करतोयामाहात्म्य · श्लोक 61-80
शृणुध्वं मुनयः सर्वे माहात्म्यं तज्जलस्य च
बाहुदायाश् च तीरे ऽस्मिन् जलं सर्वमलापहम् ॥
गङ्गा वा करतोया वा विशेषो नात्र विद्यते
हरमूर्ध्नि स्थिता गङ्गा सापरा करनिर्गता ॥
करतोये सदानीरे सरिच्छ्रेष्ठे सुविश्रुते
पौण्ड्रान् प्लावयसे नित्यं पापं हर करोद्भवे
मन्त्रेणानेन वै स्नायात् करतोयाजले शुभे ॥
तत्तुल्यरूपास्ति नदी न का चिद् रजोविहीना तरुणो यतो ऽसि
धन्यासि पुण्यासि सरिद्वरासि श्रीकण्ठपाणिप्रभवे नमस् ते ॥
स्नानाद् इयं करजला दुरितानि हन्ति ज्ञानं ददाति भगवान् इह तारकारिः ॥
बाहुदा बाहुदानाच् च लिखितस्य मुनेः पुरा
सदानीरा महापुण्या शीतवाहिनिका शुभा ॥
ऋषयो मुनयश् चैव मार्कण्डेयो महामुनिः
अश्वत्थामा कपिवरो वासुदेवः स्वयं विभुः ॥
चतुर्मुखः पञ्चमुखः करिमुखश् च षण्मुखः
सर्वे ते पश्चिमे भागे करतोयासरित्तटे ॥
तिष्ठन्ति तपसो हेतोः सदानीराजलार्थिनः
रजोहीना महापुण्या विशेषः सिंहभास्करे ॥
करतोयासरिन्नीर प्राप्तिमात्रेण सुन्दरि
स्नानतर्पणम् आवश्यं तदापारं विधीयते ॥
अस्नात्वा गच्छतः पारं पूर्वधर्मक्षयो भवेत्
स्नात्वा पीत्वा तथा नीरं पारावारे न दूषयेत् ॥
पौण्ड्रक्षेत्रं महापुण्यं प्लावितं करसंभवैः
तज्जलस्नानमात्रेण विष्णुप्रीतिविवर्धनम् ॥
पौण्ड्रक्षेत्राद् उत्तरे च योजनद्वयम् अन्तरा
तत्रास्ते चण्डिका देवी लोहिनी यत्र मृत्तिका ॥
तद्धारे प्रार्थनामात्रात् तुरगान् भवनानि च
ददाति चण्डिका देवी करतोयासरित्तटे
अहो क्षेत्रस्य माहात्म्याद् ब्रह्महत्यां व्यपोहति ॥
चाण्डालान्त्यजसंस्पृष्टं तीर्थतोयं न पावनम्
विहाय करजागङ्गा नर्मदायमुनाजलम् ॥
भाण्डानीतजलेनापि स्नानं कुर्वन्ति ये नराः
पापौघान् अविशेषेण मुञ्चन्ति नात्र संशयः ॥
करतोयाजले ज्ञाना (अ)ज्ञानतः स्नाति यो नरः
ब्रह्मलोकम् अवाप्नोति दिनपापान् विनश्य वै ॥
अज्ञानेनापि करजा जलं ये मनुजाः सकृत्
दुर्वृत्ताः पापरहिता प्रपिबन्ति भवन्ति ते ॥
अत्रैव पौण्ड्रनगरे पुरुषार्थसिद्धिर् वाराणसी व्यसनम् एव परं नराणाम्
तत्रैव विष्णुनिलयं सकलं च यज्ञो ज्ञानं समाधिविविधं जपसाध्यसिद्धिः ॥
कृष्णवेणी ताम्रपर्णी सरयूर् गण्डकी तथा
विष्णुपादोद्भवा पुण्या यमुना च सरस्वती ॥
मूल पाठ: Karatoyāmāhātmya · Edition: included as Appendix I in: Prabhas Chandra Sen: Mahasthan and Its Environs, Rajshahi, Bengal : Varendra Research Society 1929 (Varendra Research Society's Monographs, 2) · Data entry Arlo Griffiths · GRETIL (Göttingen) · CC BY-NC-SA 4.0