कठोपनिषद · अध्याय 2
॥ इति प्रथमा वल्ली ॥
अन्यच् छ्रेयो ऽन्यद् उतैव प्रेयस् ते उभे नानार्थे पुरुषं सिनीतः ।
तयोः श्रेय आददानस्य साधु भवति हीयते ऽर्थाद् य उ प्रेयो वृणीते
श्रेयश् च प्रेयश् च मनुष्यम् एतस् तौ संपरीत्य विविनक्ति धीरः ।
श्रेयो हि धीरो ऽभि प्रेयसो वृणीते प्रेयो मन्दो योगक्षेमाद् वृणीते
स त्वं प्रियान् प्रियरूपांश् च कामान् अभिध्यायन् नचिकेतो ऽत्यस्राक्षीः ।
नैतां सृङ्कां वित्तमयीम् अवाप्तो यस्यां मज्जन्ति बहवो मनुष्याः
दूरम् एते विपरीते विषूची अविद्या या च विद्येति ज्ञाता ।
विद्याभीप्सिनं नचिकेतसं मन्ये न त्वा कामा बहवो ऽलोलुपन्त
अविद्यायाम् अन्तरे वर्तमानाः स्वयं धीराः पण्डितं मन्यमानाः ।
दन्द्रम्यमाणाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः
न साम्परायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् ।
अयं लोको नास्ति पर इति मानी पुनः पुनर् वशम् आपद्यते मे
श्रवणायापि बहुभिर् यो न लभ्यः शृण्वन्तो ऽपि बहवो यं न विद्युः ।
आश्चर्यो वक्ता कुशलो ऽस्य लब्धा आश्चर्यो ज्ञाता कुशलानुशिष्टः
न नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः ।
अनन्यप्रोक्ते गतिर् अत्र नास्त्य् अणीयान् ह्य् अतर्क्यम् अणुप्रमाणात्
नैषा तर्केण मतिर् आपनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ ।
यां त्वम् आपः सत्यधृतिर् बतासि त्वादृङ् नो भूयान् नचिकेतः प्रेष्टा
जानाम्य् अहं शेवधिर् इत्य् अनित्यं न ह्य् अध्रुवैः प्राप्यते हि ध्रुवं तत् ।
ततो मया नाचिकेतश् चितो ऽग्निर् अनित्यैर् द्रव्यैः प्राप्तवान् अस्मि नित्यम्
कामस्य आप्तिं जगतः प्रतिष्ठां क्रतोर् अनन्त्यम् अभयस्य पारम् ।
स्तोममहद् उरुगायं प्रतिष्ठां दृष्ट्वा धृत्या धीरो नचिकेतो ऽत्यस्राक्षीः
तं दुर्दर्शं गूढम् अनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् ।
अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति
एतच् छ्रुत्वा संपरिगृह्य मर्त्यः प्रवृह्य धर्म्यम् अणुम् एतम् आप्य ।
स मोदते मोदनीयं हि लब्ध्वा विवृतं सद्म नचिकेतसं मन्ये
अन्यत्र धर्माद् अन्यत्राधर्माद् अन्यत्रास्मात् कृताकृतात् ।
अन्यत्र भूताच् च भव्याच् च यत् तत् पश्यसि तद् वद
सर्वे वेदा यत् पदम् आमनन्ति तपांसि सर्वाणि च यद् वदन्ति ।
यद् इच्छन्तो ब्रह्मचर्यं चरन्ति तत् ते पदं संग्रहेण ब्रवीमि ॥
ओम् इत्य् एतत्
एतद् ध्य् एवाक्षरं ब्रह्म एतद् ध्य् एवाक्षरं परम् ।
एतद् ध्य् एवाक्षरं ज्ञात्वा यो यद् इच्छति तस्य तत्
एतद् आलम्बनं श्रेष्ठम् एतद् आलम्बनं परम् ।
एतद् आलम्बनं ज्ञात्वा ब्रह्मलोके महीयते
न जायते म्रियते वा विपश्चिन् नायं कुतश्चिन् न बभूव कश्चित् ।
अजो नित्यः शाश्वतो ऽयं पुराणो न हन्यते हन्यमाने शरीरे
हन्ता चेन् मन्यते हन्तुं हतश् चेन् मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते
अणोर् अणीयान् महतो महीयान् आत्मास्य जन्तोर् निहितो गुहायाम् ।
तम् अक्रतुः पश्यति वीतशोको धातुप्रसादान् महिमानम् आत्मनः
आसीनो दूरं व्रजति शयानो याति सर्वतः ।
कस् तं मदामदं देवं मद् अन्यो ज्ञातुम् अर्हति
अशरीरं शरीरेषु अनवस्थेष्व् अवस्थितम् ।
महान्तं विभुम् आत्मानं मत्वा धीरो न शोचति
नायम् आत्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन ।
यम् एवैष वृणुते तेन लभ्यस् तस्यैष आत्मा विवृणुते तनूं स्वाम्
नाविरतो दुश्चरितान् नाशान्तो नासमाहितः ।
नाशान्तमानसो वापि प्रज्ञानेनैनम् आप्नुयात्
यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः ।
मृत्युर् यस्योपसेचनं क इत्था वेद यत्र सः
मूल पाठ: Kathopaniṣad · Edition: Olivelle, Patrick: The Early Upaniṣads. Annotated Text and Translation. New York : 1998, pp. 374-402. · Data entry the Vienna University Student Team · GRETIL (Göttingen) · CC BY-NC-SA 4.0