कठोपनिषद · अध्याय 3
॥ इति द्वितीया वल्ली ॥
ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे ।
छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः
यः सेतुर् ईजानानाम् अक्षरं ब्रह्म यत् परम् ।
अभयं तितीर्षतां पारं नाचिकेतं शकेमहि
आत्मानं रथिनं विद्धि शरीरं रथम् एव तु ।
बुद्धिं तु सारथिं विद्धि मनः प्रग्रहम् एव च
इन्द्रियाणि हयान् आहुर् विषयांस् तेषु गोचरान् ।
आत्मेन्द्रियमनोयुक्तं भोक्तेत्य् आहुर् मनीषिणः
यस् त्व् अविज्ञानवान् भवत्य् अयुक्तेन मनसा सदा ।
तस्येन्द्रियाण्य् अवश्यानि दुष्टाश्वा इव सारथेः
यस् तु विज्ञानवान् भवति युक्तेन मनसा सदा ।
तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः
यस् त्व् अविज्ञानवान् भवत्य् अमनस्कः सदाशुचिः ।
न स तत् पदम् आप्नोति संसारं चाधिगच्छति
यस् तु विज्ञानवान् भवति समनस्कः सदा शुचिः ।
स तु तत् पदम् आप्नोति यस्माद् भूयो न जायते
विज्ञानसारथिर् यस् तु मनः प्रग्रहवान् नरः ।
सो ऽध्वनः पारम् आप्नोति तद् विष्णोः परमं पदम्
इन्द्रियेभ्यः परा ह्य् अर्था अर्थेभ्यश् च परं मनः ।
मनसस् तु परा बुद्धिर् बुद्धेर् आत्मा महान् परः
महतः परम् अव्यक्तम् अव्यक्तात् पुरुषः परः ।
पुरुशान् न परं किंचित् सा काष्ठा सा परा गतिः
एष सर्वेषु भूतेषु गूढो ऽत्मा न प्रकाशते ।
दृष्यते त्व् अग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः
यच्छेद् वाङ्मनसी प्राज्ञस् तद् यच्छेज् ज्ञान आत्मनि ।
ज्ञानम् आत्मनि महति नियच्छेत् तद् यच्छेच् छान्त आत्मनि
उत्तिष्ठत जाग्रत प्राप्य वरान् निबोधत ।
क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस् तत् कवयो वदन्ति
अशब्दम् अस्पर्शम् अरूपम् अव्ययं तथारसं नित्यम् अगन्धवच् च यत् ।
अनाद्य् अनन्तं महतः परं ध्रुवं निचाय्य तन् मृत्युमुखात् प्रमुच्यते
नाचिकेतम् उपाख्यानं मृत्युप्रोक्तं सनातनम् ।
उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते
य इमं परमं गुह्यं श्रावयेद् ब्रह्मसंसदि ।
प्रयतः श्राद्धकाले वा तद् आनन्त्याय कल्पते ।
तद् आनन्त्याय कल्पत इति
मूल पाठ: Kathopaniṣad · Edition: Olivelle, Patrick: The Early Upaniṣads. Annotated Text and Translation. New York : 1998, pp. 374-402. · Data entry the Vienna University Student Team · GRETIL (Göttingen) · CC BY-NC-SA 4.0