करतोयामाहात्म्य · श्लोक 41-60
आदौ कर्कटके देवि त्र्यहं गङ्गा रजस्वला
सर्वा रक्तवहा नद्यः करतोयाम्बुवाहिनी ॥
इयं श्रीसुन्दरी देवि सदानीरवहा स्मृता
ये कुर्वन्ति सदा स्नानं तर्पयन्ति च ये सदा
किं बहूक्तेन देवेशि मुक्तिस् तेषां करे स्थिता ॥
अहो जलस्य माहात्म्यं ममैव करसंभवं
नृणां पापहरं पुण्यं स्नानपानाच् च मुक्तिदम् ॥
करतोयानदीतीरे वासो वा क्रियते यदि
वाराणसीसमो वासः पातकान् मुच्यते नरः ॥
करजायास् तीरे देव पूजा सर्वार्थसाधिका
अन्यत्र पूजनाद् देवि संदेहो नास्ति सुन्दरि ॥
कारतोयेन तोयेन उदरस्थेन ये मृताः
तेषां मुक्तिर् न संदेहो यावद् इन्द्राश् चतुर्दश
तत्रैव ज्ञानम् आसाद्य मुक्तिः स्यात् केवलामला ॥
गङ्गायाः करजायाश् च जलम् अत्रेति सुन्दरि
सर्वपापहरं पुण्यं भुवि पावनम् उत्तमम् ॥
अस्थिकेशादयो यस्य करजायां तपोधने
पतन्ति तस्य स्वर्गः स्याद् यावद् इन्द्राश् चतुर्दश ॥
करतोयापश्चिमे तीरे सदा वहति जाह्नवी
विशेषो लोहिनी यत्र मृत्तिका मुक्तिदायिनी ॥
करतोयापश्चिमे तीरे लोहिनी यत्र मृत्तिका
मुक्तिक्षेत्रं समाख्यातं महापातकनाशनम् ॥
करतोयाजलं पुण्यं पावनं भुवि दुर्लभम्
संपूर्णमाघमासं तु स्नात्वा विष्णुपुरं व्रजेत् ॥
करतोयानदीतीरे वेदपूजापारायणः
विप्रभोजनमात्रेण ह्य् अश्वमेधफलं लभेत् ॥
विशेषः पौण्ड्रनगरे कोटिकोटिगुणं भवेत्
विप्रैकभोजनाद् एव सर्वयज्ञफलं लभेत् ॥
जपहोमैस् तथा दान पूजाश्राद्धक्रियादिभिः
कोटिकोटिगुणं तत्र पौण्ड्रक्षेत्रे च सुन्दरि ॥
करतोयामृदा ये च तिलकं धारयन्ति वै
विष्णुरूपधराः पापान् मुञ्चन्ति नात्र संशयः ॥
स्कन्दगिविन्दयोर् मध्ये गुप्ता वाराणसी पुरी
तत्रारोहणमात्रेण नरो नारायणो भवेत् ॥
पञ्चक्रोशम् इदं क्षेत्रं समन्तात् परिकीर्तितम्
तदन्तर्गतम् एतत् तु क्रोशमात्रं महेश्वरि
अतिगुह्यतमं क्षेत्रं यत्रास्ते भार्गवो मुनिः ॥
पशोर् ज्ञानं कथयति गुहस् तद्गृहे ताम्रचूडो दैर्घी हैमी घटितसुरभिर् यष्टिवृद्धिः शिलास्थिः
खेषु छ्हत्त्रं न फणति फणी द्विस्वरो जीवलोकः कूपो द्वीपः कनकपतनं पौण्ड्रक्षेत्रे ऽद्भुतानि ॥
प्रोच्चा भूमिर् भवति तरुणः स्नानतः काम्यकुण्डे भोगो यज्ञो भ्रमणनटनं तत्र वाक्यं हि वेदः
इत्थं रामो रचयति पदं लक्षणान्यूनविंशान्य् अस्मात् ख्यातं सकलजगतां श्रीमहास्थानम् एतत् ॥
स्नानाद् यत्र निहन्ति पापनिचयं श्रीपाणितोया नदी यस्यां संस्थितमानुषास्थि सकलं प्राप्नोति पाषाणताम्
देवस् तारकमारको ऽपि नितरां ज्ञानं ददात्य् अद्भुतं कौपं यत् पय एव तैलविपुलं पौण्ड्रं पुरः पातु वः ॥
मूल पाठ: Karatoyāmāhātmya · Edition: included as Appendix I in: Prabhas Chandra Sen: Mahasthan and Its Environs, Rajshahi, Bengal : Varendra Research Society 1929 (Varendra Research Society's Monographs, 2) · Data entry Arlo Griffiths · GRETIL (Göttingen) · CC BY-NC-SA 4.0