कामसूत्र · अध्याय 5.2
यथा कन्या स्वयम् अभि-योग-साध्या न तथा दूत्या. पर-स्त्रियस् तु सूक्ष्म-भावा दूती-साध्या न तथात्मनेत्य् आचार्याः.
सर्वत्र शक्ति-विषये स्वयं साधनम् उपपन्नतरकं दुर्:उपपादत्वात् तस्य दूती-प्रयोग इति वात्स्यायनः.
प्रथम-साहसा अ:नियन्त्रण-संभाषाश् च स्वयं प्रतार्याः. तद्-विपरीताश्((137)) च दूत्येति प्रायो-वादः.
स्वयम् अभियोक्ष्यमाणस् त्व् आदाव् एव परिचयं कुर्यात्.
तस्याः स्वाभाविकं दर्शनं प्रायत्निकं च.
स्वाभाविकम् आत्मनो भवन-संनिकर्षे प्रायत्निकं मित्र-ज्ञाति-महामात्र-वैद्य-भवन- संनिकर्षे विवाह-यज्ञोत्सव-व्यसनोद्यान-गमनादिषु.
दर्शने चास्याः सततं साकारं प्रेक्षणं केश-संयमनं नखाच्छुरणम् आभरण-प्रह्लादनम् अधरौष्ठ-विमर्दनं तास् ताश् च लीला वयस्यैः सह प्रेक्षमाणायास् तत्-संबद्धाः परापदेशिन्यश् च कथास् त्यागोपभोग-प्रकाशनं सख्युर् उत्सङ्ग-निषण्णस्य साङ-भङ्गं जृम्भणम् एक-भ्रू-क्षेपणं मन्द-वाक्यता तद्-वाक्य-श्रवणं ताम् उद्दिश्य बालेनान्य-जनेन वा सहान्योपदिष्टा व्यर्था कथा तस्यां स्वयं मनोरथावेदनम् अन्यापदेशेन ताम् एवोद्दिश्य बाल-चुम्बनम् आलिङ्गनं च जिह्वया चास्य ताम्बूल-दानं प्रदेशिन्या हनु-देश-घट्टनं तत् तद्-यथा- योगं यथावकाशं च प्रयोक्तव्यम्.
तस्याश् चाङ्क-गतस्य बालस्य लालनं बाल-क्रीडनकानां चास्य दानं ग्रहणं तेन संनिकृष्टत्वात् कथा-योजनं तत्-संभाषण-क्षमेण जनेन च प्रीतिम् आसाद्य कार्यं तद्-अनुबन्धं च गमनागमनस्य योजनं संश्रये चास्यास् ताम् अ:पश्यतो नाम काम-सूत्र-संकथा.
प्रसृते तु परिचये तस्या हस्ते न्यासं निक्षेपं च निदध्यात्. तत् प्रति-दिनं प्रति-क्षणं चैकदेशतो गृह्णीयात्. सौगन्धिकं पूग-फलानि च.
ताम् आत्मनो दारैः सह विस्रम्भ-गोष्ठ्यां विविक्तासने च योजयेत्.
नित्य-दर्शनार्थं विश्वासनार्थं च..5.2.12 सुवर्णकार-मणिकार-वैकटिक-नीली-कुसुम्भ-रञ्जकादिषु च कामार्थिन्यां सहात्मनो वश्यैश् चैषां तत्-संपादने स्वयं प्रयतेत.
तद्-अनुष्ठान-निरतस्य लोक-विदितो दीर्घ-कालं संदर्शन-योगः.
तस्मिंश् चान्येषाम् अपि कर्मणाम् अनुसन्धानम्.
येन कर्मणा द्रव्येण कौशलेन चार्थिनी स्यात् तस्य प्रयोगम् उत्पत्तिम् आगमम् उपायं विज्ञानं चात्मायत्तं दर्शयेत्.
पूर्व-प्रवृत्तेषु लोक-चरितेषु द्रव्य-गुण-परीक्षासु च तया तत्-परिजनेन च सह विवादः.
तत्र निर्दिष्टानि पणितानि तेष्व् एनां प्राश्निकत्वेन योजयेत्.
तया तु विवदमानो ऽत्य्:अन्ताद्भूतमिति ब्रूयाद्.
इति परिचय-कारणानि((138)).
सेच्तिओन् (प्रकरण)44
कृत-परिचयां दर्शितेङिताकारां कन्याम् इवोपायतो ऽभियुञ्जीतेति. प्रायेण तत्र सूक्ष्मा अभियोगाः. कन्यानाम् अ:संप्रयुक्तत्वात्. इतरासु तान् एव स्फुटम् उपदध्यात्. संप्रयुक्तत्वात्.
संदर्शिताकारायां निर्भिन्न-सद्-भावायां समुपभोग-व्यतिकरे तदीयान्य् उपयुञ्जीत.
तत्र महार्ह-गन्धम् उत्तरीयं कुसुमं स्याद् अङ्गुलीयकं च. तद्-धस्ताद् गृहीत-ताम्बूलया गोष्ठी-गमनोद्यतस्य केश-हस्त-पुष्प-याचनम्.
तत्र महार्ह-गन्धं स्पृहणीयं स्व-नख-दशन-पद-चिह्नितं साकारं दद्यात्.
अधिकैर् अधिकैश् चाभियोगैः साध्वस-विच्छेदनम्.
क्रमेण च विविक्त-देशे गमनम् आलिङ्गनं चुम्बनं ताम्बूलस्य ग्राहणं दानान्ते द्रव्याणां परिवर्तनं गुह्य-देशाभिमर्शनं चेत्य् अभियोगाः.
यत्र चैकाभियुक्ता न तत्रापराम् अभियुञ्जीत.
तत्र या वृद्धानुभूत-विषया प्रियोपग्रहैश् च ताम् उपगृह्णीयात्.
श्लोकाव् अत्र भवतः
अन्यत्र दृष्ट-संचारस् तद्-भर्ता यत्र नायकः. न तत्र योषितं कां चित् सुप्रापाम् अपि लङ्घयेत्..
शङ्कितां रक्षितां भीतां स:श्वश्रूकां च योषितम्. न तर्कयेत मेधावी जानन् प्रत्ययम् आत्मनः((139))..
मूल पाठ: Kāmasūtra · Data entry Jean Fezas · GRETIL (Göttingen) · CC BY-NC-SA 4.0