भाषा

ENहिગુ
ग्रंथ पाठ

कल्पद्रुमावदानमाला · श्लोक 341-360

341

अद्यापि चेत् तथा चात्र वसेयं जनपदाश्रमे
केनचित् क्लेशितश् चाहं भ्रष्टिम् एवम् अवाप्नुयाम्* ॥

342

इति निश्चित्य चित्तेन सुभूतिर् निरहंकृतिः
विविक्ते ऽरण्यवासे स निःसङ्गो न्यवसत् सुधीः ॥

343

तथैकाकी वसंस् तत्र चतुर्थध्यानसंयुतः
फलमूलाम्बुसंतुष्टो ब्रह्मचारी मुमोद सः ॥

344

अथ सङ्गे ऽपि ग्रामेषु देशे जनपदेषु च
भिक्षाहेतोर् विहर्तुं वा स सकामो ऽभवद् यदा ॥

345

तदा पूर्वम् असौ दृष्ट्वा गोचरम् अभ्यलक्षयत्*
अहो देशेषु सर्वत्र भवन्ति निर्गुणा जनाः ॥

346

मानिनो मदमोहान्धा दुष्टा मत्सरिणः शठाः
तत् कथं संचरिष्ये ऽत्र भिक्षाहेतोः कुले कुले ॥

347

दूषयिष्यन्ति चित्तानि केचिद् दृष्ट्वैव मां यतिम्*
यद् धेतोर् जनाश् चैवं भ्रमन्ति दुर्गतिष्व् अपि ॥

348

कल्पकोटिसहस्राणि नैव मुक्ताश् च दुर्गतेः
तद् अहं सर्वसत्वेषु कुन्तपिपीलिकादिषु ॥

349

दयाचित्तं समालम्ब्य वसेयं ध्यानसंरतः
येनैवं सर्वसतानां भवेच् चित्तं प्रसादितम्*
तम् एव धर्मम् आध्याय यतिर् मोक्षम् अवाप्नुयात्* ॥

350

इति संनह्य चित्तेन स सुभूतिः सुबुद्धिमान्*
विविक्ते ऽरण्यदेशे ऽपि न्यवसद् ध्यानसंरतः ॥

351

अथ सो ऽर्हंस् त्रिमासानाम् अत्ययाद् बोधिमानसः
इत्य् एवं चिन्तयामास लोकानुग्रहकारणात्* ॥

352

किम् अत्र ध्यानसंलीनः करोमि लोकबोधनम्*
कियत् कालं च जीवेयं काष्ठपाषाणवत् स्थितः ॥

353

केवलं स्वमनस् तुष्ट्यै ध्यानं सौख्यार्थसाधनम्*
सुखं लब्ध्वापि किं सारं सत्वानुग्रहणं विना ॥

354

तस्माद् ध्यानात् समुत्थाय सत्वानुग्रहकारणात्*
ऋद्धिं प्रदर्श्य संबोधौ स्थापयिष्ये महज्जनान्* ॥

355

इति निश्चित्य चित्तेन स सुभूतिः समृद्धिमान्*
सत्वानां विनयार्थेन प्रातिहार्यम् अदर्शयत्* ॥

356

तदृद्धिनिर्मितान्य् एव गरुडानां महौजसाम्*
पञ्च कुलशतान्य् अत्र प्रसस्रिरे समन्ततः ॥

357

एतांश् च गरुदान् दृष्ट्वा नागाः संत्रसितास् ततः
इतस् ततः समुद्भ्रान्ताः सुभूतेः शरणं ययुः ॥

358

अथ स्वर्द्धिबलेनैव समाश्वास्य सुभूतिना
सर्वे नागाः सुपर्णेभ्यः परित्राताश् च सर्वतः ॥

359

पुनस् तेन सुपर्णानां विनयार्थं सुभूतिना
स्वर्द्धिवलप्रभावेण महान् नागो विनिर्मितः ॥

360

तेनाप्य् एवं सुपर्णानां पञ्च कुलशतानि च
अभिद्रुतानि नागेन समन्तत इतस् ततः ॥

मूल पाठ: Kalpadrumāvadānamālā · Edition: the text appended to P.L. Vaidya's edition of the Avadanasataka (Darbhanga 1958, Buddhist Sanskrit Texts ; 19) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc