कामसूत्र · अध्याय 4.1
भार्यैकचरिणी गूढ-विश्रम्भा((107)) देववत् पतिम् आनुकुल्येन वर्तेत.
तन्-मतेन कुटुम्ब-चिन्ताम् आत्मनि संनिवेशयेत्.
वेश्म च शुचि सु:संमृष्ट-स्थानं विरचित-विविध-कुसुमं श्लक्ष्ण-भूमि-तलं हृद्य-दर्शनं((108)) त्रिषवणाचरित-बलि-कर्म पूजित-देवतायतनं कुर्यात्.
न ह्य् अतो ऽन्यद् गृहस्थानां चित्त-ग्राहकम् अस्तीति गोनर्दीयः.
गुरुषु भृत्य-वर्गेषु नायक-भगिनीषु((109)) तत्-पतिषु च यथार्हं प्रतिपत्तिः((110)).
परिपूतेषु च हरित-शाक-वप्रान् इक्षु-स्तम्बाञ् जीरक-सर्षपाजमोद-शतपुष्पा-तमाल-गुल्मांश् च कारयेत्((111)).
कुब्जकामलक-मल्लिका-जाती-कुरण्टक-नवमालिका-तगर-नन्द्यावर्तजपा-गुल्मान् अन्यांश् च बहु-पुष्पान् बाल-कोशीरक-पातालिकांश् च वृक्ष-वाटिकायां च स्थण्डिलाणि मनो-ज्ञानि कारयेत्((112)).
मध्ये कूपं वापीं दीर्घिकां वा खानयेत्.
भिक्षुकी-श्रमाणा-क्षपणा-कुलटा-कुहकेक्षणिका-मूल-कारिकाभिर् न संसृज्येत.
भोजने च रुचितम् इदम् अस्मै द्वेष्यम् इदं पथ्यम् इदम् अ:पथ्यम् इदम् इति च विन्द्यात्.
स्वरं बहिर् उपश्रुत्य भवनम् आगच्छतः किं कृत्यम् इति ब्रुवती सज्जा((113)) भवन-मध्ये तिष्ठेत्.
परिचारिकम् अपनुद्य स्वयं पादौ प्रक्षालयेत्.
नायकस्य च न विमुक्त-भूषणं विजने संदर्शने तिष्ठेत्.
अति:व्ययम् अ:सद्-व्ययं वा कुर्वाणं रहसि बोधयेत्.
आवाहे विवाहे यज्ञे गमनं सखीभिः सह गोष्ठीं देवताभिगमन्म् इत्य् अनुज्ञाता कुर्यात्.
सर्व-क्रीडासु च तद्-आनुलोम्येन प्रवृत्तिः.
पश्चात् संवेशनं पूर्वम् उत्थानम् अन्:अवबोधनं च सुप्तस्य.
महानसं च सु:गुप्तं स्याद् दर्शनीयं च.
नायकापचारेषु किं चित् कलुषिता नात्य्:अर्थं निर्वदेत्.
साधिक्षेप-वचनं त्व् एनं मित्र-जन-मध्य-स्थम् एकाकिनं वाप्य् उपालभेत. न च मूल-कारिका स्यात्.
न ह्य् अतो ऽन्यद् अ:प्रत्यय-कारणम् अस्तीति गोनर्दीयः.
दुर्:व्याहृतं दुर्:निरीक्षितम् अन्यतो मन्त्रणं द्वार-देशावस्थानं निरीक्षणं वा निष्कुटेषु((114)) मन्त्रणं विविक्तेषु चिरम् अवस्थानम् इति वर्जयेत्.
स्वेद-दन्त-पङ्क-दुर्:गन्धांश् च बुध्येतेति विराग-कारणम्.
बहु-भूषणं विविध-कुसुमानुलेपनं विविधाङ्ग-राग-समुज्ज्वलं वास इत्य् आभिगामिको वेषः.
प्रतनु-श्लक्ष्णाल्प-दुकूलता परिमितम् आभरणं सु:गन्धिता नात्य्:उल्वणम्((115)) अनुलेपनम्. तथा शुक्लान्य् अन्यानि पुष्पाणीति वैहारिको वेषः.
नायकस्य व्रतम् उपवासं च स्वयम् अपि करणेनानुवर्तेत. वारितायां च नाहम् अत्र निर्बन्धनीयेति तद्-वचसो निवर्तनम्.
मृद्-विदल-काष्ठ-चर्म-लोह-भाण्डानां च काले सम्:अर्घ-ग्रहणम्((116)).
तथा लवण-स्नेहयोश् च गन्ध-द्रव्य-कटुक-भाण्डौषधानां च दुर्:लभानां भवनेषु प्रच्छन्नं निधानम्.
मूलकालुक-पालङ्की-दमनकाम्रातकैर्वारुक-त्रपु-सवार्ताक-कूष्माण्डालाबु-सूरण-शुकनासा- स्वयम्गुप्ता-तिल-पर्णिकाग्निमन्थ-लशुन-पलाण्डु-प्रभृतीनां सर्वौषधीनां च बीज-ग्रहणं काले वापश् च.
स्वस्य च सारस्य परेभ्यो नाख्यानं भर्तृ-मन्त्रितस्य च.
समानाश् च स्त्रियः कौशलेनोज्ज्वलतया पाकेन मानेन तथोपचारैर् अतिशयीत.
सांवत्सरिकम् आयं संख्याय तद्-अनुरूपं व्ययं कुर्यात्.
भोजनावशिष्टाद् गो-रसाद् घृत-करणम् तथा तेल-गुडयोः. कर्पासस्य च सूत्र-कर्तनम् सूत्रस्य वानम्. शिक्य-रज्जु-पाश-वल्कल-संग्रहणम्. कुट्टन-कण्डनावेक्षणम्. आम-चामण्ड-तुषक-खकुट्य्-अङ्गाराणाम् उपयोजनम्. भृत्य-वेतन- भरण-ज्ञानम्. कृषि-पशु-पालन-चिन्ता-वाहन-विधान-योगाः. मेष-कुक्कुट-लावक- शुक-शारिका-परभृत-मयूर-वानर-मृगाणाम् अवेक्षणम्. दैवसिकाय-व्यय-पिण्डी- करणम् इति च विद्यात्.
तज्-जघन्यानां च जीर्ण-वाससां संचयस् तैर् विविध-रागैः शुद्धैर् वा कृत-कर्मणां परिचारकाणाम् अनुग्रहो मानार्थेषु च दानम् अन्यत्र वोपयोगः..4.1.35 सुरा-कुम्भीनाम् आसव-कुम्भीनां च स्थापनं तद्-उपयोगः क्रय-विक्रयाव् आय-व्यायावेक्षणम्.
नायक-मित्राणां च स्रग्-अनुलेपन-ताम्बूल-दानैः पूजनं न्यायतः.
श्वश्रू-स्वशुर-परिचर्या तत्-पारतन्त्र्यम् अन्:उत्तर-वादिता परिमिता:प्रचण्डालाप-करणम् अन्:उच्चैर् हासः तत्-प्रिया:प्रियेषु स्व-प्रिया:प्रियेष्व् इव वृत्तिः.
भोगेष्व् अन्:उत्सेकः.
परिजने दाक्षिण्यम्.
नायकस्या:निवेद्य न कस्मै चिद् दानम्.
स्व-कर्मसु भृत्य-जन-नियमनम् उत्सवेषु चास्य पूजनम्.
इत्य् एकचारिणी-वृत्तम्((117)).
सेच्तिओन् (प्रकरण)33 [प्रवास-चर्य्या-प्रकरणम्]
प्रवासे मङ्गल-मात्राभरणा देवतोपवास-परा वार्तायां स्थिता गृहान् अवेक्षेत.
शय्या च गुरु-जन-मूले. तद्-अभिमता कार्य-निष्पत्तिः. नायकाभिमतानां चार्थानाम् अर्जने प्रतिसंस्कारे च यत्नः.
नित्य-नैमित्तिकेषु कर्मसूचितो व्ययः. तद्-आरब्धानां च कर्मणां समापने मतिः.
ज्ञाति-कुलस्यान्:अभिगमनम् अन्यत्र व्यसनोत्सवाभ्याम्((118)). तत्रापि नायक-परिजनाधिष्ठिताया नातिकालम् अवस्थानम् अ:परिवर्तित-प्रवास-वेषता च.
गुरु-जनानुज्ञातानां करणम् उपवासानाम्. परिचारकैः शुचिभिर् आज्ञाधिष्ठितैर् अनुमतेन क्रय-विक्रय-कर्मणा सारस्यापूरणं तनू-करणं च शक्त्या व्ययानाम्.
आगते च प्रकृतिस्थाया एव प्रथमतो दर्शनं दैवत-पूजनम् उपहाराणां चाहरणम्.
इति प्रवास-चर्या((119)).
भवतश् चात्र श्लोकौ.
सद्-वृत्तम्((120)) अनुवर्तेत नायकस्य हितैषिणी. कुल-योषा पुनर्भूर् वा वेश्या वाप्य् एकचारिणी.. धर्मम् अर्थं तथा कामं लभन्ते स्थानम् एव च. निः:सपत्नं च भर्तारं नार्यः सद्-वृत्तम् आश्रिताः..
मूल पाठ: Kāmasūtra · Data entry Jean Fezas · GRETIL (Göttingen) · CC BY-NC-SA 4.0