भाषा

ENहिગુ
ग्रंथ पाठ

कल्पद्रुमावदानमाला · श्लोक 481-486

481

तस्माद् अपास्य कृष्णानि कर्माणि मिश्रितानि च
यतितव्यं शुभेष्व् एव कर्मसु सुखवाञ्छिभिः ॥

482

तथेति भिक्षवः श्रुत्वा ते च लोकाः प्रभाषिताः
बुद्धवचोमृतं पीत्वा ननन्दुर् अनुमोदिताः ॥

483

एवम् एतन् महाराज श्रुतं मे गुरुभाषितम्*
इति मत्वा त्वया राजन् परात्मशुभवाञ्छिना ॥

484

क्रोधारिं यत्नतो जित्वा क्षमाधर्मपुरस्कृतः
मैत्रीं भावय सत्वेषु स्वात्मजेषु यथा सदा ॥

485

इति सुभाषितं श्रुत्वा उपगुप्तस्य सद्गुरोः
तथेति नृपराजः स ननन्द ससभाजनः ॥

486

ये मैत्रीभावधर्मं कलिमतिहरणं तत् सुभूतेश् चरित्रं शृण्वन्ति श्रावयन्ति त्रिभुवनसुखदं संनिपात्य जनौघान्*
ते लोका मैत्रचित्तास् त्रिभुवनसुखदाः क्षान्तिसौरभ्ययुक्ताः याताः सौखावतीं ते ऽप्य् अमितरुचिमुनेर् धर्मम् आराधयन्ति ॥

मूल पाठ: Kalpadrumāvadānamālā · Edition: the text appended to P.L. Vaidya's edition of the Avadanasataka (Darbhanga 1958, Buddhist Sanskrit Texts ; 19) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc