कथासरित्सागर, वेतालपञ्चविंशतिका · अध्याय 12.11
ततो गत्वा पुनस् तस्य निकटं शिंशपातरोः ।
स त्रिविक्रमसेनो ऽत्र श्मशानं निशि भूपतिः ॥
लब्ध्वा मुक्तात्तहासं तं वेतालं नृशरीरगम् ।
निःकम्पः स्कन्धम् आरोप्य तूष्णीम् उदचलत् ततः ॥
चलन्तं च तम् अंसस्थो वेतालः सो ऽब्रवीत् पुनः ।
राजन् कुभिक्षोर् एतस्य कृते को ऽयं तव श्रमः ॥
आयासे निष्फले ऽमुष्मिन् विवेको बत नास्ति ते ।
तद् इमां शृणु मत्तस् त्वं कथां पथि विनोदिनीम् ॥
अस्ति शोभावती नाम सत्याख्या नगरी भुवि ।
तस्यां च शूद्रकाख्यो ऽभूद् भूपतिः प्राज्यविक्रमः ॥
यस्य जज्वाल जयिनः प्रतापज्वलनो निशम् ।
बन्दीकृतारिललनाधूतचामरमारुतैः ॥
अलुप्तधर्मचरणस्फीता मन्थे वसुंधरा ।
राज्ञि यस्मिन् विसस्मार रामादीन् अपि भूपतीन् ॥
तं कदाचिन् महीपालं प्रियशूरम् उपाययौ ।
सेवार्थं मालवाद् एको नम्ना वीरवरो द्विजः ॥
यस्य धर्मवती नाम भार्या सत्ववरः सुतः ।
कन्या वीरवती चेति त्रयं गृहपरिच्छदः ॥
सेवापरिच्छदश् चान्यत् त्रयं कट्यां कृपाणिका ।
करे करतलैकत्र चारु चर्म परत्र च ॥
तावन्मात्रपरीवारो दीनारशतपञ्चकम् ।
प्रत्यहं प्रार्थयामास राज्ञस् तस्मात् स वृत्तये ॥
राजापि स तम् आकारसूचितोदारपौरुषम् ।
वीक्ष्य तस्मै ददौ वृत्तिं सूद्रकस् तां यथेप्सिताम् ॥
अल्पे परिकरे ऽप्य् एभिर् इयद्भिः स्वर्णरूपकैः ।
किम् एष व्यसनं पुष्णात्य् अथ कंचन सद्व्ययम् ॥
इत्य् अन्वेष्टुं समाचारं कौतुकात् स महीपतिः ।
प्रच्छन्नान् स्थापयामास चारानस्यात्र पृष्ठतः ॥
स च वीरवरः प्रातः कृत्वा भूपस्य दर्शनम् ।
स्थित्वा च तस्या मध्याह्नं सिंहद्वारे धृतायुधः ॥
गत्वा स्ववृत्तिलब्धानां दीनाराणां शतं गृहे ।
भोजनार्थं स्वभार्याया हस्ते प्रादात् किलान्वहम् ॥
वस्त्राङ्गरागताम्बूलं क्रीणाति स्म शतेन च ।
शतं स्नात्वा च पूजार्थं व्यधाद् विष्णोः शिवस्य च ॥
विप्रेभ्यः कृपणेभ्यश् च ददौ दानं शतद्वयम् ।
एवं विभेजे पञ्चापि तानि नित्यं शतान्य् असौ ॥
ततः कृत्वाग्निकार्यादि भूक्त्वा गत्वैकको निशि ।
सिंहद्वारे पुनस् तस्थौ पाणौ करतलां दधत् ॥
एतां सततचर्यां च तस्य वीरवरस्य सः ।
राजा चारमुखाच् छ्रुत्वा तुतोष हृदि शुद्रकः ॥
निवारयामास च तांश् चारांस् तस्यानुमार्गगान् ।
मेने विशेषपूजार्हं पुरुषातिशयं च तम् ॥
अथ यातेषु दिवसेष्व् अवहेलावलङ्घिते ।
ग्रीष्मे वीरवरेणात्र सुप्रचण्डार्कतेजसि ॥
तदीर्ष्यात इवोद्भूतविद्युत्करतलां दधत् ।
धाराप्रहारी निनदन्न् आजगाम घनागमः ॥
तं च दृष्ट्वा दिवा राजा प्रासादाग्रात् स शूद्रकः ।
निशि भूयस् तदारोहज् जिज्ञासुस् तस्य तां स्थितिम् ॥
जगाद च ततः को नु सिंहद्वारे स्थितो ऽत्र भोः ।
तच् छ्रुत्वाहं स्थितो ऽत्रेति सो ऽपि वीरवरो ऽब्रवीत् ॥
अहो सुदृढसत्त्वो ऽयं भक्तो वीरवरो मयि ।
तद् एष प्रापणीयो मे ऽवश्यम् एव महत् पदम् ॥
इति संचिन्त्य नृपतिः प्रासादाद् अवतीर्य सः ।
शूद्रकः शयनं भेजे प्रविश्यान्तःपुरं ततः ॥
अन्येद्युश् च भृशं मेघे धारासारेण वर्षति ।
प्रदोषे गुप्तभवने काले तमसि जृम्भिते ॥
पुनः स राजा जिज्ञासुः प्रासादम् अधिरुह्य तम् ।
सिंहद्वारे स्थितः को ऽत्रेत्य् एकाकी प्राह तं स्फुटम् ॥
अहं स्थित इति प्रोक्ते पुनर् वीरवरेण च ।
यावद् विस्मयते सो ऽत्र राजा तद्धैर्यदर्शनात् ॥
तावद् विदूरे शुश्राव सहसा रुदतीं स्त्रियम् ।
विषादविकलाम् एकां प्रलापकरुणस्वनम् ॥
न मे राष्ट्रे पराभूतो न दरिद्रो न दुःखितः ।
कश् चिद् अस्ति तद् एषा का रोदित्य् एकाकिनी निशि ॥
इति चाचिन्तयच् छ्रुत्वा स जातकरुणो नृपः ।
आदिदेश च तं वीरवरम् एकम् अधः स्थितम् ॥
भो वीरवर शृण्व् एषा दूरे स्त्री कापि रोदिति ।
कासौ रोदिति किं चेति त्वया गत्वा निरूप्यताम् ॥
तच् छृउत्वा स तथेत्य् उक्त्वा गन्तुं वीरवरस् ततः ।
प्रावर्तत निबद्धासिधेनुः करतलाकरः ॥
न च मेघान्धकारं तज् ज्वलद्विद्युद्विलोचनम् ।
स्थूलधाराशिलावार्षि रक्षःरूपम् अजीगणत् ॥
प्रस्थितं वीक्ष्य तादृश्यां तस्यां रात्रौ तम् एककम् ।
करुणाकौतुकाविष्टो राजा प्रासादपृष्ठतः ॥
आवतीर्य गृहीतासिर् एकाकी तस्य पृष्ठतः ।
सो ऽपि प्रतस्थे तत्रैव शुद्रको ऽनुपलक्षितः ॥
स च वीरवरो गत्वा रुदितानुसृतिक्रियः ।
बहिःनगर्याः प्रापैकं सरस् तत्र ददर्श च ॥
हा शूर हा कृपालो हा त्यागिञ् शून्या त्वया कथम् ।
वत्सिआमीत्यादि रुदतीं तां स्त्रियं वारिमध्यगाम् ॥
का त्वं रोदिषि किं चैवम् इत्य् अन्वक्प्राप्तभूपतिः ।
पप्रच्छ तां च साश्चर्यस् ततः साप्य् एवम् अभ्यधात् ॥
भो वीरवर जानीहि वत्स मां पृथिवीम् इमाम् ।
तस्या ममाधुना राजा शूद्रको धार्मिकः पतिः ॥
तृतीये च दिने तस्य राज्ञो मृत्युर् भविष्यति ।
तादृशं च पतिं प्राप्स्याम्य् अहम् अन्यं नृपं कुतः ॥
अतस् तम् अनुशोचामि दुःखितात्मानम् एव च ।
एतच् छृउत्वा स तां त्रस्त इव वीरवरो ऽब्रवीत् ॥
हे देवि कच् चिद् अप्य् अस्ति को ऽप्य् उपायः स तादृशः ।
येनास्य न भवेन्मृत्युर् जगद्रक्षामणेः प्रभोः ॥
इति तद् वचनं श्रुत्वा सा जगाद वसुम्धरा ।
एको ऽस्त्य् उपायस् तं चैकः कर्तुं शक्तो भवान् इति ॥
ततो वीरवरो ऽवादीत् तर्हि देवि वद द्रुतम् ।
यावत् तत् साधयाम्य् आशु को ऽर्थः प्राणैर् ममान्यथा ॥
तच् छ्रुत्वोवाच वसुधा विरः को ऽन्यस् त्वया समः ।
स्वामिभक्तस् तद् एतस्य शर्मोपायम् इमं शृणु ॥
राज्ञा कृतप्रतिष्टा अस्ति यैषा राजकुलान्तिके ।
उत्तमा चण्डिका देवी सांनिध्योत्कर्षशालिनी ॥
तस्यै सत्त्ववरं पुत्रम् उपहारीकरोषि चेत् ।
तन् नैषो राजा म्रियते जीवत्य् अन्यत् समाशतम् ॥
अद्यैव चैतद् भवता कृतं चेद् अस्ति तच् छिवम् ।
अन्यथास्य तृतीये ऽह्नि प्राप्ते नास्त्य् एव जीवितम् ॥
इत्य् उक्तः स तया पृथ्व्या वीरो वीरवरस् तदा ।
यामि देवि करोम्य् एतद् अधुनैवेत्य् अभाषत ॥
ततो भद्रं तवेत्य् उक्त्वा वसुधा सा तिरःदधे ।
तच् च सर्वं स शुश्राव गुप्तम् अन्वक्स्थितो नृपः ॥
ततश् च गूढे जिज्ञासौ तस्मिन् राज्ञ्य् अनुगच्छति ।
शूद्रके त्वरितं गेहं निशि वीरवरो ययौ ॥
तत्र पुत्रोपहारो ऽस्य राजार्थे धरया यथा ।
उक्तस् तथाब्रवीत् पत्न्यै धर्मवत्यै विबोध्य सः ॥
तच् छ्रुत्वा सा तम् आह स्म नाथ कार्यं शिवं प्रभोः ।
तत्प्रबोध्य सुतस्यास्य शिशोर् वक्तु भवान् इति ॥
ततः प्रबोध्य सुप्तं तं बालं सत्त्ववरं सुतम् ।
आख्याय तं च वृत्तान्तम् एवं वीरवरो ऽब्रवीत् ॥
तत् पुत्र चण्डिकादेव्या उपहारीकृते त्वयि ।
राजा जीवत्य् असौ नो चेत् तृतीये ऽह्नि विपद्यते ॥
एतच् छ्रुत्वैव बालो ऽपि यथार्थं नाम दर्शयन् ।
अक्लीबचित्तः पितरं तं स सत्त्ववरो ऽब्रवीत् ॥
कृतार्थो ऽहं मम प्राणई राजा चेत् तात जीवति ।
भुक्तस्य हि तदन्नस्य दत्ता स्यान् निष्कृतिर् मया ॥
तत्किं विलम्ब्यते नीत्वा भगवत्याः पुरो ऽधुना ।
उपहारीकुरुध्वं माम् अस्तु शान्तिर् मया प्रभोः ॥
इति सत्त्ववरेणोक्ते तेन वीरवरो ऽत्र सः ।
साधु सत्यं प्रसूतो ऽसि मत्तः पुत्रेत्य् अभाषत ॥
एतत् सो ऽन्वागतो राजा सर्वं श्रुत्वा बहिः स्थितः ।
अह एषां समं सत्त्वं सर्वेषाम् इत्य् अचिन्तयत् ॥
ततो वीरवरः स्कन्धे कृत्वा सत्त्ववरं सुतम् ।
भर्या धर्मवती चास्य कन्यां वीरवतीम् अपि ॥
उभौ तौ ययतुस् तस्यां रात्रौ तच् चण्डिकागृहम् ।
राजापि शूद्रकश् छन्नः पृष्टतः स तयोर् ययौ ॥
तत्र देव्याः पुरः स्कन्धात् सो ऽथ पित्रावतारितः ।
देवीं सत्त्ववरो नत्वा धैर्यराशिर् व्यजिज्ञपत् ॥
मम मूर्धोपहारेण राजा जीवतु शुद्रकः ।
अन्यद् वर्षशतं देवि कुर्याद् राज्यम् अकण्टकम् ॥
एवम् उक्तवतस् तस्य साधु साध्व् इत्य् उदीर्य सः ।
सूनोः सत्त्ववरस्याथ कृष्ट्वा करतलां शिशोः ॥
छित्त्वा शिरश् चण्डिकायै देव्यै वीरवरो ददौ ।
मत्पुत्रेणोपहारेण राजा जीवत्व् इति ब्रुवन् ॥
साधु कः स्वामिभक्तो ऽन्यः समो वीरवर त्वया ।
येनैवम् एकसत्पुत्रप्राणव्ययविधायिना ॥
दत्तो जीवश् च राज्यं च शुद्रकस्यास्य भूपतेः ।
इत्य् अन्तरिक्षाद् उदगात् तत्क्षणं तत्र भारती ॥
तच् च सर्वं नृपे तस्मिंश् छन्ने शृण्वति पस्यति ।
कन्या वीरवती सा तु बाला वीरवरात्मजा ॥
उपेत्याश्लिष्य मूर्धाणं तस्य भ्रातुर् हतस्य तम् ।
विलपन्त्य् उरुशोकान्धा हृत्स्फोटेन व्यपद्यत ॥
ततो वीरवरं भार्या धर्मवत्य् एवम् अब्रवीत् ।
राज्ञस् तावत् कृतं श्रेयस् तद् इदानीं वदामि ते ॥
निःज्ञाना यत्र बालापि भ्रातृशोकाद् इयं मृता ।
नष्टे ऽपत्यद्वये ऽप्य् अस्मिंस् तत्र किं जीवितेन मे ॥
प्राग् एव राज्ञः श्रेयोऽर्थं मूढया स्वशिरो मया ।
देव्यै नोपहृतं तस्माद् देह्य् अनुज्ञां ममाधुना ॥
प्रविषम्य् अनलं तावद् आत्तापत्यकलेवरा ।
इत्याग्रहाद् वदन्तीं तां सो ऽथ वीरवरो ऽब्रवीत् ॥
एवं कुरुष्व भद्रं ते का हि संप्रति ते रतिः ।
अपत्यदुःखैकमये जीवितव्ये मनस्विनि ॥
किं न दत्तो मयैवात्मेत्य् एषा मा भूच् च ते व्यथा ।
दद्यां किं नाहम् आत्मानम् अन्यसाध्यं भवेद् यदि ॥
तत् प्रतीक्षस्व यावत् ते चिताम् अत्र करोम्य् अहम् ।
अमीभिर् दारुभिर् देवीक्षेत्रनिर्माणसंभृतैह् ॥
इत्य् उक्त्वा दारुभिस् तैः स कृत्वा वीरवरश् चिताम् ।
दीपाग्रे ज्वालयामास न्यस्तापत्यशवद्वयाम् ॥
ततो धर्मवती पत्नी पतित्वा सास्य पादयोः ।
प्रणम्य देवीं चण्डीं तां व्यजिज्ञपद् अपांसुला ॥
जन्मान्तरे ऽप्य् अयं भूयाद् आर्यपुत्रः पतिर् मम ।
एतत् प्रभोस् तु राज्ञो ऽस्तु मद्देहेनामुना शिवम् ॥
इत्य् उदीर्यैव सा साध्वी तस्मिन्न् अम्भोऽवहेलया ।
ज्वालाकलापजटिले निपपात चितानले ॥
ततश् च चिन्तयामास वीरो वीरवरो ऽत्र सः ।
निष्पन्नं राजकार्यं मे वाग् दिव्या ह्य् उद्गता यथा ॥
भुक्तस्य चान्नपिण्डस्य जातो ऽहम् अनृणः प्रभोः ।
तद् इदानीं ममैकस्य केयं जीवितगृध्नुता ॥
भरणीयं प्रियं कृत्स्नं व्ययीकृत्य कुटुम्बकम् ।
जीवयन्न् एकम् आत्मानं मादृशः को हि शोभते ॥
तत् किम् आत्मोपहारेणाप्य् एतां प्रीणामि नाम्बिकाम् ।
इत्य् आलोच्य स देवीं तां स्तुत्या प्राग् उपतस्थिवान् ॥
जय महिषासुरमारिणि दारिणि रुरुदानवस्य शूलकरे ।
जय विबुधोत्सवकारिणि ढरिणि भूवन त्रयस्य मातृवरे ॥
जय जगद् अर्चितचरणे शरणे निःश्रेयसस्य भक्तानाम् ।
जय धृतभास्करकिरणे हरणे दुरितान्धकारवृन्दानाम् ॥
जय कालि जय कपालिनि जय कङ्कालिनि शिवे नमस् ते ऽस्तु ।
शूद्रकनृपतेर् अधुना प्रसीद मन्मस्तकोपहारेण ॥
इत्य् उपस्थाय देव्यां स तस्यां वीरवरः पुनः ।
सद्यः करतलाघातेनोत्तमाङ्गं स्वमच्छिनत् ॥
तद् आलोक्याखिलं तत्र छन्नस्थः शुद्रको नृपः ।
साकुलश् च सदुःखश् च साश्चर्यश् च व्यचिन्तयत् ॥
अहो किम् अप्य् अनेनैतद् अन्यत्रा-दृष्टम् अश्रुतम् ।
साधुना सकुटुम्बेन दुःकरं मत्कृते कृतम् ॥
विचित्रे ऽप्य् अत्र संसारे धीरः स्यादीदृशः कुतः ।
अख्यापयन् प्रभो अर्थे परोक्षं यो ददात्य् असून् ॥
एतस्य चोपकारोस्य न कुर्यां सदृशं यदि ।
तन् मे का प्रभुता किं च जीवितव्यं पशोर् इव ॥
इति संचिन्त्य नृपतिः खड्गम् आकृष्य कोपतः ।
उपेत्य शूद्रको देवीं तां प्रवीरो व्यजिज्ञपत् ॥
सततानुप्रपन्नस्य भगवत्य् अधुनामुना ।
मम मूर्धोपहारेण सुप्रीता कुर्व् अनुग्रहम् ॥
अयं वीरवरो विप्रो नामानुगुणचेष्टितः ।
मदर्थम् उज्झितप्राणः सकुटुम्बो ऽपि जीवतु ॥
इत्य् उदीर्यासिना राजा शिरश् छेत्तुं स शूद्रकः ।
यावत् प्रवर्तते तावद् उदभूद् भारती दिवः ॥
मा साहसं कृथास् तुष्टा सत्त्वेनानेन ते ह्य् अहम् ।
प्रत्युज्जीवतु सापत्यदारो वीरवरो द्विजः ॥
इत्य् उक्त्वा व्यरमद् वाक् सा स चोत्तस्थौ सपुत्रकः ।
साकं दुहित्रा पत्न्या च जीवन् वीरवरो ऽक्षतः ॥
तद् विलोक्याद्भुतं राजा छन्नो भूत्वा पुनश् च सः ।
पश्यन्न् अतृप्तस् ताम् आसीद् दृष्ट्या हर्षाश्रुपूर्णया ॥
सो ऽपि वीरवरो दृष्ट्वा सुप्तोत्थित इवाशु तम् ।
पुत्रदारं तथात्मानम् अभूद् विभ्रान्तमानसः ॥
पप्रच्छ च पृथङ् नामग्राहं दारसुतान् स तान् ।
भस्मीभूताः कथं यूयं जीवन्तः पुन उत्थिताः ॥
मयापि स्वशिरश् छिन्नं जीवाम्य् एषश् च किं न्व् इदम् ।
किं विभ्रमो ऽयम् आहो स्विद् सुस्पष्टो देव्यनुग्रहः ॥
एवं वदन् स तैर् ऊचे दारापत्यैर् अलक्षितः ।
देव्यनुग्रह एवायं जीवामो यद् अमी इति ॥
ततः स तत् तथा मत्वा नत्वा वीरवरो ऽम्बकाम् ।
आदाय पुत्रदारांस् तान्सिद्धकार्यो गृहं ययौ ॥
तत्र प्रवेश्य पुत्रं तं भार्यां दुहितरं च ताम् ।
सिंहद्वारम् अगाद् राज्ञो रात्रौ तस्यां स पूर्ववत् ॥
राजा स शूद्रको ऽप्य् एतद् दृष्ट्वा सर्वम् अलक्षितः ।
गत्वारुरोह स्वावासप्रासादं तं पुनस् तदा ॥
व्याहरच् च स्थितः को ऽत्र सिंहद्वारीति पृष्ठतः ।
ततो वीरवरो ऽवादीत् सैष तिष्ठाम्य् अहं प्रभो ॥
देवादेशाद् गतश् चाहम् अभूवं तां स्त्रियं प्रति ।
राक्षसीव च सा क्वापि दृष्टनष्टैव मे गता ॥
एतच् छ्रुत्वा वचस् तस्य राजा वीरवरस्य सः ।
सुतरां विस्मयाविष्टो दृष्टोदन्तो व्यचिन्तयत् ॥
अहो समुद्रगम्भीरधीरचित्ता मनस्विनः ।
कृत्वाप्य् अनन्यसामान्यम् उल्लेखं नोद्गिरन्ति ये ॥
इत्य् आद्य् आकलयंस् तूष्णीं प्रासादाद् अवरुह्य सः ।
प्रविश्यान्तःपुरं राजा रात्रिशेषं निनाय तम् ॥
प्रातश् चास्थानसमये दर्शनोपगतस्थिते ।
तस्मिन् वीरवरे प्रीतस् तथा कृत्स्नं स भूपतिः ॥
तदीयं रात्रिवृत्तान्तं मन्त्रिभ्यस् तम् अवर्णयत् ।
यथा बभूवुर् आश्चर्यमोहिता इव ते ऽखिलाः ॥
ददौ तस्मै सपुत्राय प्रीत्या वीरवराय च ।
लाटदेशे ततो राज्यं स कर्णाटयुते नृपः ॥
ततो ऽत्र तुल्यविभवाव् अन्योन्यस्योपकारिणौ ।
आसातां तौ सुखं वीरवरशूद्रकभूपती ॥
इत्य् आख्याय कथाम् एतां वेतालो ऽत्यद्भुतां तदा ।
तं त्रिविक्रमसेनं स राजानम् अवदत् पुनः ॥
तद् ब्रूहि राजन्न् एतेषु वीरः सर्वेषु को ऽधिकः ।
पूर्व एव स शापस् ते यदि जानन् न वक्ष्यसि ॥
एतच् छ्रुत्वा स भूपालो वेतालं प्रतिउवच तम् ।
एतेषु शुद्रको राजा प्रवीरः सो ऽखिलेष्व् इति ॥
ततो ऽब्रवीत् स वेतालो राजन् वीरवरो न किम् ।
सो ऽधिको यस्य तुल्यो ऽस्यां पृथ्व्याम् एव न जायते ॥
तत्पत्नी नाधिका किं वा स्त्रीभुता यान्वमन्यत ।
तथोपहारपशुतां सूनोः प्रत्यक्षदर्शिनी ॥
स वा सत्त्ववरो नात्र तत्पुत्रो ऽभ्यधिकः कथम् ।
बालस्यापि सतो यस्य सत्त्वोत्कर्षः स तादृशः ॥
तत् कस्माच् छुद्रकं भूपम् एभ्यस् त्वं भाषसे ऽधिकम् ।
इत्य् उक्तवन्तं वेतालं स जगाद पुनर् नृपः ॥
मैवं वीरवरस् तावत् स तादृक्कुलपुत्रकः ।
तस्य प्राणैः सुतैर् दारैः स्वामिसंरक्षणं व्रतम् ॥
तत्पत्नी सापि कुलजा साद्वी पत्येकदेवता ।
भर्तृवर्त्मानुसारेण तस्या धर्मो ऽस्तु को ऽपरः ॥
ताभ्यां जातस् तु तद्रूप एव सत्त्ववरो ऽपि सः ।
यादृशास् तन्तवः कामं तादृशो जायते पटः ॥
येषां प्राणैस् तु भृत्यानां नृपैर् आत्माभिरक्ष्यते ।
तेषाम् अर्थे त्यजन्देहं शुद्रको ऽत्र विशिष्यते ॥
इत्य् आकर्ण्य वचः स तस्य नृपतेर् अंसाद् असंलक्षितः वेतालः सहसा ययौ निजपदं भूयो ऽपि तन्मायया ।
राजाप्य् उच्चलितो बभूव पुनर् अप्य् आनेतुम् एतं पथा पूर्वेणैव सुनिश्चितः पितृवने तस्मिन् स तस्यां निशि ॥
मूल पाठ: Kathāsaritsāgara, Vetālapañcaviṃśatikā · Data entry Elena Artesani · GRETIL (Göttingen) · CC BY-NC-SA 4.0