कठोपनिषद · अध्याय 5
॥ इति चतुर्थी वल्ली ॥
पुरम् एकादशद्वारम् अजस्यावक्रचेतसः ।
अनुष्ठाय न शोचति विमुक्तश् च विमुच्यते ॥
एतद् वै तत्
हंसः शुचिषद् वसुर् अन्तरिक्षसद् धोता वेदिषद् अतिथिर् दुरोणसत् ।
नृषद् वरसद् ऋतसद् व्योमसद् अब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत्
ऊर्ध्वं प्राणम् उन्नयति अपानं प्रत्यग् अस्यति ।
मध्ये वामनम् आसीनं विश्वे देवा उपासते
अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः ।
देहाद् विमुच्यमानस्य किम् अत्र परिशिष्यते ॥
एतद् वै तत्
न प्राणेन नापानेन मर्त्यो जीवति कश्चन ।
इतरेण तु जीवन्ति यस्मिन्न् एताव् उपाश्रितौ
हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् ।
यथा च मरणं प्राप्य आत्मा भवति गौतम
योनिम् अन्ये प्रपद्यन्ते शरीरत्वाय देहिनः ।
स्थाणुम् अन्ये ऽनुसंयन्ति यथाकर्म यथाश्रुतम्
य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः ।
तद् एव शुक्रं तद् ब्रह्म तद् एवामृतम् उच्यते ।
तस्मिंल् लोकाः श्रिताः सर्वे तद् उ नात्येति कश्चन ॥
एतद् वै तत्
अग्निर् यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव ।
एकस् तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश् च
वायुर् यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव ।
एकस् तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश् च
सूर्यो यथा सर्वलोकस्य चक्षुर् न लिप्यते चाक्षुषैर् बाह्यदोषैः ।
एकस् तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः
एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति ।
तम् आत्मस्थं ये ऽनुपश्यन्ति धीरास् तेषां सुखं शाश्वतं नेतरेषाम्
नित्यो ऽनित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान् ।
तम् आत्मस्थं ये ऽनुपश्यन्ति धीरास् तेषं शान्तिः शाश्वती नेतरेषाम्
तद् एतद् इति मन्यन्ते ऽनिर्देश्यं परमं सुखम् ।
कथं नु तद् विजानीयां किम् उ भाति विभाति वा
न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतो ऽयम् अग्निः ।
तम् एव भान्तम् अनु भाति सर्वं तस्य भासा सर्वम् इदं विभाति
मूल पाठ: Kathopaniṣad · Edition: Olivelle, Patrick: The Early Upaniṣads. Annotated Text and Translation. New York : 1998, pp. 374-402. · Data entry the Vienna University Student Team · GRETIL (Göttingen) · CC BY-NC-SA 4.0