भाषा

ENहिગુ
ग्रंथ पाठ

कल्पद्रुमावदानमाला · श्लोक 361-380

361

तेनैवाभिद्रुताः सर्वे गरुडास् त्रासम् आगताः
इतस् ततः समुद्भ्रान्ताः सुभूतेः शरणं ययुः ॥

362

सुभूतिना तथा चैवं सर्वे ते गरुडा अपि
स्वर्द्धिबलप्रभावेण समाश्वास्य सुरक्षिताः ॥

363

एवम् ऋद्धिप्रभावाणि सुभूतेस् तस्य सद्यतेः
दृष्ट्वा सर्वे जनौघास् ते सहर्षाद्भुतम् आययुः ॥

364

धन्यो ऽयम् ऋद्धिमान् भिक्षुर् अर्हन् संबुद्धसेवकः
येनैते रक्षिताः सर्वे नागाश् च गरुडा अपि ॥

365

इति सो ऽर्हन् सुभूतिस् तान् सर्वान् दृष्ट्वा प्रसन्नितान्*
सद्धर्मे विनयार्थेन मैत्रीधर्मम् उपादिशत्* ॥

366

शृणुध्वं मद्वचः सर्वे नागाश् च गरुडास् तथा
यदि मे शरणं याथ रमध्वं मैत्रमानसाः ॥

367

ये एते सुखिनो लोके सर्वे ते मैत्रचारिणः
ये एते दुःखिनो लोके सर्वे ते क्रोधिनो नराः ॥

368

तस्मात् क्रोधप्रहाणाय क्रियतां यत्नम् आदरात्*
यावच् चित्ते स्थितं क्रोधं तावन् मैत्री न भाव्यते ॥

369

न च द्वेषसमं पापं न च मैत्रीसमं तपः
तस्मान् मैत्री प्रयत्नेन भावनीया सदादरात्* ॥

370

मनः शमं न गृह्णाति न प्रीतिसुखम् अश्नुते
न निद्रां न धृतिं याति द्वेषशल्ये हृदि स्थिते ॥

371

न द्विषन्तः क्षयं यान्ति यावज्जीवम् अपि घ्नतः
क्रोधम् एकं तु यो हन्यात् तेन सर्वे द्विषो हताः ॥

372

विकल्पेन् धनदीप्तेन जन्तुः क्रोधहविर् भुजा
दहत्य् आत्मानम् एवादौ परान् धक्ष्यति वा न वा ॥

373

जरा रूपवतां क्रोधस् तमश् चक्षुष्मताम् अपि
बन्धो धर्मार्थकामानां तस्मात् क्रोधो निवार्यताम्* ॥

374

दिव्यभोगानुभोक्ता च प्रासादे मणिमण्डिते
सुप्तो ऽपि न लभेन् निद्रां क्रोधपर्याकुलो नरः ॥

375

ऋषिभिर् योगिभिश् चाम्बु फलमूलादितोषितैः
दग्धा जनपदाश् चापि क्रोधाच् छापहुताशनैः ॥

376

यच् छांकरो महारौद्रो निर्घृणो दृक्प्रभानलैः
ददाह ब्रह्मजं कामं तच् च क्रोधप्रभावतः ॥

377

यद् राजानो विरुद्धाश् च युद्धं कृत्वा परस्परम्*
मृत्युं यान्ति जनैः सार्धं तच् चापि क्रोधभावतः ॥

378

सुहृदो यत् सहायांश् च स्नेहविश्रम्भचारिणः
सत्यधर्माव् अनादृत्य घ्नन्ति क्रोधाद् अनार्यकाः ॥

379

साधवो ये महात्मानः संवृत्तिधर्मचारिणः
तान् अपि संमुखं घ्नन्ति दुर्वाग्बाणै रुषा खलाः ॥

380

मातरं जन्मदात्रीं च धात्रीर् वा स्नेहपालिनीः
स्वात्मजान् निर्दया घ्नन्ति तच् च क्रोधप्रभावतः ॥

मूल पाठ: Kalpadrumāvadānamālā · Edition: the text appended to P.L. Vaidya's edition of the Avadanasataka (Darbhanga 1958, Buddhist Sanskrit Texts ; 19) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc