कलिविडम्बन · श्लोक 81-100
प्रस्थास्यमानः प्रविशेत् प्रतिष्ठेत दिने दिने
विचित्रान् उल्लिखेद् विघ्नांस् तिष्ठासुर् अतिथिश् चिरम् ॥
प्रदीयते विदुष्य् एकं कवौ दश नटे शतम्
सहस्रं दाम्भिके लोके श्रोत्रिये तु न किम्चन ॥
घटकं सम्यगाराध्य वैराग्यं परमं वहेत्
तावद् अर्थाः प्रसिद्ध्यन्ति यावच् चापलम् आवृतम् ॥
एकतः सर्वशास्त्राणि तुलसीकाष्ठम् एकतस्
वक्तव्यं किं चिद् इत्य् उक्तं वस्तुतस् तुलसी परा ॥
विस्मृतं वाहटेनेदं तुलस्याः पठता गुणन्
विश्वसंमोहिनी वित्त दायिनीति गुणद्वयम् ॥
कौपीनं भसितालेपो दर्भा+रुद्राक्षमालिका
मौनम् एकासिका चेति मूर्खसंजीवनानि षट् ॥
वासः पुण्येषु तीर्थेषु प्रसिद्धश् च मृतो गुरुस्
अध्यापनावृत्तयश् च कीर्तनीया धनार्थिभिस् ॥
मन्त्रभ्रंशे संप्रदायः प्रयोगश् च्युतसंकृतौ
देशधर्मस् त्व् अनाचारे पृच्छतां सिद्धम् उत्तरम् ॥
यथा जानन्ति बहवो यथा वक्ष्यन्ति दातरि
तथा धर्मं चरेत् सर्वं न वृथा किं चिद् आचरेत् ॥
सदा जपपटो हस्ते मध्ये मध्ये ऽक्षिमीलनम्
सर्वं ब्रह्मेति वादश् च सद्यस्प्रत्ययहेतवस् ॥
आमध्याह्नं नदीवासः समाजे देवतार्चनम्
सततं शुचिवेषश् चेत्य् एतद् दम्भस्य जीवितम् ॥
तावद् दीर्घं नित्यकर्म यावत् स्याद् द्रष्टृमेलनम्
तावत्संक्षिप्यते सर्वं यावद् द्रष्टा न विद्यते ॥
आनन्दबाष्परोमाञ्चौ यस्य स्वेच्छावशंवदौ
किं तस्य साधनैर् अन्यैः किंकराः सर्वपार्थिवास् ॥
दण्ड्यमाना विकुर्वन्ति लाल्यमानास् ततस् तराम्
दुर्जनानाम् अतो न्याय्यं दूराद् एव विसर्जनम् ॥
अदानम् ईषद्दानं च किम्चित्कोपाय दुर्धियाम्
संपूर्णदानं प्रकृतिर् विरामो वैरकारणम् ॥
ज्यायान् असंस्तवो दुष्टैर् ईर्ष्यायै संस्तवः पुनस्
अपत्यसंबन्धविधिः स्वानर्थायैव केवलम् ॥
ज्ञातेयं ज्ञानहीनत्वं पिशुनत्वं दरिद्रता
मिलन्ति यदि चत्वारि तद् दिशे ऽपि नमो नमस् ॥
परछिद्रेषु हृदयं परवार्तासु च श्रवस्
परमर्मासु वाचं च खलानाम् असृजद् विधिस् ॥
विषेण पुच्छलग्नेन वृश्चिकः प्राणिनाम् इव
कलिना दशमांशेन सर्वः कालो ऽपि दारुणस् ॥
यत्र भार्यागिरो वेदा यत्र धर्मो ऽर्थसाधनम्
यत्र स्वप्रतिभा मानं तस्मै श्रीकलये नमस् ॥
मूल पाठ: Kaliviḍambana · Edition: PIFI 36 , Pondichery 1967; 5 Nīl 1 (Trivandrum ed.); 5 misc 34 NSP ed.; Vani Vilas Press, Srirangaṃ; ed. Sankararama Sastri, Balamanorama Series 35, Madras 1942; ed. Kalyanasundara Sastri, Sastra Sanjeevinee Press Madras 1920; ed. Vaidika Vardhini Press Kumbakonam; L = lithograph Bod. 5.D.8, ed. by Keralavarma, Trivandrum 1886 · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0