भाषा

ENहिગુ
ग्रंथ पाठ

कामसूत्र · भाग 2140

3.5.16 तद्-बान्धवाश् च यथा कुलस्याघं परिहरन्तो दण्ड-भयाच्((98)) च तस्मा एवैनां दद्युस् तथा योजयेत्.
3.5.17 अन्:अन्तरं च प्रीत्य्-उपग्रहेण रागेण तद्-बान्धवान् प्रीणयेद्((99)) इति.
3.5.18 गान्धर्वेण विवाहेन वा चेष्टेत.
3.5.19 अ:प्रतिपद्यमानायाम् अन्तश्-चारिणीम् अन्यां कुल-प्रमदां पूर्व संसृष्टां प्रीयमाणां चोपगृह्य तया सह विषह्यम् अवकाशम् एनाम् अन्य-कार्यापदेशेनानाययेत्.
3.5.20 ततः श्रोत्रियागाराद् अग्निम् इति समानं पूर्वेण((100)).
3.5.21 आसन्ने च विवाहे मातरम् अस्यास् तद्-अभिमत-दोषैर् अनुशयं((101)) ग्राहयेत्.
3.5.22 ततस् तद्-अनुमतेन प्रातिवेश्या-भावने((102)) निशि नायकम् आनाय्य श्रोत्रियागाराद् अग्निम् इति सम्~आनं पूर्वेण.
3.5.23 भ्रातरम् अस्या वा समान-वयसं वेश्यासु पर-स्त्रीषु वा प्रसक्तम् अ:सुकरेण साहाय्य-दानेन प्रियोपग्रहश् च सु:दीर्घ-कालम् अनुरञ्जयेत्. अन्ते च स्वाभिप्रायं ग्राहयेत्.
3.5.24 प्रायेण हि युवानः समान-शील-व्यसन-वयसां वयस्यानाम् अर्थे जीवितम् अपि त्यजन्ति. ततस् तेनैवान्य-कार्यात् ताम् आनाययेत्. विषह्यं सावकाशम्((103)) इति समानं पूर्वेण.
3.5.25 अष्टमी-चन्द्रिकादिषु च धात्रेयिका मदनीयम् एनां पाययित्वा किं चिद् आत्मनः कार्यम् उद्दिश्य नायकस्य विषह्यं देशम् आनयेत्. तत्रैनां मदात् संज्ञाम् अ:प्रतिपद्यमानां दूषयित्वेति समानं पूर्वेण.
3.5.26 सुप्तां चैकचारिणीं धात्रेयिकां वारयित्वा संज्ञाम् अ:प्रतिपद्यमानां दूषयित्वेति समानं पूर्वेण((104)).
3.5.27 ग्रामान्तरम् उद्यानं वा गच्छन्तीं विदित्वा सु:संभृत-सहायो नायकस् तदा रक्षिणो वित्रास्य हत्वा वा कन्याम् अपहरेत्((105)).
3.5.27च् इति विवाह-योगाः.
3.5.28व् पूर्वः पूर्वः प्रधानं स्याद् विवाहो धर्मतः स्थितेः. पूर्वाभावे ततः कार्यो यो य उत्तर उत्तरः..
3.5.29व् व्यूढानां हि विवाहानाम् अनुरागः फलं यतः. मध्यमो ऽपि हि सद्-योगो गान्धर्वस् तेन पूजितः..
3.5.30व् सुखत्वाद् अ:बहु-क्लेशाद् अपि चावरणाद् इह. अनुरागात्मकत्वाच् च गान्धर्वः प्रवरो मतः((106))..
3.5च् इति श्रीवात्स्यायनीये काम-सूत्रे कन्या-संप्रयुक्तके तृतीये ऽधिकरणे विवाह-योगाः पञ्चमो ऽध्यायः..लिव्रे 4 भार्याधिकारिकं चतुर्थम् अधिकरणम्.
लेçओन् 1 प्रथमो ऽध्यायः
सेच्तिओन् (प्रकरण)32 [एक-चारिणी-वृत्त-प्रकरणम्]
4.1.1 भार्यैकचरिणी गूढ-विश्रम्भा((107)) देववत् पतिम् आनुकुल्येन वर्तेत.
4.1.2 तन्-मतेन कुटुम्ब-चिन्ताम् आत्मनि संनिवेशयेत्.
4.1.3 वेश्म च शुचि सु:संमृष्ट-स्थानं विरचित-विविध-कुसुमं श्लक्ष्ण-भूमि-तलं हृद्य-दर्शनं((108)) त्रिषवणाचरित-बलि-कर्म पूजित-देवतायतनं कुर्यात्.
4.1.4 न ह्य् अतो ऽन्यद् गृहस्थानां चित्त-ग्राहकम् अस्तीति गोनर्दीयः.
4.1.5 गुरुषु भृत्य-वर्गेषु नायक-भगिनीषु((109)) तत्-पतिषु च यथार्हं प्रतिपत्तिः((110)).
4.1.6 परिपूतेषु च हरित-शाक-वप्रान् इक्षु-स्तम्बाञ् जीरक-सर्षपाजमोद-शतपुष्पा-तमाल-गुल्मांश् च कारयेत्((111)).
4.1.7 कुब्जकामलक-मल्लिका-जाती-कुरण्टक-नवमालिका-तगर-नन्द्यावर्तजपा-गुल्मान् अन्यांश् च बहु-पुष्पान् बाल-कोशीरक-पातालिकांश् च वृक्ष-वाटिकायां च स्थण्डिलाणि मनो-ज्ञानि कारयेत्((112)).
4.1.8 मध्ये कूपं वापीं दीर्घिकां वा खानयेत्.
4.1.9 भिक्षुकी-श्रमाणा-क्षपणा-कुलटा-कुहकेक्षणिका-मूल-कारिकाभिर् न संसृज्येत.
4.1.10 भोजने च रुचितम् इदम् अस्मै द्वेष्यम् इदं पथ्यम् इदम् अ:पथ्यम् इदम् इति च विन्द्यात्.
4.1.11 स्वरं बहिर् उपश्रुत्य भवनम् आगच्छतः किं कृत्यम् इति ब्रुवती सज्जा((113)) भवन-मध्ये तिष्ठेत्.
4.1.12 परिचारिकम् अपनुद्य स्वयं पादौ प्रक्षालयेत्.
4.1.13 नायकस्य च न विमुक्त-भूषणं विजने संदर्शने तिष्ठेत्.
4.1.14 अति:व्ययम् अ:सद्-व्ययं वा कुर्वाणं रहसि बोधयेत्.
4.1.15 आवाहे विवाहे यज्ञे गमनं सखीभिः सह गोष्ठीं देवताभिगमन्म् इत्य् अनुज्ञाता कुर्यात्.
4.1.16 सर्व-क्रीडासु च तद्-आनुलोम्येन प्रवृत्तिः.
4.1.17 पश्चात् संवेशनं पूर्वम् उत्थानम् अन्:अवबोधनं च सुप्तस्य.
4.1.18 महानसं च सु:गुप्तं स्याद् दर्शनीयं च.
4.1.19 नायकापचारेषु किं चित् कलुषिता नात्य्:अर्थं निर्वदेत्.
4.1.20 साधिक्षेप-वचनं त्व् एनं मित्र-जन-मध्य-स्थम् एकाकिनं वाप्य् उपालभेत. न च मूल-कारिका स्यात्.
4.1.21 न ह्य् अतो ऽन्यद् अ:प्रत्यय-कारणम् अस्तीति गोनर्दीयः.

4.1.22 दुर्:व्याहृतं दुर्:निरीक्षितम् अन्यतो मन्त्रणं द्वार-देशावस्थानं निरीक्षणं वा निष्कुटेषु((114)) मन्त्रणं विविक्तेषु चिरम् अवस्थानम् इति वर्जयेत्.
4.1.23 स्वेद-दन्त-पङ्क-दुर्:गन्धांश् च बुध्येतेति विराग-कारणम्.
4.1.24 बहु-भूषणं विविध-कुसुमानुलेपनं विविधाङ्ग-राग-समुज्ज्वलं वास इत्य् आभिगामिको वेषः.
4.1.25 प्रतनु-श्लक्ष्णाल्प-दुकूलता परिमितम् आभरणं सु:गन्धिता नात्य्:उल्वणम्((115)) अनुलेपनम्. तथा शुक्लान्य् अन्यानि पुष्पाणीति वैहारिको वेषः.
4.1.26 नायकस्य व्रतम् उपवासं च स्वयम् अपि करणेनानुवर्तेत. वारितायां च नाहम् अत्र निर्बन्धनीयेति तद्-वचसो निवर्तनम्.
4.1.27 मृद्-विदल-काष्ठ-चर्म-लोह-भाण्डानां च काले सम्:अर्घ-ग्रहणम्((116)).
4.1.28 तथा लवण-स्नेहयोश् च गन्ध-द्रव्य-कटुक-भाण्डौषधानां च दुर्:लभानां भवनेषु प्रच्छन्नं निधानम्.
4.1.29 मूलकालुक-पालङ्की-दमनकाम्रातकैर्वारुक-त्रपु-सवार्ताक-कूष्माण्डालाबु-सूरण-शुकनासा- स्वयम्गुप्ता-तिल-पर्णिकाग्निमन्थ-लशुन-पलाण्डु-प्रभृतीनां सर्वौषधीनां च बीज-ग्रहणं काले वापश् च.
4.1.30 स्वस्य च सारस्य परेभ्यो नाख्यानं भर्तृ-मन्त्रितस्य च.
4.1.31 समानाश् च स्त्रियः कौशलेनोज्ज्वलतया पाकेन मानेन तथोपचारैर् अतिशयीत.
4.1.32 सांवत्सरिकम् आयं संख्याय तद्-अनुरूपं व्ययं कुर्यात्.
4.1.33 भोजनावशिष्टाद् गो-रसाद् घृत-करणम् तथा तेल-गुडयोः. कर्पासस्य च सूत्र-कर्तनम् सूत्रस्य वानम्. शिक्य-रज्जु-पाश-वल्कल-संग्रहणम्. कुट्टन-कण्डनावेक्षणम्. आम-चामण्ड-तुषक-खकुट्य्-अङ्गाराणाम् उपयोजनम्. भृत्य-वेतन- भरण-ज्ञानम्. कृषि-पशु-पालन-चिन्ता-वाहन-विधान-योगाः. मेष-कुक्कुट-लावक- शुक-शारिका-परभृत-मयूर-वानर-मृगाणाम् अवेक्षणम्. दैवसिकाय-व्यय-पिण्डी- करणम् इति च विद्यात्.
4.1.34 तज्-जघन्यानां च जीर्ण-वाससां संचयस् तैर् विविध-रागैः शुद्धैर् वा कृत-कर्मणां परिचारकाणाम् अनुग्रहो मानार्थेषु च दानम् अन्यत्र वोपयोगः..4.1.35 सुरा-कुम्भीनाम् आसव-कुम्भीनां च स्थापनं तद्-उपयोगः क्रय-विक्रयाव् आय-व्यायावेक्षणम्.
4.1.36 नायक-मित्राणां च स्रग्-अनुलेपन-ताम्बूल-दानैः पूजनं न्यायतः.
4.1.37 श्वश्रू-स्वशुर-परिचर्या तत्-पारतन्त्र्यम् अन्:उत्तर-वादिता परिमिता:प्रचण्डालाप-करणम् अन्:उच्चैर् हासः तत्-प्रिया:प्रियेषु स्व-प्रिया:प्रियेष्व् इव वृत्तिः.
4.1.38 भोगेष्व् अन्:उत्सेकः.
4.1.39 परिजने दाक्षिण्यम्.
4.1.40 नायकस्या:निवेद्य न कस्मै चिद् दानम्.
4.1.41 स्व-कर्मसु भृत्य-जन-नियमनम् उत्सवेषु चास्य पूजनम्.
4.1.41च् इत्य् एकचारिणी-वृत्तम्((117)).
सेच्तिओन् (प्रकरण)33 [प्रवास-चर्य्या-प्रकरणम्]
4.1.42 प्रवासे मङ्गल-मात्राभरणा देवतोपवास-परा वार्तायां स्थिता गृहान् अवेक्षेत.
4.1.43 शय्या च गुरु-जन-मूले. तद्-अभिमता कार्य-निष्पत्तिः. नायकाभिमतानां चार्थानाम् अर्जने प्रतिसंस्कारे च यत्नः.
4.1.44 नित्य-नैमित्तिकेषु कर्मसूचितो व्ययः. तद्-आरब्धानां च कर्मणां समापने मतिः.
4.1.45 ज्ञाति-कुलस्यान्:अभिगमनम् अन्यत्र व्यसनोत्सवाभ्याम्((118)). तत्रापि नायक-परिजनाधिष्ठिताया नातिकालम् अवस्थानम् अ:परिवर्तित-प्रवास-वेषता च.
4.1.46 गुरु-जनानुज्ञातानां करणम् उपवासानाम्. परिचारकैः शुचिभिर् आज्ञाधिष्ठितैर् अनुमतेन क्रय-विक्रय-कर्मणा सारस्यापूरणं तनू-करणं च शक्त्या व्ययानाम्.
4.1.47 आगते च प्रकृतिस्थाया एव प्रथमतो दर्शनं दैवत-पूजनम् उपहाराणां चाहरणम्.
4.1.47च् इति प्रवास-चर्या((119)).
4.1.48 भवतश् चात्र श्लोकौ.
4.1.48व् सद्-वृत्तम्((120)) अनुवर्तेत नायकस्य हितैषिणी. कुल-योषा पुनर्भूर् वा वेश्या वाप्य् एकचारिणी.. धर्मम् अर्थं तथा कामं लभन्ते स्थानम् एव च. निः:सपत्नं च भर्तारं नार्यः सद्-वृत्तम् आश्रिताः..
4.1च् इति श्रीवात्स्यायनीये कामसूत्रे भार्याधिकारिके चतुर्थे ऽधिकरणे एकचारिणी-वृत्तं प्रवास-चार्या च प्रथमो ऽध्यायः.
लेçओन् 2 द्वितीयो ऽध्यायः.
सेच्तिओन् (प्रकरण)34 [ज्येष्ठादि-वृत्त-प्रकरणम्]
4.2.1 जाड्य-दौःशील्य-दौर्भाग्येभ्यः प्रजान्:उत्पत्तेर् आभीक्ष्ण्येन दारिकोत्पत्तेर् नायक-चापलाद् वा सपत्न्य्-अधिवेदनम्.
4.2.2 तद् आदित एव भक्ति-शील-वैदग्ध्य-ख्यापनेन परिजिहीर्षेत्. प्रजा:नुत्पत्तौ च स्वयम् एव सापत्नके चोदयेत्.
4.2.3 अधिविद्यमाना च यावच् छक्ति-योगाद् आत्मनो ऽधिकत्वेन स्थितिं कारयेत्.
4.2.4 आगतां चैनां भगिनीवद् ईक्षेत. नयक-विदितं च प्रादोषिकं विधिमतीव यत्नाद् अस्याः कारयेत्. सौभाग्यजं वैकृतम् उत्सेकं वास्या नाद्रियेत.
4.2.5 भर्तरि प्रमाद्यन्तीम् उपेक्षेत. यत्र मन्येतार्थम् इयं स्वयम् अपि प्रतिपत्स्यत इति तत्रैनाम् आदरत एवानुशिष्यात्.
4.2.6 नायक-संश्रवे च रहसि विशेषान् अधिकान् दर्शयेत्.
4.2.7 तद्-अपत्येस्व् अ:विशेषः. परिजन-वर्गे ऽधिकानुकम्पा. मित्र-वर्गे प्रीतिः. आत्म-ज्ञातिषु नात्य्:आदरः. तज्-ज्ञातिषु चाति:संभ्रमः.

4.2.8 बह्वीभिस् त्व् अधिविन्ना अ:व्यवहितया संसृज्येत.
4.2.9 यां तु नायको ऽधिकां चिकीर्षेत् तां भूत-पूर्व-सुभगया प्रोत्साह्य कलहयेत्.
4.2.10 ततश् चानुकम्पेत.
4.2.11 ताभिर् एकत्वेनाधिकां चिकिर्षीतां स्वयम् अ:विवदमाना दुर्:जनी:कुर्यात्.
4.2.12 नायकेन तु कलहिताम् एनां पक्षपातावलम्बनोपबृम्हिताम् आश्वासयेत्.
4.2.13 कलहं च वर्धयेत्.
4.2.14 मन्दं वा कलहम् उपलभ्य स्वयम् एव संधुक्षयेत्.
4.2.15 यदि नायको ऽस्याम् अद्यापि सानुनय इति मन्येत तदा स्वयमेव सन्धौ प्रयतेत.
4.2.15च् इति ज्येष्ठा-वृत्तम्((121)).
सेच्तिओन् (प्रकरण)35
4.2.16 कनिष्ठा तु मातृवत् स:पत्नीं पश्येत्.
4.2.17 ज्ञाति-दायम् अपि तस्या अ:विदितं नोपयुञ्जीत.
4.2.18 आत्म-वृत्तान्तांस् तद्-अधिष्ठितान् कुर्यात्.
4.2.19 अनुज्ञाता पतिम् अधिशयीत.
4.2.20 न वा तस्या वचनम् अन्यस्याः कथयेत्.
4.2.21 तद्-अपत्यानि स्वेभ्यो ऽधिकानि पश्येत्..4.2.22 रहसि पतिम् अधिकम् उपचरेत्.
4.2.23 आत्मनश् च सपत्नी-विकार-जं दुःखं नाचक्षीत.
4.2.24 पत्युष् च स:विशेषकं गूढं मानं लिप्सेत्.
4.2.25 अनेन खलु पथ्य-दानेन जीवामीति ब्रूयात्.
4.2.26 तत् तु श्लाघया रागेण वा बाहिर् नाचक्षीत.
4.2.27 भिन्न-रहस्या हि भर्तुर् अवज्ञां लभते.
4.2.28 ज्येष्ठा-भयाच् च निगूढ-संमानार्थिनी स्याद् इति गोनर्दीयः.
4.2.29 दुर्:भागम् अन्:अपत्यां च ज्येष्ठाम् अनुकम्पेत नायकेन चानुकम्पयेत्.
4.2.30 प्रसह्य त्व् एनाम् एकचारिणी-वृत्तम् अनुतिष्ठेत्
4.2.30च् इति कनिष्ठा-वृत्तम्((122)).
सेच्तिओन् (प्रकरण)36
4.2.31 विधवा त्व् इन्द्रिय-दौर्बल्याद् आतुरा भोगिनं गुण-संपन्नं च या पुनर् विन्देत् सा पुनर्भूः.
4.2.32 यतस् तु स्वेच्छया पुनर् अपि निष्क्रमणं निर्:गुणो ऽयम् इति तदान्यं काङ्क्षेद् इति बाभ्रवीयाः.
4.2.33 सौख्यार्थिनी सा किलान्यं पुनर् विन्देत.
4.2.34 गुणेषु सोपभोगेषु सुख-साकल्यं तस्मात् ततो विशेष इति गोनर्दीयः.
4.2.35 आत्मनश् चित्तानुकूल्याद् इति वात्स्यायनः.
4.2.36 सा बान्धवैर् नायकाद् आपानकोद्यान-श्रद्धा-दान-मित्र-पूजनादि व्यय-सहिष्णु कर्म लिप्सेत.
4.2.37 आत्मनः सारेण वालङ्कारं तदीयम् आत्मीयं वा बिभृयात्.
4.2.38 प्रीति-दायेष्व् अ:नियमः.
4.2.39 स्वेच्छया च गृहान् निर्गच्छती प्रीति-दायाद् अन्यन् नायक-दत्तं जीयेत. निष्कास्यमाना तु न किं चिद् दद्यात्.
4.2.40 सा प्रभविष्णुर् इव तस्य भवनम् आप्नुयात्.
4.2.41 कुलजासु तु प्रीत्या वर्तेत.
4.2.42 दाक्षिण्येन परिजने सर्वत्र स:परिहासा मित्रेषु प्रतिपत्तिः. कलासु कौशलम् अधिकस्य च ज्ञानम्.
4.2.43 कलह-स्थानेषु च नायकं स्वयम् उपलभेत.
4.2.44 रहसि च कलया चतुःषष्ट्यानुवर्तेत. स:पत्नीनां च स्वयम् उपकुर्यात्. तासाम् अपत्येष्व् आभारण-दानम्. तेषु स्वामिवद् उपचारः. मण्डनकानि वेषानादरेण कुर्वीत. परिजने मित्रवर्गे चाधिकं विश्राणनम्((123)). समाजापानकोद्यान-यात्रा-विहार-शीलता च.

4.2.44च् इति पुनर्भूवृत्तम्((124)).
सेच्तिओन् (प्रकरण)37
4.2.45 दुर्भगा तु सापत्नक-पीडिता या तासाम् अधिकम् इव पत्याव् उपचरेत् ताम् आश्रयेत्. प्रकाश्यानि च कला-विज्ञानानि दर्शयेत्. दौर्भाग्याद् रहस्यानाम् अ:भावः.
4.2.46 नायकापत्यानां धात्रेयिकानि कुर्यात्.
4.2.47 तन्-मित्राणि चोपगृह्य तैर् भक्तिम् आत्मनः प्रकाशयेत्.
4.2.48 धर्म-कृत्येषु च पुरश्-चारिणी स्याद् व्रतोपवासयोश् च.
4.2.49 परिजने दाक्षिण्यम्. न चाधिकम् आत्मानं पश्येत्.
4.2.50 शयने तत्-सात्म्येनात्मनो ऽनुराग-प्रत्यानयनम्.
4.2.51 न चोपालभेत वामतां च न दर्शयेत्.
4.2.52 यया च कलहितः स्यात् कामं ताम् आवर्तयेत्.
4.2.53 यां च प्रच्छन्नां कामयेत् ताम् अनेन सह संगमयेद् गोपयेच् च.
4.2.54 यथा च पतिव्रतात्वम् अ:शाठ्यं नायको मन्येत तथा प्रतिविदध्यात्.
4.2.54च् इति दुर्भगा-वृत्तम्((125)).
सेच्तिओन् (प्रकरण)38
4.2.55 अन्तः-पुराणां च वृत्तम् एतेष्व् एव प्रकरणेषु लक्षयेत्((126)).
4.2.56 माल्यानुलेपन-वासांशि चासां कञ्चुकीया महत्तरिका वा राज्ञो निवेदयेयुर् देवीभिः प्रहितम् इति.
4.2.57 तद् आदाय राजा निर्माल्यम् आसां प्रतिप्राभृतकं दद्यात्.
4.2.58 अलंकृतश् च स्व्:अलंकृतानि चापराह्ने सर्वाण्य् अन्तःपुराण्य् ऐकध्येन पश्येत्.
4.2.59 तासां यथा-कालं यथार्हं च स्थान-मानानुवृत्तिः स:परिहासाश् च कथाः कुर्यात्.
4.2.60 तद्-अन्:अन्तरं पुनर्भुवस् तथैव पश्येत्.
4.2.61 तत्पो वेश्या आभ्यन्तरिका नाटकीयाश् च.
4.2.62 तासां यथोक्त-कक्षाणि स्थानानि.
4.2.63 वासकपाल्यस् तु यस्या वासको यस्याश् चातीतो यस्याश् च ऋतुस् तत्-परिचारिकानुगता दिवा शय्योत्थितस्य राज्ञस् ताभ्यां प्रहितम् अङ्गुलीयकाङ्कम् अनुलेपनम् ऋतुं वासकं च निवेदयेयुः.
4.2.64 तत्र राजा यद् गृह्णीयात् तस्या वासकम् आज्ञापयेत्.
4.2.65 उत्सवेषु च सर्वासाम् अनुरूपेण पूजापानकं च. संगीत-दर्शनेषु च..4.2.66 अन्तः-पुर-चारिणीनां बहिर् अ:निष्क्रमो बाह्यानां चा:प्रवेशः. अन्यत्र विदित-शौचाभ्यः. अ:परिक्लिष्टश् च कर्मयोगः.
4.2.66च् इत्य् आन्तःपुरिकम्((127)).
सेच्तिओन् (प्रकरण)39
4.2.67 भवन्ति चात्र श्लोकाः.
4.2.67व् पुरुषस् तु बहून् दरान् समाहृत्य समो भवेत्. न चावज्नां चरेद् आसु व्यालिकान् न सहेत च..
4.2.68व् एकस्यां या रति-क्रीडा वैकृतं वा शरीरजम्. विस्रम्भाद् वाप्य् उपालम्भस् तम् अन्यासु न कीर्तयेत्..
4.2.69व् न दद्यात् प्रसरं स्त्रीणां स:पत्न्याः कारणे क्व चित्. तथोपालभमानां च दोषैस् ताम् एव योजयेत्..
4.2.70व् अन्यां रहसि विस्रम्भैर् अन्यां प्रत्यक्ष-पूजनैः. बहु-मानैस् तथा चन्याम् इत्य् एवं रञ्जयेत् स्त्रियः..
4.2.71व् उद्यान-गमनैर् भोगैर् दानैस् तज्-ज्ञाति-पूजनैः. रहस्यैः प्रीति-योगैश् चेत्य् एकैकाम् अनुरञ्जयेत्..
4.2.72व् युवतिश् च जित-क्रोधा यथा-शास्त्र-प्रवर्तिनी. करोति वश्यं भर्तारं स:पत्नीश् चाधितिष्ठति((128))..
4.2च् इति श्रीवात्यायनीये कामसूत्रे भार्याधिकारिके चतुर्थे ऽधिकरणे सपत्नीषु ज्येष्ठा-वृत्तं कनिष्ठा-वृत्तं पुनर्भू-वृत्तं दुर् :भागा-वृत्तम् आन्तःपुरिकं पुरुषस्य भ्वीषु प्रतिपत्तिर् द्वितीयो ऽध्यायः..लिव्रे 5 पारदारिकं पञ्चमम् अधिकरणम्.
लेçओन् 1 प्रथमो ऽध्यायः.
सेच्तिओन् (प्रकरण)39((129)) [स्त्री-पुरुष-शीलावस्थापन-प्रकरणम्]
5.1.1 व्याख्यात-कारणाः पर-परिग्रहोपगमाः((130)).
5.1.2 तेषु साध्यत्वम् अन्:अत्ययं गम्यत्वम् आयतिं वृत्तिं चादित एव परीक्षेत.
5.1.3 यदा तु स्थानात् स्थानान्तरं कामं प्रतिपद्यमानं पश्येत् तदात्म-शरीरोपघात-त्राणार्थं पर-परिग्रहान् अभ्युपगच्छेत्.

5.1.4 दश तु कामस्य स्थानानि.
5.1.5 [1]चक्षुः-प्रीतिर् [2]मनः-सङ्गः [3]संकल्पोत्पत्तिर् [4]निद्राच्छेदस् [5]तनुता [6]विषयेभ्यो व्यावृत्तिर् [7]लज्जा-प्रनाश [8]उन्मादो [9]मूर्च्छा [10]मरणम् इति तेषां लिङ्गानि.
5.1.6 तत्राकृतितो लक्षणतश् च युवत्याः शीलं सत्यं शौचं साध्यतां चण्डवेगतां च लक्षयेद् इत्य् आचार्याः.
5.1.7 व्यभिचाराद् आकृति-लक्षण-योगानाम् इङ्गिताकाराभ्याम् एव प्रवृत्तिर् बोद्धव्या योषित इति वात्स्यायनः.
5.1.8 यं किं चिद् उज्ज्वलं पुरुषं दृष्त्वा स्त्री कामयते. तथा पुरुषो ऽपि योषिताम्. अपेक्षया तु न प्रवर्तते इति गोणिकापुत्रः.
5.1.9 तत्र स्त्रियं प्रति विशेषः.
5.1.10 न स्त्री धर्मम् अ:धर्मं चापेक्षते कामयत एव. कार्यापेक्षया तु नाभियुङ्क्ते.
5.1.11 स्वभावाच् च पुरुषेणाभियुज्यमाना चिकीर्षन्त्य् अपि व्यावर्तते.
5.1.12 पुनः पुनर् अभियुक्ता सिद्ध्यति.
5.1.13 पुरुषस् तु धर्म-स्थितिम् आर्य-समयं चापेक्ष्य कामयमानो ऽपि व्यावर्तते.
5.1.14 तथा-बुद्धिश् चाभियुज्यमानो ऽपि न सिद्ध्यति.
5.1.15 निष्:कारणम् अभियुङ्क्ते. अभियुज्यापि पुनर् नाभियुङ्क्ते. सिद्धायां च माध्यस्थ्यं गच्छति.
5.1.16 सु:लभाम् अवमन्यते. दुर्:लभाम् आकङ्क्षत इति प्रायोवादः((131)).
सेच्तिओन् (प्रकरण)40
5.1.17 तत्र व्यावर्तन-कारणानि((132)).
5.1.18 पत्याव् अनुरागः.
5.1.19 अपत्यापेक्षा.
5.1.20 अतिक्रान्तवयस्त्वम्.
5.1.21 दुःखाभिभवः.
5.1.22 विरहान्:उपलम्भः.
5.1.23 अवज्ञयोपमन्त्रयत इति क्रोधः.
5.1.24 अ:प्रतर्क्य इति संकल्प-वर्जनम्.
5.1.25 गमिष्यतीत्य् अन्:आयतिर् अन्यत्र प्रसक्त-मतिर् इति च.
5.1.26 असंवृताकार इत्य् उद्वेगः.
5.1.27 मित्रेषु निसृष्त-भाव इति तेष्व् अपेक्षा.
5.1.28 शुष्काभियोगीत्य् आशङ्का.
5.1.29 तेजस्वीति साध्वसम्.
5.1.30 चण्ड-वेगः समर्थो वेति भयं मृग्याः.
5.1.31 नागरकः कलासु विचक्षण इति व्रीडा.
5.1.32 सखित्वेनोपचरित इति च.
5.1.33 अ:देश-काल-ज्ञ इत्य् असूया.
5.1.34 परिभव-स्थानम् इत्य् अ:बहु-मानः.
5.1.35 आकारितो ऽपि नावबुध्यत इत्य् अवज्ञा.
5.1.36 शसो मन्द-वेग इति च हस्तिन्याः.
5.1.37 मत्तो ऽस्य मा भूद् अन्:इष्टम् इत्य् अनुकम्पा.
5.1.38 आत्मनि दोष-दर्शनान् निर्वेदः.
5.1.39 विदिता सती स्व-जन-बहिष्:कृता भविष्यामीति भयम्.
5.1.40 पलित इत्य् अन्:आदरः.
5.1.41 पत्या प्रयुक्तः परीक्षत इति विमर्शः.
5.1.42 धर्मापेक्षा चेति.

5.1.43 तेषु यदात्मनि लक्षयेत् तदादित एव परिच्छिन्द्यात्.
5.1.44 आर्यत्व-युक्तानि राग-वर्धनात्.
5.1.45 अ:शक्ति-जान्य् उपाय-प्रदर्शनात्.
5.1.46 बहु-मान-कृतान्य् अति:परिचयात्.
5.1.47 परिभव-कृतान्य् अति:शौण्डीर्याद्((133)) वैचक्षण्याच् च.
5.1.48 तत्-परिभव-जानि प्रणत्या..
5.1.49 भय-युक्तान्य् आश्वसनाद् इति((134)).
सेच्तिओन् (प्रकरण)41
5.1.50 पुरुषास् त्व् अमी प्रायेण सिद्धाः ण् कामसूत्र-ज्ञः कथाख्यान-कुशलो बाल्यात् प्रभृति संसृष्टः प्रवृद्ध-यौवनः क्रीडन-कर्मादिनागत-विश्वासः प्रेषणस्य कर्तोचित-संभाषणः प्रियस्य कर्तान्यस्य भूत-पूर्वो दूतो मर्म-ज्ञ उत्तमया प्रार्थितः सख्या प्रच्छन्नं संसृष्टः सुभगाभिख्यातः सह-संवृद्धः प्रातिवेश्यः काम-शीलस् तथा-भूतश् च परिचारको धात्रेयिका-परिग्रहो नव-वरकः प्रेक्षोद्यान-त्याग- शीलो वृष इति सिद्ध-प्रतापः साहसिकः शूरो विद्या-रूप-गुणोपभोगैः पत्युर् अतिशयिता महार्ह-वेषोपचारश् चेति((135)).
सेच्तिओन् (प्रकरण)42
5.1.51 यथात्मनः सिद्धतां पश्येद् एवं योषितो ऽपि.
5.1.52 अ:यत्न-साध्या योषितस् त्व् इमाः ण् अभियोग-मात्र-साध्याः. द्वार-देशावस्थायिनी. प्रासादाद् राज-मार्गावलोकिनी. तरुण-प्रातिवेश्य-गृहे गोष्ठी-योजिनी. सतत-प्रेक्षिणी. प्रेक्षिता पार्श्व-विलोकिनी. निष्:कारणं स:पत्न्याधिविन्ना. भर्तृ-द्वेषिणी विद्विष्टा च. परिहार-हीना. निर्:अपत्या.
5.1.53 ज्ञाति-कुल-नित्या. विपन्नापत्या. गोष्ठी-योजिनी. प्रीति-योजिनी. कुशीलव-भार्या. मृत-पतिका बाला. दरिद्रा बहूपभोगा. ज्येष्ठ-भार्या बहु-देवरका. बहु-मानिनी न्यून-भर्तृका. कौशलाभिमानिनी भर्तुर् मौर्ख्येणोद्विग्ना. अ:विशेषतया लोभेन.
5.1.54 कन्या-काले यत्नेन वारिता कथं चिद् अ:लब्धाभियुक्ता च सा तदानीम्. समान-बुद्धि-शील- मेधा-प्रतिपत्ति-सात्म्या. प्रकृत्या पक्षपातिनी. अन्:अपराधे विमानिता.तुल्य-रुपाभिश् चाधः कृता. प्रोषित-पतिकेति. ईर्ष्यालु-पूति-चोक्ष-क्लीब-दीर्घ-सूत्र-कापुरुष-कुब्ज-वामन- विरूप-मणिकार-ग्राम्य-दुर्:गन्धि-रोगि-वृद्ध-भार्याश् चेति.
5.1.55 श्लोकाव् अत्र भवतः.
5.1.55व् इच्छा स्वभावतो जाता क्रियया परिबृंहिता. बुद्ध्या संशोधितोद्वेगा स्थिरा स्याद् अन्:अपायिनी..
5.1.56व् सिद्धताम् आत्मनो ज्ञात्वा लिङ्गान्य् उन्नीय योषिताम्. व्यावृत्ति-कारणोच्छेदी नरो योषित्सु सिध्यति((136))..
5.1च् इति श्रीवात्स्यायनीये कामसूत्रे पारदारिके पञ्चमे ऽधिकरणे स्त्री-पुरुष-शीलावस्थापनं व्यावर्तन-कारणानि स्त्रीषु सिद्धाः पुरुषा अ:यत्न-साध्या योषितः प्रथमो ऽध्यायः.
लेçओन् 2 द्वितीयो ऽध्यायः.
सेच्तिओन् (प्रकरण)43 [परिचय-कारणाभियोग-प्रकरणम्]
5.2.1 यथा कन्या स्वयम् अभि-योग-साध्या न तथा दूत्या. पर-स्त्रियस् तु सूक्ष्म-भावा दूती-साध्या न तथात्मनेत्य् आचार्याः.
5.2.2 सर्वत्र शक्ति-विषये स्वयं साधनम् उपपन्नतरकं दुर्:उपपादत्वात् तस्य दूती-प्रयोग इति वात्स्यायनः.
5.2.3 प्रथम-साहसा अ:नियन्त्रण-संभाषाश् च स्वयं प्रतार्याः. तद्-विपरीताश्((137)) च दूत्येति प्रायो-वादः.
5.2.4 स्वयम् अभियोक्ष्यमाणस् त्व् आदाव् एव परिचयं कुर्यात्.
5.2.5 तस्याः स्वाभाविकं दर्शनं प्रायत्निकं च.
5.2.6 स्वाभाविकम् आत्मनो भवन-संनिकर्षे प्रायत्निकं मित्र-ज्ञाति-महामात्र-वैद्य-भवन- संनिकर्षे विवाह-यज्ञोत्सव-व्यसनोद्यान-गमनादिषु.
5.2.7 दर्शने चास्याः सततं साकारं प्रेक्षणं केश-संयमनं नखाच्छुरणम् आभरण-प्रह्लादनम् अधरौष्ठ-विमर्दनं तास् ताश् च लीला वयस्यैः सह प्रेक्षमाणायास् तत्-संबद्धाः परापदेशिन्यश् च कथास् त्यागोपभोग-प्रकाशनं सख्युर् उत्सङ्ग-निषण्णस्य साङ-भङ्गं जृम्भणम् एक-भ्रू-क्षेपणं मन्द-वाक्यता तद्-वाक्य-श्रवणं ताम् उद्दिश्य बालेनान्य-जनेन वा सहान्योपदिष्टा व्यर्था कथा तस्यां स्वयं मनोरथावेदनम् अन्यापदेशेन ताम् एवोद्दिश्य बाल-चुम्बनम् आलिङ्गनं च जिह्वया चास्य ताम्बूल-दानं प्रदेशिन्या हनु-देश-घट्टनं तत् तद्-यथा- योगं यथावकाशं च प्रयोक्तव्यम्.
5.2.8 तस्याश् चाङ्क-गतस्य बालस्य लालनं बाल-क्रीडनकानां चास्य दानं ग्रहणं तेन संनिकृष्टत्वात् कथा-योजनं तत्-संभाषण-क्षमेण जनेन च प्रीतिम् आसाद्य कार्यं तद्-अनुबन्धं च गमनागमनस्य योजनं संश्रये चास्यास् ताम् अ:पश्यतो नाम काम-सूत्र-संकथा.
5.2.9 प्रसृते तु परिचये तस्या हस्ते न्यासं निक्षेपं च निदध्यात्. तत् प्रति-दिनं प्रति-क्षणं चैकदेशतो गृह्णीयात्. सौगन्धिकं पूग-फलानि च.
5.2.10 ताम् आत्मनो दारैः सह विस्रम्भ-गोष्ठ्यां विविक्तासने च योजयेत्.
5.2.11 नित्य-दर्शनार्थं विश्वासनार्थं च..5.2.12 सुवर्णकार-मणिकार-वैकटिक-नीली-कुसुम्भ-रञ्जकादिषु च कामार्थिन्यां सहात्मनो वश्यैश् चैषां तत्-संपादने स्वयं प्रयतेत.
5.2.13 तद्-अनुष्ठान-निरतस्य लोक-विदितो दीर्घ-कालं संदर्शन-योगः.
5.2.14 तस्मिंश् चान्येषाम् अपि कर्मणाम् अनुसन्धानम्.
5.2.15 येन कर्मणा द्रव्येण कौशलेन चार्थिनी स्यात् तस्य प्रयोगम् उत्पत्तिम् आगमम् उपायं विज्ञानं चात्मायत्तं दर्शयेत्.
5.2.16 पूर्व-प्रवृत्तेषु लोक-चरितेषु द्रव्य-गुण-परीक्षासु च तया तत्-परिजनेन च सह विवादः.
5.2.17 तत्र निर्दिष्टानि पणितानि तेष्व् एनां प्राश्निकत्वेन योजयेत्.
5.2.18 तया तु विवदमानो ऽत्य्:अन्ताद्भूतमिति ब्रूयाद्.
5.2.18च् इति परिचय-कारणानि((138)).
सेच्तिओन् (प्रकरण)44
5.2.19 कृत-परिचयां दर्शितेङिताकारां कन्याम् इवोपायतो ऽभियुञ्जीतेति. प्रायेण तत्र सूक्ष्मा अभियोगाः. कन्यानाम् अ:संप्रयुक्तत्वात्. इतरासु तान् एव स्फुटम् उपदध्यात्. संप्रयुक्तत्वात्.

5.2.20 संदर्शिताकारायां निर्भिन्न-सद्-भावायां समुपभोग-व्यतिकरे तदीयान्य् उपयुञ्जीत.
5.2.21 तत्र महार्ह-गन्धम् उत्तरीयं कुसुमं स्याद् अङ्गुलीयकं च. तद्-धस्ताद् गृहीत-ताम्बूलया गोष्ठी-गमनोद्यतस्य केश-हस्त-पुष्प-याचनम्.
5.2.22 तत्र महार्ह-गन्धं स्पृहणीयं स्व-नख-दशन-पद-चिह्नितं साकारं दद्यात्.
5.2.23 अधिकैर् अधिकैश् चाभियोगैः साध्वस-विच्छेदनम्.
5.2.24 क्रमेण च विविक्त-देशे गमनम् आलिङ्गनं चुम्बनं ताम्बूलस्य ग्राहणं दानान्ते द्रव्याणां परिवर्तनं गुह्य-देशाभिमर्शनं चेत्य् अभियोगाः.
5.2.25 यत्र चैकाभियुक्ता न तत्रापराम् अभियुञ्जीत.
5.2.26 तत्र या वृद्धानुभूत-विषया प्रियोपग्रहैश् च ताम् उपगृह्णीयात्.
5.2.27 श्लोकाव् अत्र भवतः
5.2.27व् अन्यत्र दृष्ट-संचारस् तद्-भर्ता यत्र नायकः. न तत्र योषितं कां चित् सुप्रापाम् अपि लङ्घयेत्..
5.2.28व् शङ्कितां रक्षितां भीतां स:श्वश्रूकां च योषितम्. न तर्कयेत मेधावी जानन् प्रत्ययम् आत्मनः((139))..
5.2च् इति श्रीवात्स्यायनीये कामसूत्रे पारदारिके पञ्चमे ऽधिकरणे परिचय-कारणान्य् अभियोगाः द्वितीयो ऽध्यायः.
लेçओन् 3 तृतीयो ऽध्यायः.
सेच्तिओन् (प्रकरण)45 [भाव-परीक्षाप्रकरणम्]
5.3.1 अभियुञ्जानो योषितः प्रवृत्तिं परीक्षेत. तया भावः परीक्षितो भवति. अभियोगांश् च प्रतिगृह्णीयात्.
5.3.2 मन्त्रम् अ:व्र्ण्वानां दूत्यैनां साधयेत्.
5.3.3 अ:प्रतिगृह्याभियोगं पुनर् अपि संसृज्यमानां द्विधा-भूत-मानसां विद्यात्. तां क्रमेण साधयेत्.
5.3.4 अ:प्रतिगृह्याभियोगं स:विशेषम् अलंकृता च पुनर् दृशेत तथैव तम् अभिगच्छेच् च विविक्ते बलाद् ग्रहणीयां विद्यात्.
5.3.5 बहून् अपि विषहते ऽअभियोगान् न चिरेणापि प्रयच्छत्य् आत्मानं सा शुष्क-प्रतिग्राहिणी परिचय-विघटन-साध्या.
5.3.6 मनुष्य-जातेश् चित्ता:नित्यत्वात्.
5.3.7 अभियुक्तापि परिहरति न च संसृज्यते. न च प्रत्याचष्टे. तस्मिन्न् आत्मनि च गौरवाभिमानात्. सातिपरिचयात् कृच्छ्र-साध्या. मर्म-ज्ञया दूत्या तां साधयेत्.
5.3.8 सा चेद् अभियुज्यमाना पारुष्येण प्रत्यादिशत्य् उपेक्ष्या.
5.3.9 परुषयित्वापि तु प्रीति-योजिनीं साधयेत्.
5.3.10 कारणात् संस्पर्शनं सहते नावबुध्यते नाम द्विधा-भूत-मनसा सातत्येन क्षान्त्या वा साध्या.
5.3.11 समीपे शयानायाः सुप्तो नाम करम् उपरि विन्यसेत्. सापि सुप्तेवोपेक्षते. जाग्रती त्व् अपनुदेद् भूयो ऽभियोगाकाङ्क्षिणी.
5.3.12 एतेन पादस्योपरि पादन्यासो व्याख्यातः((140)).
5.3.13 तस्मिन् प्रसृते भूयः सुप्त-संश्लेषणम् उपक्रमेत्.
5.3.14 तद् अ:सहमानाम् उत्थितां द्वितीये ऽहनि प्रकृति-वर्तिनीम् अभियोगार्थिनीं विद्यात्. अ:दृश्यमानां तु दूती-साध्याम्.
5.3.15 चिरम् अ:दृष्टापि प्रकृतिस्थैव संसृज्यते कृत-लक्षणां तां दर्शिताकाराम् उपक्रमेत्..5.3.16 अ:नभियुक्ताप्य् आकारयति. विविक्ते चात्मानं दर्शयति. स:वेपथु-गद्गदं वदति. स्विन्न-कर-चरनाङ्गुलिः स्विन्न-मुखी च भवति. शिरः-पीडने संवाहने चोर्वोर् आत्मानं नायके नियोजयति.
5.3.17 आतुरासंवाहिका चैकेन हस्तेन संवाहयन्ती द्वितीयेन बाहुना स्पर्शम् आवेदयति श्लेषयति च. विस्मित-भावा.
5.3.18 निद्रान्धा वा परिस्पृश्योरुभ्यां बाहुभ्याम् अपि तिष्ठति. अलिकैकदेशम् ऊर्वोर् उपरि पातयति. ऊरु-मूल-संवाहने नियुक्ता न प्रतिलोमयति. तत्रैव हस्तम् एकम् अ:विचलं न्यस्यति. अङ्ग-संदंशेन च पीडितं चिराद् अपनयति.
5.3.19 प्रतिगृह्यैवं नायकाभियोगान् पुनर् द्वितीये ऽहनि संवाहनायोपगच्छति.
5.3.20 नात्यर्थं संसृज्यते. न च परिहरति.
5.3.21 विविक्ते भावं दर्शयति निष्कारणं चा:गूढम् अन्यत्र प्रछन्न-प्रदेशात्.
5.3.22 संनिकृष्ट-परिचारकोपभोग्या सा चेद् आकारितापि तथैव स्यात् सा मर्मज्ञया दूत्या साध्या.
5.3.23 व्यावर्तमाना तु तर्कणीया
5.3.23च् इति भाव-परीक्षा((141)).
5.3.24 भवन्ति चात्र श्लोकाः
5.3.24व् आदौ परिचयं कुर्यात् ततश् च परिभाषणम्. परिभाषण-संमिश्रं मिथश् चाकारवेदनम्..
5.3.25व् प्रत्युत्तरेण पश्येच् चेद् आकारस्य परिग्रहम्. ततो ऽभियुञ्जीत नरः स्त्रियं विगत-साध्वसः..
5.3.26व् आकारेणात्मनो भावं या नारी प्राक् प्रयोजयेत्. क्षिप्रम् एवाभियोज्या सा प्रथमे त्व् एव दर्शने..

5.3.27व् श्लक्ष्णम् आकारिता या तु दर्शयेत् स्फुटम् उत्तरम्. सापि तत्-क्षण-सिद्धेति विज्ञेया रति-लालसा..
5.3.28व् धीरायाम् अ:प्रगल्भायां परीक्षिण्यां च योषिति. एष सूक्ष्मो विधिः प्रोक्ताः सिद्धा एव स्फुटं स्त्रियः..
5.3च् इति श्रीवात्स्यायनीये कामसूत्रे पारदारिके पञ्चमे ऽधिकरणे भाव-परीक्षा तृइतीयो ऽध्यायः.
लेçओन् 4 चतुर्थो ऽध्यायः
सेच्तिओन् (प्रकरण)46 [दूती-कर्म-प्रकरणम्]
5.4.1 दर्शितेङ्गिताकारं तु प्रविरल-दर्शनाम्((142)) अ:पूर्वां च दूत्योपसर्पयेत्.
5.4.2 सैनां शीलतो ऽनुप्रविश्याख्यान-कपटैः सुभगं-करण-योगैर् लोक-वृत्तान्तैः कवि-कथाभिः पारदारिक-कथाभिश् च तस्याश् च रूप-विज्ञान-दाक्षिण्य-शीलानुप्रशंसाभिश् च तां रञ्जयेत्.
5.4.3 कथम् एवं-विधायास् तवायम् इत्थं-भूतः पतिर् इति चानुशयं ग्राहयेत्.
5.4.4 न तव सुभगे दास्यम् अपि कर्तुं युक्त इति ब्रूयात्.
5.4.5 मन्द-वेगताम् ईर्ष्यालुतां शठताम् अ:कृत-ज्ञतां चासंभोग-शीलतां कदर्यतां चपलताम् अन्यानि च यानि तस्मिन् गुप्तान्य् अस्या अभ्याशे सति सद्-भावे ऽतिशयेन भाषेत.
5.4.6 येन च दोषेणोद्विग्नां लक्षयेत् तेनैवानुप्रविशेत्.
5.4.7 यदासौ मृगी तदा नैव शशता-दोषः.
5.4.8 एतेनैव बडव-हस्तिनी-विषयश् चोक्तः.
5.4.9 नायिकाया एव तु विश्वास्यताम् उपलभ्य दूतीत्वेनोपसर्पयेत् प्रथम-साहसायां सूक्ष्म-भावायां चेति गोणिकापुत्रः.
5.4.10 सा नायकस्य चरितम् अनुलोमतां कामितानि च कथयेत्.
5.4.11 प्रसृत-सद्भावायां च युक्त्या कार्य-शरीरम् इत्थं वदेत्.
5.4.12 शृणु विचित्रम् इदं सुभगे त्वां किल दृष्त्वामुत्रासाव् इत्थं गोत्र-पुत्रो नायकश् चित्तोन्मादम् अनुभवति. प्रकृत्या सु:कुमारः कदा चिद् अन्यत्रापरिक्लिष्ट-पूर्वस् तपस्वी. ततो ऽधुना शक्यम् अनेन मरणम् अप्य् अनुभवितुम् इति वर्णयेत्.
5.4.13 तत्र सिद्धा द्वितीये ऽहनि वाचि वक्त्रे दृष्ट्यां च प्रसादम् उपलक्ष्य पुनर् अपि कथां प्रवर्तयेत्.
5.4.14 शृण्वत्यां चाहल्याविमारक-शाकुन्तलादीन्य् अन्यान्य् अपि लौकिकानि च कथयेत् तद्-युक्तानि.
5.4.15 वृषतां चतुःषष्टि-विज्ञतां सौभाग्यं च नायकस्य. श्लाघनीयतां चास्य प्रच्छन्नं संप्रयोगं भूतम् अ:भूत-पूर्वं वा वर्णयेत्.
5.4.16 आकारं चास्य लक्षयेत्.
5.4.17 स:विहसितं दृष्ट्वा संभाषते.
5.4.18 आसने चोपनिमन्त्रयते.
5.4.19 क्वासितं क्व शयितं क्व भुक्तं क्व चेष्टितं किं वा कृतम् इति पृच्छति.
5.4.20 विविक्ते दर्शयत्य् आत्मानम्.
5.4.21 आख्यानकानि नियुङ्क्ते..5.4.22 चिन्तयन्ती निःश्वासीति विजृम्भते च.
5.4.23 प्रीति-दायं च ददाति.
5.4.24 इष्टेषूत्सवेषु च स्मरति.
5.4.25 पुनर्-दर्शनानुबन्धं विसृजति.
5.4.26 साधु-वादिनी सती किम् इदम् अ:शोभनम् अभिधत्स इति कथाम् अनुबध्नाति.
5.4.27 नायकस्य शाठ्य-चापल्य-संबद्धान् दोषान् ददाति.
5.4.28 पूर्व-प्रवृत्तं च तत्-संदर्शनं कथाभियोगं च स्वयम् अ:कथयन्ती तयोच्यमानम् आकाङ्क्षति.
5.4.29 नायक-मनोरथेषु च कथ्यमानेषु स:परिभवं नाम हसति. न च निर्वदतीति.
5.4.30 दूत्य् एनां दर्शिताकारां नायकाभिज्ञानैर् उपबृंहयेत्.
5.4.31 अ:संस्तुतां तु गुण-कथनैर् अनुराग-कथाभिश् चावर्जयेत्.
5.4.32 नासंस्तुतादृष्टाकारयोर् दूत्यम् अस्तीत्य् औद्दालकिः.
5.4.33 अ:संस्तुतयोर् अपि संसृष्टाकारयोर् अस्तीति बाभ्रवीयाः.
5.4.34 संस्तुतयोर् अप्य् अ:संसृष्टाकारयोर् अस्तीति गोणिकापुत्रः.
5.4.35 अ:संस्तुतयोर् अ:दृष्टाकारयोर् अपि दूती-प्रत्ययाद् इति वात्स्यायनः.
5.4.36 तासां मनो-हराण्य् उपायनानि ताम्बूलम् अनुलेपनं स्रजम् अङ्गुलीयकं वासो वा तेन प्रहितं दर्शयेत्.

5.4.37 तेषु नायकस्य यथार्थं नख-दशन-पदानि तानि तानि च चिह्नानि स्युः.
5.4.38 वाससि च कुङ्कुमाङ्कम् अञ्जलिं निदद्यात्.
5.4.39 पत्र-च्छेद्यानि नानाभिप्रायाकृतीनि दर्शयेत्. लेख-पत्त्र-गर्भाणि कर्ण-पत्त्राण्य् आपीडांश् च.
5.4.40 तेषु स्व-मनोरथाख्यापनम्. प्रतिप्राभृत-दाने((143)) चैनां नियोजयेत्.
5.4.41 एवं कृत-परस्पर-परिग्रहयोश् च दूती-प्रत्ययः समागमः.
5.4.42 स तु देवताभिगमने यात्रायाम् उद्यान-क्रीडायां जलावतरणे विवाहे यज्ञ-व्यसनोत्सवेष्व् अग्न्य्-उत्पाते चौर-विभ्रमे जनपदस्य चक्रारोहणे प्रेक्ष-व्यापारेषु तेषु तेषु च कार्येष्व् इति बाभ्रवीयाः.
5.4.43 सखी-भिक्षुकी-क्षपणिका-तापसी-भवनेषु सुखोपाय इति गोणिकापुत्रः.
5.4.44 तस्या एव तु गेहे विदित-निष्क्रम-प्रवेशे चिन्तितात्यय-प्रतीकारे प्रवेशनम् उपपन्नं निष्क्रमणम् अ:विज्ञात-कालं च तन् नित्यं सुखोपायं चेति वात्स्यायनः.
5.4.45 निसृष्टार्था[1] परिमितार्था[2] पत्र-हारी[3] स्वयंदूती[4] मूढ-दूती[5] भार्या-दूती[6] मूक-दूती[7] वात-दूती[8] चेति दूती-विशेषाः.
5.4.46 नायकस्य नायिकायाश् च यथामनीषितम् अर्थम् उपलभ्य स्व-बुद्ध्या कार्य-संपादिनी निसृष्टार्था[1].
5.4.47 सा प्रायेण संस्तुत-संभाषणयोः.
5.4.48 नायिकया प्रयुक्ता अ:संस्तुत-संभाषणयोर् अपि.
5.4.49 कौतुकाच् चानुरूपौ युक्ताव् इमौ परस्परस्येत्य् अ:संस्तुतयोर् अपि.
5.4.50 कार्यैकदेशम् अभियोगैकदेशं चोपलभ्य शेषं संपादयतीति परिमितार्था[2].
5.4.51 सा दृष्ट-परस्पराकारयोः प्रविरल-दर्शनयोः.
5.4.52 संदेश-मात्रं प्रापयतीति पत्र-हारी[3].
5.4.53 सा प्रगाढ-सद्भावयोः संसृष्टयोश् च देश-काल-संबोधनार्थम्.
5.4.54 दौत्येन प्रहितान्यया स्वयम् एव नायकम् अभिगच्छेद् अजानती नाम तेन सहोपभोगं स्वाप्ने वा कथयेत्. गोत्र-स्खलितं भार्यां चास्य निन्देत्. त्द्-व्यपदेशेन स्वयम् ईर्ष्यां दर्शयेत्. नख-दशन-चिह्नितं वा किं चिद् दद्यात्. भवते ऽहम् आदौ दातुं संकल्पितेति चाभिदधीत. मम भार्याया का रमणीयेति विविक्ते पर्यनुयुञ्जीत सा स्वयं-दूती[4].
5.4.55 तस्य विविक्ते दर्शनं प्रतिग्रहश् च.
5.4.56 प्रतिग्रह-च्छलेनान्याम् अभिसंधायास्याः संदेशाश्रवण-द्वारेण नायकं साधयेत् तां चोपहन्यात् सापि स्वयं-दूती[4].
5.4.57 एतया नायको ऽप्य् अन्य-दूतश् च व्याख्यातः.
5.4.58 नायक-भार्यां मुग्धां विश्वास्यायन्त्रणयानुप्रविश्य नायकस्य चेष्टितानि पृच्छेत्. योगाञ् शिक्षयेत्. साकारं मण्डयेत्. कोपम् एनां ग्राहयेत्. एवं च प्रतिपद्यस्वेति श्रावयेत्. स्वयं चास्यां नख-दशनपदानि निर्वर्तयेत्. तेन द्वारेण नायाकम् आकारयेत् सा मूढ-दूती[5].
5.4.59 तस्यास् तयैव प्रत्युत्तराणि योजयेत्.
5.4.60 स्व-भार्यां वा मूढं प्रयोज्य तया सह विश्वासेन योजयित्वा तयैवाकारयेत्. आत्मनश् च वैचक्षण्यं प्रकाशयेत्. सा भार्या-दुती[6] तस्यास् तयैवाकार-ग्रहणम्.
5.4.61 बालां वा परिचारिकाम् अ:दोष-ज्ञाम् अ:दुष्टेनोपायेन प्रहिणुयात्. तत्र स्रजि कर्णपत्त्रे वा गूढ-लेख-निधानं नख-दशन-पदम् वा सा मूक-दूती[7]. तस्यास् तयैव प्रत्युत्तर-प्रार्थनम्.
5.4.62 पूर्व-प्रस्तुतार्थ-लिङ्ग-संबद्धम् अन्य-जना:ग्रहणीयं लौकिकार्थं व्यर्थं वा वचनम् उदासीना या श्रावयेत् सा वात-दूती[8]. तस्या अपि तयैव प्रत्युत्तर-प्रार्थनम्
5.4.62च् इति तासां विशेषाः..5.4.63 भवन्ति चात्र श्लोकाः
5.4.63व् विधवेक्षणिका दासी भिक्षुकी शिल्प-कारिका. प्रविशत्य् आसु विश्वासं दूती-कार्यं च विन्दति..
5.4.64 संक्षेपेण दूती-कर्माण्य् आह
5.4.64व् विद्वेषं ग्राहयेत् पत्यौ रमणीयानि वर्णयेत्. चित्रान् सुरत-संभोगान् अन्यासाम् अपि दर्शयेत्..
5.4.65व् नायकस्यानुरागं च पुनश् च रति-कौशलम्. प्रार्थनां चाधिक-स्त्रीभिर् अवष्टम्भं च वर्णयेत्..
5.4.66व् अ:संकल्पितम् अप्य् अर्थम् उत्सृष्टं दोष-कारणात्. पुनर् आवर्तयत्य् एव दूती वचन-कौशलात्((144))..
5.4च् इति श्रीवात्स्यायनीये कामसूत्रे पारदारिके पञ्चमे ऽधिकरणे दूती-कर्माणि चतुर्थो ऽध्यायः.
लेçओन् 5 पञ्चमो ऽध्यायः.
सेच्तिओन् (प्रकरण)47 [ईश्वर-कामित-प्रकरणम्]
5.5.1 न राज्ञां महामात्राणां वा पर-भवन-प्रवेशो विद्यते.महाजनेन हि चरितम् एषां दृश्यते ऽनुविधीयते च.
5.5.2 सवितारम् उद्यन्तं त्रयो लोकाः पश्यन्ति अनूद्यन्ते च. गच्छन्तम् अपि पश्यन्त्य् अनुप्रतिष्ठन्ते च.
5.5.3 तस्माद् अ:शक्यत्वाद् गर्हणीयत्वाच् चेति न ते वृथा किं चिद् आचरेयुः.
5.5.4 अ:वश्यं त्व् आचरितव्ये योगान् प्रयुञ्जीरन्.
5.5.5 ग्रामाधिपतेर् आयुक्तकस्य हलोत्थवृत्ति-पुत्रस्य((145)) यूनो ग्रामीण-योषितो वचन-मात्र- साध्याः. ताश् चर्षण्य((146)) इत्य् आचक्षते विटाः.

5.5.6 ताभिः सह विष्टि-कर्मसु कोष्ठागार-प्रवेशे द्रव्याणां निष्क्रमण-प्रवेशनयोर् भवन-प्रतिसंस्कारे क्षेत्र-कर्मणि कर्पासोर्णातसी-शण-वल्कलादाने सूत्र-प्रतिग्रहे द्रव्याणां क्रय-विक्रय-विनिमयेषु तेषु तेषु च कर्मसु प्रयोगः.
5.5.7 तथा व्रज-योषिद्भिः गवाध्यक्षस्य.
5.5.8 विधवानाथा-प्रव्रजिताभिः सह सूत्राध्यक्षस्य.
5.5.9 मर्मज्ञात्वाद् रात्राव् अटने चाटन्तीभिर् नागरस्य.
5.5.10 क्रय-विक्रये पण्याध्यक्षस्य.
5.5.11 अष्टमी-चन्द्रकौमुदी-सु:वसन्तकादिषु पत्तन-नगर-खर्वट-योषिताम् ईश्वर-भवने सहान्तः:पुरिकाभिः प्रायेण क्रीडा.
5.5.12 तत्र चापानकान्ते नगर-स्त्रियो यथा-परिचयम् अन्तः:पुरिकानां पृथक् पृथग् भोगावासकान् प्रविश्य कथाभिर् आसित्वा पूजिताः प्रतीताश् चोपप्रदोषं निष्क्रामयेयुः.
5.5.13 तत्र प्रणिहिता राज-दासी प्रयोज्यायाः पूर्व-संसृष्टा तां तत्र संभाषेत.
5.5.14 रामणीयक-दर्शनेन योजयेत्.
5.5.15 प्राग् एव स्व-भवन-स्थां ब्रूयात्. अमुष्यां क्रीडायां तव राज-भवन-स्थानानि रामणीयकानि दर्शयिष्यामीति काले च योजयेत्. बहिः:प्रवाल-कुट्टिमं((147)) ते दर्शयिष्यामि.
5.5.16 मणि-भूमिकां वृक्ष-वाटिकां मृद्वीका-मण्डपं((148)) समुद्र-गृह-प्रासादान् गूढ-भित्ति-संचारांश् चित्र-कर्माणि क्रीडा-मृगान् यन्त्राणि शकुनान् व्याघ्र-सिंह-पञ्जरादीनि च यानि पुरस्ताद् वर्णितानि स्युः.
5.5.17 एकान्ते च तद्-गतम् ईश्वरानुरागं श्रावयेत्.
5.5.18 संप्रयोगे चातुर्यं चाभिवर्णयेत्.
5.5.19 अ:मन्त्र-श्रवं च प्रतिपन्नां योजयेत्.
5.5.20 अ:प्रतिपद्यमानां स्वयम् एवेश्वर आगत्योपचारैः सान्त्वितां रञ्जयित्वा संभूय च सानुरागं विसृजेत्.
5.5.21 प्रयोज्यायाश् च पत्युर् अनुग्रहोचितस्य दारान् नित्यम् अन्तः:पुरम् औचित्यात् प्रवेशयेत्. तत्र प्रणिहिता राज-दासीति समानं पूर्वेण.
5.5.22 अन्तः:पुरिका वा प्रयोज्यया सह स्व:चेटिका-संप्रेषणेन प्रीतिं कुर्यात्. प्रसृत-प्रीतिं च सापदेशं दर्शने नियोजयेत्. प्रविष्टां पूजितां पीतवतीं प्रणिहिता राज-दासीति समानं पूर्वेण.
5.5.23 यस्मिन् वा विज्ञाने प्रयोज्या विख्याता स्यात् तद्-दर्शनार्थम् अन्तः:पुरिका सोपचारं ताम् आह्वयेत्. प्रविष्टां प्रणिहिता राज-दासीति समानं पूर्वेण.
5.5.24 उद्भूतान्:अर्थस्य भीतस्य वा भार्यां भिक्षुकी ब्रूयात् असाव् अन्तः:पुरिका राजनि सिद्धा गृहीत-वाक्या मम वचनं शृणोति. स्व-भावतश् च कृपा-शीला ताम् अनेनोपायेनाधिगमिष्यामि. अहम् एव ते प्रवेशं कारयिष्यामि. सा च ते भर्तुर् महान्तम् अन्:अर्थं निवर्तयिष्यतीति प्रतिपन्नां द्विस् त्रिर् इति प्रवेशयेत्. अन्तः:पुरिका चास्या अ:भयं दद्यात्. अ:भय-श्रवणाच् च संप्रहृष्टां प्रणिहिता राज-दासीति समानं पूर्वेण..5.5.25 एतया वृत्त्य्-अर्थिनां महामात्राभितप्तानां बलाद् विगृहीतानां व्यवहारे दुर्:बलानां स्व-भोगेना:संतुष्टानां राजनि प्रीति-कामानां राज्य-जनेषु पङ्क्तिम् इच्छतां स-जातैर् बाध्यमानानां स:जातान् बाधितु-कामानां सूचकानाम् अन्येषाम् कार्य-वशिनां जाया व्याख्याताः.
5.5.26 अन्येन वा प्रयोज्यां सह संसृष्टां संग्राह्य दास्यम् उपनीतां क्रमेणान्तः:पुरं प्रवेशयेत्.
5.5.27 प्रणिधिना चायतिम् अस्याः संदूष्य राजनि विद्विष्ट इति कलत्रावग्रहोपायेनैनाम् अन्तः:पुरं प्रवेशयेत्. इति प्रच्छन्न-योगाः((149)). एते राज-पुत्रेषु प्रायेण.
5.5.28 न त्व् एवं पर-भवनम् ईश्वरः प्रविशेत्.
5.5.29 आभीरं कोट्ट-राजं((150)) पर-भवन-गतं भ्रातृ-प्रयुक्तो रजको जघान. काशि-राजं जयसेनम् अश्वाध्यक्ष इति.
5.5.30 प्रकाश-कामितानि तु देश-प्रवृत्ति-योगात्.
5.5.31 प्रत्ता जनपद-कन्या दशमे ऽहनि किं चिद् औपायनिकम् उपगृह्य प्रविशन्त्य् अन्तः:पुरम् उपभुक्ता एव विसृज्यन्त इत्य् आन्ध्राणाम्((151)).
5.5.32 महामात्रेश्वराणाम् अन्तः:पुराणि निशि सेवार्थं राजानम् उपगच्छन्ति वात्सगुल्मकानाम्.
5.5.33 रूपवतीर् जनपद-योषितः प्रीत्य्-अपदेशेन मासं मासार्धं वातिवासयन्त्य् अन्तः:पुरिका वैदर्भाणाम्.
5.5.34 दर्शनीयाः स्व-भार्याः प्रीति-दायम् एव महामात्र-राजभ्यो ददत्य् अपरान्तकानाम्.
5.5.35 राज-क्रीडार्थं नगर-स्त्रियो जनपद-स्त्रियश् च सङ्घश एकशश् च राजकुलं प्रविशन्ति सौराष्ट्रकाणाम् इति.
5.5.36 श्लोकाव् अत्र भवतः
5.5.36व् एते चान्ये च बहवः प्रयोगाः पारदारिकाः. देशे देशे प्रवर्तन्ते राजभिः संप्रवर्तिताः..
5.5.37व् न त्व् एवैतान् प्रयुञ्जीत राजा लोक-हिते रतः. निगृहीतारि-षड्-वर्गस् तथा विजयते महीम्((152))..
5.5च् इति श्रीवात्स्यायनीये कामसूत्रे पारदारिके पञ्चमे ऽधिकरणे ईश्वर-कामितम् पञ्चमो ऽध्यायः.
लेçओन् 6 षष्ठो ऽध्यायः.
सेच्तिओन् (प्रकरण)48 [अन्तः:पुरिका-वृत्त-प्रकरणम्]
5.6.1 नान्तः:पुराणां रक्षण-योगात् पुरुष-संदर्शनं विद्यते पत्युश् चैकत्वाद् अन्:एक-साधारणत्वाच् चा:तृप्तिः. तस्मात् तानि प्रयोगत एव परस्-परं रञ्जयेयुः.
5.6.2 धात्रेयिकां सखीं दासीं वा पुरुषवद् अलंकृत्याकृति-संयुक्तैः कन्द-मूल-फलावयवैर् अपद्रव्यैर् वात्माभिप्रायं निवर्तयेयुः.
5.6.3 पुरुष-प्रतिमा अ:व्यक्त-लिङ्गाश् चाधिशयीरन्.
5.6.4 राजानश् च कृपा-शीला विनापि भाव-योगाद् आयोजितापद्रव्या यावद् अर्थम् एकया रात्र्या बह्वीभिर् अपि गच्छन्ति. यस्यां तु प्रीतिर् वासक ऋतुर् वा तत्राभिप्रायतः प्रवर्तन्त इति प्राच्योपचाराः.
5.6.5 स्त्री-योगेणैव पुरुषाणाम् अप्य् अ:लब्ध-वृत्तीनां वियोनिषु विजातिषु स्त्री-प्रतिमासु केवलोपमर्दनाच् चाभिप्राय-निवृत्तिर् व्याख्याता.

5.6.6 योषावेषांश् च नागरकान् प्रायेणान्त:पुरिकाः परिचारिकाभिः सह प्रवेशयन्ति.
5.6.7 तेषाम् उपावर्तने धात्रेयिकाश् चाभ्यन्तर-संसृष्टा आयतिं दर्शयन्त्यः प्रयतेरन्.
5.6.8 सुख-प्रवेशिताम् अपसार-भूमिं विशलतां वेश्मनः प्रमादं रक्षिणाम् अ:नित्यतां परिजनस्य वर्णयेयुः.
5.6.9 न चा:सद्-भूतेनार्थेन प्रवेशयितुं जनम् आवर्तयेयुर् दोषात्.
5.6.10 नागरकस् तु सु:प्रापम् अप्य् अन्तः:पुरम् अपाय-भूयिष्ठत्वान् न प्रविशेद् इति वात्स्यायनः.
5.6.11 सापसारं तु प्रमद-वनावगाढं विभक्त-दीर्घ-काक्ष्यम् अल्प-प्रमत्त-रक्षकं प्रोषित-राजकं कारणानि समीक्ष्य बहुष आहूयमानो ऽर्थ-बुद्ध्या कक्ष्या-प्रवेशं च दृष्ट्वा ताभिर् एव विहितोपायः प्रविशेत्.
5.6.12 शक्ति-विषये च प्रति:दिनं निष्क्रामेत्.
5.6.13 बहिश् च रक्षिभिर् अन्यद् एव कारणम् अपदिश्य संसृजेत.
5.6.14 अन्तश्:चारिण्यां च परिचारिकायां विदितार्थायां सक्तम् आत्मानं रूपयेत्. तद्-अ:लाभाच् च शोकम् अन्तः:प्रवेशिनीभिश् च दूती-कल्पं सकलम् आचरेत्.
5.6.15 राज-प्रनिधींश् च बुध्येत.
5.6.16 दूत्यास् त्व् अ:संचारे यत्र गृहीताकारायाः प्रयोज्याया दर्शन-योगस् तत्रावस्थानम्.
5.6.17 तस्मिन्न् अपि तु रक्षिषु परिचारिका-व्यपदेशः.
5.6.18 चक्षुर् अनुबध्नन्त्याम् इङ्गिताकार-निवेदनम्..5.6.19 यत्र संपातो ऽस्यास् तत्र चित्र-कर्मणस् तद्-युक्तस्य व्यर्थानां गीत-वस्तुकानां क्रीडनकानां कृत-चिह्नानाम् आपीनकानाम्((153)) अङ्गुलीयकस्य च निधानम्.
5.6.20 प्रत्य्:उत्तरं तया दत्तं प्रपश्येत्. ततः प्रवेशने यतेत.
5.6.21 यत्र चास्य नियतं गमनम् इति विद्यात् तत्र प्रछन्नस्य प्राग् एवावस्थानम्.
5.6.22 रक्षि-पुरुष-रूपो वा तद्-अनुज्ञात-वेलायां प्रविशेत्.
5.6.23 आस्तरण-प्रावरण-वेष्टितस्य वा प्रवेश-निर्हारौ.
5.6.24 पुटा:पुट-योगैर् वा नष्टच्छाया-रूपः.
5.6.25 तत्रायं प्रयोगः ण् नकुल-हृदयं चोरकतुम्बी-फलानि सर्पाक्षीणि चान्तर्धूमेन पचेत्. ततो ऽञ्जनेन सम-भागेन पेषयेत्. अनेनाभ्यक्त-नयनो नष्ट-च्छाया-रूपश् चरति [अन्यैष् च जल-ब्रह्म-क्षेम-शिरः-प्रणीतैर् बाह्य-पानकैर् वा.
5.6.26 रात्रि-कौमुदीषु च दीपिका-संबाधे सुरङ्गया वा.
5.6.27 तत्रैतद् भवति((154)).
5.6.27व् द्रव्याणाम् अपि निर्हारे पानकानां प्रवेशने. आपानकोत्सवार्थे ऽपि चेटिकानां च संभ्रमे..
5.6.27व् व्यत्यासे वेश्मनां चैव रक्षिणां च विपर्यये. उद्यान-यात्रा-गमने यात्रातश् च प्रवेशने..
5.6.27व् दीर्घ-कालोदयां यात्रां प्रोषिते चापि राजनि. प्रवेशनं भवेत् प्रायो यूनां निष्क्रमणं तथा..
5.6.28व् परस्परस्य कार्याणि ज्ञात्वा चान्तःपुरालयाः. एक-कार्यास् ततः कुर्युः शेषाणाम् अपि भेदनम्..
5.6.28व् दूषयित्वा ततो ऽन्योन्यम् एक-कार्यार्पणे स्थिरः. अ:भेद्यतां गतः सद्यो यथेष्टं फलम् अश्नुते..
5.6.29 तत्र राज-कुल-चारिण्य एव लक्षण्यान् पुरुषान् अन्तः:पुरं प्रवेशयन्ति नाति:सु:रक्षत्वाद् अपरान्तिकानाम्.
5.6.30 क्षत्रिय-संज्ञकैर् अन्तः:पुर-रक्षिभिर् एवार्थं साधयन्त्य् आभीरकाणाम्.
5.6.31 प्रेष्याभिः सह तद्-वेषान् नागरक-पुत्रान् प्रवेशयन्ति वात्सगुल्मकानाम्.
5.6.32 स्वैर् एव पुत्रैर् अन्तः:पुराणि काम-चारैर् जननी-वर्जम् उपयुज्यन्ते वैदर्भकानाम्.
5.6.33 तथा प्रवेशिभिर् एव ज्ञाति-संबन्धिभिर् नान्यैर् उपयुज्यन्ते स्त्रैराजकानाम्.
5.6.34 ब्राह्मणैर् मित्रैर् भृत्यैर् दास-चेटैश् च गौडानाम्.
5.6.35 परिस्पन्दाः कर्मकराश् चान्तः:पुरेष्व् अ:निषिद्द्धा अन्ये ऽपि तद्-रूपाश् च सैन्धवानाम्.
5.6.36 अर्थेन रक्षिणम् उपगृह्य साहसिकाः संहताः प्रविशन्ति हैमवतानाम्.
5.6.37 पुष्प-दान-नियोगान् नगर-ब्राह्मणा राज-विदितम् अन्तः:पुराणि गच्छन्ति. पटान्तरितश् चैषाम् आलापः. तेन प्रसङ्गेन व्यतिकरो भवति बङ्ग-अङ्ग-कलिङ्गकानाम्.
5.6.38 संहत्य नवदशेत्य् एकैकं युवानं प्रच्छादयन्ति प्राच्यानाम् इति. एवं पर-स्त्रियः प्रकुर्वीत.
5.6.38च् इत्य् अन्तः:पुरिका-वृत्तम्((155)).
सेच्तिओन् (प्रकरण)49
5.6.39 एभ्य एव च कारणेभ्यः स्व-दारान् रक्षेत्.
5.6.40 कामोपधा-शुद्धान्((156)) रक्षिणो ऽन्तः:पुरे स्थापयेद् इत्य् आचार्याः.

5.6.41 ते हि भयेन चार्थेन चान्यं प्रयोजयेयुस् तस्मात् काम-भयार्थोपधा-शुद्धान् इति गोणिकापुत्रः((157)).
5.6.42 अ:द्रोहो धर्मस् तम् अपि भयाज् जह्याद् अतो धर्म-भयोपधा-शुद्धान् इति वात्स्यायनः.
5.6.43 वाक्याभिधायिनीभिश् च गूढाकाराभिः प्रमादभिर् आत्म-दारान्((158)) उपदध्याच् छौचा:शौच-परिज्ञानार्थम् इति बाभ्रवीयाः
5.6.44 दुष्टानां युवतिषु सिद्धत्वान् ना:कस्माद् अ:दुष्ट-दूषणम् आचरेद् इति वात्स्यायनः((159)).
5.6.45 अति:गोष्ठी निर्:अङ्कुशत्वं भर्तुः स्वैरता पुरुषैः सहा:नियन्त्रणता प्रवासे ऽवस्थानं विदेशे निवासः स्व-वृत्त्य्-उपघातः स्वैरिणी-संसर्गः पत्युर् ईर्ष्यालुता चेति स्त्रीणां विनाश-कारणानि.
5.6.46व् संदृश्य शास्त्रतो योगान् पारदारिक-लक्षितान्. न याति च्छलनां कश् चिद् स्व-दारान् प्रति शास्त्रवित्..
5.6.47व् पाक्षिकत्वात् प्रयोगाणाम् अपायानां च दर्शनात्. धर्मार्थयोश् च वैलोम्यान् नाचरेत् पारदारिकम्..
5.6.48व् तद् एतद् दार-गुप्त्य्-अर्थम् आरब्धं श्रेयसे नृणाम्. प्रजानां दूषणायैव न विज्ञेयो ऽस्य संविधिः((160))..
5.6च् इति श्रिवात्स्यायनीये कामसूत्रे पारदारिके पञ्चमे ऽधिकरणे ईश्वर्कामितं पञ्चमो ऽध्यायः..लिव्रे 6 वैशिकं षष्टम् अधिकरणम्.
लेçओन् 1 प्रथमो ऽध्यायः
सेच्तिओन् (प्रकरण)50 [सहाय-गम्या:गम्य-गमन-कारण-चिन्ता-प्रकरणम्]
6.1.1 वेश्यानां पुरुषाधिगमे रतिर् वृत्तिश् च सर्गात्.
6.1.2 रतितः प्रवर्तनं स्वाभाविकं कृत्रिमम् अर्थार्थम्.
6.1.3 तद् अपि स्वाभाविकवद् रूपयेत्.
6.1.4 काम-परासु हि पुंसां विश्वास-योगात्.
6.1.5 अ:लुब्धतां च ख्यापयेत् तस्य निदर्शनार्थम्.
6.1.6 न चान्:उपायेनार्थान् साधयेद् आयति-संरक्षणार्थम्.
6.1.7 नित्यम् अलङ्कार-योगिनी राज-मार्गावलोकिनी दृश्यमाना न चातिवृत्ता तिष्ठेत्. पण्य-स: धर्मत्वात्.
6.1.8 यैर् नायकम् आवर्जयेद् अन्याभ्यश् चावच्छिन्द्याद् आत्मनश् चान्:अर्थं प्रतिकुर्याद् अर्थं च साधयेन् न च गम्यैः परिभूयेत तान् सहायान् कुर्यात्.
6.1.9 ते त्व् आरक्षक-पुरुषा धर्माधिकरणस्था((161)) दैव-ज्ञा विक्रान्ताः शूराः समान-विद्याः कला-ग्राहिणः पीठमर्द-वीट-विदूषक-मालाकार-गान्धिक-शौण्डिक-रजक-नापित- भिक्षुकास् तेच ते च कार्य-योगात्.
6.1.10 केवलार्थास् त्व् अमी गम्याः ण् स्व-तन्त्रः पूर्वे वयसि वर्तमानो वित्तवान् अ:परोक्ष-वृत्तिर् अधिकरणवान् अ:कृच्छ्राधिगत-वित्तः. संघर्षवान् सन्ततायः सुभग-मानी श्लाघनकः पण्डकश्((162)) च पुं-शब्दार्थी. समान-स्पर्धी स्व-भावतस् त्यागी. राजनि महामात्रे वा सिद्धो दैव-प्रमाणो वित्तावमानी गुरूणां शासनातिगः स:जातानां लक्ष्य-भूतः स:वित्त एक-पुत्रो लिङ्गी प्रच्छन्न-कामः शूरो वैद्यश् चेति.
6.1.11 प्रीति-यशो-ऽर्थास् तु गुणतो ऽधिगम्याः.
6.1.12 महा-कुलीनो विद्वान् सर्व-समय-ज्ञः कविर् आख्यान-कुशलो वाग्मी प्रगल्भो विविध-शिल्प- ज्ञो वृद्ध-दर्शी स्थूल-लक्षो महोत्साहो दृढ-भक्तिर् अन्:असूयकस् त्यागी मित्र-वत्सलो घटा-गोष्ठी-प्रेक्षणक-समाज-समस्या-क्रीडन-शीलो नीरुजो ऽ:व्यङ्ग-शरीरः प्राणवान् अ:मद्य-पो वृषो मैत्रः स्त्रीणां प्रनेता लालयिता च. न चासां वश-गः स्व-तन्त्र- वृत्तिर् अ:निष्ठुरो ऽन्:ईर्ष्यालुर् अन्:अवशङ्की चेति नायक-गुणाः.
6.1.13 नायिकायाः पुना रूप-यौवन-लक्षण-माधुर्य-योगिनी गुणेष्व् अनुरक्ता न तथार्थेषु प्रीति-संयोग-शीला स्थिर-मतिर् एक-जातीया विशेषार्थिनी नित्यम् अ:कदर्य-वृत्तिर् गोष्ठी-कला-प्रिया चेति नायिका-गुणाः.
6.1.14 नायिका पुनर् बुद्धि-शीलाचार आर्जवं कृत-ज्ञता दीर्घ-दूर-दर्शित्वं अ:विसंवादिता देश-काल-ज्ञता नागरकता दैन्यातिहास-पैशुन्य-परिवाद-क्रोध-लोभ-स्तम्भ-चापल- वर्जनं पूर्वाभिभाषिता काम-सूत्र-कौशलं तद्-अङ्ग-विद्यासु चेति साधारण-गुणाः.
6.1.15 गुण-विपर्यये दोषाः.
6.1.16 क्षयी रोगी कृमि-शक्र्द् वायसास्यः प्रिय-कलत्रः परुष-वाक् कदर्यो निर्घृणो गुरु-जन-परित्यक्तः स्तेनो दम्भ-शीलो मूल-कर्मणि प्रसक्तो मानापमानयोर् अन्:अपेक्षी द्वेष्यैर् अप्य् अर्थ-हार्यो विलज्ज इत्य् अ:गम्याः.
6.1.17 रागो भयम् अर्थः संघर्षो वैर-निर्यातनं जिज्ञासा पक्षः खेदो धर्मो यशो ऽनुकम्पा सुहृद्-वाक्यं ह्रीः प्रिय-सादृश्यं धन्यता रागापनयः साजात्यं साहवेश्यं सातत्यम् आयतिश् च गमन-कारणानि भवन्तीत्य् आचार्याः.
6.1.18 अर्थो ऽन्:अर्थ-प्रतीघातः प्रीतिश् चेति वात्स्यायनः.
6.1.19 अर्थस् तु प्रीत्या न बाधितः. अस्य प्राधान्यात्.
6.1.20 भयादिषु तु गुरु-लाघवं परीक्ष्यम्
# 50च् इति सहाय-गम्यागम्य-[गमन-]कारण-चिन्ता((163)).
सेच्तिओन् (प्रकरण)51
6.1.21 उपमन्त्रितापि गम्येन सहसा न प्रतिजानीयात्. पुरुषाणां सु:लभावमानित्वात्.
6.1.22 भाव-जिज्ञासार्थं परिचारक-मुखान् संवाहक-गायन-वैहासिकान् गम्ये तद्-भक्तान् वा प्रणिदध्यात्.
6.1.23 तद्-अ:भावे पीठमर्दादीन्. तेभ्यो नायकस्य शौचा:शौचं रागापरागौ सक्ता:सक्ततां दाना:दाने च विद्यात्.
6.1.24 संभावितेन च सह विट-पुरोगां प्रीतिं योजयेत्.
6.1.25 लावक-कुक्कुट-मेष-युद्ध-शुक-शारिका-प्रलापन-प्रेक्षणक-कला-व्यपदेशेन पीठमर्दो नायकं तस्या उदवसितम् आनयेत्.
6.1.26 तां वा तस्य.
6.1.27 आगतस्य प्रीति-कौतुक-जननं किं चिद् द्रव्य-जातं स्वयम् इदम् अ:साधारणोपभोग्यम् इति प्रीति-दायं दद्यात्.

6.1.28 यत्र च रमते तया गोष्ठ्यैनम् उपचारैश् च रञ्जयेत्.
6.1.29 गते च स:परिहास-प्रलापां सोपायनां परिचारिकाम् अभीक्ष्णं प्रेषयेत्..6.1.30 स:पीठमर्दायाश् च कारणापदेशेन स्वयं गमनम्
# 51च् इति गम्योपावर्तनम्((164)).
6.1.31 भवन्ति चात्र श्लोकाः.
6.1.31व् ताम्बूलानि स्रजश् चैव संस्कृतं चानुलेपनम्. आगतस्याहरेत् प्रीत्या कला-गोष्ठीश् च योजयेत्..
6.1.32व् द्रव्याणि प्रणये दद्यात् कुर्याच् च परिवर्तनम्. संप्रयोगस्य चाकूतम् निजेनैव प्रयोजयेत्..
6.1.33व् प्रीति-दायैर् उपन्यासैर् उपचारैश् च केवलैः. गम्येन सह संसृष्टा रञ्जयेत् तं ततः परम्((165))..
6.1च् इति श्री वात्स्यायनीये कामसूत्रे वैशिके षष्ठे ऽधिकरणे सहाय-गम्या:गम्य-चिन्ता गमन-कारणं गम्योपावर्तनं प्रथमो ऽध्यायः.
लेçओन् 2 द्वितीयो ऽध्यायः.
सेच्तिओन् (प्रकरण)52 [कान्तानुवृत्त-प्रकरणम्]
6.2.1 संयुक्ता नायकेन तद्-रण्जनार्थम् एकचारिणी-वृत्तम् अनुतिष्ठेत्((166)).
6.2.2 रञ्जयेन् न तु सज्जेत सक्तवच् च विचेष्टेतेति संक्षेपोक्तिः.
6.2.3 मातरि च क्रूर-शीलायाम् अर्थ-परायां चायत्ता स्यात्.
6.2.4 तद्-अ:भावे मातृकायाम्.
6.2.5 सा तु गम्येन नातिप्रीयेत.
6.2.6 प्रसह्य च दुहितरम् आनयेत्.
6.2.7 तत्र तु नायिकायाः संततम् अ:रतिर् निर्वेदो व्रीडां भयं च.
6.2.8 न त्व् एव शासनातिवृत्तिः.
6.2.9 व्याधिं चैकम् अ:निमित्तम् अ:जुगुप्सितम् अ:चक्षुर्-ग्राह्यम् अ:नित्यं च ख्यापयेत्.
6.2.10 सति कारणे तद्-अपदेशं च नायकान्:अभिगमनम्.
6.2.11 निर्:माल्यस्य तु नायिका चेटिकां प्रेषयेत् ताम्बूलस्य च.
6.2.12 व्यवाये तद्-उपचारेषु विस्मयः.
6.2.13 चतुःषष्ट्यां शिष्यत्वम्.
6.2.14 तद्-उपदिष्टानां च योगानाम् आभीक्ष्ण्येनानुयोगः.
6.2.15 तत्-सात्म्याद् रहसि वृत्तिः.
6.2.16 मनोरथानाम् आख्यानम्.
6.2.17 गुह्यानां वैकृत-प्रच्छादनम्.
6.2.18 शयने परावृत्तस्यानुपेक्षणम्.
6.2.19 आनुलोम्यं गुह्य-स्पर्शने.
6.2.20 सुप्तस्य चुम्बनम् आलिङ्गनं च.
6.2.21 प्रेक्षणम् अन्य-मनस्कस्य. राज-मार्गे च प्रासाद-स्थायास् तत्र विदिताया व्रीडा शाठ्य-नाशः.
6.2.22 तद्-द्वेष्ये द्वेष्यता. तत्-प्रिये प्रियता. तद्-रम्य रतिः. तम् अनु हर्ष-शोकौ. स्त्रीषु जिज्ञासा. कोपश् चा:दीर्गः.
6.2.23 स्व-कृतेष्व् अपि नख-दशन-चिह्नेष्व् अन्याशङ्का.
6.2.24 अनुरगस्या:वचनम्.
6.2.25 आकारतस् तु दर्शयेत्.
6.2.26 मद-स्वप्न-व्याधिषु तु निर्वचनम्.
6.2.27 श्लाघ्यानां नायक-कर्मणां च.
6.2.28 तस्मिन् ब्रुवाणे वाक्यार्थ-ग्रहणम्. तद् अवधार्य प्रशंसाविषये भाषणम्. तद्-वाक्यस्य चोत्तरेण योजनम्. भक्तिमांश् चेत्.
6.2.29 कथास्व् अनुवृत्तिर् अन्यत्र स:पत्न्याः.
6.2.30 निःश्वासे जृम्भते स्खलिते पतिते वा तस्य चार्तिम् आशंसीत.

6.2.31 क्षुत-व्याहृत-विस्मितेषु जीवेत्य् उदाहरणम्.
6.2.32 दौर्मनस्ये व्याधि-दौर्हृदापदेशः.
6.2.33 गुणतः परस्या:कीर्तनम्.
6.2.34 न निन्दा समान-दोषस्य.
6.2.35 दत्तस्य धारणम्.
6.2.36 वृथापराधे तद्-व्यसने वालङ्कारस्या:ग्रहणम् अ:भोजनं च.
6.2.37 तद्-युक्ताश् च विलापाः.
6.2.38 तेन सह देश-मोक्षं रोचयेत् राजनि निष्क्रयं च.
6.2.39 सामर्थ्यम् आयुष्यस् तद्-अवाप्तौ.
6.2.40 तस्यार्थाधिगमे ऽभिप्रेत-सिद्धौ शरीरोपचये वा पूर्व-संभाषित इष्ट-देवतोपहारः.
6.2.41 नित्यम् अलङ्कार-योगः. परिमितो ऽभ्यवहारः..6.2.42 गीते च नाम-गोत्रयोर् ग्रहणम्. ग्लान्याम् उरसि ललाटे च करं कुर्वीत. तत्-सुखम् उपलभ्य निद्रा-लाभः.
6.2.43 औत्सङ्गे चास्योपवेशनं स्वपनं च. गमनं वियोगे.
6.2.44 तस्मात् पुत्रार्थिनी स्यात्. आयुषो नाधिक्यम् इच्छेत्.
6.2.45 एतस्या:विज्ञातम् अर्थं रहसि न ब्रूयात्.
6.2.46 व्रतम् उपवासं चास्य निर्वर्तयेत् मयि दोष इति. अ:शक्ये स्वयम् अपि तद्-रूपा स्यात्.
6.2.47 विवादे तेनाप्य् अ:शक्यम् इत्य् अर्थ-निर्देशः.
6.2.48 तदीयम् आत्मीयं वा स्वयम् अ:विशेषेण पश्येत्.
6.2.49 तेन विना गोष्ठ्य्-आदीनाम् अ:गमनम् इति.
6.2.50 निर्:माल्य-धारणे श्लाघा उच्छिष्ट-भोजने च.
6.2.51 कुल-शील-शिल्प-जाति-विद्या-वर्ण-वित्त-देश-मित्र-गुण-वयो-माधुर्य-पूजा.
6.2.52 गीतादिषु चोदनम् अभिज्ञस्य.
6.2.53 भय-शीतोष्ण-वर्षाण्य् अन्:अपेक्ष्य तद्-अभिगमनम्.
6.2.54 स एव च मे स्याद् इत्य् और्ध्वदेहिकेषु वचनम्.
6.2.55 तद्-इष्ट-रस-भाव-शीलानुवर्तनम्.
6.2.56 मूल-कर्माभिशङ्का.
6.2.57 तद्-अभिगमने च जनन्या सह नित्यो विवादः.
6.2.58 बलात्कारेण च यद्य् अन्यत्र तया नीयेत तदा विषम् अन्:अशनं शस्त्रं रज्जुम् इति कामयेत.
6.2.59 प्रत्यायनं च प्रणिधिभिर् नायकस्य. स्वयं वात्मनो वृत्ति-ग्रहणम्.
6.2.60 न त्व् एवार्थेषु विवादः.
6.2.61 मात्रा विना किं चिन् न चेष्टेत.
6.2.62 प्रवासे शीघ्रागमनाय शाप-दानम्.
6.2.63 प्रोषिते मृजानियमश् चालङ्कारस्य प्रतिषेधः. मङ्गलं त्व् अपेक्ष्यम्. एकं शङ्ख-वलयं वा धारयेत्.
6.2.64 स्मरणम् अतीतानाम्. गमनम् ईक्षणिकोपश्रुतीनाम्. नक्षत्र-चन्द्र-सूर्य-ताराभ्यः स्पृहणम्.
6.2.65 इष्टस्वप्नप्रदर्शने तत्-सङ्गमो ममास्त्व् इति वचनम्.
6.2.66 उद्वेगो ऽन्:इष्टे सान्ति-कर्म च.
6.2.67 प्रत्यागते काम-पूजा.
6.2.68 देवतोपहाराणां करणम्.
6.2.69 सखीभिः पूर्ण-पात्रस्याहरणम्.
6.2.70 वायस-पूजा च.
6.2.71 प्रथम-समागमान्:अन्तरं चैतद् एव वायस-पूजा-वर्जम्.

6.2.72 सक्तस्य चानुमरणं ब्रूयात्.
6.2.73 निसृष्ट-भावः समान-वृत्तिः प्रयोजन-कारी निर्:आशङ्को निर्:अपेक्षो ऽर्थेष्व् इति सक्त-लक्षणानि.
6.2.74 तद् एतन् निदर्शनार्थं दत्तक-शासनाद् उक्तम्. अन्:उक्तं च लोकतः शीलयेत् पुरुष-प्रकृतितश् च.
6.2.75 भवतश् चात्र श्लोकौ
6.2.75व् सूक्ष्मत्वाद् अति:लोभाच् च प्रकृत्याज्ञानतस् तथा. काम-लक्ष्म तु दुर्:जानं स्त्रीणां तद्-भावितैर् अपि..
6.2.76व् कामयन्ते विरज्यन्ते रञ्जयन्ति त्यजन्ति च. कर्षयन्त्यो ऽपि सर्वार्थाञ् ज्ञायन्ते नैव योषितः((167))..
6.2च् इति श्री वात्स्यायनीये कामसूत्रे वैशिके षष्ठे ऽधिकरणे कान्तानुवृत्तं द्वितीयो ऽध्यायः.
लेçओन् 3 तृतीयो ऽध्यायः
सेच्तिओन् (प्रकरण)53 [अर्थागमोपाय-प्रकरणम्]
6.3.1 सक्ताद् वित्तादानं स्वाभाविकम् उपायतश् च.
6.3.2 तत्र स्वाभाविकं संकल्पात् समधिकं वा लभमाना नोपायान् प्रयुञ्जीतेत्य् आचार्याः.
6.3.3 विदितम् अप्य् उपायैः परिष्कृतं द्वि-गुणं दास्यतीति वात्स्यायनः.
6.3.4 अलंकार-भक्ष्य-भोज्य-पेय-माल्य-वस्त्र-गन्ध-द्रव्यादीनां व्यवहारिषु कालिकम् उद्धारार्त्थम् अर्थ-प्रतिनयनेन.
6.3.5 तत्-समक्षं तद्-वित्त-प्रशंसा.
6.3.6 व्रत-वृक्षाराम-देवकुल-तडागोद्यानोत्सव-प्रीति-दाय-व्यपदेशः.
6.3.7 तद्-अभिगमन-निमित्तो रक्षिभिश् चौरैर् वालङ्कार-परिमोषः.
6.3.8 दाहात् कुड्य-च्छेदात् प्रमादाद् भवने चार्थ-नाशः.
6.3.9 तथा याचितालङ्काराणां नायकालङ्काराणां च तद्-अभिगमनार्थस्य व्ययस्य प्रणिधिभिर् निवेदनम्.
6.3.10 तद्-अर्थम् ऋण-ग्रहणम्. जनन्या सह तद्-उद्भवस्य व्ययस्य विवादः..6.3.11 सुहृत्-कार्येष्व् अन्:अभिगमनम् अन्:अभिहार-हेतोः.
6.3.12 तैश् च पूर्वम् आहृता गुरवो ऽभिहाराः पूर्वम् उपनीताः पूर्वं श्राविताः स्युः.
6.3.13 उचितानां क्रियाणां विच्छित्तिः.
6.3.14 नायकार्थं च शिल्पिषु कार्यम्.
6.3.15 वैद्य-महामात्रयोर् उपकार-क्रिया कार्य-हेतोः.
6.3.16 मित्राणां चोपकारिणां व्यसनेष्व् अभ्युपपत्तिः.
6.3.17 गृह-कर्म सख्याः पुत्रस्योत्सञ्जनम् दोहदो व्याधिर् मित्रस्य दुःखापनयनम् इति.
6.3.18 अलंकारैक-देश-विक्रयो नायकस्यार्थे.
6.3.19 तया शीलितस्य चालङ्कारस्य भाण्डोपस्करस्य वा वणिजो विक्रयार्थं दर्शनम्.
6.3.20 प्रति:गणिकानां च सदृशस्य भाण्डस्य व्यतिकरे प्रतिविशिष्टस्य ग्रहणम्.
6.3.21 पूर्वोपकाराणाम् अ:विस्मरणम् अनुकीर्तनं च.
6.3.22 प्रणिधिभिः प्रति:गणिकानां लाभातिशयं श्रावयेत्.
6.3.23 तासु नायक-समक्षम् आत्मनो ऽभ्यधिकं लाभं भूतम् अ:भूतं वा व्रीडिता नाम वर्णयेत्.
6.3.24 पूर्व-योगिनां च लाभातिशयेन पुनः सन्धाने यतमानानाम् आविष्:कृतः प्रतिषेधः.
6.3.25 तत्-स्पर्धिनां त्याग-योगिनां निदर्शनम्.
6.3.26 न पुनर् एष्यतीति बाल-याचितकम्.
# 53 इत्य् अर्थागमोपायाः((168)).
सेच्तिओन् (प्रकरण)54
6.3.27 वि:रक्तं च नित्यम् एव प्रकृति-विक्रियातो विद्यान् मुख-वर्णाच् च.
6.3.28 ऊनम् अतिरिक्तं वा ददाति.
6.3.29 प्रतिलोमैः सम्बध्यते.
6.3.30 व्यपदिश्यान्यत् करोति.

6.3.31 उचितम् आच्छिनत्ति.
6.3.32 प्रतिज्ञातं विस्मरति. अन्यथा वा योजयति.
6.3.33 स्व्:पक्षैः संज्ञया भाषते.
6.3.34 मित्र-कार्यम् अपदिश्यान्यत्र शेते.
6.3.35 पूर्व-संसृष्टायाश् च परिजनेन मिथः कथयति.
6.3.36 तस्य सार-द्रव्याणि प्राग् अवबोधाद् अन्यापदेशेन हस्ते कुर्वीत.
6.3.37 तानि चास्या हस्ताद् उत्तम-र्णः प्रसह्य गृह्णीयात्.
6.3.38 विवदमानेन सह धर्मस्थेषु((169)) व्यवहरेद्
# 54 इति विरक्त-प्रतिपत्तिः((170)).
सेच्तिओन् (प्रकरण)55
6.3.39 सक्तं तु पूर्वोपकारिणम् अप्य् अल्प-फलं व्यालीकेनानुपालयेत्.
6.3.40 अ:सारं तु निष्प्रतिपत्तिकम् उपायतो ऽपवाहयेत्. अन्यम् अवष्टभ्य.
6.3.41 तद्-अन्:इष्ट-सेवा. निन्दिताभ्यासः. ओष्ठ-निर्भोगः. पादेन भूमेर् अभिघातः. अ:विज्ञात-विषयस्य संकथा. तद्-विज्ञातेष्व् अ:विस्मयः कुत्सा च. दर्प-विघातः अधिकैः सह संवासः. अन्:अपेक्षणम्. समान-दोषाणां निन्दा. रहसि चावस्थानम्.
6.3.42 जुगुप्सा. परिष्वङ्गे भुजमय्या सूच्या व्यवधानम्. स्तब्धता गात्राणाम्. सक्थ्नोर् व्यत्यासः. निद्रा-परत्वं च. श्रान्तम् उपलभ्य चोदना. अ:शक्तौ हासः. शक्ताव् अन्:अभिनन्दनम्. दिवापि. भावम् उपलभ्य महाजनाभिगमनम्.
6.3.43 वाक्येषु च्छल-ग्रहणम्. अ:नर्मणि हासः. नर्मणि चान्यम् अपदिश्य हसति वदति तस्मिन् कटाक्षेण परिजनस्य प्रेक्षणं ताडनं च. आहत्य चास्य कथाम् अन्याः कथाः. तद्-व्यालीकानां व्यसनानां चा:परिहार्याणाम् अनुकीर्तनम्. मर्मणां च चेटिकयोपक्षेपणम्.
6.3.44 आगते चा:दर्शनम्. अ:याच्य-याचनम्. अन्ते स्वयं मोक्षश् चेति परिग्रहकस्येति दत्तकस्य.
6.3.45 भवतश् चात्र श्लोकौ
6.3.45व् परीक्ष्य गम्यैः संयोगः संयुक्तस्यानुरञ्जनम्. रक्ताद् अर्थस्य चादानम् अन्ते मोक्षश् च वैशिकम्..
6.3.46व् एवम् एतेन कल्पेन स्थिता वेश्या परिग्रहे. नातिसन्धीयते गम्यैः करोत्य् अर्थांश् च पुष्कलान्((171))..
6.3च् इति श्री वात्स्यायनीये कामसूत्रे वैशिके षष्ठे ऽधिकरणे ऽर्थागमोपाया विरक्त-लिङ्गानि विरक्त-प्रतिपत्तिर् निष्कासन-क्रमास् तृतीयो ऽध्यायः.
लेçओन् 4 चतुर्थे ऽध्यायः.
सेच्तिओन् (प्रकरण)56 [विशीर्ण-प्रतिसंधान-प्रकरणम्]
6.4.1 वर्तमानं निष्पीडितार्थम् उत्सृजन्ती पूर्व-संसृष्टेन सह सन्दध्यात्.
6.4.2 स चेद् अवसितार्थो वित्तवान् सानुरागश् च ततः सन्धेयः.
6.4.3 अन्यत्र गतस् तर्कयितव्यः. स कार्य-युक्त्या षड्-विधः.
6.4.4 इतः स्वयम् अपसृतस् ततो ऽपि स्वयम् एवापसृतः [1]..6.4.5 इतस् ततश् च निष्कासितापसृतः [2.]
6.4.6 इतः स्वयम् अपसृतस् ततो निष्कासितापसृतः [3].
6.4.7 इतः स्वयम् अपसृतस् तत्र स्थितः [4].
6.4.8 इतो निष्कासितापसृतस् ततः स्वयम् अपसृतः [5].
6.4.9 इतो निष्कासितापसृतस् तत्र स्थितः [6].
6.4.10 इतस् ततश् च स्वयम् एवापसृत्योपजपति चेद् उभयोर् गुणान् अपेक्षी चल-बुद्धिर् अ:सन्धेयः [1].
6.4.11 इतस् ततश् च निष्कासितापसृतः स्थिर-बुद्धिः. स चेद् अन्यतो बहु लभमानया निष्कासितः स्यात् स:सारो ऽपि तया रोषितो ममा:मर्षाद् बहु दास्यतीति संधेयः [2अ].
6.4.12 निःसारतया कदर्यतया वा त्यक्तो न श्रेयान् [2ब्].
6.4.13 इतः स्वयम् अपसृतस् ततो निष्कासितापसृतो यद्य् अतिरिक्तम् आदौ च दद्यात् ततः प्रतिग्राह्यः [3].
6.4.14 इतः स्वयम् अपसृत्य तत्र स्थित उपजपंस् तर्कयितव्यः.
6.4.15 विशेषार्थी चागतस् ततो विशेषम् अ:पस्यन्न् आगन्तु-कामो मयि मां जिज्ञासितु-कामः सा आगत्य सानुरागत्वाद् दास्यति. तस्यां वा दोषान् दृष्ट्वा मयि भूयिष्ठान् गुणान् अधुना पश्यति स गुण-दर्शी भूयिष्ठं दस्याति [4अ].
6.4.16 बालो वा नैकत्र-दृष्टिर् अतिसंधान-प्रधानो वा हरिद्रा-रागो वा यत्-किं-चन-कारी वेत्य् अवेत्य संदध्यान् न वा [4ब्].
6.4.17 इतो निष्कासितापसृतस् ततः स्वयम् उपसृत उपजपंस् तर्कयितव्यः.
6.4.18 अनुरागाद् आगन्तु-कामः स बहु दास्यति. मम गुणैर् भावितो यो ऽन्यस्यां न रमते [5अ].
6.4.19 पूर्वम् अ:योगेन वा मया निष्कासितः स मां शीलयित्वा वैरं निर्यातयितु-कामो धनम् अभियोगाद् वा मयास्यापहृतं तद्-विश्वास्य प्रतीपम् आदातु-कामो निर्वेष्टु-कामो वा मां वर्तमानाद् भेदयित्वा त्यक्तु-काम इत्य् अ:कल्याण-बुद्धिर् अ:सन्धेयः [5ब्].

6.4.20 अन्यथा-बुद्धिः कालेन लम्भयितव्यः [5च्].
6.4.21 इतो निष्कासितस् तत्र स्थित उपजपन्न् एतेन व्याख्यातः [6].
6.4.22 तेषूपजपत्स्व् अन्यत्र स्थितः स्वयम् उपजपेत्.
6.4.23 व्यालीकार्थं निष्कासितो मयासाव् अन्यत्र गतो यत्नाद् आनेतव्यः.
6.4.24 इतः प्रवृत्त-संभाषो वा ततो भेदम् अवाप्स्यति.
6.4.25 तद्-अर्थाभिघातं करिष्यति.
6.4.26 अर्थागम-काले वास्य. स्थान-वृद्धिर् अस्य जाता. लब्धम् अनेनाधिकरणम्. दारैर् वियुक्तः पारतन्त्र्याद् व्यावृत्तः. पित्रा भ्रात्रा वा विभक्तः.
6.4.27 अनेन वा प्रतिबद्धम् अनेन सन्धिं कृत्वा नायकं धनिनम् अवाप्स्यामि.
6.4.28 विमानिता वा भार्यया तम् एव तस्यां विक्रमयिष्यामि.
6.4.29 अस्य वा मित्रं मद्-द्वेषिणींस:पत्नीं कामयते तद् अमुना भेदयिष्यामि.
6.4.30 चल-चित्ततया वा लाघवम् एनम् आपादयिष्यामीति.
6.4.31 तस्य पीठमर्दादयो मातुर् दौःशील्येन नायिकायाः सत्य् अप्य् अनुरागे विवशायाः पूर्वं निष्कासनं वर्णयेयुः.
6.4.32 वर्तमानेन चा:कामायाः संसर्गं विद्वेषं च.
6.4.33 तस्याश् च साभिज्ञानैः पूर्वानुरागैर् एनं प्रत्यापयेयुः.
6.4.34 अभिज्ञानं च त-कृतोपकार-संबद्धं स्याद्
# 56 इति विशीर्ण-प्रतिसंधानम्((172)).
6.4.35 अ:पूर्व-पूर्व-संसृष्टयोः पूर्व-संसृष्टः श्रेयान्. स हि विदित-शीलो दृष्ट-रागश् च सूपचारो भवतीत्य् आचार्याः.
6.4.36 पूर्व-संसृष्टः सर्वतो निष्पीडितार्थत्वान् नात्य्:अर्थम् अर्थ-दो दुःखं च पुनर् विश्वासयितुम्. अ:पूर्वस् तु सुखेनानुरज्यत इति वात्स्यायनः.
6.4.37 तथापि पुरुष-प्रकृतितो विशेषः.
6.4.38 भवन्ति चात्र श्लोकाः
6.4.38व् अन्यां भेदयितुं गम्याद् अन्यतो गम्यम् एव वा. स्थितस्य चोपघातार्थं पुनः संधानम् इष्यते..
6.4.39व् बिभेत्य् अन्यस्य संयोगाद् व्यालीकानि च नेक्षते. अति:सक्तः पुमान् यत्र बयाद् बहु ददाति च..
6.4.40व् अ:सक्तम् अभिनन्देत सक्तं परिभवेत् तथा. अन्य-दूतानुपाते च यः स्याद् अति:विशारदः..
6.4.41व् तत्रोपयायिनं पूर्वं नारी कालेन योजयेत्. भवेच् चा:च्छिन्न-संधाना न च सक्तं परित्यजेत्..
6.4.42व् सक्तं तु वशिनं नारी संभाव्याप्य् अन्यतो व्रजेत्. ततश् चार्थम् उपादाय सक्तम् एवानुरञ्जयेत्..
6.4.43व् आयतिं प्रसमीक्ष्यादौ लाभं प्रीतिं च पुष्कलाम्. सौहृदं प्रतिसंदध्याद् विशीर्णं स्त्री विचक्षणा((173))..
6.4च् इति श्री वात्स्यायनीये कामसूत्रे वैशिके षष्ठे ऽधिकरणे विशीर्ण-प्रतिसंधानं चतुर्थो ऽध्यायः..लेçओन् 5 पञ्चमो ऽध्यायः
सेच्तिओन् (प्रकरण)57 [लाभ-विशेष-प्रकरणम्]
6.5.1 गम्य-बाहुल्ये बहु प्रति:दिनं च लभमाना नैकं प्रतिगृह्णीयात्.
6.5.2 देशं कालं स्थितिम् आत्मनो गुणान् सौभाग्यं चान्याभ्यो न्यूनातिरिक्तां चावेक्ष्य रजन्याम्((174)) अर्थं स्थापयेत्.
6.5.3 गम्ये दूतांश् च प्रयोजयेत्. तत्-प्रतिबद्धांश् च स्वयं प्रहिणुयात्.
6.5.4 द्विस् त्रिश् चतुर् इति लाभातिशय-ग्रहार्थम् एकस्यापि गच्छेत्. परिग्रहं च चरेत्.
6.5.5 गम्य-यौगपद्ये तु लाभ-साम्ये यद् द्रव्यार्थिनी स्यात् तद् दायिनि विशेषः प्रत्य्:अक्ष इत्य् आचार्याः.
6.5.6 अ:प्रत्य्:आदेयत्वात् सर्व-कार्याणां तन्-मूलत्वाद् हिरण्य-द इति वात्स्यायनः.
6.5.7 सुवर्ण-रजत-ताम्र-कांस्य-लोह-भाण्डोपस्कारास्तरण-प्रावरण-वासो-विशेष-गन्ध-द्रव्य- कटुक-भाण्ड-वृत-तैल-धान्य-पशु-जातीनां पूर्व-पूर्वतो विशेषः.
6.5.8 यत् तत्र साम्याद् वा द्रव्य-साम्ये मित्र-वाक्याद् अति:पातित्वाद् आयतितो गम्य-गुणतः प्रीतितश् च विशेषः.
6.5.9 रागि-त्यागिनोस् त्यागिनि विशेषः प्रत्यक्ष इत्य् आचार्याः.
6.5.10 शक्यो हि रागिणि त्याग आधातुम्.
6.5.11 लुब्धो ऽपि हि रक्तस् त्यजति न तु त्यागी निर्बन्धाद् राज्यत इति वात्स्यायनः.
6.5.12 तत्रापि धनवद्-अ:धनवतोर् धनवति विशेषः. त्यागि-प्रयोजन-कर्त्रोः प्रयोजन-कर्तरि विशेषः प्रत्यक्ष इत्य् आचार्याः.

6.5.13 प्रयोजन-कर्ता सकृत् कृत्वा कृतिनम् आत्मानं मन्यते त्यागी पुनर् अतीतं नापेक्षत इति वात्स्यायनः.
6.5.14 तत्राप्य् आत्ययिकतो विशेषः.
6.5.15 कृतज्ञ-त्यागिनोस् त्यागिनि विशेषः प्रत्यक्ष इत्य् आचार्याः.
6.5.16 चिरम् आराधितो ऽपि त्यागी व्यलीकम् एकम् उपलभ्य प्रतिगणिकया वा मिथ्या-दूषितः श्रमम् अतीतं नापेक्षते.
6.5.17 प्रायेण हि तेजस्विन ऋजवो ऽन्:आदृताश् च त्यागिनो भवन्ति.
6.5.18 कृतज्ञस् तु पूर्व-श्रमापेक्षी न सहसा विरज्यते. परीक्षित-शीलत्वाच् च न मिथ्या दूष्यत इति वात्स्यायनः.
6.5.19 तत्राप्य् आयतितो विशेषः.
6.5.20 मित्र-वचनार्थागमयोर् अर्थागमे विशेषः प्रत्यक्ष इत्य् आचार्याः.
6.5.21 सो पि ह्य् अर्थागामो भविता. मित्रं तु सकृद्-वाक्ये प्रतिहते कलुषितं स्याद् इति वात्स्यायनः.
6.5.22 तत्राप्य् अतिपाततो विशेषः.
6.5.23 तत्र कार्य-संदर्शनेन मित्रम् अनुनीय श्वो-भूते वचनम् अस्त्व् इति ततो ऽतिपातिनम् अर्थं प्रतिगृह्णीयात्.
6.5.24 अर्थागमान्:अर्थ-प्रतिघातयोर् अर्थागमे विशेषः प्रत्यक्ष इत्य् आचार्याः.
6.5.25 अर्थः परिमितावच्छेदः अन्:अर्थः पुनः सकृत्-प्रसृतो न ज्ञायते क्वावतिष्ठत इति वात्स्यायनः.
6.5.26 तत्रापि गुरु-लाघव-कृतो विशेषः.
6.5.27 एतेनार्थ-संशयाद् अन्:अर्थ-प्रतीकारे विशेषो व्याख्यातः.
6.5.28 देव-कुल-तडागारामाणां करणम् स्थलीनाम् अग्नि-चैत्यानां निबन्धनम् गो-सहस्राणां पात्रान्तरितं ब्राह्मणेभ्यो दानम् देवतानां पूजोपहार-प्रवर्तनम् तद्-व्यय-सहिष्णोर् वा धनस्य परिग्रहणम् इत्य् उत्तम-गणिकानां लाभातिशयः.
6.5.29 सार्वाङ्गिको ऽकङ्कार-योगो गृहस्योदारस्य करणम्. महार्हैर् भाण्डैः परिचारकैश् च गृह-परिच्छादस्योज्ज्वलतेति रूप-जीवानां लाभातिशयः.
6.5.30 नित्यं शुक्लम् आच्छादनम् अपक्षुदम् अन्न-पानं नित्यं सौगन्धिकेन ताम्बूलेन च योगः स:हिरण्य-भागम् अलङ्करणम् इति कुम्भ-दासीनां लाभातिशयः.
6.5.31 एतेन प्रदेशेन मध्यमाधमानाम् अपि लाभातिशयान् सर्वासाम् एव योजयेद् इत्य् आचार्याः.
6.5.32 देश-काल-विभाव-सामर्थ्यानुराग-लोक-प्रवृत्ति-वशाद् अ:नियत-लाभाद् इयम् अ:वृत्तिर् इति वात्स्यायनः.
6.5.33 गम्यम् अन्यतो निवारयितु-कामा सक्तम् अन्यस्याम् अपहर्तु-कामा वा अन्यां वा लाभतो वियुयुक्षमाणा:गम्य-संसर्गाद् आत्मनः स्थानं वृद्धिम् आयतिम् अभिगम्यतां च मन्यमाना अन्:अर्थ-प्रतीकारे वा साहाय्यम् एनं कारयितु-कामा सक्तस्य वान्यस्य व्यलीकार्थिनी पूर्वोपकारम् अ:कृतम् इव पश्यन्ती केवल-प्रीत्य्-अर्थिनी वा कल्याण-बुद्धेर् अल्पम् अपि लाभं प्रतिगृह्णीयात्.
6.5.34 आयत्य्-अर्थिनी तु तम् आश्रित्य चान्:अर्थं प्रतिचिकीर्षन्ती नैव प्रतिगृह्णीयात्.
6.5.35 त्यक्ष्याम्य् एनम् अन्यतः प्रतिसन्धास्यामि गमिष्यति दारैर् योक्ष्यते नाशयिष्यत्य् अन्:अर्थान् अङ्कुश-भूत उत्तराध्यक्षो ऽस्यागमिष्यति स्वामी पिता वा स्थान-भ्रंशो वास्य भविष्यति चल-चित्तश् चेति मन्यमाना तदात्वे तस्माल् लाभम् इच्छेत्..6.5.36 प्रतिज्ञातम् ईश्वरेण प्रतिग्रहं लप्स्यते अधिकरणं स्थानं वा प्राप्स्यति वृत्ति-कालो ऽस्य वा आसन्नः वाहनम् अस्यागमिष्यति स्थल-पत्त्रं वा सस्यम् अस्य पक्ष्यते कृतम् अस्मिन् न नश्यति नित्यम् अ:विसंवादको वेत्य् आयत्याम् इच्छेत्. परिग्रह-कल्पं वाचरेत्.
6.5.37 भवन्ति चात्र श्लोकाः
6.5.37व् कृच्छ्राधिगत-वित्तांश् च राज-वल्लभ-निष्ठुरान्. आयत्यां च तदात्वे च दूराद् एव विवर्जयेत्..
6.5.38व् अ:अर्थो वर्जने येषां गमने ऽभ्युदयस् तथा. प्रयत्नेनापि तान् गृह्य सापदेशम् उपक्रमेत्..
6.5.39व् प्रसन्ना ये प्रयच्छन्ति स्व्:अल्पे ऽप्य् अ:गणितं वसु. स्थूल-लक्षान् महोत्साहांस् तान् गच्छेत् स्वैर् अपि व्ययैः((175))..
6.5च् इति श्री वात्स्यायनीये कामसूत्रे वैशिके षष्ठे ऽधिकरणे लाभ-विशेषाः पञ्चमो ऽध्यायः.
लेçओन् 6 षष्ठो ऽद्यायः
सेच्तिओन् (प्रकरण)58 [अर्थान्:अर्थानुबन्ध-संशय-विचार-प्रकरणम्]
6.6.1 अर्थान् आचर्यमाणान् अन्:अर्था अप्यनूद्भवन्त्य् अनुबन्धाः संशयाश् च((176)).
6.6.2 ते बुद्धि-दौर्बल्याद् अति:रागाद् अत्य्:अभिमानाद् अति:दम्भाद् अत्य्:आर्जवाद् अति:विश्वासाद् अति:क्रोधात् प्रमादात् साहसाद् दैव-योगाच् च स्युः.
6.6.3 तेषां फलं कृतस्य व्ययस्य निष्:फलत्वम् अन्:आयतिर् आगमिष्यतो ऽर्थस्य निवर्तनम् आप्तस्य निष्क्रमणं पारुष्यस्य प्राप्तिर् गम्यता शरीरस्य प्रघातः केशानां छेदनं पातनम् अङ्ग-वैकल्यापत्तिः.
6.6.4 तस्मात् तान् आदित एव परिजिहीर्षेद् अर्थ-भूयिष्ठांश् चोपेक्षेत.
6.6.5 अर्थो धर्मः काम इत्य् अर्थ-त्रिवर्गः.
6.6.6 अन्:अर्थो ऽ:धर्मो द्वेष इत्य् अन्:अर्थ-त्रिवर्गः.
6.6.7 तेष्व् आचर्यमाणेष्व् अन्यस्यापि निष्पत्तिर् अनुबन्धः.
6.6.8 संदिग्धायां तु फल-प्राप्तौ स्याद् वा न वेति शुद्ध-संशयः.
6.6.9 इदं वा स्याद् इदं वेति संकीर्णः.
6.6.10 एकस्मिन् क्रियमाणे कार्ये कार्य-द्वयस्योत्पत्तिर् उभयतो:योगः.

6.6.11 समन्ताद् उत्पत्तिः समन्ततो:योग इति तान् उदाहरिष्यामः.
6.6.12 विचारित-रूपो ऽर्थ-त्रिवर्गः. तद्-विपरीत एवान्:अर्थ-त्रिवर्गः.
6.6.13 यस्योत्तमस्याभिगमने प्रत्य्:अक्षतो ऽर्थ-लाभो ग्रहणीयत्वम् आयतिर् आगमः प्रार्थनीयत्वं चान्येषां स्यात् सो ऽर्थो ऽर्थानुबन्धः.
6.6.14 लाभ-मात्रे कस्य चिद् अन्यस्य गमनं सो ऽर्थो निर्:अनुबन्धः.
6.6.15 अन्यार्थ-परिग्रहे सक्ताद् आयति-च्छेदनम् अर्थस्य निष्क्रमणं लोक-विद्विष्टस्य वा नीचस्य गमनम् आयति-घ्नम् अर्थो ऽन्:अर्थानुबन्धः.
6.6.16 स्वेन व्ययेन शूरस्य महामात्रस्य प्रभवतो वा लुब्धस्य गमनं निष्:फलम् अपि व्यसन-प्रतीकारार्थं महतश् चार्थ-घ्नस्य निमित्तस्य प्रशमनम् आयति-जननं सो ऽन्:अर्थो ऽर्थानुबन्धः.
6.6.17 कदर्यस्य सुभग-मानिनः कृत-घ्नस्य वाति:सन्धान-शीलस्य स्वैर् अपि व्ययैस् तथाराधनम् अन्ते निष्:फलं सो ऽन्:अर्थो निर्:अनुबन्धः.
6.6.18 तस्यैव राज-वल्लभस्य क्रौर्य-प्रभावाधिकस्य तथैवाराधनम् अन्ते निष्:फलं निष्कासनं च दोष-करं सो ऽन्:अर्थो ऽन्:अर्थानुबन्धः.
6.6.19 एवं धर्म-कामयोर् अप्य् अनुबन्धान् योजयेत्.
6.6.20 परस्परेण च युक्त्या संकिरेद्
6.6.20च् इत्य् अनुबन्धाः((177)).
6.6.21 परितोषितो ऽपि दास्यति न वेत्य् अर्थ-संशयः.
6.6.22 निष्पीडितार्थम् अ:फलम् उत्सृजन्त्या अर्थम् अ:लभमानाया धर्मः स्यान् न वेति धर्म-संशयः.
6.6.23 अभिप्रेतम् उपलभ्य परिचारकम् अन्यं वा क्षुद्रं गत्वा काअः स्यान् न वेति काम-संशयः.
6.6.24 प्रभाववान् क्षुद्रो ऽन्:अभिगतो ऽन्:अर्थं करिष्यति न वेत्य् अन्:अर्थ-संशयः.
6.6.25 अत्य्:अन्त-निष्:फलः सक्तः परित्यक्तः पितृ-लोकं यायात् तत्रा:धर्मः स्यान् न वेत्य् अ:धर्म-संशयः.
6.6.26 रागस्यापि विवक्षायाम् अभिप्रेतमन्:उपलभ्य विरागः स्यान् न वेति द्वेष-संशयः.
6.6.26च् इति शुद्ध-संशयाः.
6.6.27 अथ संकीर्णाः((178)).
6.6.28 आगन्तोर् अ:विदित-शीलस्य वल्लभ-संश्रयस्य प्रभविष्णोर् वा समुपस्थितस्याराधनम् अर्थो ऽन्:अर्थ इति संशयः.
6.6.29 श्रोत्रियस्य ब्रह्मचारिणो दीक्षितस्य व्रतिनो लिङ्गिनो वा मां दृष्ट्वा जात-रागस्य मुमूर्षोर् मित्र-वाक्याद् आनृशंस्याच् च गमनं धर्मो ऽ:धर्म इति संशयः..6.6.30 लोकाद् एवा:कृत-प्रत्ययाद् अ:गुणो गुणवान् वेत्य् अन्:अवेक्ष्य गमनं कामो द्वेष इति संशयः.
6.6.31 संकिरेच् च परस्परेण.
6.6.31च् इति संकीर्ण-संशयाः.
6.6.32 यत्र परस्याभिगमने ऽर्थः सक्ताच् च संघर्षतः स उभयतो ऽर्थः.
6.6.33 यत्र स्वेन व्ययेन निष्:फलम् अभिगमनं सक्ताच् चा:मर्षिताद् वित्त-प्रत्यादानं स उभयतो ऽन्:अर्थः.
6.6.34 यत्राभिगमने ऽर्थो भविष्यति न वेत्य् आशङ्का सक्तो ऽपि संघर्षाद् दास्यति न वेति स उभयतो ऽर्थ-संशयः.
6.6.35 यत्राभिगमने व्ययवति पूर्वो विरुद्धः क्रोधाद् अपकारं करिष्यति न वेति सक्तो वामर्षितो दत्तं प्रत्य्:आदास्यति न वेति स उभयतो ऽन्:अर्थ-संशयः.
6.6.35च् इत्य् औद्दालकेर् उभयतो-योगाः.
6.6.36 बाभ्रवीयास् तु((179)).
6.6.37 यत्राभिगमने ऽर्थो ऽन्:अभिगमने च सक्ताद् अर्थः स उभयतो:ऽर्थः.
6.6.38 यत्राभिगमने निष्:फलो व्ययो ऽन्:अभिगमने च निष्:प्रतीकारो ऽन्:अर्थः स उभयतो:ऽन्:अर्थः
6.6.39 यत्राभिगमने निर्:व्ययो दास्यति न वेति संशयो ऽन्:अभिगमने सक्तो दास्यति न वेति स उभयतो:ऽर्थ-संशयः.
6.6.40 यत्राभिगमने व्ययवति पूर्वो विरुद्धः प्रभाववान् प्राप्स्यते न वेति संशयो ऽन्:अभिगमने च क्रोधाद् अन्:अर्थं करिष्यति न वेति स उभयतो:ऽन्:अर्थ-संशयः.
6.6.41 एतेषाम् एव व्यतिकरे ऽन्यतो ऽर्थो ऽन्यतो ऽन्:अर्थः अन्यतो ऽर्थो ऽन्यतो ऽर्थ-संशयः अन्यतो ऽर्थो ऽन्यतो ऽन्:अर्थ-संशयः.
6.6.41च् इति षट्-संकीर्ण-योगाः.
6.6.42 तेषु सहायैः सह विमृश्य यतो ऽर्थ-भूयिष्ठो ऽर्थ-संशयो गुरुर् अन्:अर्थ-प्रशमो वा ततः प्रवर्तेत.
6.6.43 एवं धर्म-कामाव् अप्य् अनयैव युक्त्योदाहरेत्((180)). संकिरेच् च परस्परेण व्यतिषञ्जयेच् च
6.6.43च् इत्य् उभयतो:योगाः.
6.6.44 संभूय च विटाः परिगृह्णान्त्य् एकाम् असौ गोष्ठी-परिग्रहः.
6.6.45 सा तेषाम् इतस् ततः संसृज्यमाना प्रत्य्:एकं संघर्षाद् अर्थं निर्वर्तयेत्.

6.6.46 सु:वसन्तकादिषु च योगे यो मे इमम् अमुं च संपादयिष्यति तस्याद्य गमिष्यति मे दुहितेति मात्रा वाचयेत्.
6.6.47 तेषां च संघर्षजे ऽभिगमने कार्याणि लक्षयेत्.
6.6.48 एकतो ऽर्थः सर्वतो ऽर्थः एकतो ऽन्:अर्थः सर्वतो ऽन्:अर्थः. अर्धतो ऽर्थः सर्वतो ऽर्थः अर्धतो ऽन्:अर्थः सर्वतो ऽन्:अर्थः.
6.6.48च् इति समन्ततो योगाः.
6.6.49 अर्थ-संशयम् अन्:अर्थ-संशयं च पूर्ववद् योजयेत्. संकिरेच् च तथा धर्म-कामाव् अपि.
6.6.49च् इत्य् अर्थान्:अर्थानुबन्ध-संशय-विचाराः((181)).
6.6.50 कुम्भदासी परिचारिका कुलटा स्वैरिणी नटी शिल्पकारिका प्रकाशविनष्टा रूपाजीवा गणिका चेति वेष्या-विशेषाः.
6.6.51 सर्वासां चानुरूपेण गम्याः सहायास् तस्-उपरञ्जनम् अर्थागमोपाया निष्कासनं पुनः संधानं लाभ-विशेषानुबन्धा अर्थान्:अर्थानुबन्ध-संशय-विचाराश् च
# 58 इति वैशिकम्((182)).
6.6.52 भवतश् चात्र श्लोकौ
6.6.52व् रत्य्-अर्थाः पुरुषा येन रत्य्-अर्थाश् चैव योषितः. शास्त्रस्यार्थ-प्रधानत्वात् तेन योगो ऽत्र योषिताम्..
6.6.53व् सन्ति राग-परा नार्यः सन्ति चार्थ-परा अपि. प्राक् तत्र वर्णितो रागो वेश्या-योगाश् च वैशिके((183))..
6.6च् इति श्री वात्स्यायनीये कामसूत्रे वैशिके षष्ठे ऽधिकरणे ऽथान्:अर्थानुबन्ध-संशय-विचारा वेश्या-विशेषाश् च षष्ठो ऽध्यायः..लिव्रे 7 औपनिषदिकं नाम सप्तमम् अधिकरणम्
लेçओन् 1 प्रथमो ऽध्यायः
सेच्तिओन् (प्रकरण)59 [सुभगं-करणादि-प्रकरणम्]
7.1.1 व्याख्यातं च काम-सूत्रम्.
7.1.2 तत्रोक्तेस् तु विधिभिर् अभिप्रेतम् अर्थम् अन्:अधिगच्छन् औपनिषदिकम् आचरेत्.
7.1.3 रूपं गुणो वयस्-त्याग इति सुभगं-करणम्.
7.1.4 तगर-कुष्ठ-तालीस-पत्त्रकानुलेपनं सुभगं-करणम्.
7.1.5 एतैर् एव सु:पिष्टैर् वर्तिम् आलिप्याक्ष-तैलेन नरकपाले साधितम् अञ्जनं च.
7.1.6 पुनर् नवासहदेवीसारिवाकुरण्टोत्पल-पत्त्रैश् च सिद्धं तैलम् अभ्यञ्जनम्.
7.1.7 तद्-युक्ता एव स्रजश् च.
7.1.8 पद्मोत्पल-नागकेसराणां शोषितानां चूर्णं मधु-घृताभ्याम् अवलिह्य सुभगो भवति.
7.1.9 तान्य् एव नगरतालीस-तमाल-पत्त्र-युक्तान्य् अनुलिप्य.
7.1.10 मयूरस्याक्षि तरक्षोर् वा सुवर्णेनावलिप्य दक्षिण-हस्तेन धारयेद्
7.1.10च् इति सुभगं-करणम्((184)).
7.1.11 तथा बादर-मणिं शङ्ख-मणिं च तथैव तेषु चाथर्वणान् योगान् गमयेत्.
7.1.12 विद्या-तन्त्राच् च विद्या-योगात् प्राप्त-यौवनां परिचारिकां स्वामी संवत्सर-मात्रम् अन्यतो वारयेत्. ततो वातितां बालां वामत्वाल् लालसी:भूतेषु गम्येषु यो ऽस्यै संघर्षेण बहु दद्यात् तस्मै विसृजेद् इति सौभाग्य-वर्धनम्.
7.1.13 गणिका प्राप्त-यौवनां स्वां दुहितरं तस्या विज्ञान-शील-रूपानुरूप्येण तान् अभिनिमन्त्र्य सारेण यो ऽस्या इदम् इदं च दद्यात् स पाणिं गृह्णीयाद् इति संभाष्य रक्षयेद् इति.
7.1.14 सा च मातुर् अ:विदिता नाम नागरिक-पुत्रैर् धनिभिर् अत्य्:अर्थं प्रीयेत.
7.1.15 तेषां कला-ग्रहणे गन्धर्व-शालायां भीक्षुकी-भवने तत्र तत्र च संदर्शन-योगाः.
7.1.16 तेषां यथोक्त-दायिनां माता पाणिं ग्राहयेत्.
7.1.17 तावद् अर्थम् अ:लभमाना तु स्वेनाप्य् एक-देशेन दुहित्र एतद् दत्तम् अनेनेति ख्यापयेत्.
7.1.18 ऊढाया वा कन्या-भावं विमोचयेत्.
7.1.19 प्रच्छन्नं वा तैः संयोज्य स्वयम् अ:जानती भूत्वा ततो विदितेष्व् एतं धर्मस्थेषु((185)) निवेदयेत्.
7.1.20 सख्यैव तु दास्या वा मोचित-कन्या-भावां सु:गृहीत-काम-सूत्राम् आभ्यासिकेषु योगेषु प्रतिष्ठितां प्रतिष्ठिते वयसि सौभाग्ये च दुहितरम् अवसृजन्ति गणिका इति प्राच्योपचाराः.
7.1.21 पाणि-ग्रहश् च संवत्सरम् अ:व्यभिचार्यस् ततो यथा कामिनी स्यात्.
7.1.22 ऊर्ध्वम् अपि संवत्सरात् परिणीतेन निमन्त्र्यमाणा लाभम् अप्य् उत्सृज्य तां रात्रिं तस्यागच्छेत्.
7.1.22च् इति वेश्यायाः पाणि-ग्रहण-विधिः सौभाग्य-वर्धनं च.
7.1.23 एतेन रङ्गोपजीविनां कन्या व्याख्याताः.

मूल पाठ: Kāmasūtra · Data entry Jean Fezas · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc