कामसूत्र · अध्याय 5.3
अभियुञ्जानो योषितः प्रवृत्तिं परीक्षेत. तया भावः परीक्षितो भवति. अभियोगांश् च प्रतिगृह्णीयात्.
मन्त्रम् अ:व्र्ण्वानां दूत्यैनां साधयेत्.
अ:प्रतिगृह्याभियोगं पुनर् अपि संसृज्यमानां द्विधा-भूत-मानसां विद्यात्. तां क्रमेण साधयेत्.
अ:प्रतिगृह्याभियोगं स:विशेषम् अलंकृता च पुनर् दृशेत तथैव तम् अभिगच्छेच् च विविक्ते बलाद् ग्रहणीयां विद्यात्.
बहून् अपि विषहते ऽअभियोगान् न चिरेणापि प्रयच्छत्य् आत्मानं सा शुष्क-प्रतिग्राहिणी परिचय-विघटन-साध्या.
मनुष्य-जातेश् चित्ता:नित्यत्वात्.
अभियुक्तापि परिहरति न च संसृज्यते. न च प्रत्याचष्टे. तस्मिन्न् आत्मनि च गौरवाभिमानात्. सातिपरिचयात् कृच्छ्र-साध्या. मर्म-ज्ञया दूत्या तां साधयेत्.
सा चेद् अभियुज्यमाना पारुष्येण प्रत्यादिशत्य् उपेक्ष्या.
परुषयित्वापि तु प्रीति-योजिनीं साधयेत्.
कारणात् संस्पर्शनं सहते नावबुध्यते नाम द्विधा-भूत-मनसा सातत्येन क्षान्त्या वा साध्या.
समीपे शयानायाः सुप्तो नाम करम् उपरि विन्यसेत्. सापि सुप्तेवोपेक्षते. जाग्रती त्व् अपनुदेद् भूयो ऽभियोगाकाङ्क्षिणी.
एतेन पादस्योपरि पादन्यासो व्याख्यातः((140)).
तस्मिन् प्रसृते भूयः सुप्त-संश्लेषणम् उपक्रमेत्.
तद् अ:सहमानाम् उत्थितां द्वितीये ऽहनि प्रकृति-वर्तिनीम् अभियोगार्थिनीं विद्यात्. अ:दृश्यमानां तु दूती-साध्याम्.
चिरम् अ:दृष्टापि प्रकृतिस्थैव संसृज्यते कृत-लक्षणां तां दर्शिताकाराम् उपक्रमेत्..5.3.16 अ:नभियुक्ताप्य् आकारयति. विविक्ते चात्मानं दर्शयति. स:वेपथु-गद्गदं वदति. स्विन्न-कर-चरनाङ्गुलिः स्विन्न-मुखी च भवति. शिरः-पीडने संवाहने चोर्वोर् आत्मानं नायके नियोजयति.
आतुरासंवाहिका चैकेन हस्तेन संवाहयन्ती द्वितीयेन बाहुना स्पर्शम् आवेदयति श्लेषयति च. विस्मित-भावा.
निद्रान्धा वा परिस्पृश्योरुभ्यां बाहुभ्याम् अपि तिष्ठति. अलिकैकदेशम् ऊर्वोर् उपरि पातयति. ऊरु-मूल-संवाहने नियुक्ता न प्रतिलोमयति. तत्रैव हस्तम् एकम् अ:विचलं न्यस्यति. अङ्ग-संदंशेन च पीडितं चिराद् अपनयति.
प्रतिगृह्यैवं नायकाभियोगान् पुनर् द्वितीये ऽहनि संवाहनायोपगच्छति.
नात्यर्थं संसृज्यते. न च परिहरति.
विविक्ते भावं दर्शयति निष्कारणं चा:गूढम् अन्यत्र प्रछन्न-प्रदेशात्.
संनिकृष्ट-परिचारकोपभोग्या सा चेद् आकारितापि तथैव स्यात् सा मर्मज्ञया दूत्या साध्या.
व्यावर्तमाना तु तर्कणीया
इति भाव-परीक्षा((141)).
भवन्ति चात्र श्लोकाः
आदौ परिचयं कुर्यात् ततश् च परिभाषणम्. परिभाषण-संमिश्रं मिथश् चाकारवेदनम्..
प्रत्युत्तरेण पश्येच् चेद् आकारस्य परिग्रहम्. ततो ऽभियुञ्जीत नरः स्त्रियं विगत-साध्वसः..
आकारेणात्मनो भावं या नारी प्राक् प्रयोजयेत्. क्षिप्रम् एवाभियोज्या सा प्रथमे त्व् एव दर्शने..
श्लक्ष्णम् आकारिता या तु दर्शयेत् स्फुटम् उत्तरम्. सापि तत्-क्षण-सिद्धेति विज्ञेया रति-लालसा..
धीरायाम् अ:प्रगल्भायां परीक्षिण्यां च योषिति. एष सूक्ष्मो विधिः प्रोक्ताः सिद्धा एव स्फुटं स्त्रियः..
मूल पाठ: Kāmasūtra · Data entry Jean Fezas · GRETIL (Göttingen) · CC BY-NC-SA 4.0