कल्पद्रुमावदानमाला · श्लोक 321-340
अद्याग्रेण जगद्बन्धो यामि ते शरणं सदा
तथा धर्मे च संघेषु संबोधिगुणप्राप्तये ॥
प्रव्रज्यां देहि मे नाथ सद्धर्मेषु निवेशय
ब्रह्मचर्यं चरिष्ये ऽहं त्वदाज्ञां शिरसा वहन्* ॥
इत्य् उक्ते भगवान् दृष्ट्वा हस्तेन तच्छिरः स्पृशन्*
एहि भिक्षो चरस्वेति प्रवदंस् तं समग्रहीत्* ॥
एहीति प्रोक्तः स जिनेन मुण्डो पात्री सुसंघाटिपरीतदेहः
सद्यः प्रशान्तेन्द्रिय एव तस्थौ भिक्षुः सुभूतिः सुगतप्रभावात्* ॥
सच्चित्तलब्धः स मुनेः प्रसादात् प्रयुज्यमानो व्यहरत् समाधौ
व्यायच्छमानः खलु बोधिमार्गे संबुद्धधर्मे घटमान एव ॥
सर्वं च संसारम् अनित्यताहतं मत्वा च संसारगतिं विभङ्गिनीम्*
क्लेशांश् च सर्वान् प्रविहाय संयतः साक्षाच् च सो ऽर्हन्न् अभवन् महर्द्धिकः ॥
सुवीतरागः समलोष्टहेमा आकाशचित्तो धनसारवासी
भिन्दन्न् अविद्याद्रिम् इवाण्डकोशं प्रापदभिज्ञाः प्रतिसंविदश् च ॥
सत्कारलाभेषु पराङ्मुकत्वात् सशक्रदेवासुरमानुषाणाम्*
पूज्यश् च मान्यो अभिवादनीयो बभूव स ब्रह्मविहारचारी ॥
अथ सुभूतिर् आयुष्मान् समन्वाहरद् आत्मवान्*
कुतश् च्युतो ऽहम् आयातः कुत्र केन च कर्मणा ॥
अपश्यत् स ततश् चेति पञ्चजन्मशतानि च
नागयोनिसमुत्पन्नस् ततश् च्युत्वाहम् आगतः ॥
यद् द्वेषाभ्यासतश् चासं क्रूरो लोकोपघातकः
तेनैव हेतुना चाहं महद्व्यसनम् आप्तवान्+ ॥
इदानीं तु तथा चैतं क्रोधं प्रहातुम् आचरे
यस्यैव हेतुना लोका भ्रमन्ति नरकेषु ते ॥
तस्माद् अहं चरिष्यामि निःसङ्गो निरहंकृतिः
सङ्गाद् धि जायते माया मायायां जायते रतिः ॥
रतौ रागो ऽभिजायेत रागे मोहः प्रवर्धते
मूढस्य द्रूयते चित्तं स्वेष्टकार्योपघाततः ॥
उपघाताहते चित्ते क्रोधाग्निः परिदीप्यते
क्रोधानलसमुद्दीप्तो दहते स परान् अपि ॥
यावत् क्रोधानलोद्दीप्तं स्वचित्तं क्लेशवायुभिः
तावत् किं तपसाप्य् एतन् निरर्थं दुःखहेतवे ॥
धर्मं सुचरितं पुण्यं दानशीलादिसाधनम्*
कृतं कल्पसहस्रैर् यद् दहेत् क्रोधानलः क्षणात्* ॥
तस्मात् क्रोधाग्निशान्त्यर्थं कृत्वेन्द्रियविनिग्रहम्*
एकान्ते हि वसेयं च विविक्तारण्यगोचरे ॥
यदा च गरुडेनाहं बलाद् आकृष्य भक्षितः
यतीन् दृष्ट्वानुमोदं च कुर्वन् मृत्युम् अवाप्तवान्* ॥
तेनैव हेतुना चाद्य द्विजातिकुलसंभवः
सर्वक्लेशान् विनिर्जित्य ब्रह्मचारी भवाम्य् अहम्* ॥
मूल पाठ: Kalpadrumāvadānamālā · Edition: the text appended to P.L. Vaidya's edition of the Avadanasataka (Darbhanga 1958, Buddhist Sanskrit Texts ; 19) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0