37

तदाश्चर्यम् अभूद् युद्धं तयोर् मानुषरक्षसोः ।
चित्रास्त्रयोधिनोः स्त्र्यर्थं रामरावणयोर् इव ॥

12.12.38

क्षणेन च स सङ्ग्रामदुःमदस्यापि रक्षसः ।
अर्धचन्द्रेण बाणेन शूरस् तस्याच्छिनच् छिरः ॥

12.12.39

हते रक्षसि तां सोमप्रभाम् आप्तां तदास्पदात् ।
आदाय विज्ञानिरथेनाजग्मुस् ते ततो ऽखिलाः ॥

12.12.40

हरिस्वामिगृहं प्राप्य तेषां लग्ने ऽप्य् उपस्थिते ।
ज्ञानिविज्ञानिशूराणां विवाद उदभून् महान् ॥

12.12.41

ज्ञानी जगाद नाहं चेज् जानीयां तद् इयं कथम् ।
प्राप्येत कन्या गूढस्था देया मह्यम् असाव् इतः ॥

12.12.42

विज्ञानी त्व् अवदन् नाहं कुर्यां चेद् व्योमगं रथम् ।
गमागमौ कथं स्यातां देवानाम् इव वः क्षणात् ॥

12.12.43

कथं स्याच् चारथं युद्धं रथिना रक्षसा सह ।
तस्मान् मह्यम् इयं देया लग्नो ह्य् एष मयाजितः ॥

12.12.44

शूरो ऽप्य् उवाच हन्यां चेन् नाहं तं राक्षसं रणे ।
तद् युवाभ्यां कृते यत्ने ऽप्य् एतां कन्यां क आनयेत् ॥

12.12.45

तन् मह्यम् एषा दातव्येत्य् एवं तेषु विवादिषु ।
हरिस्वामी क्षणं तूष्णीम् आसीद् उद्भ्रान्तमानसः ॥

12.12.46

तत् कस्मै सात्र देयेति राजन् वदतु मे भवान् ।
न वदिष्यसि जानंश् चेत् तत् ते मूर्धा स्फुटिष्यति ॥

12.12.47

इति वेतालतस् तस्माच् छ्रुत्वा मौनं विहाय च ।
स त्रिविक्रमसेनस् तम् उवाचैवं महीपतिः ॥

12.12.48

शूराय सा प्रदातव्या येन प्राणपणोद्यमात् ।
अर्जिता बहुवीर्येण हत्वा तं युधि राक्षसम् ॥

12.12.49

ज्ञानिविज्ञानिनौ त्व् अस्य धात्रा कर्मकरौ कृतौ ।
सदा गणकतक्षणौ परोपकरणे न किम् ॥

12.12.50

इत्य् उक्तं मनुजपतेर् निशम्य तस्य स्कन्धाग्रात् सपदि स पूर्ववज् जगाम ।
वेतालो निजपदम् एव सो ऽपि राजानुद्वेगस् तं प्रति प्रतस्थे ॥

मूल पाठ: Kathāsaritsāgara, Vetālapañcaviṃśatikā · Data entry Elena Artesani · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc