भाषा

ENहिગુ
ग्रंथ पाठ

करतोयामाहात्म्य · श्लोक 01-20

01

अपरं कथ्यतां देव नदीनां च विशेषतः
पौण्ड्रक्षेत्रस्य माहात्म्यं न श्रुतं विस्तरात् प्रभो ॥

02

कदोत्पत्तिः कथं तस्याः कस्माच् चैव विशेषटः
श्रोतुम् इच्छामि भूतेश यदि स्यान् मय्य् अनुग्रहः ॥

03

केन प्राकाशिता सा च नदी करजला भुवि
कथं वा प्लावितं क्षेत्रं शुभं पौण्ड्रम् अनुत्तमम् ॥

04

पाणिग्रहणकाले ते देवि हिमवता जलम्
संप्रदत्तं मत्कराच् च निर्गतं करजा भुवि ॥

05

पुरैव कथितं सर्वं पौण्ड्रस्य च सुरेश्वरि
तत्रैव कथितं तुभ्यं करतोयाफलं यथा ॥

06

अधुनापि यथा तासां नदीनां च विशेषतः
कलिपापहरा पुण्या भार्गवेन प्रकाशिता ॥

07

मत्पुत्रो ऽपि गुहस् तत्र तिष्ठत्य् एव हि सर्वदा
यत्रास्ते भगवान् विष्णुर् गरुडासन ईश्वरः ॥

08

सर्वदा सर्वभावेन पौण्ड्रे नारायणो हरिः
पुष्करं न त्यजेत् ब्रह्मा नाहं वाराणसीं त्यजे ॥

09

श्रीपौण्ड्रवर्धनं क्षेत्रं नैव मुञ्चति केशवः
धरित्र्या नाभिकमलं पूतं करजलैर् मम ॥

10

शृणुध्वं मुनयः सर्वे यद् उक्तं भार्गवेन वै
श्रुत्वा शङ्करतो वाक्यं संवादम् उभयोर् अपि ॥

11

पुत्रवात्सल्यभावेन भार्गवाय प्रकाशितम्
स एव भार्गवः श्रीमान् ऋषिभ्यो ऽप्य् अप्रकाशयत् ॥

12

नमस् तस्मै मुनीन्द्राय दानवेन्द्रनिषूदने
श्रीचक्रपाणये तुभ्यं ब्रह्मविष्णुशिवात्मने ॥

13

एकः परशुमात्रेण निहत्य क्षत्रियान् युधि
चक्रे निःक्षत्रियां पृथ्वीम् एकविंशतिवारतः ॥

14

ततः परशुरामेति पृथिव्यां ख्यातविक्रमः
जामदग्न्यो महावीर्यस् त्रेताद्ये यस्य संस्थितिः ॥

15

सर्वज्ञः सुव्रतः शुद्धः सर्वाचारविधायकः
कौतुकाकृष्तहृदयः पृथिव्यां परमो हरिः ॥

16

पौण्ड्रे कोटिशिलाद्वीपे महापुण्ये सुविश्रुते
करतोयासरिन्नीरं शरीराद्यन्तपावनम्
भक्तिमुक्तिफलार्थाय येनाकारि द्विजार्पणम् ॥

17

अद्भुता कारिता सृष्टिः कनकस्य दिनत्रयम्
स्कन्दगोविन्दयोर् मध्ये भूमिः संस्कृतवेदिका ॥

18

वेदीमध्योत्तरे पार्श्वे देवी कालञ्जरी स्थिता
तद्दक्षिणे ऽर्पिता देवी कोटीश्वरीति विश्रुता ॥

19

नैरृते लिङ्गकोट्यश् च वसन्ति भृगुणार्पिताः
वारणे विजया चण्डी उत्तरे भूतिकेश्वरः ॥

20

तत्कुण्डे सुतिथौ स्नात्वा नरः पापात् प्रमुच्यते
भूतिकेश्वरदेवस्य दक्षिणे सूर्यमण्डपम् ॥

मूल पाठ: Karatoyāmāhātmya · Edition: included as Appendix I in: Prabhas Chandra Sen: Mahasthan and Its Environs, Rajshahi, Bengal : Varendra Research Society 1929 (Varendra Research Society's Monographs, 2) · Data entry Arlo Griffiths · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc