कामसूत्र · अध्याय 6.6
अर्थान् आचर्यमाणान् अन्:अर्था अप्यनूद्भवन्त्य् अनुबन्धाः संशयाश् च((176)).
ते बुद्धि-दौर्बल्याद् अति:रागाद् अत्य्:अभिमानाद् अति:दम्भाद् अत्य्:आर्जवाद् अति:विश्वासाद् अति:क्रोधात् प्रमादात् साहसाद् दैव-योगाच् च स्युः.
तेषां फलं कृतस्य व्ययस्य निष्:फलत्वम् अन्:आयतिर् आगमिष्यतो ऽर्थस्य निवर्तनम् आप्तस्य निष्क्रमणं पारुष्यस्य प्राप्तिर् गम्यता शरीरस्य प्रघातः केशानां छेदनं पातनम् अङ्ग-वैकल्यापत्तिः.
तस्मात् तान् आदित एव परिजिहीर्षेद् अर्थ-भूयिष्ठांश् चोपेक्षेत.
अर्थो धर्मः काम इत्य् अर्थ-त्रिवर्गः.
अन्:अर्थो ऽ:धर्मो द्वेष इत्य् अन्:अर्थ-त्रिवर्गः.
तेष्व् आचर्यमाणेष्व् अन्यस्यापि निष्पत्तिर् अनुबन्धः.
संदिग्धायां तु फल-प्राप्तौ स्याद् वा न वेति शुद्ध-संशयः.
इदं वा स्याद् इदं वेति संकीर्णः.
एकस्मिन् क्रियमाणे कार्ये कार्य-द्वयस्योत्पत्तिर् उभयतो:योगः.
समन्ताद् उत्पत्तिः समन्ततो:योग इति तान् उदाहरिष्यामः.
विचारित-रूपो ऽर्थ-त्रिवर्गः. तद्-विपरीत एवान्:अर्थ-त्रिवर्गः.
यस्योत्तमस्याभिगमने प्रत्य्:अक्षतो ऽर्थ-लाभो ग्रहणीयत्वम् आयतिर् आगमः प्रार्थनीयत्वं चान्येषां स्यात् सो ऽर्थो ऽर्थानुबन्धः.
लाभ-मात्रे कस्य चिद् अन्यस्य गमनं सो ऽर्थो निर्:अनुबन्धः.
अन्यार्थ-परिग्रहे सक्ताद् आयति-च्छेदनम् अर्थस्य निष्क्रमणं लोक-विद्विष्टस्य वा नीचस्य गमनम् आयति-घ्नम् अर्थो ऽन्:अर्थानुबन्धः.
स्वेन व्ययेन शूरस्य महामात्रस्य प्रभवतो वा लुब्धस्य गमनं निष्:फलम् अपि व्यसन-प्रतीकारार्थं महतश् चार्थ-घ्नस्य निमित्तस्य प्रशमनम् आयति-जननं सो ऽन्:अर्थो ऽर्थानुबन्धः.
कदर्यस्य सुभग-मानिनः कृत-घ्नस्य वाति:सन्धान-शीलस्य स्वैर् अपि व्ययैस् तथाराधनम् अन्ते निष्:फलं सो ऽन्:अर्थो निर्:अनुबन्धः.
तस्यैव राज-वल्लभस्य क्रौर्य-प्रभावाधिकस्य तथैवाराधनम् अन्ते निष्:फलं निष्कासनं च दोष-करं सो ऽन्:अर्थो ऽन्:अर्थानुबन्धः.
एवं धर्म-कामयोर् अप्य् अनुबन्धान् योजयेत्.
परस्परेण च युक्त्या संकिरेद्
इत्य् अनुबन्धाः((177)).
परितोषितो ऽपि दास्यति न वेत्य् अर्थ-संशयः.
निष्पीडितार्थम् अ:फलम् उत्सृजन्त्या अर्थम् अ:लभमानाया धर्मः स्यान् न वेति धर्म-संशयः.
अभिप्रेतम् उपलभ्य परिचारकम् अन्यं वा क्षुद्रं गत्वा काअः स्यान् न वेति काम-संशयः.
प्रभाववान् क्षुद्रो ऽन्:अभिगतो ऽन्:अर्थं करिष्यति न वेत्य् अन्:अर्थ-संशयः.
अत्य्:अन्त-निष्:फलः सक्तः परित्यक्तः पितृ-लोकं यायात् तत्रा:धर्मः स्यान् न वेत्य् अ:धर्म-संशयः.
रागस्यापि विवक्षायाम् अभिप्रेतमन्:उपलभ्य विरागः स्यान् न वेति द्वेष-संशयः.
इति शुद्ध-संशयाः.
अथ संकीर्णाः((178)).
आगन्तोर् अ:विदित-शीलस्य वल्लभ-संश्रयस्य प्रभविष्णोर् वा समुपस्थितस्याराधनम् अर्थो ऽन्:अर्थ इति संशयः.
श्रोत्रियस्य ब्रह्मचारिणो दीक्षितस्य व्रतिनो लिङ्गिनो वा मां दृष्ट्वा जात-रागस्य मुमूर्षोर् मित्र-वाक्याद् आनृशंस्याच् च गमनं धर्मो ऽ:धर्म इति संशयः..6.6.30 लोकाद् एवा:कृत-प्रत्ययाद् अ:गुणो गुणवान् वेत्य् अन्:अवेक्ष्य गमनं कामो द्वेष इति संशयः.
संकिरेच् च परस्परेण.
इति संकीर्ण-संशयाः.
यत्र परस्याभिगमने ऽर्थः सक्ताच् च संघर्षतः स उभयतो ऽर्थः.
यत्र स्वेन व्ययेन निष्:फलम् अभिगमनं सक्ताच् चा:मर्षिताद् वित्त-प्रत्यादानं स उभयतो ऽन्:अर्थः.
यत्राभिगमने ऽर्थो भविष्यति न वेत्य् आशङ्का सक्तो ऽपि संघर्षाद् दास्यति न वेति स उभयतो ऽर्थ-संशयः.
यत्राभिगमने व्ययवति पूर्वो विरुद्धः क्रोधाद् अपकारं करिष्यति न वेति सक्तो वामर्षितो दत्तं प्रत्य्:आदास्यति न वेति स उभयतो ऽन्:अर्थ-संशयः.
इत्य् औद्दालकेर् उभयतो-योगाः.
बाभ्रवीयास् तु((179)).
यत्राभिगमने ऽर्थो ऽन्:अभिगमने च सक्ताद् अर्थः स उभयतो:ऽर्थः.
यत्राभिगमने निष्:फलो व्ययो ऽन्:अभिगमने च निष्:प्रतीकारो ऽन्:अर्थः स उभयतो:ऽन्:अर्थः
यत्राभिगमने निर्:व्ययो दास्यति न वेति संशयो ऽन्:अभिगमने सक्तो दास्यति न वेति स उभयतो:ऽर्थ-संशयः.
यत्राभिगमने व्ययवति पूर्वो विरुद्धः प्रभाववान् प्राप्स्यते न वेति संशयो ऽन्:अभिगमने च क्रोधाद् अन्:अर्थं करिष्यति न वेति स उभयतो:ऽन्:अर्थ-संशयः.
एतेषाम् एव व्यतिकरे ऽन्यतो ऽर्थो ऽन्यतो ऽन्:अर्थः अन्यतो ऽर्थो ऽन्यतो ऽर्थ-संशयः अन्यतो ऽर्थो ऽन्यतो ऽन्:अर्थ-संशयः.
इति षट्-संकीर्ण-योगाः.
तेषु सहायैः सह विमृश्य यतो ऽर्थ-भूयिष्ठो ऽर्थ-संशयो गुरुर् अन्:अर्थ-प्रशमो वा ततः प्रवर्तेत.
एवं धर्म-कामाव् अप्य् अनयैव युक्त्योदाहरेत्((180)). संकिरेच् च परस्परेण व्यतिषञ्जयेच् च
इत्य् उभयतो:योगाः.
संभूय च विटाः परिगृह्णान्त्य् एकाम् असौ गोष्ठी-परिग्रहः.
सा तेषाम् इतस् ततः संसृज्यमाना प्रत्य्:एकं संघर्षाद् अर्थं निर्वर्तयेत्.
सु:वसन्तकादिषु च योगे यो मे इमम् अमुं च संपादयिष्यति तस्याद्य गमिष्यति मे दुहितेति मात्रा वाचयेत्.
तेषां च संघर्षजे ऽभिगमने कार्याणि लक्षयेत्.
एकतो ऽर्थः सर्वतो ऽर्थः एकतो ऽन्:अर्थः सर्वतो ऽन्:अर्थः. अर्धतो ऽर्थः सर्वतो ऽर्थः अर्धतो ऽन्:अर्थः सर्वतो ऽन्:अर्थः.
इति समन्ततो योगाः.
अर्थ-संशयम् अन्:अर्थ-संशयं च पूर्ववद् योजयेत्. संकिरेच् च तथा धर्म-कामाव् अपि.
इत्य् अर्थान्:अर्थानुबन्ध-संशय-विचाराः((181)).
कुम्भदासी परिचारिका कुलटा स्वैरिणी नटी शिल्पकारिका प्रकाशविनष्टा रूपाजीवा गणिका चेति वेष्या-विशेषाः.
सर्वासां चानुरूपेण गम्याः सहायास् तस्-उपरञ्जनम् अर्थागमोपाया निष्कासनं पुनः संधानं लाभ-विशेषानुबन्धा अर्थान्:अर्थानुबन्ध-संशय-विचाराश् च
# 58 इति वैशिकम्((182)).
भवतश् चात्र श्लोकौ
रत्य्-अर्थाः पुरुषा येन रत्य्-अर्थाश् चैव योषितः. शास्त्रस्यार्थ-प्रधानत्वात् तेन योगो ऽत्र योषिताम्..
सन्ति राग-परा नार्यः सन्ति चार्थ-परा अपि. प्राक् तत्र वर्णितो रागो वेश्या-योगाश् च वैशिके((183))..
मूल पाठ: Kāmasūtra · Data entry Jean Fezas · GRETIL (Göttingen) · CC BY-NC-SA 4.0