भाषा

ENहिગુ
ग्रंथ पाठ

कामसूत्र · अध्याय 5.1

5.1.1

व्याख्यात-कारणाः पर-परिग्रहोपगमाः((130)).

5.1.2

तेषु साध्यत्वम् अन्:अत्ययं गम्यत्वम् आयतिं वृत्तिं चादित एव परीक्षेत.

5.1.3

यदा तु स्थानात् स्थानान्तरं कामं प्रतिपद्यमानं पश्येत् तदात्म-शरीरोपघात-त्राणार्थं पर-परिग्रहान् अभ्युपगच्छेत्.

5.1.4

दश तु कामस्य स्थानानि.

5.1.5

[1]चक्षुः-प्रीतिर् [2]मनः-सङ्गः [3]संकल्पोत्पत्तिर् [4]निद्राच्छेदस् [5]तनुता [6]विषयेभ्यो व्यावृत्तिर् [7]लज्जा-प्रनाश [8]उन्मादो [9]मूर्च्छा [10]मरणम् इति तेषां लिङ्गानि.

5.1.6

तत्राकृतितो लक्षणतश् च युवत्याः शीलं सत्यं शौचं साध्यतां चण्डवेगतां च लक्षयेद् इत्य् आचार्याः.

5.1.7

व्यभिचाराद् आकृति-लक्षण-योगानाम् इङ्गिताकाराभ्याम् एव प्रवृत्तिर् बोद्धव्या योषित इति वात्स्यायनः.

5.1.8

यं किं चिद् उज्ज्वलं पुरुषं दृष्त्वा स्त्री कामयते. तथा पुरुषो ऽपि योषिताम्. अपेक्षया तु न प्रवर्तते इति गोणिकापुत्रः.

5.1.9

तत्र स्त्रियं प्रति विशेषः.

5.1.10

न स्त्री धर्मम् अ:धर्मं चापेक्षते कामयत एव. कार्यापेक्षया तु नाभियुङ्क्ते.

5.1.11

स्वभावाच् च पुरुषेणाभियुज्यमाना चिकीर्षन्त्य् अपि व्यावर्तते.

5.1.12

पुनः पुनर् अभियुक्ता सिद्ध्यति.

5.1.13

पुरुषस् तु धर्म-स्थितिम् आर्य-समयं चापेक्ष्य कामयमानो ऽपि व्यावर्तते.

5.1.14

तथा-बुद्धिश् चाभियुज्यमानो ऽपि न सिद्ध्यति.

5.1.15

निष्:कारणम् अभियुङ्क्ते. अभियुज्यापि पुनर् नाभियुङ्क्ते. सिद्धायां च माध्यस्थ्यं गच्छति.

5.1.16

सु:लभाम् अवमन्यते. दुर्:लभाम् आकङ्क्षत इति प्रायोवादः((131)).
सेच्तिओन् (प्रकरण)40

5.1.17

तत्र व्यावर्तन-कारणानि((132)).

5.1.18

पत्याव् अनुरागः.

5.1.19

अपत्यापेक्षा.

5.1.20

अतिक्रान्तवयस्त्वम्.

5.1.21

दुःखाभिभवः.

5.1.22

विरहान्:उपलम्भः.

5.1.23

अवज्ञयोपमन्त्रयत इति क्रोधः.

5.1.24

अ:प्रतर्क्य इति संकल्प-वर्जनम्.

5.1.25

गमिष्यतीत्य् अन्:आयतिर् अन्यत्र प्रसक्त-मतिर् इति च.

5.1.26

असंवृताकार इत्य् उद्वेगः.

5.1.27

मित्रेषु निसृष्त-भाव इति तेष्व् अपेक्षा.

5.1.28

शुष्काभियोगीत्य् आशङ्का.

5.1.29

तेजस्वीति साध्वसम्.

5.1.30

चण्ड-वेगः समर्थो वेति भयं मृग्याः.

5.1.31

नागरकः कलासु विचक्षण इति व्रीडा.

5.1.32

सखित्वेनोपचरित इति च.

5.1.33

अ:देश-काल-ज्ञ इत्य् असूया.

5.1.34

परिभव-स्थानम् इत्य् अ:बहु-मानः.

5.1.35

आकारितो ऽपि नावबुध्यत इत्य् अवज्ञा.

5.1.36

शसो मन्द-वेग इति च हस्तिन्याः.

5.1.37

मत्तो ऽस्य मा भूद् अन्:इष्टम् इत्य् अनुकम्पा.

5.1.38

आत्मनि दोष-दर्शनान् निर्वेदः.

5.1.39

विदिता सती स्व-जन-बहिष्:कृता भविष्यामीति भयम्.

5.1.40

पलित इत्य् अन्:आदरः.

5.1.41

पत्या प्रयुक्तः परीक्षत इति विमर्शः.

5.1.42

धर्मापेक्षा चेति.

5.1.43

तेषु यदात्मनि लक्षयेत् तदादित एव परिच्छिन्द्यात्.

5.1.44

आर्यत्व-युक्तानि राग-वर्धनात्.

5.1.45

अ:शक्ति-जान्य् उपाय-प्रदर्शनात्.

5.1.46

बहु-मान-कृतान्य् अति:परिचयात्.

5.1.47

परिभव-कृतान्य् अति:शौण्डीर्याद्((133)) वैचक्षण्याच् च.

5.1.48

तत्-परिभव-जानि प्रणत्या..

5.1.49

भय-युक्तान्य् आश्वसनाद् इति((134)).
सेच्तिओन् (प्रकरण)41

5.1.50

पुरुषास् त्व् अमी प्रायेण सिद्धाः ण् कामसूत्र-ज्ञः कथाख्यान-कुशलो बाल्यात् प्रभृति संसृष्टः प्रवृद्ध-यौवनः क्रीडन-कर्मादिनागत-विश्वासः प्रेषणस्य कर्तोचित-संभाषणः प्रियस्य कर्तान्यस्य भूत-पूर्वो दूतो मर्म-ज्ञ उत्तमया प्रार्थितः सख्या प्रच्छन्नं संसृष्टः सुभगाभिख्यातः सह-संवृद्धः प्रातिवेश्यः काम-शीलस् तथा-भूतश् च परिचारको धात्रेयिका-परिग्रहो नव-वरकः प्रेक्षोद्यान-त्याग- शीलो वृष इति सिद्ध-प्रतापः साहसिकः शूरो विद्या-रूप-गुणोपभोगैः पत्युर् अतिशयिता महार्ह-वेषोपचारश् चेति((135)).
सेच्तिओन् (प्रकरण)42

5.1.51

यथात्मनः सिद्धतां पश्येद् एवं योषितो ऽपि.

5.1.52

अ:यत्न-साध्या योषितस् त्व् इमाः ण् अभियोग-मात्र-साध्याः. द्वार-देशावस्थायिनी. प्रासादाद् राज-मार्गावलोकिनी. तरुण-प्रातिवेश्य-गृहे गोष्ठी-योजिनी. सतत-प्रेक्षिणी. प्रेक्षिता पार्श्व-विलोकिनी. निष्:कारणं स:पत्न्याधिविन्ना. भर्तृ-द्वेषिणी विद्विष्टा च. परिहार-हीना. निर्:अपत्या.

5.1.53

ज्ञाति-कुल-नित्या. विपन्नापत्या. गोष्ठी-योजिनी. प्रीति-योजिनी. कुशीलव-भार्या. मृत-पतिका बाला. दरिद्रा बहूपभोगा. ज्येष्ठ-भार्या बहु-देवरका. बहु-मानिनी न्यून-भर्तृका. कौशलाभिमानिनी भर्तुर् मौर्ख्येणोद्विग्ना. अ:विशेषतया लोभेन.

5.1.54

कन्या-काले यत्नेन वारिता कथं चिद् अ:लब्धाभियुक्ता च सा तदानीम्. समान-बुद्धि-शील- मेधा-प्रतिपत्ति-सात्म्या. प्रकृत्या पक्षपातिनी. अन्:अपराधे विमानिता.तुल्य-रुपाभिश् चाधः कृता. प्रोषित-पतिकेति. ईर्ष्यालु-पूति-चोक्ष-क्लीब-दीर्घ-सूत्र-कापुरुष-कुब्ज-वामन- विरूप-मणिकार-ग्राम्य-दुर्:गन्धि-रोगि-वृद्ध-भार्याश् चेति.

5.1.55

श्लोकाव् अत्र भवतः.
इच्छा स्वभावतो जाता क्रियया परिबृंहिता. बुद्ध्या संशोधितोद्वेगा स्थिरा स्याद् अन्:अपायिनी..

5.1.56

सिद्धताम् आत्मनो ज्ञात्वा लिङ्गान्य् उन्नीय योषिताम्. व्यावृत्ति-कारणोच्छेदी नरो योषित्सु सिध्यति((136))..

मूल पाठ: Kāmasūtra · Data entry Jean Fezas · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc