भाषा

ENहिગુ
ग्रंथ पाठ

कामसूत्र · अध्याय 4.2

4.2.1

जाड्य-दौःशील्य-दौर्भाग्येभ्यः प्रजान्:उत्पत्तेर् आभीक्ष्ण्येन दारिकोत्पत्तेर् नायक-चापलाद् वा सपत्न्य्-अधिवेदनम्.

4.2.2

तद् आदित एव भक्ति-शील-वैदग्ध्य-ख्यापनेन परिजिहीर्षेत्. प्रजा:नुत्पत्तौ च स्वयम् एव सापत्नके चोदयेत्.

4.2.3

अधिविद्यमाना च यावच् छक्ति-योगाद् आत्मनो ऽधिकत्वेन स्थितिं कारयेत्.

4.2.4

आगतां चैनां भगिनीवद् ईक्षेत. नयक-विदितं च प्रादोषिकं विधिमतीव यत्नाद् अस्याः कारयेत्. सौभाग्यजं वैकृतम् उत्सेकं वास्या नाद्रियेत.

4.2.5

भर्तरि प्रमाद्यन्तीम् उपेक्षेत. यत्र मन्येतार्थम् इयं स्वयम् अपि प्रतिपत्स्यत इति तत्रैनाम् आदरत एवानुशिष्यात्.

4.2.6

नायक-संश्रवे च रहसि विशेषान् अधिकान् दर्शयेत्.

4.2.7

तद्-अपत्येस्व् अ:विशेषः. परिजन-वर्गे ऽधिकानुकम्पा. मित्र-वर्गे प्रीतिः. आत्म-ज्ञातिषु नात्य्:आदरः. तज्-ज्ञातिषु चाति:संभ्रमः.

4.2.8

बह्वीभिस् त्व् अधिविन्ना अ:व्यवहितया संसृज्येत.

4.2.9

यां तु नायको ऽधिकां चिकीर्षेत् तां भूत-पूर्व-सुभगया प्रोत्साह्य कलहयेत्.

4.2.10

ततश् चानुकम्पेत.

4.2.11

ताभिर् एकत्वेनाधिकां चिकिर्षीतां स्वयम् अ:विवदमाना दुर्:जनी:कुर्यात्.

4.2.12

नायकेन तु कलहिताम् एनां पक्षपातावलम्बनोपबृम्हिताम् आश्वासयेत्.

4.2.13

कलहं च वर्धयेत्.

4.2.14

मन्दं वा कलहम् उपलभ्य स्वयम् एव संधुक्षयेत्.

4.2.15

यदि नायको ऽस्याम् अद्यापि सानुनय इति मन्येत तदा स्वयमेव सन्धौ प्रयतेत.
इति ज्येष्ठा-वृत्तम्((121)).
सेच्तिओन् (प्रकरण)35

4.2.16

कनिष्ठा तु मातृवत् स:पत्नीं पश्येत्.

4.2.17

ज्ञाति-दायम् अपि तस्या अ:विदितं नोपयुञ्जीत.

4.2.18

आत्म-वृत्तान्तांस् तद्-अधिष्ठितान् कुर्यात्.

4.2.19

अनुज्ञाता पतिम् अधिशयीत.

4.2.20

न वा तस्या वचनम् अन्यस्याः कथयेत्.

4.2.21

तद्-अपत्यानि स्वेभ्यो ऽधिकानि पश्येत्..4.2.22 रहसि पतिम् अधिकम् उपचरेत्.

4.2.23

आत्मनश् च सपत्नी-विकार-जं दुःखं नाचक्षीत.

4.2.24

पत्युष् च स:विशेषकं गूढं मानं लिप्सेत्.

4.2.25

अनेन खलु पथ्य-दानेन जीवामीति ब्रूयात्.

4.2.26

तत् तु श्लाघया रागेण वा बाहिर् नाचक्षीत.

4.2.27

भिन्न-रहस्या हि भर्तुर् अवज्ञां लभते.

4.2.28

ज्येष्ठा-भयाच् च निगूढ-संमानार्थिनी स्याद् इति गोनर्दीयः.

4.2.29

दुर्:भागम् अन्:अपत्यां च ज्येष्ठाम् अनुकम्पेत नायकेन चानुकम्पयेत्.

4.2.30

प्रसह्य त्व् एनाम् एकचारिणी-वृत्तम् अनुतिष्ठेत्
इति कनिष्ठा-वृत्तम्((122)).
सेच्तिओन् (प्रकरण)36

4.2.31

विधवा त्व् इन्द्रिय-दौर्बल्याद् आतुरा भोगिनं गुण-संपन्नं च या पुनर् विन्देत् सा पुनर्भूः.

4.2.32

यतस् तु स्वेच्छया पुनर् अपि निष्क्रमणं निर्:गुणो ऽयम् इति तदान्यं काङ्क्षेद् इति बाभ्रवीयाः.

4.2.33

सौख्यार्थिनी सा किलान्यं पुनर् विन्देत.

4.2.34

गुणेषु सोपभोगेषु सुख-साकल्यं तस्मात् ततो विशेष इति गोनर्दीयः.

4.2.35

आत्मनश् चित्तानुकूल्याद् इति वात्स्यायनः.

4.2.36

सा बान्धवैर् नायकाद् आपानकोद्यान-श्रद्धा-दान-मित्र-पूजनादि व्यय-सहिष्णु कर्म लिप्सेत.

4.2.37

आत्मनः सारेण वालङ्कारं तदीयम् आत्मीयं वा बिभृयात्.

4.2.38

प्रीति-दायेष्व् अ:नियमः.

4.2.39

स्वेच्छया च गृहान् निर्गच्छती प्रीति-दायाद् अन्यन् नायक-दत्तं जीयेत. निष्कास्यमाना तु न किं चिद् दद्यात्.

4.2.40

सा प्रभविष्णुर् इव तस्य भवनम् आप्नुयात्.

4.2.41

कुलजासु तु प्रीत्या वर्तेत.

4.2.42

दाक्षिण्येन परिजने सर्वत्र स:परिहासा मित्रेषु प्रतिपत्तिः. कलासु कौशलम् अधिकस्य च ज्ञानम्.

4.2.43

कलह-स्थानेषु च नायकं स्वयम् उपलभेत.

4.2.44

रहसि च कलया चतुःषष्ट्यानुवर्तेत. स:पत्नीनां च स्वयम् उपकुर्यात्. तासाम् अपत्येष्व् आभारण-दानम्. तेषु स्वामिवद् उपचारः. मण्डनकानि वेषानादरेण कुर्वीत. परिजने मित्रवर्गे चाधिकं विश्राणनम्((123)). समाजापानकोद्यान-यात्रा-विहार-शीलता च.
इति पुनर्भूवृत्तम्((124)).
सेच्तिओन् (प्रकरण)37

4.2.45

दुर्भगा तु सापत्नक-पीडिता या तासाम् अधिकम् इव पत्याव् उपचरेत् ताम् आश्रयेत्. प्रकाश्यानि च कला-विज्ञानानि दर्शयेत्. दौर्भाग्याद् रहस्यानाम् अ:भावः.

4.2.46

नायकापत्यानां धात्रेयिकानि कुर्यात्.

4.2.47

तन्-मित्राणि चोपगृह्य तैर् भक्तिम् आत्मनः प्रकाशयेत्.

4.2.48

धर्म-कृत्येषु च पुरश्-चारिणी स्याद् व्रतोपवासयोश् च.

4.2.49

परिजने दाक्षिण्यम्. न चाधिकम् आत्मानं पश्येत्.

4.2.50

शयने तत्-सात्म्येनात्मनो ऽनुराग-प्रत्यानयनम्.

4.2.51

न चोपालभेत वामतां च न दर्शयेत्.

4.2.52

यया च कलहितः स्यात् कामं ताम् आवर्तयेत्.

4.2.53

यां च प्रच्छन्नां कामयेत् ताम् अनेन सह संगमयेद् गोपयेच् च.

4.2.54

यथा च पतिव्रतात्वम् अ:शाठ्यं नायको मन्येत तथा प्रतिविदध्यात्.
इति दुर्भगा-वृत्तम्((125)).
सेच्तिओन् (प्रकरण)38

4.2.55

अन्तः-पुराणां च वृत्तम् एतेष्व् एव प्रकरणेषु लक्षयेत्((126)).

4.2.56

माल्यानुलेपन-वासांशि चासां कञ्चुकीया महत्तरिका वा राज्ञो निवेदयेयुर् देवीभिः प्रहितम् इति.

4.2.57

तद् आदाय राजा निर्माल्यम् आसां प्रतिप्राभृतकं दद्यात्.

4.2.58

अलंकृतश् च स्व्:अलंकृतानि चापराह्ने सर्वाण्य् अन्तःपुराण्य् ऐकध्येन पश्येत्.

4.2.59

तासां यथा-कालं यथार्हं च स्थान-मानानुवृत्तिः स:परिहासाश् च कथाः कुर्यात्.

4.2.60

तद्-अन्:अन्तरं पुनर्भुवस् तथैव पश्येत्.

4.2.61

तत्पो वेश्या आभ्यन्तरिका नाटकीयाश् च.

4.2.62

तासां यथोक्त-कक्षाणि स्थानानि.

4.2.63

वासकपाल्यस् तु यस्या वासको यस्याश् चातीतो यस्याश् च ऋतुस् तत्-परिचारिकानुगता दिवा शय्योत्थितस्य राज्ञस् ताभ्यां प्रहितम् अङ्गुलीयकाङ्कम् अनुलेपनम् ऋतुं वासकं च निवेदयेयुः.

4.2.64

तत्र राजा यद् गृह्णीयात् तस्या वासकम् आज्ञापयेत्.

4.2.65

उत्सवेषु च सर्वासाम् अनुरूपेण पूजापानकं च. संगीत-दर्शनेषु च..4.2.66 अन्तः-पुर-चारिणीनां बहिर् अ:निष्क्रमो बाह्यानां चा:प्रवेशः. अन्यत्र विदित-शौचाभ्यः. अ:परिक्लिष्टश् च कर्मयोगः.

4.2.66

इत्य् आन्तःपुरिकम्((127)).
सेच्तिओन् (प्रकरण)39

4.2.67

भवन्ति चात्र श्लोकाः.
पुरुषस् तु बहून् दरान् समाहृत्य समो भवेत्. न चावज्नां चरेद् आसु व्यालिकान् न सहेत च..

4.2.68

एकस्यां या रति-क्रीडा वैकृतं वा शरीरजम्. विस्रम्भाद् वाप्य् उपालम्भस् तम् अन्यासु न कीर्तयेत्..

4.2.69

न दद्यात् प्रसरं स्त्रीणां स:पत्न्याः कारणे क्व चित्. तथोपालभमानां च दोषैस् ताम् एव योजयेत्..

4.2.70

अन्यां रहसि विस्रम्भैर् अन्यां प्रत्यक्ष-पूजनैः. बहु-मानैस् तथा चन्याम् इत्य् एवं रञ्जयेत् स्त्रियः..

4.2.71

उद्यान-गमनैर् भोगैर् दानैस् तज्-ज्ञाति-पूजनैः. रहस्यैः प्रीति-योगैश् चेत्य् एकैकाम् अनुरञ्जयेत्..

4.2.72

युवतिश् च जित-क्रोधा यथा-शास्त्र-प्रवर्तिनी. करोति वश्यं भर्तारं स:पत्नीश् चाधितिष्ठति((128))..

मूल पाठ: Kāmasūtra · Data entry Jean Fezas · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc