कामसूत्र · अध्याय 6.3
सक्ताद् वित्तादानं स्वाभाविकम् उपायतश् च.
तत्र स्वाभाविकं संकल्पात् समधिकं वा लभमाना नोपायान् प्रयुञ्जीतेत्य् आचार्याः.
विदितम् अप्य् उपायैः परिष्कृतं द्वि-गुणं दास्यतीति वात्स्यायनः.
अलंकार-भक्ष्य-भोज्य-पेय-माल्य-वस्त्र-गन्ध-द्रव्यादीनां व्यवहारिषु कालिकम् उद्धारार्त्थम् अर्थ-प्रतिनयनेन.
तत्-समक्षं तद्-वित्त-प्रशंसा.
व्रत-वृक्षाराम-देवकुल-तडागोद्यानोत्सव-प्रीति-दाय-व्यपदेशः.
तद्-अभिगमन-निमित्तो रक्षिभिश् चौरैर् वालङ्कार-परिमोषः.
दाहात् कुड्य-च्छेदात् प्रमादाद् भवने चार्थ-नाशः.
तथा याचितालङ्काराणां नायकालङ्काराणां च तद्-अभिगमनार्थस्य व्ययस्य प्रणिधिभिर् निवेदनम्.
तद्-अर्थम् ऋण-ग्रहणम्. जनन्या सह तद्-उद्भवस्य व्ययस्य विवादः..6.3.11 सुहृत्-कार्येष्व् अन्:अभिगमनम् अन्:अभिहार-हेतोः.
तैश् च पूर्वम् आहृता गुरवो ऽभिहाराः पूर्वम् उपनीताः पूर्वं श्राविताः स्युः.
उचितानां क्रियाणां विच्छित्तिः.
नायकार्थं च शिल्पिषु कार्यम्.
वैद्य-महामात्रयोर् उपकार-क्रिया कार्य-हेतोः.
मित्राणां चोपकारिणां व्यसनेष्व् अभ्युपपत्तिः.
गृह-कर्म सख्याः पुत्रस्योत्सञ्जनम् दोहदो व्याधिर् मित्रस्य दुःखापनयनम् इति.
अलंकारैक-देश-विक्रयो नायकस्यार्थे.
तया शीलितस्य चालङ्कारस्य भाण्डोपस्करस्य वा वणिजो विक्रयार्थं दर्शनम्.
प्रति:गणिकानां च सदृशस्य भाण्डस्य व्यतिकरे प्रतिविशिष्टस्य ग्रहणम्.
पूर्वोपकाराणाम् अ:विस्मरणम् अनुकीर्तनं च.
प्रणिधिभिः प्रति:गणिकानां लाभातिशयं श्रावयेत्.
तासु नायक-समक्षम् आत्मनो ऽभ्यधिकं लाभं भूतम् अ:भूतं वा व्रीडिता नाम वर्णयेत्.
पूर्व-योगिनां च लाभातिशयेन पुनः सन्धाने यतमानानाम् आविष्:कृतः प्रतिषेधः.
तत्-स्पर्धिनां त्याग-योगिनां निदर्शनम्.
न पुनर् एष्यतीति बाल-याचितकम्.
# 53 इत्य् अर्थागमोपायाः((168)).
सेच्तिओन् (प्रकरण)54
वि:रक्तं च नित्यम् एव प्रकृति-विक्रियातो विद्यान् मुख-वर्णाच् च.
ऊनम् अतिरिक्तं वा ददाति.
प्रतिलोमैः सम्बध्यते.
व्यपदिश्यान्यत् करोति.
उचितम् आच्छिनत्ति.
प्रतिज्ञातं विस्मरति. अन्यथा वा योजयति.
स्व्:पक्षैः संज्ञया भाषते.
मित्र-कार्यम् अपदिश्यान्यत्र शेते.
पूर्व-संसृष्टायाश् च परिजनेन मिथः कथयति.
तस्य सार-द्रव्याणि प्राग् अवबोधाद् अन्यापदेशेन हस्ते कुर्वीत.
तानि चास्या हस्ताद् उत्तम-र्णः प्रसह्य गृह्णीयात्.
विवदमानेन सह धर्मस्थेषु((169)) व्यवहरेद्
# 54 इति विरक्त-प्रतिपत्तिः((170)).
सेच्तिओन् (प्रकरण)55
सक्तं तु पूर्वोपकारिणम् अप्य् अल्प-फलं व्यालीकेनानुपालयेत्.
अ:सारं तु निष्प्रतिपत्तिकम् उपायतो ऽपवाहयेत्. अन्यम् अवष्टभ्य.
तद्-अन्:इष्ट-सेवा. निन्दिताभ्यासः. ओष्ठ-निर्भोगः. पादेन भूमेर् अभिघातः. अ:विज्ञात-विषयस्य संकथा. तद्-विज्ञातेष्व् अ:विस्मयः कुत्सा च. दर्प-विघातः अधिकैः सह संवासः. अन्:अपेक्षणम्. समान-दोषाणां निन्दा. रहसि चावस्थानम्.
जुगुप्सा. परिष्वङ्गे भुजमय्या सूच्या व्यवधानम्. स्तब्धता गात्राणाम्. सक्थ्नोर् व्यत्यासः. निद्रा-परत्वं च. श्रान्तम् उपलभ्य चोदना. अ:शक्तौ हासः. शक्ताव् अन्:अभिनन्दनम्. दिवापि. भावम् उपलभ्य महाजनाभिगमनम्.
वाक्येषु च्छल-ग्रहणम्. अ:नर्मणि हासः. नर्मणि चान्यम् अपदिश्य हसति वदति तस्मिन् कटाक्षेण परिजनस्य प्रेक्षणं ताडनं च. आहत्य चास्य कथाम् अन्याः कथाः. तद्-व्यालीकानां व्यसनानां चा:परिहार्याणाम् अनुकीर्तनम्. मर्मणां च चेटिकयोपक्षेपणम्.
आगते चा:दर्शनम्. अ:याच्य-याचनम्. अन्ते स्वयं मोक्षश् चेति परिग्रहकस्येति दत्तकस्य.
भवतश् चात्र श्लोकौ
परीक्ष्य गम्यैः संयोगः संयुक्तस्यानुरञ्जनम्. रक्ताद् अर्थस्य चादानम् अन्ते मोक्षश् च वैशिकम्..
एवम् एतेन कल्पेन स्थिता वेश्या परिग्रहे. नातिसन्धीयते गम्यैः करोत्य् अर्थांश् च पुष्कलान्((171))..
मूल पाठ: Kāmasūtra · Data entry Jean Fezas · GRETIL (Göttingen) · CC BY-NC-SA 4.0