भाषा

ENहिગુ
ग्रंथ पाठ

कठोपनिषद · अध्याय 4

4.1

॥ इति तृतीया वल्ली ॥
पराञ्चि खानि व्यतृणत् स्वयंभूस् तस्मात् पराङ् पश्यति नान्तरात्मन् ।
कश्चिद् धीरः प्रत्यग् आत्मानम् ऐक्षद् आवृत्तचक्षुर् अमृतत्वम् इच्छन्

4.2

पराचः कामान् अनुयन्ति बालास् ते मृत्योर् यन्ति विततस्य पाशम् ।
अथ धीरा अमृतत्वं विदित्वा ध्रुवम् अध्रुवेष्व् इह न प्रार्थयन्ते

4.3

येन रूपं रसं गन्धं शब्दान् स्पर्शींश् च मैथुनान् ।
एतेनैव विजानाति किम् अत्र परिशिष्यते ॥
एतद् वै तत्

4.4

स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति ।
महान्तं विभुम् आत्मानं मत्वा धीरो न शोचति

4.5

य इमं मध्वदं वेद आत्मानं जीवम् अन्तिकात् ।
ईशानं भूतभव्यस्य न ततो विजुगुप्सते ॥
एतद् वै तत्

4.6

यः पूर्वं तपसो जातम् अद्भ्यः पूर्वम् अजायत ।
गुहां प्रविश्य तिष्ठन्तं यो भूतेभिर् व्यपश्यत ॥
एतद् वै तत्

4.7

या प्राणेन संभवति अदितिर् देवतामयी ।
गुहां प्रविश्य तिष्ठन्तीं या भूतेभिर् व्यजायत ॥
एतद् वै तत्

4.8

अरण्योर् निहितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः ।
दिवेदिव ईड्यो जागृवद्भिर् हविष्मद्भिर् मनुष्येभिर् अग्निः ॥
एतद् वै तत्

4.9

यतश् चोदेति सूर्यो अस्तं यत्र च गच्छति ।
तं देवाः सर्वे अर्पितास् तद् उ नात्येति कश्चन ॥
एतद् वै तत्

4.10

यद् एवेह तद् अमुत्र यद् अमुत्र तद् अन्व् इह ।
मृत्योः स मृत्युम् आप्नोति य इह नानेव पश्यति

4.11

मनसैवेदम् आप्तव्यं नेह नानास्ति किंचन ।
मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति

4.12

अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति ।
ईशानो भूतभव्यस्य न ततो विजुगुप्सते ॥
एतद् वै तत्

4.13

अङ्गुष्ठमात्रः पुरुषो ज्योतिर् इव अधूमकः ।
ईशानो भूतभव्यस्य स एवाद्य स उ श्वः ॥
एतद् वै तत्

4.14

यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।
एवं धर्मान् पृथक् पश्यंस् तान् एवानु विधावति

4.15

यथोदकं शुद्धे शुद्धम् आसिक्तं तादृग् एव भवति ।
एवं मुनेर् विजानत आत्मा भवति गौतम

मूल पाठ: Kathopaniṣad · Edition: Olivelle, Patrick: The Early Upaniṣads. Annotated Text and Translation. New York : 1998, pp. 374-402. · Data entry the Vienna University Student Team · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc