भाषा

ENहिગુ
ग्रंथ पाठ

कठोपनिषद · अध्याय 6

6.1

॥ इति पञ्चमी वल्ली ॥
ऊर्ध्वमूलो अवाक्शाख एषो ऽश्वत्थः सनातनः ।
तद् एव शुक्रं तद् ब्रह्म तद् एवामृतम् उच्यते ।
तस्मिंल् लोकाः श्रिताः सर्वे तद् उ नात्येति कश्चन ॥
एतद् वै तत्

6.2

यद् इदं किंच जगत् सर्वं प्राण एजति निःसृतम् ।
महद् भयं वज्रम् उद्यतं य एतद् विदुर् अमृतास् ते भवन्ति

6.3

भयाद् अस्याग्निस् तपति भयात् तपति सूर्यः ।
भयाद् इन्द्रश् च वायुश् च मृत्युर् धावति पञ्चमः

6.4

इह चेद् अशकद् बोद्धुं प्राक्शरीरस्य विस्रसः ।
ततः सर्गेषु लोकेषु शरीरत्वाय कल्पते

6.5

यथादर्शे तथात्मनि यथा स्वप्ने तथा पितृलोके ।
यथाप्सु परीव ददृशे तथा गन्धर्वलोके छायातपयोर् इव ब्रह्मलोके

6.6

इन्द्रियाणां पृथग्भावम् उदयास्तमयौ च यत् ।
पृथग् उत्पद्यमानानां मत्वा धीरो न शोचति

6.7

इन्द्रियेभ्यः परं मनो मनसः सत्त्वम् उत्तमम् ।
सत्त्वाद् अधि महानात्मा महतो ऽव्यक्तम् उत्तमम्

6.8

अव्यक्तात् तु परः पुरुषो व्यापको ऽलिङ्ग एव च ।
यं ज्ञात्वा मुच्यते जन्तुर् अमृतत्वं च गच्छति

6.9

न संदृशे तिष्ठति रूपम् अस्य न चक्षुषा पश्यति कश्चनैनम् ।
हृदा मनीषा मनसाभिकॢप्तो य एतद् विदुर् अमृतास् ते भवन्ति

6.10

यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह ।
बुद्धिश् च न विचेष्टति ताम् आहुः परमां गतिम्

6.11

तां योगम् इति मन्यन्ते स्थिराम् इन्द्रियधारणाम् ।
अप्रमत्तस् तदा भवति योगो हि प्रभवाप्ययौ

6.12

नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा ।
अस्तीति ब्रुवतो ऽन्यत्र कथं तद् उपलभ्यते

6.13

अस्तीत्य् एवोपलब्धव्यस् तत्त्वभावेन चोभयोः ।
अस्तीत्य् एवोपलब्धस्य तत्त्वभावः प्रसीदति

6.14

यदा सर्वे प्रमुच्यन्ते कामा ये ऽस्य हृदि श्रिताः ।
अथ मर्त्यो ऽमृतो भवत्य् अत्र ब्रह्म समश्नुते

6.15

यदा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः ।
अथ मर्त्यो ऽमृतो भवत्य् एतावद् ध्य् अनुशासनम्

6.16

शतं चैका च हृदयस्य नाड्यस् तासां मूर्धानम् अभिनिःसृतैका ।
तयोर्ध्वम् आयन्न् अमृतत्वम् एति विष्वङ्ङ् अन्या उत्क्रमणे भवति

6.17

अङ्गुष्ठमात्रः पुरुषो ऽन्तरात्मा सदा जनानां हृदये संनिविष्टः ।
तं स्वाच् छरीरात् प्रवृहेन् मुञ्जाद् इवेषीकां धैर्येण ।
तं विद्याच् छुक्रम् अमृतं तं विद्याच् छुक्रम् अमृतम् इति

6.18

मृत्युप्रोक्तां नचिकेतो ऽथ लब्ध्वा विद्याम् एतां योगविधिं च कृत्स्नम् ।
ब्रह्मप्राप्तो विरजो ऽभूद् विमृत्युर् अन्यो ऽप्य् एवं यो विद् अध्यात्मम् एव

मूल पाठ: Kathopaniṣad · Edition: Olivelle, Patrick: The Early Upaniṣads. Annotated Text and Translation. New York : 1998, pp. 374-402. · Data entry the Vienna University Student Team · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc