कामसूत्र · भाग 120
लिव्रे 1 साधारणं नाम प्रथमम् अधिकरणम्
लेçओन् 1 अथ शास्त्र-संग्रहः प्रथमो ऽध्यायः
सेच्तिओन् (प्रकरण) 1
1.1.1 धर्मार्थ-कामेभ्यो नमः.
1.1.2 शास्त्रे प्रकृतत्वात्((1)).
1.1.3 तत्समयावबोधकेभ्यश् च आचार्येभ्यः. इति.
1.1.4 तत्-संबन्धात्. इति.
1.1.5 प्रजापतिर् हि प्रजाः सृष्ट्वा तासां स्थिति-निबन्धनं त्रिवर्गस्य साधनम् अध्यायानां शतसहस्रेणाग्रे प्रोवाच.
1.1.6 तस्यैकदेशिकं मनुः स्वायंभुवो धर्माधिकारिकं पृथक् चकार.
1.1.7 बृहस्पतिर् अर्थाधिकारिकम्.
1.1.8 महादेवानुचरश् च नन्दी सहस्रेणाध्यायानां पृथक् काम-सूत्रं प्रोवाच.
1.1.9 तद् एव तु पञ्चभिर् अध्याय-शतैर् औद्दालिकिः श्वेतकेतुः संचिक्षेप.
1.1.10 तद् एव तु पुनर् अध्य्:अर्धेनाध्यायशतेन [1]साधारण-[2]सांप्रयोगिक-[3]कन्या-संप्रयुक्तक-[ 4]भार्याधिकारिक-[5]पारदारिक-[6]वैशिक-[7]औपनिषदिकैः सप्तभिर् अधिकरणैर् बाभ्रव्यः पाञ्चालः संचिक्षेप.
1.1.11 तस्य षष्टं वैशिकम् अधिकरणं पाटलिपुत्रकाणां गणिकानां नियोगाद् दत्तकः पृथक् चकार.
1.1.12 तत्-प्रसङ्गाच् चारायणः साधारणम् अधिकरणं प्रोवाच. सुवर्णनाभः सांप्रयोगिकम्. घोटकमुखः कन्या-संप्रयुक्तकम्. गोनर्दीयो भार्याधिकारिकम्. गोणिकापुत्रः पारदारिकम्. कुचुमार औपनिषदिकम् इति.
1.1.13 एवं बहुभिर् आचार्यैस् तच् छास्त्रं खण्डशः प्रणीतम् उत्सन्न-कल्पम् अभूत्.
1.1.14 तत्र दत्तकादिभिः प्रणीतानां शास्त्रावयवानाम् एकदेशत्वात् महद् इति च बाभ्रवीयस्य दुर्:आध्येयत्वात् संक्षिप्य सर्वम् अर्थम् अल्पेन ग्रन्थेन कामसूत्रम् इदं प्रणीतम्.
1.1.15 तस्यायं प्रकरणाधिकरण-समुद्देशः
1.1.16 शास्त्र-संग्रहः. त्रिवर्ग-प्रतिपत्तिः. विद्यासमुद्देशः. नागरक-वृत्तम्. नायक-सहाय-दूती-कर्मविमर्शः. इति साधारणं प्रथमाधिकरणम् अध्यायः पञ्च प्रकरणानि पञ्च.
1.1.17 प्रमाण-काला-भावेभ्यो रतावस्थापनम्. प्रीति-विशेषाः. आलिङ्गन-विचाराः. चुम्बन-विकल्पाः..नखरदन-जातयः. दशन-च्छेद्य-विधयः. देश्या उपचाराः संवेशन-प्रकाराः चित्र-रतानि प्रहण-योगः तद्-युक्ताश् च सीत्कृतोपक्रमाः पुरुषायितम् पुरुषोपसृप्तानि औपरिष्टकम् रतारम्भावसानिकम् रत-विशेषाः प्रणय-कलहः इति सांप्रयोगिकं द्वितीयम् अधिकरणम्. अध्यया दश प्रकरणानि सप्तदश.
1.1.18 वरण-विधानम् सम्बन्ध-निर्णयः कन्या-विस्रम्भणम् बालायाः उपक्रमाः इङ्गिताकार-सूचनम् एक-पुरुषाभियोगः प्रयोज्यस्योपावर्तणम् अभियोगतश् च कन्यायाः प्रतिपत्तिः विवाह-योगः इति कन्या-संप्रयुक्तकं तृतीयाधिकरणम्. अध्यायाः पञ्च प्रकरणानि नव
1.1.19 एकचारिणी-वृत्तम् प्रवासचार्या सपत्नीषु ज्येष्ठा-वृत्तम् कनिष्ठा-वृत्तम् पुनर्भू-वृत्तम् दुर्भगा-वृत्तम् आन्तःपुरिकम् पुरुषस्य बह्वीषु प्रतिपत्तिः इति भार्याधिकारिकं चतुर्थम् अधिकरणम् अध्यायौ द्वौ प्रकरणान्य् अष्टौ
1.1.20 स्त्री-पुरुष-शीलावस्थापनम् व्यावर्त्तन-कारणानि स्त्रीषु सिद्धाः पुरुषाः अ:यत्न-साध्या योषितः परिचय-कारणानि अभियोगाः भाव-परीक्षा दूती-कर्माणि ईश्वरकामितम् अन्तःपुरिकं दार-रक्षितकम् इति पारदारिकं पञ्चमम् अधिकरणम् अध्यायाः षट् प्रकरणानि दश((2))
1.1.21 गम्य-चिन्ता गमन-कारणानि उपावर्तन-विधिः कान्तानुवर्तनम् अर्थागमोपायाः विरक्त-लिङ्गानि विरक्त-प्रतिपत्तिः निष्कासन-प्रकाराः विशीर्ण-प्रतिसंधानम्.लाभविशेषः अर्थानर्थानुबन्ध-संशय-विचारः वेश्या-विशेषाश् च इति वैशिकं षष्टम् अधिकरणम् अध्यायः षट् प्रकरणानि द्वादश.
1.1.22 सुभगं-करणम् वशी-करणम् वृष्याश् च योगाः नष्ट-राग-प्रत्यानयनम् वृद्धि-विधयः चित्राश् च योगाः इत्य् औपनिषदिकं सप्तमम् अधिकरणम् अध्यायौ द्वौ प्रकरणानि षट्.
1.1.23 एवं षट्त्रिंशद् अध्यायाः चतुःशष्टिः प्रकरणानि((3)) अधिकरणानि सप्त स:पादं श्लोक-सहस्रम् इति शास्त्रस्य संग्रहः.
1.1.24व् संक्षेपम् इमम् उक्त्वास्य विस्तारो ऽतः प्रवक्ष्यते. इष्टं हि विदुषां लोके समास-व्यास-भाषणम्..
1.1च् इति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमे ऽधिकरणे शास्त्र-संग्रहः प्रहमो ऽध्यायः.
लेçओन् 2 अथ त्रिवर्ग-प्रतिपत्ति-नामको द्वितीयो ऽध्यायः.
सेच्तिओन् (प्रकरण) 2 अ) अनुष्ठान
1.2.1 शतायुर् वै पुरुषो विभज्य कालम् अन्योन्यानुबद्धं परस्परस्यानुपघातकं त्रिवर्गं सेवेत.
1.2.2 बाल्ये विद्या-ग्रहणादीन् अर्थान्.
1.2.3 कामं च यौवने.
1.2.4 स्थाविरे धर्मं मोक्षं च.
1.2.5 अ:नित्यत्वाद् आयुषो यथोपपादं वा सेवेत.
1.2.6 ब्रह्मचर्यम् एव त्व् आ विद्या-ग्रहणात्. ब्) अवबोधः
1.2.7 अ:लौकिकत्वाद् अ:दृष्टार्थत्वाद् अ:प्रवृत्तानां अज्ञादीनां शास्त्रात् प्रवर्तनम् लौकि[क]त्वाद् दृष्टार्थत्वाच् च प्रवृत्तेभ्यश् च मांस-भक्षणादिभ्यः शास्त्राद् एव निवारणं धर्मः.
1.2.8 तं श्रुतेर् धर्मज्ञ-समवायाच् च प्रतिपद्येत.
1.2.9 विद्या-भूमि-हिरण्य-पशु-धान्य-भाण्डोपस्कर-मित्रादीनाम् अर्जनम् अर्जितस्य विवर्धनम् अर्थः.
1.2.10 तम् अध्यक्ष-प्रचाराद् वार्ता-समय-विद्भ्यो वणिग्भ्यश् चेति.
1.2.11 श्रोत्र-त्वक्-चक्सुर्-जिह्वा-घ्राणानाम् आत्म-संयुक्तेन मनसाधिष्ठितानां स्वेषु स्वेषु विषयेष्व् आनुकूल्यतः प्रवृत्तिः कामः.
1.2.12 स्पर्श-विशेष-विषयात् त्व् अस्याभिमानिक-सुखानुविद्धा फलवत्य् अर्थ-प्रतीतिः प्राधान्यात् कामः.
1.2.13 तं काम-सूत्रान् नागरिक-जन-समवायाच् च प्रतिपद्येत.
1.2.14 एषां समवाये पूर्वः पूर्वो गरीयान्.
1.2.15 अर्थश् च राज्ञः. तन्-मूलत्वाल् लोक-यात्रायाः. वेश्यायाश् च इति त्रिवर्ग-प्रतिपत्तिः((4)). च्) संप्रतिपत्तिः
1.2.16 धर्मस्या:लौकिकत्वात् तद्-अभिदायकं शास्त्रं युक्तम्. उपाय-पूर्वकत्वाद् अर्थ-सिद्धेः. उपाय-प्रतिपत्तिः शास्त्रात्.
1.2.17 तिर्यग्-योनिष्व् अपि तु स्वयं प्रवृत्तत्वात् कामस्य नित्यत्वाच् च न शास्त्रेण कृत्यम् अस्तीत्य् आचार्याः.
1.2.18 संप्रयोग-पराधीनत्वात् स्त्री-पुंसयोर् उपायम् अपेक्षते.
1.2.19 सा चोपाय-प्रतिपत्तिः काम-सूत्राद् इति वात्स्यायनः.
1.2.20 तिर्यग्-योनिषु पुनर् अन्:आवृतत्वात् श्त्री-जातेश् च ऋतौ यावद् अर्थं प्रवृत्तेर् अ:बुद्धि-पूर्वकत्वाच् च प्रवृत्तीनाम् अन्:उपायः प्रत्ययः.
1.2.21 न धर्मांश् चरेत्. एष्यत्-फलत्वात्. संशयिकत्वाच् च.
1.2.22 को ह्य् अ:बालिशो हस्त-गतं पर-गतं कुर्यात्.
1.2.23 वरम् अद्य कपोतः श्वो मयूरात्.
1.2.24 वरं सांशयिकान् निष्काद् अ:सांशयिकः कार्षापणः. इति लौकायतिकाः..1.2.25 शास्त्रस्यान्:अभिशङ्कत्वाद् अभिचारानुव्याहारयोश् च क्व चित् फल-दर्शनान् नक्षत्र-चन्द्र- सूर्य-तारा-ग्रह-चक्रस्य लोकार्थं बुद्धि-पूर्वकम् इव प्रवृत्तेर् दर्शनाद् वर्णाश्रमाचार-स्थिति-लक्षणत्वाच् च लोकयात्राया हस्त-गतस्य च बीजस्य भविष्यतः सस्यार्थे त्याग-दर्शनाच् चरेद् धर्मान् इति वात्स्यायनः.
1.2.26 नार्थांश् चरेत्. प्रयत्नतो ऽपि ह्य् एते ऽनुष्ठीयमाना नैव कदा चित् स्युः अन्:अनुष्ठीयमाना अपि यदृच्छया भवेयुः.
1.2.27 तत् सर्वं काल-कारितम् इति.
1.2.28 काल एव हि पुरुषान् अर्थानर्थयोर् जय-पराजययोः सुख-दुःखयोश् च स्थापयति.
1.2.29 कालेन बलिर् इन्द्रः कृतः. कालेन व्यपरोपितः. काल एव पुनर् अप्य् एनं कर्तेति कालकारणिकाः.
1.2.30 पुरुष-कार-पूर्वकत्वात् सर्व-प्रवृत्तीनाम् उपायः प्रत्ययः.
1.2.31 अ:वश्यं-भाविनो ऽप्य् अर्थस्योपाय-पूर्वकत्वाद् एव. न निष्कर्मणो भद्रम् अस्तीति वात्स्यायनः.
1.2.32 न कामांश् चरेत्. धर्मार्थयोः प्रधानयोर् एवम् अन्येषां च सतां प्रत्यनीकत्वात्. अनर्थजन-संसर्गम् असद्-व्यवसायम् अशौचम् अन्:आयतिं चैते पुरुषस्य जनयन्ति.
1.2.33 तथा प्रमादं लाघवम् अ:प्रत्ययम् अ:ग्राह्यतां च.
1.2.34 बहवश् च काम-वश-गाः स:गणा एव विनष्टाः श्रूयन्ते.
1.2.35 यथा दाण्डक्यो नाम भोजः कामाद् ब्राह्मण-कन्याम् अभिमन्यमानः स:बन्धु-राष्ट्रो विननाश((5)).
1.2.36 देवराजश् च_अहल्याम् अति-बलश् च कीचको द्रौपदीं रावणश् च सीताम् अपरे चान्ये च बहवो दृश्यन्ते काम-वश-गा विनष्टा इत्य् अर्थचिन्तकाः.
1.2.37 शरीर-स्थिति-हेतुत्वाद् आहार-स:धर्माणो हि कामाः. फल-भूताश् च धर्मार्थयोः.
1.2.38 बोद्धव्यं तु दोषेष्व् इव. न हि भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रीयन्ते. न हि मृगाः सन्तीति यवा नोप्यन्त इति वात्स्यायनः.
1.2.39 भवन्ति चात्र श्लोकाः
1.2.39व् एवम् अर्थं च कामं च धर्मं चोपाचरन् नरः. इहामुत्र च निःशल्यम् अत्यन्तं सुखम् अश्नुते..
1.2.40व्1 किं स्यात् परत्रेत्य् आशङ्का कार्ये यस्मिन् न जायते. न चार्थ-घ्नं सुखं चेति शिष्टास् तत्र व्यवस्थिताः..
1.2.40व्2 त्रिवर्ग-साधकं यत् स्याद् द्वयोर् एकस्य वा पुनः. कार्यं तद् अपि कुर्वीत न त्व् एकार्थं द्वि-बाधकम्..
1.2च् इति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमे ऽधिकरणे त्रिवर्ग-प्रतिपत्तिर् द्वितीयो ऽध्यायः.((6))
लेçओन् 3 अथ विद्यासमुद्देश-प्रकरण-नामकः तृतीयो ऽध्यायः
सेच्तिओन् (प्रकरण) 3
1.3.1 धर्मार्थाङ्गविद्या-कालान् अन्:उपरोधयन् काम-सूत्रं तद्-अङ्ग-विद्याश् च पुरुषो ऽधीयीत.
1.3.2 प्राग् यौवनात् स्त्री. प्रत्ता च पत्युर् अभिप्रायात्.
1.3.3 योषितां शास्त्र-ग्रहणस्याभावाद् अन्:अर्थकम् इह शास्त्रे स्त्री-शासनम् इत्य् आचार्याः.
1.3.4 प्रयोग-ग्रहणं त्व् आसाम्. प्रयोगस्य च शास्त्र-पूर्वकत्वाद् इति वात्स्यायनः.
1.3.5 तन् न केवलम् इहैव. सर्वत्र हि लोके कति चिद् एव शास्त्र-ज्ञाः. सर्व-जन-विषयश् च प्रयोगः.
1.3.6 प्रयोगस्य च दूरस्थम् अपि शास्त्रम् एव हेतुः.
1.3.7 अस्ति व्याकरणम् इत्य् अवैयाकरणा अपि याज्ञिका ऊहं क्रतुषु प्रयुञ्जते.
1.3.8 अस्ति ज्यौतिषम् इति पुण्याहेषु कर्म कुर्वते.
1.3.9 तथाश्वारोहा गजारोहाश् चाश्वान् गजांश् चान्:अधिगत-शास्त्रा अपि विनयन्ते.
1.3.10 तथास्ति राजेति दूरस्था अपि जनपदा न मर्यादाम् अतिवर्तन्ते तद्वद् एतत्.
1.3.11 सन्त्य् अपि खलु शास्त्र-प्रहत-बुद्धयो गणिका राज-पुत्र्यो महामात्र-दुहितरश् च.
1.3.12 तस्माद् वैश्वासिकाज् जनाद् रहसि प्रयोगाञ् छास्त्रम् एकदेशं वा स्त्री गृह्णीयात्.
1.3.13 अभ्यास-प्रयोज्यांश् च चातुःषष्टिकान् योगान् कन्या रहस्य् एकाकिन्य् अभ्यसेत्.
1.3.14 आचार्यास् तु कन्यानां प्रवृत्त-पुरुष-संप्रयोगा सह:संप्रवृद्धा धात्रेयिका. तथा:भूता वा निर्:अत्यय-संभाषणा सखी. सवयाश् च मातृ-श्वसा. विस्रब्धा तत्-स्थानीया वृद्ध-दासी. पूर्व-संसृष्टा वा भिक्षुकी. स्वसा च विश्वास-प्रयोगात्.
1.3.15 गीतम् (1), वाद्यम् (2), नृत्यम् (3), आलेख्यम् (4), विशेषकच्छेद्यम् (5), तण्डुल-कुसुम-वलि- विकाराः (6), पुष्पास्तरणम् (7), दशन-वसनागरागः (8), मणि-भूमिका-कर्म (9), शयन-रचनम् (10), उदक-वाद्यम् (11), उदकाघातः (), चित्राश् च योगाः (13), माल्य-ग्रथन- विकल्पाः (14), शेखरकापीड-योजनम् (15), नेपथ्य-प्रयोगाः (16), कर्ण-पत्त्र- भङ्गाः (17), गन्ध-युक्तिः (18), भूषण-योजनम् (19), ऐन्द्रजालाः (20), कौचुमाराश् च (21), हस्त-लाघवम् (22), विचित्र-शाक-यूष-भक्ष्य-विकार-क्रिया (23),.पानकरसरागासव-योजनम् (24), सूचीवान-कर्माणि (25), सूत्रक्रीडा (26), वीणा-डमरुक-वाद्यानि (27), प्रहेलिका (28), प्रतिमाला (29), दुर्वाचक-योगाः (30), पुस्तक-वाचनम् (31), नाटकाख्यायिका-दर्शनम् (32), काव्य-समस्यापूरणम् (33), पट्टिकावान-वेत्र-विकल्पाः (34),तक्ष-कर्माणि (35), तक्षणम् (36), वास्तु-विद्या (37), रूप्य-परीक्षा (38), धातु-वादः (39), मणि-रागाकर-ज्ञानम् (40), वृक्षायुर्वेद-योगाः (41), मेष-कुक्कुट-लावक-युद्ध-विधिः (42), शुक-सारिका-प्रलापनम् (43), उत्सादने संवाहने केशमर्दने च कौशलम् (44),अक्षर-मुष्तिकाकथनम्
(45), म्लेच्छित-विकल्पाः (46), देश-भाषा-विज्ञानम् (47), पुष्प-शकटिका (48), निमित्त-ज्ञानम् (49), यन्त्र-मातृका (50), धारण-मातृका (51), सम्पाठ्यम् (52), मानसी काव्य-क्रिया (53), अभिधानकोशः (54), छन्दो-ज्ञानम् (55), क्रिया-कल्पः (56), छलितक-योगाः (57), वस्त्रगोपनानि (58), द्यूत-विशेषः (59), आकर्ष-क्रीडा (60), बाल-क्रीडनकानि (61), वैनयिकीनाम् (62), वैजयिकीनाम् (63), व्यायामिकीनां च (64) विद्यानां ज्ञानम् इति चतुः-षष्टिर् अङ्ग-विद्या. कामसूत्रावयविन्यः.
1.3.16 पाञ्चालिकी च चतुःषष्टिर् अपरा. तस्याः प्रयोगान् अन्ववेत्य सांप्रयोगिके वक्ष्यामः. कामस्य तद्-आत्मकत्वात्.
1.3.17व् आभिर् अभ्युच्छ्रिता वेश्या शील-रूप-गुणान्विता. लभते गणिका-शब्दं स्थानं च जन-संसदि..
1.3.18व् पूजिता सा सदा राज्ञा गुणवद्भिश् च संस्तुता. प्रार्थनीयाभिगम्या च लक्ष्य-भूता च जायते..
1.3.19व् योग-ज्ञा राज-पुत्री च महामात्र-सुता तथा. सहस्रान्तः-पुरम् अपि स्व-वशे कुरुते पतिम्..
1.3.20व् तथा पति-वियोगे च व्यसनं दारुणं गता. देशान्तरे ऽपि विद्याभिः सा सुखेनैव जीवति..
1.3.21व् नरः कलासु कुशलो वाचालश् चाटु-कारकः. अ:संस्तुतो ऽपि नारीणां चित्तम् आश्व् एव विन्दति..
1.3.22व् कलानां ग्रहणाद् एव सौभाग्यम् उपजायते. देश-कालौ त्व् अपेक्ष्यासां प्रयोगः संभवेन् न वा..
1.3च् इति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमे ऽधिकरणे विद्या-समुद्देशः तृतीयो ऽध्यायः.
लेçओन् 4 नागरक-वृत्त-नामकः चतुर्थो ऽध्यायः
सेच्तिओन् (प्रकरण) 4
1.4.1 गृहीत-विद्यः प्रतिग्रह-जय-क्रय-निर्वेशाधिगतैर् अर्थैर् अन्वयागतैर् उभयैर् वा गार्हस्थ्यम् अधिगम्य नागरक-वृत्तं वर्तेत.
1.4.2 नगरे पत्तने खर्वटे महति वा सज्-जनाश्रये स्थानम्. यात्रा-वशाद् वा.
1.4.3 तत्र भवनम् आसन्नोदकं वृक्ष-वाटिकवद् विभक्त-कर्म-कक्षं द्वि-वास-गृहं कारयेत्.
1.4.4 बाह्ये च वास-गृहे सु:श्लक्ष्णम् उभयोपधानं मध्ये विनतं शुक्लोत्तर-च्छदं शयनीयं स्यात्. प्रतिशय्यिका च. तस्य शिरो-भागे कूर्च-स्थानं वेदिका च. तत्र रात्रि-शेषम् अनुलेपनं माल्यं सिक्थ-करण्डकं सौगन्धिक-पुटिका मातुलुङ्ग-त्वचस् ताम्बूलानि च स्युः. भूमौ पतद्ग्रहः. नाग-दन्तावसक्ता वीणा. चित्र-फलकम्. वर्तिकासमुद्गकः. यः कश् चित् पुस्तकः. कुरण्टक-मालाश् च. नातिदूरे भूमौ वृत्तास्तरणं समस्तकम्. आकर्ष-फलकं द्यूत-फलकं च. तस्य बहिः क्रीडा-शकुनि- पञ्जराणि. एकान्ते च तक्ष-तक्षञ-स्थानम् अन्यासां च क्रीडानाम्. स्व्:आस्तीर्णा प्रेङ्खदोला वृक्ष-वाटिकायां स:प्रच्छाया. स्थण्डिल-पीठिका च स:कुसुमेति भवन-न्यासः.
1.4.5 स प्रातर् उत्थाय कृत-नियत-कृत्यः गृहीत-दन्त-धावनः मात्रयानुलेपनं धूपं स्रजम् इति च गृहीत्वा दत्त्वा सिक्थकम् अलक्तकं च दृष्ट्वादर्शे मुख्म् गृहीत-मुख-वास- ताम्बूलः कार्याण्य् अनुतिष्ठेत्.
1.4.6 नित्यं स्नानम्. द्वितीयकम् उत्सादनम्. तृतीयकः फेनकः. चतुर्थकम् आयुष्यम्. पञ्चमकं दशमकं वा प्रत्यायुष्यम् इत्य् अ:हीनम्. सातत्याच् च संवृत-कक्षास्वेदापनोदः.
1.4.7 पूर्वाह्णापराह्णयोर् भोजनम्. सायं चारायणस्य.
1.4.8 भोजनानतरं शुक-सारिका-प्रलापन-व्यापाराः. लावक-कुक्कुट-मेष-युद्धानि तास् ताश् च कला-क्रीडाः. पीठमर्द-विट-विदूषकायत्ता व्यापाराः. दिवा-शय्या च.
1.4.9 गृहीत-प्रसाधनस्यापराह्णे गोष्ठी-विहाराः.
1.4.10 प्रदोषे च संगीतकानि. तद्-अन्ते च प्रसाधिते वास-गृहे संचारित-सुरभि-धूपे स:सहायस्य शय्यायाम् अभिसारिकाणां प्रतीक्षणम्.
1.4.11 दूतीनां प्रेषणम् स्वयं वा गमनम्.
1.4.12 आगतानां च मनोहरैर् आलापैर् उपचारैश् च स:सहायस्योपक्रमाः..1.4.13 वर्ष-प्रमृष्ट-नेपथ्यानां दुर्:दिनाभिसारिकाणाम् स्वयम् एव पुनर्-मण्डनम् मित्र-जनेन वा परिचरणम् इत्य् आहोरात्रिकम्.
1.4.14 घटा-निबन्धनम् गोष्ठी-समवायः समापानकम् उद्यान-गमनम् समस्याः क्रीडाश् च प्रवर्तयेत्.
1.4.15 पक्षस्य मासस्य वा प्रज्ञाते ऽहनि सरस्वत्या भवने निय्क्तानां नित्यं समाजः.
1.4.16 कुशीलवाश् चागन्तवः प्रेक्षणकम् एषां दद्युः. द्वितीये ऽहनि तेभ्यः पूजा नियतं लभेरन्. ततो यथा-श्रद्धम् एषां दर्शनम् उत्सर्गो वा. व्यसनोत्सवेषु चैषां पर्स्परस्यैक-कार्यता.
1.4.17 आगन्तूनां च कृत-समवायानां पूजनम् अभ्युपत्तिश् च.
1.4.17च् इत्य् गण-धर्मः.
1.4.18 एतेन तं तं देवता-विशेषम् उद्दिश्य संभावित-स्थितयो घटा व्याख्याताः.
1.4.19 वेश्या-भवने सभायाम् अन्यतमस्योद्वसिते वा समान-विद्या-बुद्धि-शील-वित्त-वयसां सह वेश्याभिर् अनुरूपैर् आलापैर् आसन-बन्धो गोष्ठी.
1.4.20 तत्र चैशां काव्य-समस्या कला-समस्या वा.
1.4.21 तस्याम् उज्ज्वला लोक-कान्ताः पूज्याः. प्रीति-समानाश् चाहारितः.
1.4.22 परस्पर-भवनेषु चापानकानि.
1.4.23 तत्र मधु-मैरेय-सुरान् विविध-लवण-फल-हरित-शाक-तिक्त-कटुकाम्लोपदंशान् वेश्याः पाययेयुर् अनुपिबेयुश् च.
1.4.24 एतेनोद्यान-गमनं व्याख्यातम्.
1.4.25 पूर्वाह्ण एव स्व्:अलंकृतास् तुरगाधिरूढा वेश्याभिः सह परिचारकानुगता गच्छेयुः. दैवसिकीं च यात्रां तत्रानुभूय कुक्कुट-युद्ध-द्यूतैः प्रेक्षाभिर् अनुकूलैश् च चेष्टितैः कालं गमयित्वा अपराह्णे गृहीत-तद्-उपभोग-चिह्नास् तथैव प्रत्याव्रजेयुः.
1.4.26 एतेन रचितोद्ग्राहोदकानां ग्रीष्मे जल-क्रीडा-गमनं व्याख्यातम्.
1.4.27 यक्ष-रात्रिः. कौमुदी-जागरः. सु:वसन्तकः.
1.4.28 सह-कार-भञ्जिका, अभ्यूषखादिका बिसखादिका नव-पत्त्रिका उदक-क्ष्वेडिका पाञ्चालानुयानम् एकशाल्मली कदम्ब-युद्धानि तास् ताश् च माहिमान्यो देश्याश् च क्रीडा जनेभ्यो विशिष्टम् आचरेयुः. इति संभूय-क्रीडाः.
1.4.29 एकचारिणश् च विभव-सामर्थ्यात्.
1.4.30 गणिकाया नायिकायाश् च सखीभिर् नागरकैश् च सह चरितम् एतेन व्याख्यातम्.
1.4.31 अ:विभवस् तु शरीर-मात्रो मल्लिका-फेनक-कषाय-मात्र-परिच्छदः पूज्याद् देशाद् आगतः कलासु विचक्षणस् तद्-उपदेशेन गोष्ठ्यां वेशोचिते च वृत्ते साधयेद् आत्मानम् इति पीठ-मर्दः.
1.4.32 भुक्त-विभवस् तु गुणवान् स:कलत्रो वेशे गोष्ठ्यां च बहु-मतस् तद्-उपजीवी च विटः.
1.4.33 एक-देश-विद्यस् तु क्रीडनको विश्वास्यश् च विदूषकः. वैहासिको वा.
1.4.34 एते वेश्यानां नागरकाणां च मन्त्रिणः संधि-विग्रह-नियुक्ताः.
1.4.35 तैर् भिक्षुक्यः कला-विदग्धा मुण्डा वृषल्यो वृद्ध-गणिकाश् च व्याख्याताः.
1.4.36 ग्राम-वासी च स:जातान् विचक्षणान् कौतूहलिकान् प्रोत्साह्य नागरक-जनस्य वृत्तं वर्णयञ् श्रधांश् च जनयंस् तद् एवानुकुर्वीत. गोष्ठीश् च प्रवर्तयेत्. संगत्या जनम् अनुरञ्जयेत्. कर्मसु च साहाय्येन चानुगृह्णीयात्. उपकारयेच् च.
1.4.36च् इति नागरक-वृत्तम्.
1.4.37व् नात्यन्तं संस्कृतेनैव नात्यन्तं देश-भाषया. कथां गोष्ठीषु कथयंल् लोके बहु-मतो भवेत्..
1.4.38व् या गोष्ठी लोक-विद्विष्टा या च स्वैर-विसर्पिणी. पर-हिंसात्मिका या च न ताम् अवतरेद् बुधः..
1.4.39व् लोक-चित्तानुवर्तिन्या क्रीडा-मात्रैक-कार्यया. गोष्ठ्या सह-चरन् विद्वांल् लोके सिद्धिं नियच्छति..
1.4च् इति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमे ऽधिकरणे नागरक-वृत्तं चतुर्थो ऽध्यायः.
लेçओन् 5 अथ नायक-सहाय-दूत-कर्म-विमर्श-नामकः पञ्चमो ऽध्यायः.
सेच्तिओन् (प्रकरण) 5
1.5.1 कामश् चतुर्षु वर्णेषु स:वर्णतः शास्त्रतश् चान्:अन्य-पूर्वायां प्रयुज्यमानः पुत्रीयो यशस्यो लौकिकश् च भवति.
1.5.2 तद्-विपरीत उत्तम-वर्नासु परपरिगृहीतासु च. प्रतिषिद्धो ऽवर-वर्णास्व् अ:निरवसितासु. वेश्यासु पुनर्भूषु च न शिष्टो न प्रतिषिद्धः. सुखार्थत्वात्.
1.5.3 तत्र नायिकास् तिस्रः कन्या पुनर्भूर् वेश्या च. इति.
1.5.4 अन्य-कारण-वशात् पर-परिगृहीतापि पाक्षिकी चतुर्थीति गोणिकापुत्रः.
1.5.5 स यदा मन्यते स्वैरिणीयम्..1.5.6 अन्यतो ऽपि बहुशो व्यवसित-चारित्रा तस्यां वेश्यायाम् इव गमनम् उत्तम-वर्णिन्याम् अपि न धर्म-पीडां करिष्यति पुनर्भूर् इयम्.
1.5.7 अन्यपूर्वावरुद्धा नात्र शङ्कास्ति.
1.5.8 पतिं वा महान्तम् ईश्वरम् अस्मद्-अ:मित्र-संसृष्टम् इयम् अवगृह्य प्रभुत्वेन चरति. सा मया संसृष्टा स्नेहाद् एनं व्यावर्तयिष्यति.
1.5.9 वि:रसं वा मयि शक्तम् अपकर्तु-कामं च प्रकृतिम् आपादयिष्यति.
1.5.10 तया वा मित्री-कृतेन मित्र-कार्यम् अ:मित्र-प्रतीघातम् अन्यद् वा दुष्:प्रतिपादकं कार्यं साधयिष्यामि.
1.5.11 संसृष्टो वानया हत्वास्याः पतिम् अस्मद्-भाव्यं तद्-ऐश्वर्यम् एवम् अधिगमिष्यामि.
1.5.12 निर्:अत्ययं वास्या गमनम् अर्थानुबद्धम्. अहं च निः:सारत्वात् क्षीण-वृत्त्य्-उपायः. सो ऽहम् अनेनोपायेन तद्-धनम् अतिमहद् अ:कृच्छ्राद् अधिगमिष्यामि.
1.5.13 मर्म-ज्ञा वा मयि दृढम् अभिकामा सा माम् अन्:इच्छन्तं दोष-विख्यापनेन दूषयिष्यति.
1.5.14 अ:सद्-भूतं वा दोषं श्रद्धेयं दुष्:परिहारं मयि क्षेप्स्यति येन मे विनाशः स्यात्.
1.5.15 आयतिमन्तं वा वश्यं पतिं मत्तो विभिद्य द्विषतः संग्राहयिष्यति.
1.5.16 स्वयं वा तैः सह संसृज्येत. मद्-अवरोधानां वा दूषयिता पतिर् अस्यास् तद् अस्याहम् अपि दारान् एव दूषयन् प्रतिकरिष्यामि.
1.5.17 राज-नियोगाच् चान्तर्:वर्तिनं शत्रुं वास्य निर्हनिष्यामि.
1.5.18 याम् अन्यां कामयिष्ये सास्या वशगा. ताम् अनेन संक्रमेणाधिगमिष्यामि.
1.5.19 कन्याम् अ:लभ्यां वात्माधीनाम् अर्थ-रूपवतीं मयि संक्रामयिष्यति.
1.5.20 ममा:मित्रो वास्याः पत्या सहैकी:भावम् उपगतस् तम् अनया रसेन योजयिष्यामीत्य् एवम्:आदिभिः कारणैः पर-स्त्रियम् अपि प्रकुर्वीत.
1.5.21 इति साहसिक्यं न केवलं रागाद् एव.
1.5.21च् इति पर-परिग्रह-गमण-कारणानि.
1.5.22 एतैर् एव कारणैर् महा-मात्र-संबद्धा राज-संबद्धा वा तत्रैक-देश-चारिणी का चिद् अन्या वा कार्य-संपादिनी विधवा पञ्चमीति चारायणः.
1.5.23 सैव प्रव्रजिता षष्ठीति सुवर्णनाभः.
1.5.24 गणिकाया दुहिता परिचारिका वान्:अन्य-पूर्वा सप्तमीति घोटकमुखः.
1.5.25 उत्क्रान्त-बाल-भावा कुल-युवतिर् उपचारान्यत्वाद् अष्टमीति गोनर्दीयः.
1.5.26 कार्यान्तरा:भावाद् एतासाम् अपि पूर्वास्व् एवोपलक्षणम् तस्माच् चतस्र एव नायिका इति वात्स्यायनः.
1.5.27 भिन्नत्वात् तृतीय-प्रकृतिः पञ्चमीत्य् एके.
1.5.28 एक एव तु सार्वलौकिको नायकः. प्रच्छन्नस् तु द्वितीयः. विशेषालाभात्. उत्तमाधम-मध्यमतां तु गुण-गुणतो विद्यात्. तांस् तूभयोर् अपि गुणा:गुणान् वैशिके वक्ष्यामः.
1.5.29 अ:गम्यास् त्व् एवैताः कुष्ठिन्य् उन्मत्ता पतिता भिन्न-रहस्या प्रकाश-प्रार्थिनी गत-प्राय- यौवनातिश्वेतातिकृष्णा दुर्:गन्धा संबन्धिनी सखी प्रव्रजिता संबन्धि-सखि-श्रोत्रिय- राज-दाराश् च.
1.5.30 दृष्ट-पञ्च-पुरुषा ना:गम्या का चिद् अस्तीति बाभ्रवीयाः.
1.5.31 संबन्धि-सखि-श्रोत्रिय-राज-दार-वर्जम् इति गोणिकापुत्रः.
1.5.32 सह-पांसु-क्रीडितम् उपकार-संबद्धं समान-शील-व्यसनं सहाध्यायिनं यश् चास्य मर्मणि रहस्यानि च विद्यात् यस्य चायं विद्याद् वा धात्र्-अपत्यं सह-संवृद्धं मित्रम्.
1.5.33 पितृ-पैतामहम् अ:विसंवादकम् अ:दृष्ट-वैकृतं वश्यं ध्रुवम् अ:लोभ-शीलम् अ:परिहार्यम् अ:मन्त्र-विस्रावीति मित्र-संपत्.
1.5.34 रजक-नापित-मालाकार-गान्धिक-सौरिक-भिक्षुक-गोपालक-ताम्बूलिक-सौवर्णिक-पीठमर्द- विट-विदूषकादयो मित्राणि. तद्-योषिन् मित्राश् च नागरकाः स्युर् इति वात्स्यायनः.
1.5.35 यद् उभयोः साधारणम् उभयत्रोदारं विशेषतो नायिकायाः सु:विस्रब्धं तत्र दूत-कर्म.
1.5.36 पटुता धाष्ट्र्यम् इङ्गिताकार-ज्ञता प्रतारण-काल-ज्ञता विषह्य-बुद्धित्वं लघ्वी प्रतिपत्तिः सोपाया च
1.5.36च् इति दूत-गुणाः.
1.5.37 भवति चात्र श्लोकः.
1.5.37व् आत्मवान् मित्रवान् युक्तो भावज्ञो देश-काल-वित्. अ:लभ्याम् अप्य् अ:यत्नेन स्त्रियं संसाधयेन् नरः..
1.5च् इति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमे ऽधिकरणे नायक-सहाय-दूती-कर्म-विमर्शः पञ्चमो ऽध्यायः..लिव्रे 2 सांप्रयोगिकं द्वितीयम् अधिकरणम्
लेçओन् 1 प्रथमो ऽध्यायः
सेच्तिओन् (प्रकरण)6 रतावस्थापन-प्रकरणम्
2.1.1 शशो वृषो ऽश्व इति लिङ्गतो नायक-विशेषाः. नायिका पुनर् मृगी बडवा हस्तिनी चेति.
2.1.2 तत्र स:दृश-संप्रयोगे सम-रतानि त्रीणि.
2.1.3 विपर्ययेण वि:षमाणि षट्. वि:षमेष्व् अपि पुरुषाधिक्यं चेद् अन्:अन्तर-संप्रयोगे द्वे उच्च-रते. व्यवहितम् एकम् उच्च-तर-रतम्. विपर्यये पुनर् द्वे नीच-रते. व्यवहितम् एकं नीच-तर-रतं च. तेषु समानि श्रेष्ठानि. तर-शब्दाङ्किते द्वे कनिष्ठे. शेषाणि मध्यमानि.
2.1.4 साम्ये ऽप्य् उच्चाङ्कं नीचाङ्काज् ज्यायः. इति प्रमाणतो नव-रतानि.
2.1.5 यस्य संप्रयोग-काले प्रीतिर् उदासीना वीर्यम् अल्पं क्षतानि च न सहते स मन्द-वेगः.
2.1.6 तद्-विपर्ययौ मध्यम-चण्ड-वेगौ भवतः. तथा नायिकापि.
2.1.7 तत्रापि प्रमाणवद् एव नव-रतानि.
2.1.8 तद्वत् कालतो ऽपि शीघ्र-मध्य-चिर-काला नायकाः.
2.1.9 तत्र स्त्रियां विवादः.
2.1.10 न स्त्री पुरुषवद् एव भावम् अधिगच्छति.
2.1.11 सातत्यात् त्व् अस्याः पुरुषेण कण्डूतिर् अपनुद्यते.
2.1.12 सा पुनर् आभिमानिकेन सुखेन संसृष्टा रसान्तरं जनयति तस्मिन् सुख-बुद्धिर् अस्याः.
2.1.13 पुरुष-प्रतीतेश् चान्:अभिज्ञत्वात् कथं ते सुखम् इति प्रष्टुम् अ:शक्यत्वात्.
2.1.14 कथम् एतद् उपलभ्यत इति चेत् पुरुषो हि रतिम् अधिगम्य स्वेच्छया विरमति न स्त्रियम् अपेक्षते न त्व् एवं स्त्रीत्य् औद्दालिकः.
2.1.15 तत्रैतत् स्यात् चिर-वेगे नायके स्त्रियो ऽनुरज्यन्ते शीघ्र-वेगस्य भावम् अन्:आसाद्यावसाने ऽभ्यसूयिन्यो भवन्ति. तत् सर्वं भाव-प्राप्तेर् अ:प्राप्तेश् च लक्षणम्.
2.1.16 तच् च न. कण्डूति-प्रतीकारो ऽपि हि दीर्घ-कालं प्रिय इति. एतद् उपपद्यत एव. तस्मात् संदिग्धत्वाद् अ:लक्षणम् इति.
2.1.17व् संयोगे योषितः पुंसा कण्डूतिर् अपनुद्यते. तच् चाभिमान-संसृष्टं सुखम् इत्य् अभिधीयते..
2.1.18 सातत्याद् युवतिर् आरम्भात् प्रभृति भावम् अधिगच्छति. पुरुषः पुनर् अन्त एव. एतद् उपपन्नतरम्. न ह्य् अ:सत्यां भाव-प्राप्तौ गर्भ-संभव इति बाभ्रवीयाः.
2.1.19 तत्रापि ताव् एवाशङ्का-परिहारौ भूयः.
2.1.20 तत्रैतत् स्यात् ण् सातत्येन रस-प्राप्ताव् आरम्भ-काले मध्यस्थ-चित्तता नाति:सहिष्णुता च. ततः क्रमेणाधिको राग-योगः शरीरे निर्:अपेक्षत्वम् अन्ते च विरामाभीप्सेत्य् एतद् उपपन्नम् इति.
2.1.21 तच् च न. सामान्ये ऽपि भ्रान्ति-संस्कारे कुलाल-चक्रस्य भ्रमरकस्य वा भ्रान्ताव् एव वर्तमानस्य प्रारम्भे मन्द-वेगता ततश् च क्रमेण पूरणं वेगस्येत्य् उपपद्यते. धातु-क्षयाच् च विरामाभीप्सेति. तस्माद् अन्:आक्षेपः.
2.1.22व् सुरतान्ते सुखं पुंसां स्त्रीणां तु सततं सुखम्. धातु-क्षय-निमित्ता च विरामेच्छोपजायते..
2.1.23 तस्मात् पुरुषवद् एव योषितो ऽपि रस-व्यक्तिर् द्रष्टव्या.
2.1.24 कथं हि समानायाम् एवाकृताव् एकार्थम् अभिप्रपन्नयोः कार्य-वैलक्षण्यं स्यात्.
2.1.25 उपाय-वैलक्षण्याद् अभिमान-वैलक्षण्याच् च.
2.1.26 कथम् उपाय-वैलक्षण्यं तु सर्गात्. कर्ता हि पुरुषो ऽधिकरणं युवतिः. अन्यथा हि कर्ता क्रियां प्रतिपद्यते ऽन्यथा चाधारः. तस्माच् चोपाय-वैलक्षण्यात् सर्गाद् अभिमान-वैलक्षण्यम् अपि भवति. अभियोक्ताहम् इति पुरुषो ऽनुरज्यते. अभियुक्ताहम् अनेनेति युवतिर् इति वात्स्यायनः.
2.1.27 तत्रैतत् स्याद् उपाय-वैलक्षण्यवद् एव हि कार्य-वैलक्षण्यम् अपि कस्मान् न स्याद् इति. तच् च न. हेतुमद् उपाय-वैलक्षण्यम्. तत्र कर्त्र्-आधारयोर् भिन्न-लक्षणत्वाद् अ:हेतुमत्-कार्य-वैलक्षण्यम् अन्याय्यं स्यात्. आकृतेर् अ:भेदाद् इति.
2.1.28 तत्रैतत् स्यात्. संहत्य कारकैर् एको ऽर्थो ऽभिनिर्वर्त्यते. पृथक् पृथक् स्वार्थ-साधकौ पुनर् इमौ तद् अ:युक्तम् इति.
2.1.29 तच् च न. युगपद् अन्:एकार्थ-सिद्धिर् अपि दृश्यते. यथा मेषयोर् अभिघाते कपित्थयोर् भेदे मल्लयोर् युद्ध इति. न तत्र कारक-भेद इति चेद् इहापि न वस्तु-भेद इति. उपाय-वैलक्षण्यं तु सर्गाद् इति तद् अभिहितं पुरस्तात्. तेनोभयोर् अपि सदृशी सुख-प्रतिपत्तिर् इति.
2.1.30व् जातेर् अ:भेदाद् दंपत्योः स:दृशम् सुखम् इष्यते. तस्मात् तथोपचर्या स्त्री यथाग्रे प्राप्नुयाद् रतिम्...2.1.31 स:दृशत्वस्य सिद्धत्वात् काल-योगीन्य् अपि भावतो ऽपि कालतः प्रमाणवद् एव नव रतानि.
2.1.32 रसो रतिः प्रीतिर् भावो रागो वेगः समाप्तिर् इति रति-पर्यायाः. संप्रयोगो रतं रहः शयनं मोहनं सुरत-पर्यायाः.
2.1.33 प्रमाण-काल-भाव-जानां संप्रयोगानाम् एकैकस्य नव-विधत्वात् तेषां व्यतिकरे सुरत-संख्या न शक्यते कर्तुम्. अति:बहुत्वात्.
2.1.34 तेषु तर्काद् उपचारान् प्रयोजयेद् इति वात्स्यायनः.
2.1.35 प्रथम-रते चण्ड-वेगता शीघ्र-कालता च पुरुषस्य तद्-विपरीतम् उत्तरेषु. योषितः पुनर् एतद् एव विपरीतम्. आ धातु-क्षयात्.
2.1.36 प्राक् च स्त्री-धातु-क्षयात् पुरुष-धातु-क्षय इति प्रायोवादः.
2.1.37व् मृदुत्वाद् उपमृद्यत्वान् निसर्गाच् चैव योषितः. प्राप्नुवन्त्य् आशु ताः प्रीतिम् इत्य् आचार्या व्यवस्थिताः..
2.1.38व् एतावद् एव युक्तानां व्याख्यातं साम्प्रयोगिकम्. मन्दानाम् अवबोधार्थं विस्तरो ऽतः प्रवक्ष्यते((7)).
सेच्तिओन् (प्रकरण)7
2.1.39व् अभ्यासाद् अभिमानाच् च तथा संप्रत्ययाद् अपि. विषयेभ्यश् च तन्त्र-ज्ञाः प्रीतिम् आहुश् चतुर्-विधाम्..
2.1.40व् शब्दादिभ्यो बहिर्:भूता या कर्माभ्यास-लक्षणा. प्रीतिः साभ्यासिकी ज्ञेया मृगयादिषु कर्मसु..
2.1.41व् अन्:अभ्यस्तेष्व् अपि पुरा कर्मस्व् अ:विषयात्मिका. संकल्पाज् जायते प्रीतिर् या सा स्याद् आभिमानिकी..
2.1.42व् प्रकृतेर् या तृतीयस्याः स्त्रियाश् चैवोपरिष्टके. तेषु तेषु च विज्ञेया चुमबनादिषु कर्मसु..
2.1.43व् नान्यो ऽयम् इति यत्र स्याद् अन्यस्मिन् प्रीति-कारणे. तन्त्र-ज्ञैः कथ्यते सापि प्रीतिः संप्रत्ययात्मिका..
2.1.44व् प्रत्यक्षा लोकतः सिद्धा या प्रीतिर् विषयात्मिका. प्रधान-फलवत्त्वात् सा तद्-अर्थाश् चेतरा अपि..
2.1.45व् प्रीतीर् एताः परामृश्य शास्त्रतः शास्त्र-लक्षणाः. यो यथा वर्तते भावस् तं तथैव प्रयोजयेत्((8))..
2.1च् इति श्रीवात्यायनीये कामसूत्रे सांप्रयोगिके द्वितीये ऽधिकरणे प्रमाण-काल-भावेभ्यो रतावस्थापनं प्रीति-विशेषा इति प्रथमो ऽध्यायः. आदितः षष्ठः((9)).
लेçओन् 2 द्वितीयो ऽध्यायः
सेच्तिओन् (प्रकरण)8 आलिङ्गन-विचार-प्रकरणम्
2.2.1 संप्रयोगाङ्गं चतुःषष्टिर् इत्य् आचक्षते. चतुःषष्टि-प्रकरणत्वात्.
2.2.2 शास्त्रम् एवेदं चतुःषष्टिर् इत्य् आचार्य-वादः.
2.2.3 कलानां चतुःषष्टित्वात् तासां च संप्रयोगाङ्ग-भूतत्वात् कला-समूहो वा चतुःषष्टिर् इति. ऋचां दशतयीनां च संज्ञितत्वात्. इहापि तद्-अर्थ-संबन्धात्. पञ्चाल-संबन्धाच् च बह्व्-ऋचैर् एषा पूजार्थं संज्ञा प्रवर्तिता इत्य् एके.
2.2.4 आलिङ्गन-चुम्बन-नख-च्छेद्य-दशन-च्छेद्य-संवेशन-सीत्:कृत-पुरुषायितौपरिष्टकानाम् आष्टानाम् अष्टधा विकल्प-भेदाद् अष्टाव् अष्टकाश् चतुःषष्टिर् इति बाभ्रवीयाः.
2.2.5 विकल्प-वर्गाणाम् अष्टानां न्यूनादिकत्व-दर्शनात् प्रहण-विरुत-पुरुषोपसृप्ति-चित्र-रतादीनाम् अन्येषाम् अपि वर्गाणाम् इह प्रवेशनात् प्रायो-वादो ऽयम्. यथा सप्त-पर्णो वृक्षः पञ्च-वर्णो बलिर् इति वात्स्यायनः.
2.2.6 तत्रा:समागतयोः प्रीति-लिङ्ग-द्योतनार्थम् आलिङ्गन-चतुष्टयम्. [1] स्पृष्टकम् [2] विद्धकम् [3] उद्घृष्टकम् [4] पीडितकम् इति.
2.2.7 सर्वत्र संज्ञार्थेनैव कर्मातिदेशः.
2.2.8 संमुखागतायां प्रयोज्यायाम् अन्यापदेशेन गच्छतो गात्रेण गात्रस्य स्पर्शनं [1] स्पृष्टकम्.
2.2.9 प्रयोज्यं स्थितम् उपविष्टं वा वि:जने किं चिद् गृह्णाति पयो-धरेण विद्ध्येत्. नायको ऽपि ताम् अवपीड्य गृह्णीयाद् इति [2] विद्धकम्.
2.2.10 तद् उभयम् अन्:अति:प्रवृत्त-संभाषणयोः.
2.2.11 तमसि जन-संबाधे वि:जने वाथ शनकैर् गच्छतोर् नाति:ह्रस्व-कालम् उद्घर्षणं परस्-परस्य गात्राणाम् [3] उद्घृष्टकम्.
2.2.12 तद् एव कुड्य-संदेशेन स्तम्भ-संदेशेन वा स्फुटकम् अवपीडयेद् इति [4] पीडितकम्.
2.2.13 तद् उभयम् अवगत-परस्पराकारयोः.
2.2.14 [1] लतावेष्टितकं [2] वृक्षाधिरूढकं [3] तिल-तण्डुलकं [4] क्षीर-नीरकम् इति चत्वारि संप्रयोग-काले..2.2.15 लतेव शालम् आवेष्टयन्ती चुम्बनार्थं मुखम् अवनमयेत्. उद्धृत्य मन्द-सीत्कृता तम् आश्रिता वा किंचिद् रामणीयकं पश्येत् तल् [1] लतावेष्टितकम्.
2.2.16 चरणेन चरणम् आक्रम्य द्वितीयेनोरु-देशम् आक्रमन्ती वेष्टयन्ती वा तत्-पृष्ठ-सक्तैक- बाहुर् द्वितीयेनांसम् अवनमयन्ती ईषन् मन्द-सीत्कृत-कूजिता चुमबनार्थम् एवाधिरोढुम् इच्छेद् इति [2] वृक्षाधिरूढकम्.
2.2.17 तद् उभयम् स्थित-कर्म.
2.2.18 शयन-गताव् एवोरु-व्यत्यासं भुज-व्यत्यासं च स:संघर्षम् इव घनं संस्वजेते तत् [3] तिल-तण्डुलकम्.
2.2.19 रागान्धाव् अन्:अपेक्षितात्ययौ परस्परम् अनुविशत इवोत्सङ्ग-गतायाम् अभिमुखोपविष्टायां शयने वेति [4] क्षीर-जलकम्.
2.2.20 तद् उभयं राग-काले.
2.2.21 इत्य् उपगूहन-योगा बाभ्रवीयाः.
2.2.22 सुवर्णनाभस्य त्व् अधिकम् एकाङ्गोपगूहन-चतुष्टयम्.
2.2.23 तत्रोरु-संदंशेनैकम् ऊरुम् ऊरुद्वयं वा सर्वप्राणं पीडयेद् इत्य् ऊरूपगूहनम्[1].
2.2.24 जघनेन जघनम् अवपीड्य प्रकीर्यमाण-केश-हस्ता नख-दशन-प्रहणन-चुम्बन- प्रयोजनाय तद् उपरि लङ्घयेत् तज् जघनोपगूहनम्[2].
2.2.25 स्तनाभ्याम् उरः प्रविश्य तत्रैव भारम् आरोपयेद् इति स्तनालिङ्गनम्[3].
2.2.26 मुखे मुखम् आसज्याक्षिणी अक्ष्णोर् ललाटेन ललाटम् आहन्यात् साललाटिका[4].
2.2.27 संवाहनम् अप्य् उपगूहन-प्रकारम् इत्य् एके मन्यन्ते. संस्पर्शत्वात्.
2.2.28 पृथक्-कालत्वाद् भिन्न-प्रयोजनत्वाद् अ:साधारणत्वान् नेति वात्स्यायनः
2.2.29व् पृच्छतां शृण्वतां वापि तथा कथयताम् अपि. उपगूह-विधिं कृत्स्नं रिरंसा जायते नृणाम्..
2.2.30व् ये ऽपि ह्य् अ:शास्त्रिताः केचित् संयोगा राग-वर्धनाः. आदरेणैव ते ऽप्य् अत्र प्रयोज्याः सांप्रयोगिकाः..
2.2.31व् शास्त्राणां विषयस् तावद् यावन् मन्द-रसा नराः. रतिचक्रे-प्रवृत्ते तु नैव शास्त्रम् न च क्रमः..
2.2च् इति श्रीवात्यायनीये कामसूत्रे सांप्रयोगिके द्वितीये ऽधिकरणे आलिङ्गन-विचारा द्वितीयो ऽध्यायः.
लेçओन् 3 तृतीयो ऽध्ययः
सेच्तिओन् (प्रकरण)9
2.3.1 चुम्बन-नख-दशन-च्छेद्यानां न पौर्वापर्यम् अस्ति. राग-योगात् प्राक् संयोगाद् एषां प्राधायेन प्रयोगः. प्रहण-सीत्कृतयोश् च संप्रयोगे.
2.3.2 सर्वं सर्वत्र. रागस्यान्:अपेक्षितत्वात्. इति वात्स्यायनः.
2.3.3 तानि प्रथम-रते नातिव्यक्तानि विश्रब्धिकायां विकल्पेन च प्रयुञ्जीत. तथा-भूतत्वाद् रागस्य. ततः परम् अतित्वरया विशेषवत् समुच्चयेन राग-संधुक्षणार्थम्.
2.3.4 ललाटालक-कपोल-नयन-वक्षः-स्तनोष्ठान्तर्:मुखेषु चुम्बनम्.
2.3.5 ऊरु-संधि-बाहु-नाभि-मूलयोर् लाटानाम्.
2.3.6 राग-वशाद् देश-प्रवृत्तेश् च सन्ति तानि तानि स्थानानि न तु सर्व-जन-प्रयोजानीति वात्स्यायनः.
2.3.7 तद् यथा ण् [1] निमित्तिकं [2] स्फुरितकं [3] घट्टितकम् इति त्रीणि कन्या-चुम्बनानि.
2.3.8 बलात्-कारेण नियुक्ता मुखम् आधत्ते न तु विचेष्टत इति [1] निमित्तकम्.
2.3.9 वदने प्रवेशितं चौष्ठं मनाग् अपत्रपावग्रहीतुम् इच्छन्ती स्पन्दयति स्वम् ओष्ठं नोत्तरम् उत्सहत इति [2] स्फुरितकम्.
2.3.10 ईषत् परिगृह्य वि:निमीलित-नयना करेण च तस्य नयने अवच्छादयन्ति जिह्वाग्रेण घट्टयतीति [3] घट्टितकम्.
2.3.11 समं तिर्यग् उद्भ्रान्तम् अवपीडितकम् इति चतुर्विधम् अपरे.
2.3.12 अङ्गुलि-संपुटेन पिण्डी-कृत्य निर्दशनम् ओष्ठ-पुटेनावपीडयेद् इत्य् अवपीडितकं पञ्चमम् अपि करणम्.
2.3.13 द्यूतं चात्र प्रवर्तयेत्.
2.3.14 पूर्वम् अधर-संपादनेन जितम् इदं स्यात्.
2.3.15 तत्र जिता सार्ध-रुदितं करं विधुनुयात् प्रणुदेद् दशेत् परिवर्तयेद् बलाद् आहृता विवदेत् पुनर् अप्य् अस्तु पण इति ब्रूयात्. तत्रापि जिता द्वि-गुणम् आयस्यएत्.
2.3.16 विश्रब्धस्य प्रमत्तस्य वाधरम् अवगृह्य दशनान्तर्गतम् अ:निर्गमं कृत्वा हसेद् उत्क्रिशेत् तर्जयेद् वल्गेद् आह्लयेत् प्रनर्तितत्-भ्रूणा च विचल-नयनेन मुखेन विहसन्तीतानि तानि च ब्रूयात्. इति चुम्बन-द्यूत-कलहः.
2.3.17 एतेन नख-दशन-च्छेद्य-प्रहणन-द्यूत-कलहा व्याख्याताः.
2.3.18 चण्ड-वेगयोर् एव त्व् एषां प्रयोगः. तत्-सात्म्यात्.
2.3.19 तस्यां चुम्बन्त्याम् अयम् अप्य् उत्तरं गृह्णीयात्. इत्य् उत्तर-चुम्बितम्..2.3.20 ओष्ठ-संदंशेनावगृह्याउष्ठ-द्वयम् अपि चुम्बेत. इति संपुटकं स्त्रियाः पुंसो वा:जात-व्यञ्जनस्य.
2.3.21 तस्मिन्न् इतरो ऽपि जिह्वयास्या दशनान् घट्टयेत् तालु जिह्वां चेति जिह्वा-युद्धम्.
2.3.22 एतेन बलाद् वदन-रदन-ग्रहणं दानं च व्याख्यातम्.
2.3.23 समं पीडितम् अञ्चितं मृदु शेषाङ्गेषु चुम्बनं स्थान-विशेष-योगात्. इति चुम्बन-विशेषाः.
2.3.24 सुप्तसय मुखम् अवलोकयन्त्या स्वाभिप्रायेण चुम्बनं राग-दीपनम्.
2.3.25 प्रमत्तस्य विवदमानस्य वान्यतो ऽभिमुखस्य सुप्ताभिमुखस्य वा निद्रा-व्याघातार्थं चलितकम्.
2.3.26 चिर-रात्राव् आगतस्य शयन-सुप्तायाः स्वाभिप्राय-चुम्बनं प्रातिबोधकम्.
2.3.27 सापि तु भाव-जिज्ञासार्थिनी नायकस्यागमन-कालं संलक्ष्य व्याजेन सुप्ता स्यात्.
2.3.28 आदर्शे कुड्ये सलिले वा प्रयोज्यायाश् छाया-चुम्बनम् आकार-प्रदर्शनार्थम् एव कार्यम्.
2.3.29 बालस्य चित्र-कर्मणः प्रतिमायाश् च चुम्बनं संक्रान्तकम् आलिङ्गनं च.
2.3.30 तथा निशि प्रेक्षणके स्वजन-समाजे वा समीपे गतस्य प्रयोज्याया हस्ताङ्गुलि-चुम्बनं संविष्टस्य वा पादाङ्गुलि-चुम्बनम्.
2.3.31 संवाहिकायास् तु नायकम् आकारयन्त्या निद्रा-वशाद् अ:कामाया इव तस्योर्वोर् वदनस्य निधानम् ऊरु-चुम्बनं चेत्य् आभियोगिकानि.
2.3.32 भवति चात्र श्लोकः.
2.3.32व् कृते प्रतिकृतं कुर्याद् ताडिते प्रतिताडितम्. करणेन च तेनैव चुम्बिते प्रतिचुम्बितम्..
2.3च् इति श्रीवात्यायनीये कामसूत्रे सांप्रयोगिके द्वितीये ऽधिकरणे चुम्बन-विकल्पास् तृतीयो ऽध्यायः.
लेçओन् 4 चतुर्थे ऽध्यायः.
सेच्तिओन् (प्रकरण)10
2.4.1 राग-वृद्धौ संघर्षात्मकं नख-विलेखनम्.
2.4.2 तस्य प्रथम-समागमे प्रवास-प्रत्यागमने प्रवास-गमने क्रुद्ध-प्रसन्नायां मत्तायां च प्रयोगः. न नित्यम् अ:चण्ड-वेगयोः.
2.4.3 तथा दशन-च्छेद्यस्य सात्म्य-वशाद् वा.
2.4.4 तद् [1] आच्छुरितकम् [2] अर्ध-चन्द्रो [3] मण्डलं [4] रेखा [5] व्याघ्र-नखं [6] मयूर-पदकं [7] शश-प्लुतकम् [8] उत्पल-पत्त्रकम् इति रूपतो ऽष्ट-विकल्पम्.
2.4.5 कक्षौ स्तनौ गलः पृष्ठं जघनम् ऊरू च स्थानानि.
2.4.6 प्रवृत्त-रति-चक्राणां न स्थानम् अ:स्थानं वा विद्यत इति सुवर्णनाभः.
2.4.7 तत्र सव्य-हस्तानि प्रत्य्:अग्र-शिखराणि द्वि-त्रि-शिखराणि चण्ड-वेगयोर् नखानि स्युः.
2.4.8 अनुगत-राजि समम् उज्ज्वलम् अ:मलिनम् अ:विपाटितं विवर्धिष्णु मृदु स्निग्ध-दर्शनम् इति नख-गुणाः.
2.4.9 दीर्घाणि हस्त-शोभीन्य् आलोके च योषितां चित्त-ग्राहीणि गौडाणां नखानि स्युः.
2.4.10 ह्रस्वानि कर्म-सहिष्णूनि विकल्प-योजनासु च स्वेच्छापातीनि दाक्षिणत्यानाम्.
2.4.11 मध्यमान्य् उभय-भाञ्जि महाराष्ट्रकाणाम् इति.
2.4.12 तैः सु:नियमितैर् हनु-देशे स्तनयोर् अधरे वा लघु-करणम् अन्:उद्गत-लेखं स्पर्श-मात्र-जननाद् रोमाञ्च-करम् अन्ते संनिपात-वर्धमान-शब्दम् [1] आच्छुरितकम्.
2.4.13 प्रयोज्यायां च तस्याङ्ग-संवाहने शिरसः कण्डूयने पिटक-भेदने व्याकुली-करणे भीषणेन प्रयोगः.
2.4.14 ग्रीवायां स्तन-पृष्ठे च वक्रो नख-पद-निवेशो [2] अर्ध-चन्द्रः.
2.4.15 ताव् एव द्वौ पर्स-पराभिमुखौ मण्डलम्.
2.4.16 नाभि-मूल-ककुन्दर-वंक्षणेषु((10)) तस्य प्रयोगः.
2.4.17 सर्व-स्थानेषु नाति:दीर्घा [4] लेखा((11)).
2.4.18 सैव वक्रा [5] व्याघ्र-नखकम् आ स्तन-मुखम्.
2.4.19 पञ्चभिर् अभिमुखैर् लेखा चूचुकाभिमुखी((12)) [6] मयूर-पदकम्.
2.4.20 तत्-संप्रयोग-श्लाघायाः स्तन-चूचुके संनिकृष्टानि पञ्च-नख-पदानि [7] शश-प्लुतकम्.
2.4.21 स्तन-पृष्ठे मेखला-पथे चोत्पल-पत्त्राकृतीत्य् [8] उत्पल-पत्त्रकम्.
2.4.22 ऊर्वोः स्तन-पृष्ठे च प्रवासं गच्छतः स्मारणीयकं संहताश् चतस्रस् तिस्रो वा लेखाः.
2.4.22च् इति नख-कर्माणि.
2.4.23 आकृति-विकार-युक्तानि चान्यान्य् अपि कुर्वीत.
2.4.24 विकल्पानाम् अन्:अन्तत्वाद् आनन्त्याच् च कौशल-विधेर् अभ्यासस्य च सर्व-गामित्वाद् रागात्मकत्वाच् छेद्यस्य प्रकारान् को ऽभिसमीक्षितुम् अर्हतीत्य् आचार्याः..2.4.25 भवति हि रागे ऽपि चित्रापेक्षा. वैचित्र्याच् च परस्परं रागो जनयितव्यः. वैचक्षण्य-युक्ताश् च गणिकास् तत्-कामिनश् च परस्परं प्रार्थनीया भवन्ति. धनुर्-वेदादिष्व् अपि हि शस्त्र-कर्म-शास्त्रेषु वैचित्र्यम् एवापेक्ष्यते किं पुनर् इहेति वात्स्यायनः.
2.4.26 न तु पर-परिगृहीतास्व् एवं कुर्यात्. प्रच्छन्नेषु प्रदेशेषु तासाम् अनुस्मरणार्थं राग-वर्धनाच् च विशेषान् दर्शयेत्.
2.4.27व् नख-क्षतानि पश्यन्त्या गूढ-स्थानेषु योषितः. चिरोत्सृष्टाप्य् अभिनवा प्रीतिर् भवति पेशला((13))..
2.4.28व् चिरोसृष्टेषु रागेषु प्रीतिर् गच्छेत् पराभवम्. रागायतन-संस्मारि यदि न स्यान् नख-क्षतम्..
2.4.29व् पश्यतो युवतिं दूरान् नखोच्छिष्ट-पयोधराम्. बहु-मानः परस्यापि राग-योगश् च जायते..
2.4.30व् पुरुषश् च प्रदेशेषु नख-चिह्नैर् विचिह्नितः. चित्तं स्थिरम् अपि प्रायश् चलयत्य् एव योषितः..
2.4.31व् नान्यत् पटुतरं किं चिद् अस्ति राग-विवर्धनम्. नख-दन्त-समुत्थानां कर्मणां गतयो यथा.
2.4च् इति श्रीवात्यायनीये कामसूत्रे सांप्रयोगिके द्वितीये ऽधिकरणे चतुर्थो ऽध्यायः. आदितो नवमः.
लेçओन् 5 पञ्चमो ऽध्यायः.
सेच्तिओन् (प्रकरण)11
2.5.1 उत्तरौष्ठम् अन्तर्:मुखं नयनम् इति मुक्त्वा चुम्बनवद् दशन-रदन-स्थानानि.
2.5.2 समाः स्निग्ध-च्छाया राग-ग्राहिणो युक्त-प्रमाणा निश्:छिद्रास् तीक्ष्णाग्रा इति दशन-गुणाः.
2.5.3 कुण्ठा राज्य्-उद्गताः परुषाः विषमाः श्लक्ष्णाः पृथवो विरला इति च दोषाः.
2.5.4 [1] गूढकम् [2] उच्छूनकं((14)) [3] बिन्दुर् [4] बिन्दु-माला [5] प्रवाल-मणिर् [6] मणि-माला [7] खण्डाभ्रकं [8] वराह-चर्वितकम् इति दशन-च्छेदन्-विकल्पाः.
2.5.5 नातिलोहितेन राग-मात्रेण विभावनीयं [1] गूढकम्.
2.5.6 तद् एव पीडनाद् [2] उच्छूनकम्.
2.5.7 तद् उभयं बिन्दुर् अधर-मध्य इति.
2.5.8 उच्छूनकं प्रवाल-मणिश् च कपोले.
2.5.9 कर्णपूर-चुम्बनं नख-दशन-च्छेद्यम् इति सव्य-कपोल-मण्डनानि.
2.5.10 दन्तौष्ठ-संयोगाभ्यास-निष्पादनत्वात् [5] प्रवाल-मणि-सिद्धिः.
2.5.11 सर्वस्येयं [6] मणि-मालायाश् च.
2.5.12 अल्प-देशायाश् च त्वचो दशन-द्वय-संदंश-जा [3] बिन्दु-सिद्धिः
2.5.13 सर्वैर् [4] बिन्दु-मालायाश् च.
2.5.14 तस्मान् माला-द्वयम् अपि गल-कक्ष-वंक्षण-प्रदेशेषु.
2.5.15 ललाटे चोर्वोर् बिन्दु-माला.
2.5.16 मण्दलम् इव विषम-कूटक-युक्तं [7] खण्डाभ्रकं स्तन-पृष्ठ एव.
2.5.17 संहताः प्रदीर्घा बह्व्यो दशन-पद-राजयस् ताम्रान्तराला [8] वराह-चर्वितकम्. स्तन-पृष्ठ एव.
2.5.18 तद् उभयम् अपि चण्ड-वेगयोः.
2.5.18च् इति दशन-च्छेद्यानि.
2.5.19 विशेषके कर्णपूरे पुष्प-पीडे ताम्बूल-पलाशे तमाल-पत्त्रे चेति प्रयोज्यागामिषु नख-दशन- च्छेद्यादीन्य् अभियोगिकानि.
सेच्तिओन् (प्रकरण)12
2.5.20 देश-सात्म्याच् च योषित उपचरेत्.
2.5.21 मध्य-देश्या आर्य-प्रायाः शुच्य्-उपचाराश् चुम्बन-नख-दन्त-पद-द्वेषिण्यः.
2.5.22 बाह्लीक-देश्या आवान्तिकाश् च.
2.5.23 चित्र-रतेषु त्व् आसाम् अभिनिवेशः.
2.5.24 परिष्वङ्ग-चुम्बन-नख-दन्त-चूषण-प्रधानाः क्षत-वर्जिताः प्रहनण-साध्या मालव्य आभीर्यश् च.
2.5.25 सिन्धुषष्ट्ःआनां च नदीनाम् अन्तरालीया औपरिष्टक-सात्म्याः.
2.5.26 चण्ड-वेगा मन्द-सीत्कृता आपरान्तिका लाट्यश् च.
2.5.27 दृढ-प्रहणन-योगिन्यः खर-वेगा एव अपद्रव्य-प्रधानाः स्त्रीराज्ये कोशालायां च.
2.5.28 प्रकृत्या मृद्व्यो रति-प्रिया अ:शुचि-रुचयो निर्:आचाराश् च आन्ध्र्यः.
2.5.29 सकल-चतुःषश्टि-प्रयोग-रागिण्यो ऽश्लील-परुष-वाक्य-प्रियाः शयने च स:रभसोपक्रमा महाराष्ट्रिकाः.
2.5.30 तथा-विधा एव रहसि प्रकाशन्ते नागरिकाः((15)).
2.5.31 मृद्यमानाश् चाभियोगान् मन्दं मन्दं प्रसिञ्चन्ते द्रविड्यः..2.5.32 मध्यम-वेगाः सर्व-सहाः स्वाङ्ग-प्रच्छादिन्यः पराङ्ग-हासिन्यः कुत्सिताश्लील-परुष- परिहारिण्यो वानवासिकाः.
2.5.33 मृदु-भाषिण्यो ऽनुरागवत्यो मृद्व्यङ्ग्यश्((16)) च गौड्यः.
2.5.34 देश-सात्म्यात् प्रकृति-सात्म्यं बलीय इति सुवर्णनाभः. न तत्र देश्या उपचाराः.
2.5.35 काल-योगाच् च देशाद् देशान्तरम् उपचार-वेष-लीलाश् चानुगच्छन्ति तच् च विद्यात्.
2.5.36 उपगूहनादिषु च राग-वर्धनं पूर्वं पूर्वं विचित्रम् उत्तरम् उत्तरं च.
2.5.37व् वार्यमाणश् च पुरुषो यत् कुर्यात् तद् अनु क्षतम्. अ:मृष्यमाणा द्वि-गुणं तद् एव प्रतियोजयेत्..
2.5.38व् बिन्दोः प्रतिक्रिया माला मालायाश् चाभ्रखण्डकम्. इति क्रोधाद् इवाविष्टा कलहान् प्रतियोजयेत्..
2.5.39व् सकचग्रहम् उन्नम्य मुखं तस्य ततः पिबेत्. निलीयेत दशेच् चैव तत्र तत्र मदेरिता..
2.5.40व् उन्नम्य कण्ठे कान्तस्य संश्रिता वक्षसः स्थलीम्. मणि-मालां प्रयुञ्जीत यच् चन्यद् अपि लक्षितम्..
2.5.41व् दिवापि जनसंबाधे नायकेन प्रदर्शितम्. उद्दिश्य स्व-कृतं चिह्नं हसेद् अन्यैर् अ:लक्षिता..
2.5.42व् विकूणयन्तीव((17)) मुखं कुत्सयन्तीव((18)) नायकम्. स्व-गात्र-स्थानि चिह्नानि सासूयेव प्रदर्शयेत्..
2.5.43व् परस्परानुकूल्येन तद् एवम् लज्जमानयोः. संवत्सर-शतेनापि प्रीतिर् न परिहीयते..
2.5च् इति श्रीवात्यायनीये कामसूत्रे सांप्रयोगिके द्वितीये ऽधिकरणे दशन-च्छेद्य--विधयो देश्याश् चोपचाराः पञ्चमो ऽध्यायः. आदितो दशमः.
लेçओन् 6 षष्ठो ऽध्यायः.
सेच्तिओन् (प्रकरण)13
2.6.1 राग-काले विशालयन्त्य् एव जघनं मृगी संविशेद् उच्चरते.
2.6.2 अवह्रासयन्तीव हस्तिनी नीच-रते.
2.6.3 न्याय्यो यत्र योगस् तत्र समपृष्ठम्.
2.6.4 आभ्यां बडवा व्याख्याता.
2.6.5 तत्र जघनेन नायकं प्रतिगृह्णीयात्.
2.6.6 अपद्रव्याणि च स:विशेषं नीचरते.
2.6.7 [1] उत्फुल्लकं [2] विजृम्भितकम् [3] इन्द्राणिकं चेति त्रितयं मृग्याः प्रायेण.
2.6.8 शिरो विनिपात्योर्ध्वं जघनम् [1] उत्फुल्लकम्.
2.6.9 तत्रापसारं दद्यात्.
2.6.10 अ:नीचे सक्थिनी((19)) तिर्यग् अवसज्य प्रतीछेद् इति [2] विजृम्भितकम्.
2.6.11 पार्श्वयोः समम् ऊरू विन्यस्य पार्श्वयोर् जानुनी निदध्याद् इत्य् अभ्यास-योगाद् [3] इन्द्राणी.
2.6.12 तयोच्चतर-रतस्यापि परिग्रहः.
2.6.13 संपुटेन प्रतिग्रहो नीच-रते.
2.6.14 एतेन नीच-तर-रते ऽपि हस्तिन्याः.
2.6.15 [1] संपुटकं [2] पीडितकं [3] वेष्टितकं [4] बाडवकम् इति.
2.6.16 ऋजु-प्रसारिताव् उभाव् अप्य् उभयोः चरनाव् इति [1] संपुटः.
2.6.17 स द्वि-विधः ण् पार्श्व-संपुट उत्तान-संपुटाश् च. तथा कर्म-योगात्.
2.6.18 पार्श्वेण तु शयानो दक्षिणेन नारीम् अधिशयीतेति सार्वत्रिकम् एतत्.
2.6.19 संपुटक-प्रयुक्त-यन्त्रेणैव दृढम् ऊरू पीडयेद् इति [2] पीडितकम्.
2.6.20 ऊरू व्यत्यस्येद् इति [3] वेष्टितकम्.
2.6.21 बडवेव निष्ठुरम् अवगृह्णीयाद् इति [4] बाडवकम् आभ्यासिकम्.
2.6.22 तद् आन्ध्रीषु प्रायेण. इति संवेशन-प्रकारा बाभ्रवीयाः.
2.6.23 सौवर्णनाभास् तु.
2.6.24 उभाव् अप्य् ऊरू ऊर्ध्वाव् इति तद् भुग्नकम्((20)).
2.6.25 चरणाव् ऊर्ध्वं नायको ऽस्या धारयेद् इति जृम्भितकम्.
2.6.26 तत्-कुञ्चिताव् उत्पीडितकम्.
2.6.27 तद् एकस्मिन् प्रसारिते ऽर्ध-पीडितकम्.
2.6.28 नायकस्यांस एको द्वितीयकः प्रसारित इति पुनः पुनर् व्यत्यासेन वेणु-दारितकम्.
2.6.29 एकः शिरस उपरि गच्छेद् द्वितीयः प्रसारित इति शूलचितकम् आभ्यासिकम्.
2.6.30 संकुचितौ स्वस्ति-देशे निदध्याद् इति कार्कटकम्.
2.6.31 ऊर्ध्वाव् ऊरू व्यत्यस्येद् इति पीडितकम्.
2.6.32 जङ्घा-व्यत्यासेन पद्मासनवत्.
2.6.33 पृष्ठं परिष्वजमानायाः पराङ्मुखेण परावृत्तकम् आभ्यासिकम्..2.6.34 जले च संविष्टोपविष्ट-स्थितात्मकांश् चित्रान् योगान् उपलक्षयेत्. तथा सु:करत्वाद् इति सुवर्णनाभः.
2.6.35 वार्तं तु तत्. शिष्टैर् अपस्मृतत्वाद् इति वात्स्यायनः.
सेच्तिओन् (प्रकरण)14
2.6.36 अथ चित्र-रतानि.
2.6.37 ऊर्ध्व-स्थितयोर् यूनोः परस्परापाश्रययोः कुड्य-स्तम्भापाश्रितयोर् वा स्थित-रतम्.
2.6.38 कुड्यापाश्रितस्य कण्ठावसक्त-बाहु-पाशायास् तद्-धस्त-पञ्जरोपविष्टाया ऊरु-पाशेन जघनम् अभिवेष्टयन्त्या कुड्ये चरण-क्रमेण वलन्त्या अवलम्बितकं रतम्.
2.6.39 भूमौ वा चतुष्पदवद् आस्थिताया वृषलीलयावस्कन्दनं धेनुकम्.
2.6.40 तत्र पृष्ठम् उरः-कर्माणि लभते.
2.6.41 एतेनैव योगेन शौनम् ऐणेयं छागलं गर्दभाक्रान्तं मार्जार-ललितकं व्याघ्रावस्कन्दनं गजोपमर्दितं वराह-घृष्टकं तुरगाधिरूढकम् इति यत्र यत्र विशेषो योगो ऽ:पूर्वस् तत् तद् उपलक्षयेत्.
2.6.42 मिश्री-कृत-सद्भावाभ्यां द्वाभ्यां सह संघाटकं रतम्.
2.6.43 बह्वीभिश् च सह गो-यूथिकम्.
2.6.44 वारि-क्रीडितकं छागलम् ऐणेयम् इति तत्-कर्मानुकृति-योगात्.
2.6.45 ग्रामनारी-विषये((21)) स्त्रीराज्ये च बाह्लीके बहवो युवानो ऽन्तःपुर-स:धर्माण एकैकस्याः परिग्रह-भूताः.
2.6.46 तेषाम् एकैकशो युगपच् च यथा:सात्म्यं यथा:योगं च रञ्जयेयुः.
2.6.47 एको धारयेद् एनाम् अन्यो निषेवेत. अन्यो जघनं मुखम् अन्यो मध्यम् अन्य इति वारं वारेण व्यतिकरेण चानुतिष्ठेयुः.
2.6.48 एतया गोष्ठी-परिग्रहा वेश्या राज-योषा-परिग्राहश् च व्याख्यातः.
2.6.49 अधोरतं पायाव् अपि दाक्षिणत्यानाम्. इति चित्र-रतानि.
2.6.50 पुरुषोपसृप्तकानि पुरुषायिते वक्ष्यामः.
2.6.51 भवतश् चात्र श्लोकौ
2.6.51व् पशूनां मृग-जातीनां पतङ्गानां च विभ्रमैः. तैस् तैर् उपायैश् चित्तज्ञो रति-योगान् विवर्धयेत्..
2.6.52व् तत्-सात्म्याद् देश-सात्म्याच् च तैस् तैर् भावैः प्रयोजितैः. स्त्रीणां स्नेहश् च रागश् च बहुमानश् च जायते..
2.6च् इति श्रीवात्यायनीये कामसूत्रे सांप्रयोगिके द्वितीये ऽधिकरणे संवेशन-प्रकाराश् चित्र-रतानि च षष्ठो ऽध्यायः. आदितो एकदशः.
लेçओन् 7 सप्तमो ऽध्यायः
सेच्तिओन् (प्रकरण)15-16 प्रहणन-सीत्कार-प्रकरणम्.
2.7.1 कलह-रूपं सु:रतम् आचक्षते. विवादात्मकत्वाद् वाम-शीलत्वाच् च कामस्य.
2.7.2 तस्मात् प्रहणनन्-स्थानम् अङ्गम्. स्कन्धौ शिरः स्तनान्तरं पृष्ठं जघनं पार्श्व इति स्थानानि.
2.7.3 तच् चतुर्-विधम् ण् [1] अपहस्तकं [2] प्रसृतकं [3] मुष्टिः [4] समतलकम् इति.
2.7.4 तद्-उद्भावं च सीत्कृतम्. तस्याति:रूपत्वात्. तद् अन्:एक-विधम्.
2.7.5 विरुतानि चाष्टौ.
2.7.6 [आ]हिंकार-[अ2]स्तनित-[अ3]कूजित-[अ4]रुदित-[अ5]सूत्कृत-[अ6]दूत्कृत-[अ7]फूत्कृतानि.
2.7.7 अम्बार्थाः शब्दा वारणार्था मोक्षणार्थाश् चालम्-अर्थास् ते ते [अ8] चाथ-योगात्.
2.7.8 [ब्1]पारावत-[ब्2]परभृत-[ब्3]हारीत-[ब्4]शुक-[ब्5]मधुकर-[ब्6]दात्यूह-[ब्7]हंस-[ ब्8]कारण्डव-[ब्9]लावक-विरुतानि सीत्-कृत-भूयिष्ठानि विकल्पशः प्रयुञ्जीत.
2.7.9 उत्सङ्गोपविष्टायाः पृष्ठे मुष्टिना प्रहारः.
2.7.10 तत्र सासूयाया इव [अ2]स्तनित-[अ4]रुदित-[अ3]कूजितानि प्रतिघातश् च स्यात्.
2.7.11 युक्त-यन्त्रायाः स्तनान्तरे [1] अपहस्तकेन प्रहरेत्.
2.7.12 मन्दोपक्रमं वर्धमान-रागम् आ परिसमाप्तेः.
2.7.13 तत्र [अ8]हिंकारादीनाम् अ:नियमेनाभ्यासेन विकल्पेन च तत्-कालम् एव प्रयोगः.
2.7.14 शिरसि किं चिद् आकुञ्चितागुलिना करेण विवदन्त्याः [अ7]फूत्कृत्य प्रहणनं तत् [2] प्रसृतकम्.
2.7.15 तत्रान्तर्मुखेन [अ3]कूजितं [अ7]फूत्कृतं च.
2.7.16 रतान्ते च श्वासित-रुदिते.
2.7.17 फेणोर् इव स्फुटतः शब्दानुकरणं [अ6]दूत्कृतम्.
2.7.18 अप्सु बदरस्येव((22)) निपततः [अ7]फूत्कृतम्.
2.7.19 सर्वत्र चुम्बनादिष्व् अपक्रान्तायाः स:सीत्कृतं तेनैव प्रत्युत्तरम्.
2.7.20 राग-वशात् प्रहणनाभ्यासे [अ8]वारण-मोक्षणालम् अर्थानां शब्दानां अम्बार्थानां च स:तान्त-श्वासित-रुदित-स्तनित-मिश्री-कृत-प्रयोगा विरुतानां च. रागावसान-काले जघन-पर्श्वयोस्((23)) ताडनम् इत्य् अ:त्वरया चा परिसमाप्तेः.
2.7.21 तत्र [ब्9]लावक-[ब्7]हंस-विकूजितं त्वरयैव. इति स्तनन-प्रहणन-योगाः..2.7.22 भवतश् चात्र श्लोकौ.
2.7.22व् पारुष्यं रभसत्वं च पौरुषं तेज उच्यते. अ:शक्तिर् आर्तिर् व्यावृत्तिर् अ:बलत्वं च योषितः..
2.7.23व् रागात् प्रयोग-सात्म्याच् च व्यत्ययो ऽपि क्व चिद् भवेत्. न चिरं तस्य चैवान्ते प्रकृतेर् एव योजनम्..
2.7.24 कीलाम् उसरि कर्तरीं शिरसि विद्धां कपोलयोः संदंशिकां स्तनयोः पार्श्वयोश् चेति पूर्वैः सह प्रहणनम् अष्ट-विधम् इति दाक्षिणात्यानाम्. तद्-युवतीनाम् उसरि कीलानि दृश्यन्ते. देश-सात्म्यम् एतत्.
2.7.25 कष्टम् अन्:आर्य-वृत्तम् अन्:आदृतम् इति वात्स्यायनः.
2.7.26 तथान्यद् अपि देश-सात्म्यात् प्रयुक्तम् अन्यत्र न प्रयुञ्जीत.
2.7.27 आत्ययिकं तु तत्रापि परिहरेत्.
2.7.28 रति-योगे हि कीलया गणिकां चित्रसेनां चोलराजो जघान.
2.7.29 कर्तर्या कुण्टलः शातकर्णिः शातवाहनो महा-देवीं मलयवतीम्.
2.7.30 नरदेवः कुपाणिर्((24)) विद्धया नाटीं काणां चकार((25)).
2.7.31 भवन्ति चात्र श्लोकाः
2.7.31व् नास्त्य् अत्र का चिन् न च शास्त्र-परिग्रहः. प्रवृत्ते रति-संयोगे राग एवात्र कारणम्..
2.7.32व् स्वप्नेषु न दृश्यन्ते ते भावास् ते च विभ्रमाः. सुरत-व्यवहारेषु ये स्युस् तत्-क्षण-कल्पिताः..
2.7.33व् यथा हि पञ्चमीं धाराम् आस्थाय तुरगः पथि. स्थानुं श्वभ्रं दरीं वापि वेगान्धो न समीक्षते..
2.7.33व्2 एवं सु:रत-संमर्दे रागान्धौ कामिनाव् अपि. चण्ड-वेगौ प्रवर्तेते समीक्षेत न चात्ययम्..
2.7.34 तस्मान् मृदुत्वं चण्डत्वं युवत्या बलम् एव च. आत्मनश् च बलं ज्ञात्वा तथा युञ्जीत शास्त्रवित्..
2.7.35 न सरवदा न सर्वासु प्रयोगाः सांप्रयोगिकाः. स्थाने देशे च काले च योग एषां विधीयते..
2.7च् इति श्रीवात्यायनीये कामसूत्रे सांप्रयोगिके द्वितीये ऽधिकरणे प्रहणन-प्रयोगास् तद्-युक्ताश् च सीत्कृत-क्रमाः सप्तमो ऽध्यायः. आदितो द्वादशः.
लेçओन् 8
सेच्तिओन् (प्रकरण)17अ((26)) पुरुषायित-प्रकरणम्.
2.8.1 नायकस्य संतताभ्यासात् प्रैश्रमम् उपलभ्य रागस्य चान्:उपशमम् अनुमता तेन तम् अधो ऽवपात्य पुरुषायितेन साहाय्यं दद्यात्.
2.8.2 स्वाभिप्रायाद् वा विकल्प-योजनार्थिनी.
2.8.3 नयक-कुतूहलाद् वा.
2.8.4 तत्र युक्त-यन्त्रेणैवेतरेणोत्थाप्यमाना तम् अधः पातयेत्. एवं च रतम् अ:विछिन्न-रसं तथा प्रवृत्तम् एव स्यात्. इत्य् एको ऽप्य् अयं मार्गः.
2.8.5 पुनर् आरम्भेणादित एवोपक्रमेत्. इति द्वितीयः.
2.8.6 सा प्रकीर्यमाण-केश-कुसुमा श्वास-विच्छिन्न-हासिनी वक्त्र-संसर्गार्थं स्तनाभ्याम् उरः पीडयन्ती पुनः पुनः शिरो नामयन्ती याश् चेष्टाः पूर्वम् असौ दर्शितवांस् ता एव प्रकुर्वीत. पातिता प्रतिपातयामीति हसन्ती तर्जयन्ती प्रतिघ्नती च ब्रूयात्. पुनश् च व्रीडां((27)) दर्शयेत्. श्रमं विरामाभीप्सां च. पुरुषोपसृप्तैर् एवोपसर्पेत्.
2.8.7 तानि च वक्ष्यामः((28))
सेच्तिओन् (प्रकरण)18
2.8.8 पुरुषः शयनस्थाया योषितस् तद्-वचन-व्याक्षिप्त-चित्ताया इव नीवीं विश्लेषयेत्. तत्र विवदमानां कपोल-चुम्बनेन पर्याकुलयेत्.
2.8.9 स्थिर-लिङ्गश् च तत्रैनां परिस्पृशेत्.
2.8.10 प्रथम-संगता चेत् संहतोर्वोर् अन्तरे घट्टनम्.
2.8.11 कन्यायाश् च.
2.8.12 तथा स्तनयोः संहतयोर् हस्तयोः कक्षयोर् अंसयोर् ग्रीवायाम् इति च.
2.8.13 स्वैरिण्यां यथा:सात्म्यं यथा-योगं च. अलके चुम्बनार्थम् एनां निर्दयम् अवलम्बेत् हनु-देशे चाङ्गुलि-संपुतेन.
2.8.14 तत्रेतरस्य व्रीडा निमीलनं च. प्रथम-समागमे कन्यायाश् च.
2.8.15 रति-संयोगे चैनां कथम् अनुरज्यत इति प्रवृत्त्या परीक्षेत.
2.8.16 युक्त-यन्त्रेणोपसृप्यमाना यतो दृष्टिम् आवर्तयेत् तत एवैनां पीडयेत्. एतद् रहस्यं युवतीनाम् इति सुवर्णनाभः.
2.8.17 गात्राणां स्रंसनं नेत्र-निमीलनं व्रीडा-नाशः समधिका च रति-योजनेति स्त्रीणां भाव-लक्षणम्..2.8.18 हस्तौ विधुनोति स्विद्यति दशत्य् उत्थातुं न ददाति पादेनाहन्ति रतावमाने च पुरुषातिवर्तिनी.
2.8.19 तस्याः प्राग् यन्त्र-योगात् करेण संबाधं गज इव क्षोभयेत्. आ मृदु-भावात्. ततो यन्त्र-योजनम्.
2.8.20 उपसृप्तकं [1]मन्थनं [2]हुलो((29)) [3]अवमर्दनं [4]पीडितकं [5]निर्घातो [6]वराह-घातो [7]वृष-घातश् [8]चटक-विलसितं [9]संपुट इति पुरुषोपसृप्तानि.
2.8.21 न्याय्यम् ऋजु-संमिश्रणम् उपसृप्तकम्.
2.8.22 हस्तेन लिङ्गं सर्वतो भ्रामयेद् इति [1]मन्थनम्.
2.8.23 नीची-कृत्य जघनम् उपरिष्टाद् घट्टयेद् इति [2]हुलः.
2.8.24 तद् एव विपरीतं स:रभसम् [3]अवमर्दनम्.
2.8.25 लिङ्गेन समाहत्य पीडयंश् चिरम् अवतिष्ठेतेति [4]पीडितकम्.
2.8.26 सु:दूरम् उत्कृष्य वेगेन स्व-जघनम् अवपातयेद् इति [5]निर्घातः.
2.8.27 एकत एव भूयिष्ठम् अवलिखेद् इति [6]वराह-घातः.
2.8.28 स एवोभयतः पर्यायेण [7]वृषाघातः.
2.8.29 सकृन् मिश्रितम् अ:निष्क्रमय्य द्विस् त्रिश् चतुर् इति घट्टयेद् इति [8]चटक-विलसितम्.
2.8.30 रागावसानिकं व्याख्यातं करणं [9]संपुटम् इति((30)).
2.8.31 तेषां स्त्री-सात्म्याद् विकल्पेन प्रयोगः.
सेच्तिओन् (प्रकरण)17ब्((31))
2.8.32 पुरुषायिते तु [1]संदंशो [2]भ्रमरकः [3]प्रेङ्खोलितम्((32)) इत्य् अधिकानि.
2.8.33 बाडवेन लिङ्गम् अवगृह्य निष्कर्षन्त्याः पीडयन्त्या वा चिरावस्थानं [1]संदंशः.
2.8.34 युक्त-यन्त्रा चक्रवद् भ्रमेद् इति [2]भ्रमरक आभ्यासिकः.
2.8.35 तत्रेतरः स्व-जघनम् उत्क्षिपेत्.
2.8.36 जघनम् एव दोलायमानं सर्वतो भ्रामयेद् इति [3]प्रेङ्खोलितकम्.
2.8.37 युक्त-यन्त्रैव ललाटे ललाटं निधाय विश्राम्येत.
2.8.38 विश्रान्तायां च पुरुषस्य पुनर् आवर्तनम्. इति पुरुषायितानि.
2.8.39 भवन्ति चात्र श्लोकाः.
2.8.39व् प्रच्छादित-स्वभावापि गूढाकारापि कामिनी. विवृणोत्य् एव भावं स्वं रागाद् उपरिवर्तिनी..
2.8.40व् यथा-शीला भवेन् नारी यथा च रति-लालसा. तस्या एव विचेष्टाभिस् तत् सर्वम् उपलक्षयेत्..
2.8.41व् न त्व् एव र्तौ न प्रसूतां न मृगीं न च गर्भिणीम्. न चाति:व्यायतां((33)) नारीं योजयेत् पुरुषायिते..
2.8च् इति श्रीवात्यायनीये कामसूत्रे सांप्रयोगिके द्वितीये ऽधिकरणे पुरुषोपसृप्तानि पुरुषायितं चाष्टमो ऽध्यायः. आदितस् त्रयोदशः.
लेçओन् 9 नवमो ऽध्यायः.
सेच्तिओन् (प्रकरण)19 औपरिष्टक-प्रकरणम्.
2.9.1 द्विविधा तृतीय-प्रकृतिः स्त्री-रूपिणी पुरुष-रूपिणी च.
2.9.2 तत्र स्त्री-रूपिणी स्त्रिया वेषम् आलापं लीलां भावं मृदुत्वं भीरुत्वं मुग्धताम् अ:सहिष्णुतां व्रीडां चानुकुर्वीत.
2.9.3 तस्य वदने जघन-कर्म. तद् औपरिष्टकम् आचक्षते.
2.9.4 सा ततो रतिम् आभिमानिकीं वृत्तिं च लिप्सेत्.
2.9.5 वेश्यावच् चरितं प्रकाशयेत्. इति स्त्री-रूपिणी.
2.9.6 पुरुष-रूपिणी तु प्रछन्न-कामा पुरुषं लिप्समाना संवाहक-भावम् उपजीवेत्.
2.9.7 संवाहने परिष्वजमानेव गात्रैर् ऊरू नायकस्य मृद्नीयात्.
2.9.8 प्रसृत-परिचया चोरु-मूलं स:जघनम् इति संस्पृशेत्.
2.9.9 तत्र स्थिर-लिङ्गताम् उपलभ्य चास्य पाणि-मन्थेन परिघट्टयेत्. चापलम्((34)) अस्य कुत्सयन्तीव हसेत्.
2.9.10 कृत-लक्षणेनाप्य् उपलब्ध-वैकृतेनापि न चोद्यत इति चेत् स्वयम् उपक्रमेत्.
2.9.11 पुरुषेण च चोद्यमाना विवदेत्. कृच्छ्रेण चाभ्युपगच्छेत्.
2.9.12 तत्र कर्माष्ट-विधं समुच्चय-प्रयोज्यम्.
2.9.13 [1]निमितं [2]पार्श्वतो-दष्टं [3]बाहिः-संदंशो [4]अन्तः-संदंशश् [5]चुम्बितकं [6]परिमृष्टकम् [7]आम्र-चूषितकं [8]संगर इति.
2.9.14 तेष्व् एकैकम् अभ्युपगम्य विरामाभीप्सां दर्शयेत्.
2.9.15 इतरश् च पूर्वस्मिन्न् अभ्युपगते तद् उत्तरम् एवापरं निर्दिशेत्. तस्मिन्न् अपि सिद्धे तद्-उत्तरम् इति.
2.9.16 करावलम्बितम् ओष्ठयोर् उपरि विन्यस्तम् अपविध्य((35)) मुखं विधुनुयात्((36)). तन् [1]निमितं.
2.9.17 हस्तेनाग्रम् अवच्छाद्य पार्श्वतो निर्दशनम् ओष्ठाभ्याम् अवपीड्य भवत्व् एतावद् इति सान्त्वयेत्. तत् [2]पार्श्वतो-दष्टम्..2.9.18 भूयश् चोदिता संमीलितौष्ठी तस्याग्रं निष्पीड्य कर्षयन्तीव चुम्बेत्. इति [3] बाहिः-संदंशः.
2.9.19 तस्मिन्न् एवाभ्यर्थनया किं चिद् अधिकं प्रवेशयेत्. सापि चाग्रम् ओष्ठाभ्यां निष्पीड्य निष्ठीवेत्((37)). इति [4]अन्तः-संदंशः.
2.9.20 करावलम्बितस्यौष्ठवद् ग्रहणं [5]चुम्बितकम्.
2.9.21 तत् कृत्वा जिह्वाग्रेण सर्वतो घट्टनम् अग्रे च व्यधनम् इति [6]परिमृष्टकम्.
2.9.22 तथा:भूतम् एव राग-वशाद् अर्ध-प्रविष्टं निर्दयम् अवपीड्यावपीड्य मुञ्चेत्. इत्य् [7] आम्र-चूषितकम्.
2.9.23 पुरुषाभिप्रायाद् एव गिरेत् पीडयेच् चापरिसमाप्तेः. इति [7]संगरः.
2.9.24 यथार्थं चात्र स्तनन-प्रहणनयोः प्रयोगः. इत्य् औपरिष्टकम्.
2.9.25 कुलटाः((38)) स्वैरिण्यः परिचारिकाः संवाहिकाश् चाप्य् एतत् प्रयोजयन्ति.
2.9.26 तद् एतत् तु न कार्यम्. समय-विरोधाद्((39)) अ:सभ्यत्वाच् च. पुनर् अपि ह्य् आसां वदन-संसर्गे स्वयम् एवार्तिं प्रपद्येत. इत्य् आचार्याः.
2.9.27 वेश्या-कामिनो ऽयम् अ:दोषः((40)). अन्यतो ऽपि परिहार्यः स्यात्. इति वात्स्यायनः.
2.9.28 तस्माद् यास् त्व् औपरिष्टकम् आचरन्ति न ताभिः सह संसृज्यन्ते प्राच्याः.
2.9.29 वेश्याभिर् एव न संसृज्यन्ते आहिच्छत्रिकाः संसृष्टा अपि मुख-कर्म तासां परिहरन्ति.
2.9.30 निर्:अपेक्षाः साकेताः((41)) संसृज्यन्ते.
2.9.31 न तु स्वयम् औपरिष्टकम् आचरन्ति नागरकाः.
2.9.32 सर्वम् अ:विशङ्कया प्रयोजयन्ति सौरसेनाः.
2.9.33 एवं ह्य् आहुः ण् को हि योषितां आचारं चरित्रं प्रत्ययं वचनं वा श्रद्:धातुम् अर्हति. निसर्गाद् एव हि मलिन-दृष्टयो भवन्त्य् एता न परित्याज्याः. तस्माद् आसां स्मृतित एव शौचम् अन्वेष्टव्यम्. एवं ह्य् आहुः
2.9.33व् वत्सः प्रस्रवणे मेध्यः श्वा मृग-ग्रहणे शुचिः. शकुनिः फल-पाते तु स्त्री-मुखं रति-संगमे.. इति.
2.9.34 शिष्ट-विप्रतिपत्तेः स्मृति-वाक्यस्य च सावकाशत्वाद् देश-स्थितेर् आत्मनश् च वृत्ति-प्रत्ययानुरूपं प्रवर्तेत. इति वात्स्यायनः.
2.9.35 भवन्ति चात्र श्लोकाः प्रमृष्ट-कुण्डलाश्((42)) चापि युवानः परिचारकाः. केषां चिद् एव कुर्वन्ति नराणाम् औपरिष्टकम्..
2.9.36 तथा नागरकाः के चिद् अन्योन्यस्य हितैषिणः. कुर्वन्ति रूढ-विश्वासाः परस्पर-परिग्रहम्..
2.9.37 पुरुषाश् च तथा स्त्रीषु कर्मैतत् किल कुर्वते. व्यासस् तस्य च विज्ञेयो मुख-चुम्बनवद् विधिः..
2.9.38 परिवर्तित-देहौ तु स्त्री-पुंसौ यत् परस्-परम्. युगपत् संप्रयुज्येते स कामः काकिलः((43)) स्मृतः..
2.9.39 तस्माद् गुणवतस् त्यक्त्वा चतुरांस् त्यागिनो नरान्. वेश्याः खलेषु रज्यन्ते दास-हस्तिपकादिषु..
2.9.40 न त्व् एतद् ब्राह्मणो विद्वान् मन्त्री वा राज-धूर्धरः. गृहीत-प्रत्ययो वापि कारयेद् औपरिष्टकम्..
2.9.41 न शास्त्रम् अस्तीत्य् एतावत् प्रयोगे कारणं भवेत्. शास्त्रार्थान् व्यापिनो विद्यात् प्रयोगांस् त्व् एक-देशिकान्..
2.9.42 रस-वीर्य-विपाका हि श्व-मांसस्यापि वैद्यके. कीर्तिता इति तत् किं स्याद् भक्षणीयं विचक्षणैः..
2.9.43 सन्त्य् एव पुरुषाः केचित् सन्ति देशास् तथा:विधाः. सन्ति कालाश् च येष्व् एते योगा न स्युर् निर्:अर्थकाः..
2.9.44 तस्माद् देशं च कालं च प्रयोगं शास्त्रम् एव च. आत्मानं चापि संप्रेक्ष्य योगान् युञ्जीत वा न वा..
2.9.45 अर्थस्यास्य रहस्यत्वाच् चलत्वान् मनसस् तथा. कः कदा किं कुतः कुर्याद् इति को ज्ञातुम् अर्हति..
2.9च् इति श्रीवात्यायनीये कामसूत्रे सांप्रयोगिके द्वितीये ऽधिकरणे औपरिष्टकं नवमो ऽध्यायः. आदितश् चतुर्दशः.
लेçओन् 10
सेच्तिओन् (प्रकरण)20 [रतारम्भावसानिक-प्रकरणम्]
2.10.1 नागरकः सह मित्र-जनेन परिचारकैश् च कृत-पुष्पोपहारे संचारित-सुरभि-धूपे रत्य्-आवासे प्रसाधिते वास-गृहे कृत-स्नान-प्रसाधनां युक्त्यापीतां स्त्रियं सान्त्वनैः पुनः पानेन चोपक्रमेत्..2.10.2 दक्षिणतश् चास्या उपवेशनम्. केश-हस्ते वस्त्रान्ते नीव्याम् इत्य् अवलम्बनम्. रत्य्-अर्थं सव्येन बाहुनानुद्धतः परिष्वङ्गः.
2.10.3 पूर्व-प्रकरण-संबद्धैः परिहासानुरागैर् वचोभिर् अनुवृत्तिः. गूढाश्लीलानां च वस्तूनां समस्यया परिभाषणम्..
2.10.4 स:नृत्तं अ:नृतं वा गीतं वादित्रम्. कलासु संकथाः. पुनः पानेनोपच्छन्दनम्.
2.10.5 जातानुरागायां कुसुमानुलेपन-ताम्बूल-दानेन च शेष-जन-विसृष्टिः. वि:जने च यथोक्तैर् आलिङ्गनादिभिर् एनाम् उद्धर्षयेत्. ततो नीवी-विश्लेषणादि यथोक्तम् उपक्रमेत.
2.10.5 इत्य् अयं रतारम्भः.
2.10.6 रतावसानिकं रागम् अतिवाह्या:संस्तुतयोर् इव स:व्रीडयोः परस्परम् अ:पश्यतोः पृथक् पृथग् आचार-भूमि-गमनम्. प्रतिनिवृत्त्य चा:व्रीडायमानयोर् उचित-देशोपविष्टयोस् ताम्बूल-ग्रहणम् अच्छी-कृतं((44)) चन्दनम् अन्यद् वानुलेपनं तस्या गात्रे स्वयम् एव निवेशयेत्.
2.10.7 सव्येन बाहुना चैनां परिरभ्य चषक-हस्तः((45)) सान्त्वयन् पाययेत्. जलानुपानं वा खण्डक-खाद्यकम् अन्यद् वा प्रकृति-सात्म्य-युक्तम् उभाव् अप्य् उपयुञ्जीयाताम्.
2.10.8 अच्छ-रसक-यूषम्((46)) अम्ल-यवागूं((47)) भृष्ट-मांसोपदंशानि((48)) पानकानि चूत-फलानि((49)) शुष्क-मांसं मातुलुङ्ग-चुक्रकाणि((50)) स:शर्कराणि((51)) च यथा:देश-सात्म्यं च. तत्र मधुरम् इदं मृदु विशदम् इति च विदश्य विदश्य तत् तद् उपहारेत्.
2.10.9 हर्म्य-तल-स्थितयोर् वा चन्द्रिकासेवनार्थम् आसनम्. तत्रानुकूलाभिः कथाभिर् अनुवर्तेत. तद्-अङ्क-संलीनायाश् चन्द्रमसं पश्यन्त्या नक्षत्र-पङ्क्ति-व्यक्ती: करणम्. अरुन्धती-ध्रुव-सप्तर्षि-माला-दर्शनं च.
2.10.9च् इति रतावसानिकम्.
2.10.10 तत्रैतद् भवति.
2.10.10व् अवसाने ऽपि च प्रीतिर् उपचारैर् उपस्कृता. स:विस्रम्भ-कथा-योगै रतिं जनयते पराम्..
2.10.11व् परस्पर-प्रीति-करैर् आत्म-भावानुवर्तनैः. क्षणात् क्रोध-परावृत्तैः क्षणात् प्रीति-विलोकितैः..
2.10.12व् हल्लीसक-क्रीडनकैर्((52)) गायनैर् लाट-रासकैः. राग-लोलार्द्र-नयनैश् चन्द्र-मण्डल-वीक्ष्णैः..
2.10.13व्1 आद्ये संदर्शने जाते पूर्वं ये स्युर् मनोरथाः. पुनर्-वियोगे दुःखं च तस्य सर्वस्य कीर्तनैः..
2.10.13व्2 कीर्तनान्ते च रागेण परिष्वङ्गैः स:चुम्बनैः. तैस् तैश् च भावैः संयुक्तो यूनो रागो विवर्धते..
सेच्तिओन् (प्रकरण)21((53))
2.10.14 [1]रागवद् [2]आहार्य-रागं [3]कृत्रिम-रागं [4]व्यवहित-रागं [5]पोटा-रतं [6]खल-रतम् [7]अ:यन्त्रित-रतम् इति रत-विशेषाः.
2.10.15 संदर्शनात् प्रभृत्य् उभयोर् अपि प्रवृद्ध-रागयोः प्रयत्न-कृते समागमे प्रवास-प्रत्यागमने वा कलह-वियोग-योगे तद् [1]रागवत्.
2.10.16 तत्रात्माभिप्रायाद् यावद्-अर्थं च प्रवृत्तिः.
2.10.17 मध्यस्थ-रागयोर् आरब्धं यद् अनुरज्यते तद् [2]आहार्य-रागम्.
2.10.18 तत्र चातुःषष्टिकैर् योगैः सात्म्यानुविद्धैः संधुक्ष्य संधुक्ष्य रागम् प्रवर्तेत.
2.10.19 तत् कार्य-हेतोर् अन्यत्र सक्तयोर् वा [3]कृत्रिम-रागम्.
2.10.20 तत्र समुच्चयेन योगाञ् शास्त्रतः पश्येत्.
2.10.21 पुरुशस् तु हृदय-प्रियाम् अन्यां मनसि निधाय व्यवहरेत्. संप्रयोगात् प्रभृति रतिं यावत्. अतस् तद् [4]व्यवहित-रागम्.
2.10.22 न्यूनायां कुम्भ-दास्यां परिचारिकायां वा यावद्-अर्थं संप्रयोगस् तत् [5]पोटा-रतम्(( 54)).
2.10.23 तत्रोपचरान् नाद्रियेत.
2.10.24 तथा वेश्याया ग्रामीणेन सह यावद्-अर्थम् [6]खल-रतम्.
2.10.25 ग्राम-व्रज-प्रत्यन्त-योषिद्भिश् च नागरस्य.
2.10.26 उत्पन्न-विस्रम्भयोश् च परस्परानुकूल्याद् [7]अ:यन्त्रित-रतम्.
2.10.26च् इति रतानि.
सेच्तिओन् (प्रकरण)22((55))
2.10.27 वर्धमाण-प्रणया तु नयिका सपत्नी-नाम-ग्रहणं तद्-आश्रयम् आलापं वा गोत्र-स्खलितं वा न मर्षयेत्. नायक-व्यलीकं च.
2.10.28 तत्र सु:भृशः कलहो रुदितम् आयासः शिरो-रुहाणाम् अवक्षोदनं((56)) प्रहणनम् आसनाच् छयनाद् वा मह्यां पतनं माल्य-भूषणावमोक्षो भूमौ शय्या((57)) च.
2.10.29 तत्र युक्त-रूपेण साम्ना पाद-पतनेन वा प्रसन्न-मनास् ताम् अनुनयन्न् उपक्रम्य शयनम् आरोहयेत्..2.10.30 तस्य च वचनम् उत्तरेण योजयन्ती विवृद्ध-क्रोधा स:कच-ग्रहम् अस्यास्यम् उन्नमय्य पादेन बाहौ शिरसि वक्षसि पृष्ठे वा सकृद् द्विस् त्रिर् हन्यात्. द्वार-देशं गच्छेत्. तत्रोपविश्याश्रु-करणम् इति.
2.10.31 अति:क्रुद्धापि तु न द्वार-देशाद् भूयो गच्छेत्. दोषवत्त्वात्. इति दत्तकः. तत्र युक्तितो ऽनुन्~ईयमाना प्रसादम् आकाङ्क्षेत्. प्रसन्नापि तु स:कषायैर्((58)) एव वाक्यैर् एनं तुदतीव प्रसन्न-रति-काङ्क्षिणी नायकेन परिरभ्येत.
2.10.32 स्व-भवनस्था तु निमित्तात् कलहिता तथा:विद-चेष्टैव नायकम् अभिगच्छेत्.
2.10.33 तत्र पीठमर्द-विट-विदूषकैर् नायक-प्रयुक्तैर् उपशमित-रोषा तैर् एवानिनीता तैः सहैव तद्-भवनम् अधिगच्छेत्. तत्र च वसेत्.
2.10.33च् इति प्रणय-कलहः.
2.10.34 भवन्ति चात्र श्लोकाः.
2.10.34व् एवम् एतां चतुःषष्टिं बाभ्रव्येण प्रकीर्तिताम्. प्रयुञ्जानो वर-स्त्रीषु सिद्धिं गच्छति नायकः..
2.10.35व् ब्रुवन्न् अपि अन्य-शास्त्राणि चतुःषष्टि-विवर्जितः. विद्वत्-संसदि नात्य्:अर्थं कथासु परिपूज्यते..
2.10.36व् वर्जितो ऽप्य् अन्य-विज्ञानैर् एतया यस् त्व् अलंकृतः. स गोष्ठ्यां नर-नारीणां कथास्व् अग्रं विगाहते((59))..
2.10.37व् विद्वद्भिः पूजिताम् एनां खलैर् अपि सु:पूजितम्. पूजितां गणिका-सङ्घैर् नन्दिनीं को न पूजयेत्..
2.10.38व् नन्दिनी सु:भगा सिद्धा सु:भगं-करणीति च. नारी-प्रियेति चाचार्यैः शास्त्रेष्व् एषा निरुच्यते..
2.10.39व् कन्याभिः पर-योषिद्भिर् गणिकाभिश् च भावतः. वीक्ष्यते बहु-मानेन चतुःषष्टि-विचक्षणः..
2.10च् इति श्रीवात्यायनीये कामसूत्रे सांप्रयोगिके द्वितीये ऽधिकरणे रतारम्भावसानिकं रत-विशेषाः प्रणय-कलहश् च दशमो ऽध्यायः. आदितः पञ्चदशः..लिव्रे 3 कन्या-संप्रयुक्तकं तृतीयम् अधिकरणम्
लेçओन् 1 प्रथमो ऽध्यायः
सेच्तिओन् (प्रकरण)23 [वरण-संविधान-प्रकरणम्]
3.1.1 स:वर्नायाम् अन्:अन्यपूर्वायां शास्त्रतो ऽधिगतायां धर्मो ऽर्थः पुत्राः संबन्धः पक्ष-वृद्धिर् अन्:उपस्कृता((60)) रतिश् च((61)).
3.1.2 तस्मात् कन्याम् अभिजनोपेतां माता-पितृमतीं त्रि-वर्षात् प्रभृति न्यून-वयसं श्लाघ्याचारे धनवति पक्षवति कुले संबन्धि-प्रिये संबन्धिभिर् आकुले प्रसूतां प्रभूत-मातृ-पितृ-पक्षां रूप-शील-लक्षण-संपन्नाम् अ:न्यूनाधिका:विनष्ट-दन्त-नख- कर्ण-केषाक्षि-स्तनीम् अ:रोगि-प्रकृति-शरीरां तथा:विध एव श्रुतवाञ् शीलयेत्((62)).
3.1.3 या गृहीत्वा कृतिनम् आत्मानं मन्येत न च समानैर् निन्द्येत तस्यां प्रवृत्तिर् इति घोटकमुखः.
3.1.4 तस्या वरणे माता-पितरौ संबन्धिनश् च प्रयतेरन्. मित्राणि च गृहीत-वाक्यान्य् उभय-संबद्धानि.
3.1.5 तान्य् अन्येषां वरयितॄणां दोषान् प्रत्यक्षान् आगमिकांश् च श्रावयेयुः. कौलान् पौरुषेयान् अभिप्राय-संवर्धकांश् च नायक-गुणान्. विशेषतश् च कन्या-मातुर् अनुकूलांस् तदात्वायति-युक्तान् दर्शयेयुः.
3.1.6 दैव-चिन्तक-रूपश् च शकुन-निमित्त-ग्रह-लग्न-बल-लक्षण-दर्शनेन नायकस्य भविष्यन्तम् अर्थ-संयोगं कल्याणम् अनुवर्णयेत्.
3.1.7 अपरे पुनर् अस्यान्यतो विशिष्टेन कन्या-लाभेन कन्या-मातरम् उन्मादयेयुः.
3.1.8 दैव-निमित्त-शकुनोपश्रुतीनाम् आनुलोम्येन कन्यां वरयेद् दद्याच् च.
3.1.9 न यदृच्छया केवल-मानुषायेति घोटकमुखः.
3.1.10 सुप्तां रुदतीं निष्क्रान्तां वरणे परिवर्जयेत्.
3.1.11 अ:प्रशस्त-नामधेयां च गुप्तां दत्तां घोनां((63)) पृषताम्((64)) ऋषभां((65)) विनतां विकटां((66)) विमुण्डां((67)) शुचि-दूषितां((68)) सांकरिकीं((69)) राकां((70)) फलिनीं मित्रां स्वनुजां वर्षकरीं च वर्जयेत्.
3.1.12व् नक्षत्राख्यां नदी-नाम्नीं वृक्ष-नाम्नीं च गर्हिताम्. ल-कार-रेफोपान्तां च वरणे परिवर्जयेत्..
3.1.13 यस्यां मनश्-चक्षोर् निबन्धस् तस्याम् ऋद्धिः. नेतराम् आद्रियेत. इत्य् एके.
3.1.14 तस्मात् प्रदान-समये कन्याम् उदार-वेषां स्थापयेयुः. अपराह्णिकं च. नित्यं प्रासाधितायाः सखीभिः सह क्रीडा. यज्ञ-विवाहादिषु जन-संद्रावेषु प्रायत्निकं दर्शनम्. तथोत्सवेषु च. पण्य-स:धर्मत्वात्.
3.1.15 वरणार्थम् उपगतांश् च भद्र-दर्शनान् प्रदक्षिण-वाचश् च तत्-संबन्धि-सङ्गतान् पुरुषान् मङ्गलैः प्रतिगृह्णीयुः.
3.1.16 कन्यां चैषाम् अलंकृताम् अन्यापदेशेन दर्शयेयुः.
3.1.17 दैवं परीक्षणं चावधिं स्थापयेयुः. आ प्रदान-निश्चयात्.
3.1.18 स्नानादिषु नियुज्यमाना वरयितारः सर्वं भविष्यतीत्य् उक्त्वा न तद्-अहर् एवाभ्युपगच्छेयुः.
3.1.19 देश-प्रवृत्ति-सात्म्याद् वा ब्राह्म-प्राजापत्यार्ष-दैवानाम् अन्यतमेन विवाहेन शास्त्रतः परिणयेत्.
3.1.19च् इति वरणविधानम्((71)).
सेच्तिओन् (प्रकरण)24
3.1.20 भवन्ति चात्र श्लोकाः.
3.1.20व् समस्याद्याः सह-क्रीडा विवाहाः सङ्गतानि च. समानैर् एव कर्याणि नोत्तमैर् नापि वाधमैर्..
3.1.21व् कन्यां गृहीत्वा वर्तेत प्रेष्यवद् यत्र नायकः. तं विद्याद् उच्च-संबन्धं परित्यक्तं मनस्विभिः..
3.1.22व् स्वामिवद् विचरेद् यत्र बान्धवैः स्वैः पुरस्:कृतः. अ:श्लाघ्यो हीन-संबन्धः सो ऽपि सद्भिर् विनिन्द्यते..
3.1.23व् परस्पर-सुखास्वादा क्रीडा यत्र प्रयुज्यते. विशेषयन्ती चान्योन्यं संबन्धः स विधीयते..
3.1.24व् कृत्वापि चोच्च-संबन्धं पश्चाज् ज्ञातिषु संनमेत्. न त्व् एव हीन-संबन्धं कुर्यात् सद्भिर् विनिन्दितम्((72))..
3.1 इति श्रीवात्स्यायनीये काम-सूत्रे सांप्रयोगिके तृतीये ऽधिकरणे वरण-विधानं संबन्ध-निश्चयश् च प्रथमो ऽध्यायः.
लेçओन् 2 द्वितीयो ऽध्यायः
सेच्तिओन् (प्रकरण)25 कन्या-विस्रम्भण-प्रकरणम्..3.2.1 संगतयोस् त्रि-रात्रम् अधः शय्या ब्रह्मचर्यं क्षार-लवण-वर्जम् आहारस् तथा सप्ताहं सतूर्य-मङ्गल-स्नानं प्रसाधनं सह-भोजनं च प्रेक्षा संबन्धिनां च पूजनम्. इति सार्ववर्णिकम्.
3.2.2 तस्मिन्न् एतां निशि वि:जने मृदुभिर् उपचारैर् उपक्रमेत.
3.2.3 त्रि-रात्रम् अ:वचनं हि स्तम्भम् इव नायकं पश्यन्ती कन्या निर्विद्येत परिभवेच् च तृतीयाम् इव प्रकृतिम्. इति बाभ्रवीयाः.
3.2.4 उपक्रमेत विस्रम्भयेच् च न तु ब्रह्मचर्यम् अतिवर्तेत. इति वात्स्यायानः.
3.2.5 उपक्रममाणश् च न प्रसह्य किं चिद् आचरेत्.
3.2.6 कुसुम-स:धर्माणो हि योषितः सु:कुमारोपक्रमाः. तास् त्व् अन्:अधिगत-विश्वासैः प्रसभम् उपक्रम्यमाणः संप्रयोग-द्वेषिण्यो भवन्ति. तस्मात् साम्नैवोपचरेत्.
3.2.7 युक्त्यापि तु यतः प्रसरम् उपलभेत् तेनैवानु प्रविशेत्.
3.2.8 तत्-प्रियेणालिङ्गेनाचरितेन नाति:कालत्वात्.
3.2.9 पूर्व-कायेण चोपक्रमेत्. विषह्यत्वात्.
3.2.10 दीपालोके विगाढ-यौवनायाः पूर्व-संस्तुतायाः. बालाया अ:पूर्वायाश् चान्धकारे.
3.2.11 अङ्गी-कृत-परिष्वङ्गायाश् च वदनेन ताम्बूल-दानम्. तद्-अ:प्रतिपद्यमानां च सान्त्वनैर् वाक्यैः शपथैः प्रतियाचितैः पाद-पतनैश् च ग्राहयेत्. व्रीडा-युक्तापि योषिद् अत्य्:अन्त-क्रुद्धापि न पाद-पतनम् अतिवर्तते इति सार्वत्रिकम्.
3.2.12 तद्-दान-प्रसङ्गेण मृदु विशदम् अ:काहलम् अस्याश् चुम्बनम्.
3.2.13 तत्र सिद्धाम् आलापयेत्.
3.2.14 तच्-छ्रवणार्थं यत् किं चिद् अल्पाक्षरम् अभिधेयम् अ:जानन्न् इव पृच्छेत्.
3.2.15 तत्र निष्:प्रतिपत्तिम् अन्:उद्वेजयन् सान्त्वना-युक्तं बहुश एव पृच्छेत्.
3.2.16 यत्रापि अ:वदन्तीं निर्बध्नीयात्.
3.2.17 सर्वा एव हि कन्याः पुरुषेण प्रयुज्यमानं वचनं विषहन्ते. न तु लघु-मिश्राम् अपि वाचं वदन्ति. इति घोटकमुखः.
3.2.18 निर्बध्यमाना तु शिरः-कम्पेन प्रतिवचनानि योजयेत्. कलहे तु न शिरः कम्पयेत्.
3.2.19 इच्छसि मां नेच्छसि वा किं ते ऽहम् रुचितो न रुचितो वेति पृष्टा चिरं स्थित्वा निर्बध्यमाना तद्-आनुकुल्येन शिरः कम्पयेत्. प्रपञ्च्यमाना तु विवदेत्.
3.2.20 संस्तुता चेत् सखीम् अनुकूलाम् उभयतो ऽपि विस्रब्धां ताम् अन्तरा कृत्वा कथां योजयेत्. तस्मिन्न् अधो-मुखी विहसेत्. तां चाति:वादिनीम् अधिक्षिपेद् विवदेच् च. सा तु परिहासार्थम् इदम् अनयोक्तम् इति चानुक्तम् अपि ब्रूयात्. तत्र ताम् अपनुद्य प्रतिवचनार्थम् अभ्यर्थ्यमाना तूष्णीम् आसीत. निर्बध्यमाना तु नाहम् एवं ब्रवीमीत्य् अ:व्यक्ताक्षरम् अन्:अवसितार्थं वचनं ब्रूयात्. नायकं तु विहसन्ती कदा चित् कटाक्षैः प्रेक्षेत. इत्य् आलाप-योजनम्.
3.2.21 एवं जात-परिचया चा:निर्वदन्ती तत्-समीपे याचितं ताम्बूलं विलेपनं स्रजं निदध्यात्. उत्तरीये वास्य निबध्नीयात्.
3.2.22 यथा:युक्ताम् आच्छुरितकेन((73)) स्तन-मुकुलयोर्((74)) उपरि स्पृशेत्.
3.2.23 वार्यमाणश् च त्वम् अपि मां परिष्वजस्व ततो नैवम् आचरिष्यामीति स्थित्या परिष्वञ्जयेत्. स्वं च हस्तम् आ नाभिदेशात् प्रसार्य निर्वर्तयेत्. क्रमेण चैनाम् उत्सङ्गम् आरोप्याधिकम् अधिकम् उपक्रमेत्. अ:प्रतिपद्यमानां च भीषयेत्.
3.2.24 अहं खलु तव दन्तपदान्य् अधरे करिष्यामि स्तन-पृष्ठे च नख-पदम्. आत्मनश् च स्वयं कृत्वा त्वया कृतम् इति ते सखी-जनस्य पुरतः कथयिष्यामि. सा त्वं किम् अत्र वक्ष्यसीति बाल-विभीषिकैर् बाल-प्रत्यायनैश् च शनैर् एनां प्रतारयेत्.
3.2.25 द्वितीयस्यां तृतीयस्यां च रात्रौ किं चिद् अधिकं विस्रम्भितां हस्तेन योजयेत्.
3.2.26 सर्वाङ्गिकं चुम्बनम् उपक्रमेत.
3.2.27 ऊर्वोश् चोपरि विन्यस्त-हस्तः संवाहन-क्रियायां सिद्धायां क्रमेणोरु-मूलम् अपि संवाहयेत्. निवारिते संवाहने को दोष इत्य् आकुलयेद् एनाम्. तच् च स्थिरी:कुर्यात्. तत्र सिद्धाया गुह्य-देशाभिमर्शनम्.
3.2.28 रशन-वियोजनं नीवी-विस्रंसनं वसन-परिवर्तनम् ऊरु-मूल-संवाहनं च. एते चास्यान्यापदेशाः. युक्त-यन्त्रां रञ्जयेत्. न त्व् अ:काले व्रत-खण्डनम्.
3.2.29 अनुशिष्याच् च. आत्मानुरागं दर्शयेत्. मनोरथांश् च पूर्व-कालिकान् अनुवर्णयेत्. आयत्यां च तद्-आनुकूल्येन प्रवृत्तिं प्रतिजानीयात्. स:पत्नीभ्यश् च साध्वसम् अवच्छिन्द्यात्. कालेन च क्रमेण विमुक्त-कन्या-भावाम् अन्:उद्वेजयन्न् उपक्रमेत. इति कन्या-विस्रम्भनम्.
3.2.30 भवन्ति चात्र श्लोकाः.
3.2.30व् एवं चित्तानुरागो बालाम् उपायेन प्रसाधयेत्. तथास्य सानुरक्ता च सु:विस्रब्धा प्रजायते..
3.2.31व् नत्य्:अन्तम् आनुलोम्येन न चाति:प्रातिलोम्यतः. सिद्धिं गच्छति कन्यासु तस्मान् मध्येन साधयेत्..
3.2.32व् आत्मनः प्रीति-जननं योषितां मान-वर्धनम्. कन्या-विस्रम्भणं वेत्ति यः स तासां प्रियो भवेत्..
3.2.33व् अति:लज्जान्वीतेत्य् एवं यस् तु कन्याम् उपेक्षते. सो ऽन्:अभिप्राय-वेदीति पशुवत् परिभूयते...3.2.34व् सहसा वाप्य् उपक्रान्ता कन्या-चित्तम् अ:विन्दता. भयं वित्रासम् उद्वेगं सद्यो द्वेषं च गच्छति..
3.2.35व् सा प्रीति-योगम् अ:प्राप्ता तेनोद्वेगेन दूषिता. पुरुष-द्वेषिणी वा स्याद् विद्विष्टा वा ततो ऽन्य-गा((75))..
3.2 इति श्रीवात्स्यायनीये काम-सूत्रे कन्या-संप्रयुक्तके तृतीये ऽधिकरणे कन्या-विस्रम्भणं द्वितीयो ऽध्यायः.
लेçओन् 3 तृतीयो ऽध्यायः
सेच्तिओन् (प्रकरण)26 बालोपक्रमणम्
3.3.1 धन-हीनस् तु गुण-युक्तो ऽपि मध्यस्थ-गुणो हीनापदेशो वा सधनो वा प्रातिवेश्यः मातृ-पितृ-भ्रातृषु च परतन्त्रः बाल-वृत्तिर् उचित-प्रवेशो वा कन्याम् अलभ्यत्वान् न वरयेत्.
3.3.2 बाल्यात् प्रभृति चैनां स्वयम् एवानुरञ्जयेत्.
3.3.3 तथा-युक्तश् च मातुल-कुलानुवर्ती दक्षिणपथे बाल एव मात्रा पित्रा च वियुक्तः परिभूत-कल्पो धनोत्कर्षाद् अ:लभ्यां मातुल-दुहितरम् अन्यस्मै वा पूर्व-दत्तां साधयेत्.
3.3.4 अन्याम् अपि बाह्यां स्पृहयेत्.
3.3.5 बालायाम् एवं सति धर्माधिगमे संवननं((76)) श्लाघ्यम् इति घोटकमुखः.
3.3.6 तया सह पुष्पावचयं ग्रथनं गृहकं दुहितृका-क्रीडायोजनं भक्त-पान-करणम् इति कुर्वीत. परिचयस्य वयसश् चानुरूप्यात्.
3.3.7 आकर्ष-क्रीडा पट्टिका-क्रीडा मुष्टि-द्यूत-क्षुल्लकादि-द्यूतानि मध्यमाङ्गुलि-ग्रहणं षट्-पाषाणकादीनि च देश्यानि तत्:सात्म्यात् तद्-अप्त-दास-चेटिभिस् तया च सहानुक्रीडेत.
3.3.8 क्ष्वेदितकानि सु:निमिलित-काम् आरब्धिकां लवण-वीथिकाम् अनिल-ताडितकां गोधूम-पञ्जिकाम् अङ्गुलि-ताडिकां सखीभिर् अन्यानि च देश्यानि.
3.3.9 यां च विश्वास्याम् अस्यां मन्येत तया सह निर्:अन्तरां प्रीतिं कुर्यात्. परिचयांश् च बुध्येत.
3.3.10 धात्रेयिकां चास्याः प्रिय-हिताभ्याम् अधिकम् उपगृह्णीयात्. सा हि प्रीयमाणा विदिताकाराप्य् अ:प्रत्यादिशन्ती तं तां च योजयितुं शक्नुत्यात्. अन्:अभिहितापि प्रत्याचार्यकम्.
3.3.11 अ:विदिताकारापि हि गुणान् एवानुरागात् प्रकाशयेत्. यथा प्रयोज्यानुरज्येत.
3.3.12 यत्र यत्र च कौतुकं प्रयोज्यायास् तद् अनु प्रविश्य साधयेत्.
3.3.13 क्रीडनक-द्रव्याणि यान्य् अ:पूर्वाणि यान्य् अन्यासां विरलशो विद्येरंस् तान्य् अस्या अ:यत्नेन संपादयेत्.
3.3.14 तत्र कन्दुकम् अन्:एक-भक्ति-चित्रम् अल्प-कालान्तरितम् अन्यद् अन्यच् च संदर्शयेत्. तथा सूत्र-दारु-गवल-गज-दन्तमयीर् दुहितृका मधूच्छिष्ट-पिष्ट-मृन्मयीश् च.
3.3.15 भक्त-पाकार्थम् अस्या महानसिकस्य च दर्शनम्.
3.3.16 काष्ठ-मेढ्रकयोश् च संयुक्तयोश् च स्त्री-पुंसयोर् अजैडकानां((77)) देव-कुल-गृहकाणां च शुक-परभृत-मदन-सारिका-लाव-कुक्कुट-तिरि-पिञ्जरकाणां च विचित्राकृति-संयुक्तानां जल-भाजनानां च यन्त्रिकाणां वीणिकानां पटोलिकानाम् अलक्तक-मनःशिला-हरिताल-हिङ्गुलक-श्यामवर्णकादीनां तथा चन्दन-कुङ्कुमयोः पूग-फलानां पत्त्राणां काल-युक्तानां च सक्ति-विषये प्रच्छन्नं दानं प्रकाश-द्रव्याणां च प्रकाशम्. यथा च सर्वाभिप्राय-संवर्धकम् एनं मन्येत तथा प्रयतितव्यम्.
3.3.18 प्रछन्न-दानस्य तु कारणम् आत्मनो गुरु-जनाद् भयं ख्यापयेत्. देयस्य चान्येन स्पृहणीयत्वम् इति.
3.3.19 वर्धमानानुरागं चाख्यानके मनः कुर्वतीम् अन्वर्थाभिः कथाभिश् चित्त-हारिणीभिश् च रञ्जयेत्.
3.3.20 विस्मयेषु प्रसह्यमानाम् इन्द्र-जालैः प्रयोगैर् विस्मापयेत्. कलासु कौतुकिनीं तत्-कौशलेन गीत-प्रियां श्रुति-हरैर् गीतैः. आश्व-युज्याम् अष्टमी-चन्द्रके कौमुद्याम् उतसवेषु यात्रायां ग्रहणे गृहाचारे वा विचित्रैर् आपीडैः कर्ण-पत्त्र-भङ्गैः सिक्थक-प्रधानैर् वस्त्राङ्गुलीयक-भूषण-दानैश् च. नो चेद् दोष-कराणि मन्येत.
3.3.21 अन्य-पुरुष-विशेषाभिज्ञतया धात्रेयिकास्याः पुरुष-प्रवृत्तौ चातुः-षष्टिकान् योगान् ग्राहयेत्.
3.3.22 तद्-ग्रहणोपदेशेन च प्रयोज्यायां रति-कौशलम् आत्मनः प्रकाशयेत्.
3.3.23 उदार-वेषश् च स्वयम् अन्:उपहत-दर्शनश् च स्यात्. भावं च कुर्वतीम् इङ्गिताकारैः सूचयेत्.
3.3.24 यवतयो हि संसृष्टम् अभीक्ष्ण-दर्शनं च पुरुषं प्रथमं कामयन्ते. कामयमाना अपि तु नाभियुञ्जत इति प्रायो:वादः.
3.3.24च् इति बालायाम् उपक्रमाः((78)).
सेच्तिओन् (प्रकरण)27
3.3.25 तान् इङ्गिताकारान् वक्ष्यामः((79))..3.3.26 संमुखं तं तु न वीक्षते. वीक्षिता व्रीडां दर्शयति. रुच्यम् आत्मनो ऽङ्गम् अपदेशेन प्रकाशयति. प्रमत्तं प्रच्छन्नं नायकम् अतिक्रान्तं च वीक्षते.
3.3.27 पृष्टा च किं चित् स:स्मितम् अ:व्यक्ताक्षरम् अन्:अवसितार्तं च मन्दं मन्दम् अधो-मुखी कथयति. तत्-समीपे चिरं स्थानम् अभिनन्दति. दूरे स्थिता पश्यतु माम् इति मन्यमाना परिजनं स:वदन-विकारम् आभाषते. तं देशं न मुञ्चति.
3.3.28 यत् किं चिद् दृष्ट्वा विहसितं करोति. तत्र कथाम् अवस्थानार्थम् अनुबध्नाति. बालस्याङ्क-गतस्यालिङ्गनं चुम्बनं च करोति. परिचारिकायास् तिलकं च रचयति. परिजनान् अवष्टभ्य तास् ताश् च लीला दर्शयति.
3.3.29 तन्-मित्रेषु विश्वासिति. वचनं चैषां बहु मन्यते करोति च. तत्-परिचारकैः सह प्रीतिं संकथां द्यूतम् इति च करोति. स्व-कर्मसु च प्रभविष्णुर् इवैतान् नियुङ्क्ते. तेषु च नायक-संकथाम् अन्यस्य कथयत्स्व् अवहितातां शृणोति.
3.3.30 धात्रेयिका चोदिता नायकयोदवसितं प्रविशति. ताम् अन्तरा कृत्वा तेन सह द्यूतं क्रीडाम् आलापं चायोजयितुम् इच्छति. अन्:अलंकृता दर्शन-पथं परिहरति. कर्ण-पत्त्रम् अङ्गुलीयकं स्रजं वा तेन याचिता स:धीरम् एव गात्राद् अवतार्य सख्या हस्ते ददाति. तेन च दत्तं नित्यं धारयति. अन्य-वर-संकथासु विषण्णा भवति. तत्-पक्षकैश् च सह न संसृज्यत इति.
3.3.31 भवतश् चात्र श्लोकौ.
3.3.31व् दृष्ट्वैतान् भाव-संयुक्तान् आकारान् इङ्गितानि च. कन्यायाः संप्रयोगार्थं तांस् तान् योगान् विचिन्तयेत्..
3.3.32व् बाल-क्रीडनकैर् बाला कलाभिर् यौवने स्थिता. वत्सला चापि संग्राह्या विश्वास्य-जन-संग्रहात्((80)).
3.3च् इति श्रीवात्स्यायनीये काम-सूत्रे कन्या-संप्रयुक्तके तृतीये ऽधिकरणे बाकोपक्रमा इङिताकार-सूचनं तृतीयो ऽध्यायः.
लेçओन् 4 चतुर्थो ऽध्यायः.
सेच्तिओन् (प्रकरण)28 एक-पुरुषाभियोग-प्रकरणम्.
3.4.1 दर्शितेङ्गिताकारां कन्याम् उपायतो ऽभियुञ्जीत.
3.4.2 द्यूते क्रीडनकेषु च विवदमानः साकारम् अस्याः पाणिम् अवलम्बेत.
3.4.3 यथोक्तं च स्पृष्टकादिकम्((81)) आलिङ्गन-विधिं विदध्यात्.
3.4.4 पत्त्र-च्छेद्य-क्रियायां च स्वाभिप्राय-सूचकं मिथुनम् अस्या दर्शयेत्.
3.4.5 एवम् अन्यद् विरलशो((82)) दर्शयेत्.
3.4.6 जल-क्रीडायां तद्-दूरतो ऽप्सु निमग्नः समीपम् अस्या गत्वा स्पृष्ट्वा चैनां तत्रैवोन्मज्जयेत्.
3.4.7 नवपत्त्रिकादिषु च स:विशेष-भाव-निवेदनम्.
3.4.8 आत्म-दुःखस्यानिर्वेदेन कथनम्.
3.4.9 स्वप्नस्य च भाव-युक्तस्यान्यापदेशेन.
3.4.10 प्रेक्षणके स्व-जन-समाजे वा समीपोपवेशनम्. तत्रान्यापदिष्टं स्पर्शनम्.
3.4.11 अपाश्रयार्थं च चरणेन चरणस्य पीडनम्.
3.4.12 ततः शनकैर् एकैकाम् अङ्गुलिम् अभिस्पृशेत्.
3.4.13 पादाङुष्ठेन च नखाग्राणि घट्टयेत्.
3.4.14 तत्र सिद्धः पदात् पदम् अधिकम् आकाङ्क्षेत्.
3.4.15 क्षान्त्य्-अर्थं च तद् एवाभ्यसेत्.
3.4.16 पाद-शौचे पादाङ्गुलि-संदंशेन तद्-अङ्गुलि-पीडनम्.
3.4.17 द्रव्यस्य समर्पणे प्रतिग्रहे वा तद्-गतो विकारः.
3.4.18 आचमनान्ते चोदकेनासेकः.
3.4.19 विजने तमसि च द्वन्द्वम् आसीनः क्षान्तिं कुर्वीत. समान-देश-शय्यायां च.
3.4.20 तत्र यथार्थम् अन्:उद्वेजयतो भाव-निवेदनम्.
3.4.21 विविक्ते च किं चिद् अस्ति कथयितव्यम् इत्य् उक्त्वा निर्वचनं भावं च तत्रोपलक्षयेत्. यथा पारदारिके वक्ष्यामः.
3.4.22 विदित-भावस् तु व्याधिम् अपदिश्यैनां वार्ता-ग्रहणार्थं स्वम् उदवसितम् आनयेत्.
3.4.23 आगतायाश् च शिरः-पीडने नियोगः. पाणिम् अवलम्ब्य चाश्याः साकारं नयनयोर् ललाटे च निदध्यात्.
3.4.24 औशाधापदेशार्थं चास्याः कर्म विनिर्दिशेत्.
3.4.25 इदं त्वया कर्तव्यम्. न ह्य् एतद्-ऋते कन्याया अन्येन कार्यम् इति गच्छन्तीं पुनर् आगमनानुबन्धम् एनां विसृजेत्.
3.4.26 अस्य च योगस्य त्रिरात्रं त्रिसंध्यं च प्रयुक्तिः.
3.4.27 अभीक्ष्ण-दर्शनार्थम् आगतायाश् च गोष्ठीं वर्धयेत्.
3.4.28 अन्याभिर् अपि सह विश्वासनार्थम् अधिकम् अधिकं चाभियुञ्जीत. न तु वचा निर्वदेत्.
3.4.29 दूर-गत-भावो ऽपि हि कन्यासु न निर्वेदेन सिध्यातीति घोटकमुखः.
3.4.30 यदा तु बहु-सिद्धां मन्येत तदैवोपक्रमेत्..3.4.31 प्रदोषे निशि तमसि च योषितो मन्द-साध्वसाः((83)) सु:रत-व्यवसायिन्यो रागवत्यश् च भवन्ति. न तु पुरुषं प्रत्याचक्षते. तस्मात् तत्-कालं प्रयोजयितव्या इति प्रायोवादः.
3.4.32 एक-पुरुषाभियोगानां त्व् अ:संभवे गृहीतार्थया धात्रेयिकया सख्या वा तस्याम् अन्तर्:भूतया तम् अर्थम् अ:निर्वदन्त्या सहैनाम् अङ्कम् आनाययेत्. ततो यथोक्तम् अभियुञ्जीत.
3.4.33 स्वां वा परिचारिकाम् आदाव् एव सखीत्वेनास्याः प्रणिदध्यात्.
3.4.34 यज्ञे विवाहे यात्रायाम् उत्सवे व्यसने प्रेक्षणक-व्यापृते((84)) जने तत्र तत्र च दृष्टेङ्गिताकारां परीक्षित-भावाम् एकाकिनीम् उपक्रमेत.
3.4.35 न हि दृष्ट-भावा योषितो देशे काले च प्रयुज्यमाना((85)) व्यावर्तन्त इति वात्स्यायनः.
# 28 इत्य् एकपुरुषाभियोगः((86)).
सेच्तिओन् (प्रकरण)29
3.4.36 मन्दापदेशा((87)) गुणवत्य् अपि कन्या धन-हीना कुलीनापि समानैर् अ:याच्यमाना मातापितृ-वियुक्ता वा ज्ञाति-कुल-वर्तिनी वा प्राप्त-यौवना पाणि-ग्रहणं स्वयम् अभीप्सेत.
3.4.37 सा तु गुणवन्तं शक्तं सु:दर्शनं बाल-प्रीत्याभियोजयेत्.
3.4.38 यं वा मन्येत मातापित्रोर् अ:समीक्षया स्वयम् अप्य् अयम् इन्द्रिय-दौर्बल्यान् मयि प्रवर्तिष्यत इति प्रिय-हितोपचारैर् अभीक्ष्ण-संदर्शनेन च तम् आवर्जयेत्.
3.4.39 माता चैनां सखीभिर् धात्रेयिकाभिश् च सह तद्-अभिमुखीं कुर्यात्.
3.4.40 पुष्प-गन्ध-ताम्बूल-हस्ताया वि:जने वि:काले च तद्-उपस्थानम्. कला-कौशल-प्रकाशने वा संवाहने शिरसः पीडने चौचित्य-दर्शनम्. प्रयोज्यस्य सात्म्य-युक्ताः कथा-योगाः बालायाम् उपक्रमेषु यथोक्तम् आचरेत्((88)).
3.4.41 न चैवान्तरापि((89)) पुरुषं स्वयम् अभियुञ्जीत. स्वयम् अभियोगिनी हि युवतिः सौभाग्यं जहातीत्य् आचार्याः.
3.4.42 तत्-प्रयुक्तानां त्व् अभियोगानाम् आनुलोम्येन ग्रहणम्.
3.4.43 परिष्वक्ता((90)) च न विकृतिं भजेत्. श्लक्ष्णम्((91)) आकारम् अ:जानतीव प्रतिगृहीयात्. वदन-ग्रहणे बलात्-कारः.
3.4.44 रति-भावनाम् अभ्यर्थ्यमानायाः कृच्छ्राद् गुह्य-संस्पर्शनम्.
3.4.45 अभ्यर्थितापि नातिविवृता स्वयं स्यात्. अन्यत्रा:निश्चय-कालात्((92)).
3.4.46 यदा तु मन्येतानुरक्तो मयि न व्यावर्तयिष्यत इति तदैवैनम् अभियुञ्जानं बाल-भाव- मोक्षाय त्वरेत्.
3.4.47 विमुक्त-कन्या-भावा च विश्वास्येषु प्रकाशयेत्.
3.4.47च् इति प्रयोज्यस्योपावर्तनम्((93)).
सेच्तिओन् (प्रकरण)30
3.4.48 भवन्ति चात्र श्लोकाः.
3.4.48व् कन्याभियुज्यमाना तु यं मन्येताश्रयं सुखम्. अनुकूलं च वश्यं च तस्य कुर्यात् परिग्रहम्..
3.4.49व् अन्:अपेक्ष्य गुणान् यत्र रूपम् औचित्यम् एव च. कुर्वीत धन-लोभेन पतिं सापत्नकेष्व् अपि..
3.4.50व् तत्र युक्त-गुणं वश्यं शक्तम् बलवद् अर्थिनम्. उपायैर् अभियुञ्जानं कन्या न प्रतिलोभयेत्..
3.4.51व् वरं वश्यो दरिद्रो ऽपि निर्:गुणो ऽप्य् आत्म-धारणः. गुणैर् युक्तो ऽपि न त्व् एवं बहु-साधारणः..
3.4.52व् प्रायेण धनिनां दारा बहवो निर्:अवग्रहाः. बाह्ये सत्य् उपभोगे ऽपि निर्विस्रम्भा बहिः-सुखाः..
3.4.53व् नीचो यस् त्व् अभियुञ्जीत पुरुषः पलितो ऽपि वा. वि:देश-गति-शीलश् च न स संयोगम् अर्हति..
3.4.54व् यदृच्छयाभियुक्तो यो दम्भ-द्यूताधिको ऽपि. स:पत्नीकश् च सापत्यो न स संयोगम् अर्हति..
3.4.55व् गुण-साम्ये ऽभियोक्तॄणाम् एको वरयिता वरः. तत्राभियोक्तरि श्रैष्ठ्यम् अनुरागात्मको हि सः((94))..
3.4च् इति श्रीवात्स्यायनीये काम-सूत्रे कन्या-संप्रयुक्तके तृतीये ऽधिकरणे एक-पुरुषाभियोगा अभियोगतश् च कन्यायाः प्रतिपत्तिश् चतुर्थो ऽध्यायः.
लेçओन् 5 पञ्चमो ऽध्यायः
सेच्तिओन् (प्रकरण)31 [विवाह-योग-प्रकरणम्]
3.5.1 प्राचुर्येण((95)) कन्याया विविक्त-दर्शनस्यालाभे धात्रेयिकां प्रिय-हिताभ्याम् उपगृह्योपसर्पेत्.
3.5.2 सा चैनाम् अ:विदिता नाम नायकस्य भूत्वा तद्-गुणैर् अनुरञ्जयेत्. तस्याश् च रुच्यान् नायक-गुणान् भूयिष्ठम् उपवर्णयेत्.
3.5.3 अन्येषां वरयितॄणां दोषान् अभिप्राय-विरुद्धान् प्रतिपादयेत्..3.5.4 मातापित्रोश् च गुणान्:अभिज्ञतां लुब्धतां च चपलतां च बान्धवानाम्.
3.5.5 याश् चान्या अपि समान-जातीयाः कन्याः शकुन्तलाद्याः स्व-बुद्ध्या भर्तारं प्राप्य संप्रयुक्ता मोदन्ते स्म((96)) ताश् चास्या निदर्शयेत्.
3.5.6 महा-कुलेषु सापत्नकैर् बाध्यमाना विद्विष्टाः दुःखिताः परित्यक्ताश् च दृश्यन्ते.
3.5.7 आयतिं चास्य वर्णयेत्.
3.5.8 सुखम् अन्:उपहतम् एक-चारितायां नायकानुरागं च वर्णयेत्.
3.5.9 स:मनोरथायाश् चास्या अपायं साध्वसं व्रीडां च हेतुभिर् अवच्छिन्द्यात्.
3.5.10 दूती-कल्पं च सकलम् आचरेत्((97)).
3.5.11 त्वाम् अ:जानतीम् इव नायको बलाद् ग्रहीष्यतीति तथा सु:परिगृहीतं स्याद् इति योजयेत्.
3.5.12 प्रतिपन्नाम् अभिप्रेतावकाश-वर्तिनीं नायकः श्रोत्रियागाराद् अग्निम् आनय्य कुशान् आस्तीर्य यथा-स्मृति हुत्वा च त्रिः परिक्रमेत्.
3.5.13 ततो मातरि पितरि च प्रकाशयेत्.
3.5.14 अग्नि-साक्षिका हि विवाहा न निवर्तन्त इत्य् आचार्य-समयः.
3.5.15 दूषयित्वा चैनां शनैः स्व-जने प्रकाशयेत्.
मूल पाठ: Kāmasūtra · Data entry Jean Fezas · GRETIL (Göttingen) · CC BY-NC-SA 4.0