भाषा

ENहिગુ
ग्रंथ पाठ

करतोयामाहात्म्य · श्लोक 21-40

21

वेदीमध्ये ऽर्पितो यूपः संश्लेषाद् वर्धते नृणाम्
गोविन्दमण्डपात् पूर्वं कुण्डं कुण्डं विष्णुविनिर्मितम् ॥

22

स्कन्दमण्डपवायव्ये सभा रामस्य चाद्भुता
सपादलक्षं विप्राणां यत्रास्ते ऽद्भुतकर्मणाम् ॥

23

प्रभावात् तपसो देवि मुनीन्द्रस्य महात्मनः
तत्सभा वायुकोणे च गर्तम् ईश्वरनिर्मितम् ॥

24

आद्यं भुवो भवनं लक्षसपादविप्रैः स्कन्दादिविष्णुबलभद्रशिवादिदेवैः
अध्यासितं करजलाम्बुविधूतपापं श्रीपौण्ड्रवर्धनपुरं शिरसा नमामि ॥

25

करजापश्चिमे भागे सदा वहति जाह्नवी
पूर्वभागे तु करजा पादोना जाह्नवी जला ॥

26

करतोयापश्चिमे तीरे लोहिनी यत्र मृत्तिका
मुक्तिक्षेत्रं समाख्यातं महापातकनाशनम् ॥

27

करतोयानदीं प्राप्य त्रिरात्रोपोषितो नरः
अश्वमेधम् अवाप्नोति शक्रलोकं च गच्छति
अत्रैव ज्ञानम् आसाद्य हरिसायुज्यम् आप्नुयात् ॥

28

करतोयां समासाद्य ये त्यजन्ति कलेवरम्
तेषां मुक्तिर् न सन्देहो यावद् इन्द्राश् चतुर्दश ॥

29

न मानुषास् ते ते देवा नदीस् तिस्रः पिबन्ति ये
देविकां करतोयां च विपाशां पापनाशिनीम् ॥

30

स्कन्दगोविन्दयोर् मध्ये सोमवारे कुहूतिथौ
प्रातर् मौनेन यः स्नायात् कुलकोटीः समुद्धरेत् ॥

31

कियन्तो रेणवः पृथ्व्यां कियान् आकाशसंभवः
माहात्म्यं करतोयाया वक्तुं नैव हि शक्यते ॥

32

पुरुषोत्तमे महाज्यैष्ठी समये दर्शनात् फलम्
करतोयाम्भसि स्नात्वा यत् तत् फलम् अवाप्नुयात् ॥

33

करतोयाजलं प्राप्य यदि सोमयुता कुहूः
अरुणोदयवेलायां सूर्यग्रहशतैः समा ॥

34

शिलाद्वीपं समासाद्य तच् च कोटिगुणं भवेत्
तद् एव कोटिगुणितं पौषार्के च यदैव सा ॥

35

वाराणस्यां कुरुक्षेत्रे यत् पुण्यं राहुदर्शने
शिलाद्वीपं समासाद्य तच् च कोटिगुणं भवेत् ॥

36

पौषे वा माघमासे वा यदि सोमयुता कुहूः
व्यतिपातेन योगेन कोटिकोटिगुणं भवेत् ॥

37

चापार्के मूलसंयुक्ते यदि सोमयुता कुहूः ।
नारायणीति विख्याता त्रिकोटिकुलम् उद्धरेत् ॥

38

वाराणस्यां कृता पूजा संपूर्णफलदायिनी
ततो ऽपि द्विगुणा प्रोक्ता करतोयानदीजले ॥

39

द्वारावत्यां च गण्डक्यां प्रयागे पुष्करे तथा
बदर्याख्ये कुरुक्षेत्रे या पूजा फलदायिनी
ततश् चतुर्गुणा प्रोक्ता करतोयानदीजले ॥

40

करतोयाजले देवि विष्णुपूजा विशेषतः
ततो ऽपि फलबाहुल्यं शिवशक्त्योः प्रपूजनात् ॥

मूल पाठ: Karatoyāmāhātmya · Edition: included as Appendix I in: Prabhas Chandra Sen: Mahasthan and Its Environs, Rajshahi, Bengal : Varendra Research Society 1929 (Varendra Research Society's Monographs, 2) · Data entry Arlo Griffiths · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc