कामसूत्र · अध्याय 6.2
संयुक्ता नायकेन तद्-रण्जनार्थम् एकचारिणी-वृत्तम् अनुतिष्ठेत्((166)).
रञ्जयेन् न तु सज्जेत सक्तवच् च विचेष्टेतेति संक्षेपोक्तिः.
मातरि च क्रूर-शीलायाम् अर्थ-परायां चायत्ता स्यात्.
तद्-अ:भावे मातृकायाम्.
सा तु गम्येन नातिप्रीयेत.
प्रसह्य च दुहितरम् आनयेत्.
तत्र तु नायिकायाः संततम् अ:रतिर् निर्वेदो व्रीडां भयं च.
न त्व् एव शासनातिवृत्तिः.
व्याधिं चैकम् अ:निमित्तम् अ:जुगुप्सितम् अ:चक्षुर्-ग्राह्यम् अ:नित्यं च ख्यापयेत्.
सति कारणे तद्-अपदेशं च नायकान्:अभिगमनम्.
निर्:माल्यस्य तु नायिका चेटिकां प्रेषयेत् ताम्बूलस्य च.
व्यवाये तद्-उपचारेषु विस्मयः.
चतुःषष्ट्यां शिष्यत्वम्.
तद्-उपदिष्टानां च योगानाम् आभीक्ष्ण्येनानुयोगः.
तत्-सात्म्याद् रहसि वृत्तिः.
मनोरथानाम् आख्यानम्.
गुह्यानां वैकृत-प्रच्छादनम्.
शयने परावृत्तस्यानुपेक्षणम्.
आनुलोम्यं गुह्य-स्पर्शने.
सुप्तस्य चुम्बनम् आलिङ्गनं च.
प्रेक्षणम् अन्य-मनस्कस्य. राज-मार्गे च प्रासाद-स्थायास् तत्र विदिताया व्रीडा शाठ्य-नाशः.
तद्-द्वेष्ये द्वेष्यता. तत्-प्रिये प्रियता. तद्-रम्य रतिः. तम् अनु हर्ष-शोकौ. स्त्रीषु जिज्ञासा. कोपश् चा:दीर्गः.
स्व-कृतेष्व् अपि नख-दशन-चिह्नेष्व् अन्याशङ्का.
अनुरगस्या:वचनम्.
आकारतस् तु दर्शयेत्.
मद-स्वप्न-व्याधिषु तु निर्वचनम्.
श्लाघ्यानां नायक-कर्मणां च.
तस्मिन् ब्रुवाणे वाक्यार्थ-ग्रहणम्. तद् अवधार्य प्रशंसाविषये भाषणम्. तद्-वाक्यस्य चोत्तरेण योजनम्. भक्तिमांश् चेत्.
कथास्व् अनुवृत्तिर् अन्यत्र स:पत्न्याः.
निःश्वासे जृम्भते स्खलिते पतिते वा तस्य चार्तिम् आशंसीत.
क्षुत-व्याहृत-विस्मितेषु जीवेत्य् उदाहरणम्.
दौर्मनस्ये व्याधि-दौर्हृदापदेशः.
गुणतः परस्या:कीर्तनम्.
न निन्दा समान-दोषस्य.
दत्तस्य धारणम्.
वृथापराधे तद्-व्यसने वालङ्कारस्या:ग्रहणम् अ:भोजनं च.
तद्-युक्ताश् च विलापाः.
तेन सह देश-मोक्षं रोचयेत् राजनि निष्क्रयं च.
सामर्थ्यम् आयुष्यस् तद्-अवाप्तौ.
तस्यार्थाधिगमे ऽभिप्रेत-सिद्धौ शरीरोपचये वा पूर्व-संभाषित इष्ट-देवतोपहारः.
नित्यम् अलङ्कार-योगः. परिमितो ऽभ्यवहारः..6.2.42 गीते च नाम-गोत्रयोर् ग्रहणम्. ग्लान्याम् उरसि ललाटे च करं कुर्वीत. तत्-सुखम् उपलभ्य निद्रा-लाभः.
औत्सङ्गे चास्योपवेशनं स्वपनं च. गमनं वियोगे.
तस्मात् पुत्रार्थिनी स्यात्. आयुषो नाधिक्यम् इच्छेत्.
एतस्या:विज्ञातम् अर्थं रहसि न ब्रूयात्.
व्रतम् उपवासं चास्य निर्वर्तयेत् मयि दोष इति. अ:शक्ये स्वयम् अपि तद्-रूपा स्यात्.
विवादे तेनाप्य् अ:शक्यम् इत्य् अर्थ-निर्देशः.
तदीयम् आत्मीयं वा स्वयम् अ:विशेषेण पश्येत्.
तेन विना गोष्ठ्य्-आदीनाम् अ:गमनम् इति.
निर्:माल्य-धारणे श्लाघा उच्छिष्ट-भोजने च.
कुल-शील-शिल्प-जाति-विद्या-वर्ण-वित्त-देश-मित्र-गुण-वयो-माधुर्य-पूजा.
गीतादिषु चोदनम् अभिज्ञस्य.
भय-शीतोष्ण-वर्षाण्य् अन्:अपेक्ष्य तद्-अभिगमनम्.
स एव च मे स्याद् इत्य् और्ध्वदेहिकेषु वचनम्.
तद्-इष्ट-रस-भाव-शीलानुवर्तनम्.
मूल-कर्माभिशङ्का.
तद्-अभिगमने च जनन्या सह नित्यो विवादः.
बलात्कारेण च यद्य् अन्यत्र तया नीयेत तदा विषम् अन्:अशनं शस्त्रं रज्जुम् इति कामयेत.
प्रत्यायनं च प्रणिधिभिर् नायकस्य. स्वयं वात्मनो वृत्ति-ग्रहणम्.
न त्व् एवार्थेषु विवादः.
मात्रा विना किं चिन् न चेष्टेत.
प्रवासे शीघ्रागमनाय शाप-दानम्.
प्रोषिते मृजानियमश् चालङ्कारस्य प्रतिषेधः. मङ्गलं त्व् अपेक्ष्यम्. एकं शङ्ख-वलयं वा धारयेत्.
स्मरणम् अतीतानाम्. गमनम् ईक्षणिकोपश्रुतीनाम्. नक्षत्र-चन्द्र-सूर्य-ताराभ्यः स्पृहणम्.
इष्टस्वप्नप्रदर्शने तत्-सङ्गमो ममास्त्व् इति वचनम्.
उद्वेगो ऽन्:इष्टे सान्ति-कर्म च.
प्रत्यागते काम-पूजा.
देवतोपहाराणां करणम्.
सखीभिः पूर्ण-पात्रस्याहरणम्.
वायस-पूजा च.
प्रथम-समागमान्:अन्तरं चैतद् एव वायस-पूजा-वर्जम्.
सक्तस्य चानुमरणं ब्रूयात्.
निसृष्ट-भावः समान-वृत्तिः प्रयोजन-कारी निर्:आशङ्को निर्:अपेक्षो ऽर्थेष्व् इति सक्त-लक्षणानि.
तद् एतन् निदर्शनार्थं दत्तक-शासनाद् उक्तम्. अन्:उक्तं च लोकतः शीलयेत् पुरुष-प्रकृतितश् च.
भवतश् चात्र श्लोकौ
सूक्ष्मत्वाद् अति:लोभाच् च प्रकृत्याज्ञानतस् तथा. काम-लक्ष्म तु दुर्:जानं स्त्रीणां तद्-भावितैर् अपि..
कामयन्ते विरज्यन्ते रञ्जयन्ति त्यजन्ति च. कर्षयन्त्यो ऽपि सर्वार्थाञ् ज्ञायन्ते नैव योषितः((167))..
मूल पाठ: Kāmasūtra · Data entry Jean Fezas · GRETIL (Göttingen) · CC BY-NC-SA 4.0