भाषा

ENहिગુ
ग्रंथ पाठ

कालिकापुराणम् · अध्याय 46

46.1

कालिकापुराणम् षट्चत्वारिंशोऽध्यायः भृङ्गी-महाकालजन्मवर्णनम्
अथ श्रीकालिका पुराण अध्याय ४६
॥ॐ भं भद्रकालिकायै आगच्छ आगच्छ भं ॐ नमः ॥
॥ क्रीं कालिकायै नमः ॥
कालिकापुराणम्
षट्चत्वारिंशोऽध्यायः भृङ्गी-महाकालजन्मवर्णनम्
॥ सगर उवाच ॥
कोऽसौ भैरवनामाभूत् को वा वेतालसंज्ञकः ।
कथं वा तौ शरीरेण मानुषेण गणाधिपौ ।
अभूतां द्विजशार्दूल तन्मे वद महामुने

46.2

जानामि नन्दिनं विप्र सहायं शशभृद्धृत ।
यथाभवद्गणाध्यक्षस्तन्नारदमुखाच्छ्रुतम्

46.3

यथा भृङ्गिमहाकालौ विश्रुतौ हि हरात्मजौ ।
कथं वा तौ समुत्पन्नौ त्वत्तः श्रोतुं समुत्सहे

46.4

योऽसौ शरभरूपस्य महादेवस्य वै पुरा ।
कायभागः श्रुतः पूर्वं स महाभैरवाह्वयः

46.5

स एव किं भैरवाख्यः किं वान्यो द्विजसत्तम ।
वेत्तुं तत्त्वेन तत् सर्वमिच्छामि द्विजसत्तम

46.6

कस्य वा तनयौ भूत्वा गणाध्यक्षत्वमागतौ ।
तच्चापि कथयस्वाद्य यथा तौ वानराननौ

46.7

॥ और्व उवाच ॥
शृणु राजन् प्रवक्ष्यामि महाकालस्य भृङ्गिणः ।
भैरवस्यापि चरितं वेतालस्य महात्मनः

46.8

योऽसौ भृङ्गी हरसुतो महाकालोऽपि भर्गजः ।
तावेव गौरीशापेन सम्भूय नरयोनिजौ ।
वेतालभैरवौ जातौ पृथिव्यां नृपवेश्मनि

46.9

यथा भृङ्गिमहाकालाव्युत्पन्नौ प्राक् तथा शृणु ।
योऽसौ महाभैरवाख्यः स कायः शरभो हरः

46.10

भैरवः पृथगेवायं गणाध्यक्षो हरात्मजः ।
ऊढायां हिमवत्पुत्र्यां भर्गेण सुमहात्मना

46.11

तारकस्य वधार्थाय देवैः शक्रपुरोगमैः ।
स्तुतिभिर्नतिभिः शम्भुं सन्ततिर्याचिता पुरा

46.12

स याचितो देवगणैर्भगवान् वृषभध्वजः ।
महामैथुनमारेभे सन्तानायोमया सह

46.13

आरब्धे मैथुने तेन नरवर्येण वै ययुः ।
द्वात्रिंशद् वत्सरा राजन् क्षणवच्चन्द्रधारिणः

46.14

स महामैथुनं कुर्वंस्तृप्तिं नाप महेश्वरः ।
नाप्यस्य प्रच्युतं तेजो न तृप्तिं प्राप पार्वती

46.15

तन्महासङ्गसमये चकम्पे वसुधा स्फुटम् ।
आकुलाः सकला देवा: स्युः स्वर्गस्थाश्च येऽपरे

46.16

सर्वं जगत्तदा भूतमाकुलं शिवयोस्तयोः ।
ततो निवृत्तिजातेन महामैथुनकर्मणा

46.17

अथ सेन्द्राः सुराः सर्वं ब्रह्माणं जगतां पतिम् ।
शरण्यं शरणं जग्मुर्भीताः शङ्करकेलिभिः

46.18

ते सम्भूयाथ धातारं प्रणम्य च सुरोत्तमाः ।
आकुलं सर्वमाचक्षुर्हरमैथुनकर्मणा

46.19

ततः सर्वान् देवगणान् पश्चात् कृत्वैव वृत्रहा ।
स्वयमाह विधातारं तत्कालभयभाषितम्

46.20

.
॥ इन्द्र उवाच ॥
आकुलाः सकलालोका हरमैथुनकर्मणा ।
अहं महद्भयं प्राप्य शरणं त्वामिहागतः

46.21

एवम्भूते सङ्गमे च शङ्करस्योमया सह ।
यः पुत्रो जायते ब्रह्मन् स मामभिभविष्यति

46.22

तत्क्रियादर्शनादेव सूत्पन्नादपि तत्सुतात् ।
ब्रह्मन् जातं भयं मेऽद्य तारकादपि चाधिकम्

46.23

तस्मादेवं त्वं विधेहि तत्सुतो मां सुरान्यथा ।
न बाधेत तथा यत्नात्तारयास्मान्महाभयात्

46.24

॥ ब्रह्मोवाच ॥
उमायां जायते पुत्रो यदि शङ्करतेजसा ।
अशक्यः सर्वलोकेशैः सेन्द्रैरपि सुरासुरैः

46.25

तस्माद्धरो यथोमायां न प्रसूतो भविष्यति ।
तथाहं संविधास्यामि गत्वा देवैर्हरान्तिकम्

46.26

तारकस्य विघातश्च यथा स्याद्धरतेजसा ।
तच्चाप्यहं करिष्यामि व्येतु ते मानसो ज्वरः

46.27

॥ और्व उवाच ॥
इत्युक्त्वा सह देवौघैः कैलासाद्रि प्रजापतिः ।
जगाम रेमे गिरिशो गिरिपुत्र्या समं भृशम्

46.28

तत्र गत्वा महादेवं ब्रह्मा लोकपितामहः ।
सर्वैः सुरगणैः सार्धं तुष्टाव वृषभध्वजम्

46.29

॥ देवा ऊचुः ॥
प्रीतये यस्य न रतिर्न कामो यन्मनोभवः ।
न यस्य जन्मनो हेतुस्तस्मै तुभ्यं नमो नमः

46.30

यस्य लोकहितायैव जातो जायापरिग्रहः ।
त्र्यम्बकाय नमस्तस्मै स शिवो नः प्रसीदतु

46.31

यन्मन्मथं विना देवं शृङ्गाराद्या विशन्ति च ।
स्वबलेनैव तं देवं त्वां वयं प्रणता हरम्

46.32

हिरण्यरेताः स्वर्णाभो यो हिरण्यभुजाह्वयः ।
स त्वं सर्गहरो देवो नित्यं नोऽभिप्रसीदतु

46.33

जगन्मयी योगनिद्रा विष्णुमाया बलीयसी ।
तस्याभवत् स्वयं जाया तस्मै तुभ्यं नमो नमः

46.34

पञ्चभूतमयं यस्य पञ्चशीर्षं विराजते ।
तं पञ्चवदनं देवं भक्त्या त्वां प्रणमामहे

46.35

सद्योजातमघोरं च वामदेवमुमापतिम् ।
ईशानं प्रणमामोऽद्य यं तत्पुरुषमाह वै

46.36

योऽसतामशिवो नित्यं यो वा भक्तिमतां शिवः ।
शिवाशिवस्वरूपाय नमस्तस्मै शिवाय ते

46.37

रूपैस्त्रिभिर्य: स्थितिसृष्टिनाशं विष्ण्वात्मभिः शम्भुरिति प्रसिद्धैः ।
करोति शश्वजगतां नुमस्तं शिवं विरूपाक्षममुं शिवेशम्

46.38

यः शूलखट्वाङ्गमृगाङ्कधारी यो गोध्वजः शक्तिमान् पञ्चरूपी ।
तस्मै तुभ्यं जातवेदः प्रभाय भूयो भूयो नो नमः शङ्कराय

46.39

ब्रह्मर्चिष्मान् भोगभृद्दैत्यहन्ता यन्ता योद्धा वीतगर्भो जगत्याः ।
स त्वं स्तुतो नः प्रसीदत्वनन्तो नित्योद्रेकी मुक्तरूप: प्रधानः

46.40

परब्रह्मरूपी नियतैकमुक्तः परज्योतिरूपी नियतस्त्वनन्तः ।
परः पाररूपी नियतात्मभागी स नो भर्गरूपी गिरिशोऽस्तु भूत्यै

46.41

उमापतिं महामायं महादेवं जगत्पतिम् ।
शिवं शिवकरं शान्तं नमामः स प्रसीदतु

46.42

॥ और्व उवाच ॥
इति स्तुतो महादेव: शक्राद्यैस्त्रिदशैः स्वयम् ।
उमासङ्गं परित्यज्य भर्गोऽगात्त्रिदिवौकसः

46.43

येन भावेन स तदा महामैथुनतत्परः ।
आसीत् तेनैव भावेन ब्रह्मादीनां ससादह

46.44

अथ तान् स सुरान् प्राह महादेवस्त्वरन्निव ।
किमर्थमागता यूयं तन्मे वदत निर्जराः ।
तमूचुस्त्रिदशाः सर्वे ब्रह्मशक्रपुरोगमाः

46.45

॥ ब्रह्मादयः ऊचुः ॥
त्वन्महामैथुनाद्धर्ग व्याकुलं सकलं जगत् ।
पृथिवी कम्पतेऽतीव सशैलवनकानना

46.46

सागराः क्षुभिताः सर्वे नदा नद्यश्च शङ्कर ।
देवाश्च सर्वे दिक्पालान शान्तिं प्राप्नुवन्ति वै

46.47

तस्मात् त्वं सर्वलोकेश सकलाननुकम्पय ।
त्यक्त्वा महामैथुनं तु रतिमात्रं नियोजय

46.48

॥और्व उवाच ।
एतच्छ्रुत्वा वचस्तस्य ब्रह्मणः परमात्मनः ।
उवाच शङ्करो देव नातिहृष्टमना इव

46.49

॥ ईश्वर उवाच ॥
इयं प्रवृत्तिर्भवतां शिवायामरसत्तमाः ।
त्यक्ते महामैथुने तु रतिमात्रं प्रयोजिते ।
नोमायां भविता पुत्रस्तदर्थमयमुद्यमः

46.50

उमाशरीरज: पुत्रो यो भवेन्मम तेजसा ।
स एव तु रिपून् हत्वा त्रिदशान् वर्धयिष्यति

46.51

तस्मान्महामैथुने मेऽतीव भीताः सुरोत्तमाः ।
स्वं स्वं स्थानं प्रगच्छन्तु अहं तदनुचिन्तये

46.52

॥ देवा ऊचुः ॥
उमाशरीरज: पुत्रो यथा न भविता हर ।
तथा कुरु जगन्नाथ तन्महामैथुनं त्यज

46.53

॥ ईश्वर उवाच ॥
रतिमात्रेण नोमायां मत्पुत्रः सम्भविष्यति ।
महामैथुनसन्त्यागात् स्यादपुत्री तु पार्वती

46.54

तस्मादहं तु देवानां वचनाद् ब्रह्मणस्तथा ।
त्यक्ष्ये महामैथुनं तु किं त्वेकं कुरुतामराः

46.55

येन मे प्रसृतं तेजो महामैथुनकारणात् ।
धार्यं तेजस्विनं देवमानयन्त्वमरास्तु तम्

46.56

यो निष्कम्पो निर्विकारो भूत्वा तेजोग्रहीष्यति ।
तन्मे वदन्तु त्रिदशास्त्यक्ष्ये तेजः शरीरजम्

46.57

॥ और्व उवाच ॥
वृषध्वजवचः श्रुत्वा देवा ब्रह्मपुरोगमाः ।
हरतेजोग्रहायाथ वीतिहोत्रं ययुर्द्धिया

46.58

अथ ब्रह्माणमांमन्त्र्य तथानुज्ञाप्य पावकम् ।
सेन्द्रा देवगणाः सर्वे हरमूचुरिदं वचः

46.59

॥ देवा ऊचुः ॥
एष वैश्वानरः श्रीमान् भूरितेजमयो बली ।
महामैथुनबीजं तु त्वत्तेजः संग्रहीष्यति

46.60

॥ और्व उवाच ॥
इत्युक्त्वा त्रिदशाः सर्वे वीतिहोत्रं पुरः स्थितम् ।
तस्मै निदेशयामासुः शम्भवे सर्वहेतवे

46.61

ततः षडङ्गं स्वं रेतो व्यादिते दहनानने ।
उत्ससर्ज महाबाहुर्महामैथुनकारणम्

46.62

अग्नावुत्सृज्यमानस्य तेजस: शशभृद्धृतः ।
अद्वयमतिस्वल्पं गिरिप्रस्थे पपात ह

46.63

तयोस्तु कणयोः सद्यः सम्भूतौ शङ्करात्मजौ ।
एको भृङ्गसमः कृष्णो भिन्नाञ्जननिभोऽपरः

46.64

भृङ्गाभस्य तदा ब्रह्मा नाम भृङ्गीति चाकरोत् ।
महाकृष्णैकरूपस्य महाकालेति लोकभृत्

46.65

ततस्तौ पालयामास शङ्करः प्रमथोत्करैः ।
अपर्णा चापि तथा क्रमात् तावति वर्द्धितौ

46.66

प्रवृद्धौ तौ महात्मानौ हरोमाप्रतिपालितौ ।
क्रमाद् गणेशौ कृत्वा तौ हरो द्वारि न्ययोजयत्

46.67

॥ सगर उवाच ॥
उत्सृष्टमग्नौ यत्तेजस्तत् किं वृत्तं द्विजोत्तम ।
तदप्यहं श्रोतुमिच्छुः संक्षेपात् तद्वदस्व मे

46.68

॥ और्व उवाच ॥
अग्नावुत्सृज्य तेजांसि तावत्कालं वृषध्वजः ।
आकाशगङ्गामुद्दिश्य देवानिदमुवाच ह

46.69

॥ वृषध्वजोवाच ॥
एतत् तेजो दुराधर्षं स्त्रीभिरन्यैः सुरोत्तमाः ।
योगनिद्रामृते देवीं शैलपुत्रीमृतेऽथवा

46.70

तस्मादहं प्रवक्ष्यामि यथेदं तेजसा सुतः ।
यत्र वा भविता देवो या च वा तद्ग्रहीष्यति

46.71

इयं त्वाकाशगा गङ्गा शैलराजसुतापरा ।
उमाया भगिनी ज्येष्ठा ततोऽपत्यं हुताशनात्

46.73

जनिष्यत्यात्मवीर्येण तेजसानुपमद्युतिः ।
भविष्यति स वः श्रीमान् सेनापतिररिन्दमः । । ७२ ॥
स तारकं वः पुरतो विजेष्यति शिखिध्वजः ।
अमोघया महाशक्त्या मयैव प्रतिवर्द्धितः

46.74

॥ और्व उवाच ॥
इत्युक्त्वा स महादेवो विसृज्य सकलान् सुरान् ।
पार्वतीमभिसंमन्त्र्य शौचार्थं गतवांस्तदा

46.75

पार्वतीवचनं श्रुत्वा देवानामप्रियं सती ।
चुकोप त्रिदशौघाय पुत्राशा परिवर्जिता

46.76

मन्युना दह्यमानेव स्फुरदोष्ठाधरा तदा ।
इदमाह सुरान् दृष्ट्वा हरं च त्यक्तमैथुनम्

46.77

॥ देव्युवाच ॥
यस्माद्वियोजितः शम्भुर्युष्माभिर्मम मैथुने ।
अजातपुत्रा च कृता वारस्त्रीवाहम्मर्दिता

46.78

तस्मात् सर्वे सुरगणा अद्यावधि निरन्तरम् ।
महामैथुनविभ्रष्टा भवन्तु निजयोषिति

46.79

तेषामपि तथा पुत्रा न जनिष्यन्ति मे यथा ।
भार्याश्च सन्त्वपत्येन हीना देव्यो वराङ्गनाः

46.80

यथाहं परितप्यामि पुत्राशा परिवर्जिता ।
तथा सन्तु समस्तास्ता देव्यः पुत्राशयाच्युताः

46.81

॥ और्व उवाच ॥
एवं सुरान् गिरिसुता शशाप कुपिता भृशम् ।
तत्कालावधि न स्वर्गे जायन्ते देवपुत्रकाः ।
नाद्यापि सम्प्रजायन्ते पुत्रास्तासु सुधाशिनाम्

46.82

दहनोऽपि तथा काले प्राप्ते गङ्गोदरे स्वयम् ।
रेतः संक्रामयामास शाम्भवं स्वर्णसन्निभम्

46.83

सा तेन रेतसा देवी सर्वलक्षणसंयुतम् ।
एकः स्कन्दो विशाखाख्यो द्वितीयश्चारुरूपधृक् ।
शक्तिद्वयधरौ द्वौ तौ तेजः कान्तिविवर्द्धितौ

46.84

तावेकत्वं जगामाशु विशाखः स्कन्द एव च ।
शिशुश्चाप्यभवद् यातो यथान्यस्य सुतस्तथा

46.85

ततस्तं तनयं जातं तथा दृष्ट्वातिविस्मिता ।
मध्ये शरवणस्याशु गङ्गा तं व्यसृजद्धठात्

46.86

विसृज्य गर्भं तं गङ्गा बहुलायै स्वयं तदा ।
गर्भवृत्तान्तमाचख्यौ जातं च व्यसृजद् यथा

46.87

तच्छ्रुत्वा बहुला ज्ञात्वा महादेवतनूद्भवम् ।
परिगृह्य सुतं तं तु पालयामास कृत्तिका

46.88

उमायाः शङ्करस्यापि विज्ञाप्यानुमते तयोः ।
ततो नीत्वा ददौ देव्यै तं पुत्रमरिमर्दनम्

46.89

सोऽतिवृद्धः शक्तिधरो महाबलपराक्रमः ।
वर्द्धितः शङ्करेणाशु देवसेनाधिपोऽभवत्

46.90

ततः सुरारिं सगणं तारकं लोकतारकम् ।
शक्तिहस्तो हरसुतः प्रममाथ महाबलम्

46.91

एवमग्नौ समुत्सृष्टं तेजो भर्गेण सङ्गतम् ।
यथा वृत्तं तथा तेऽद्य कथितं नृपसत्तम

46.92

साम्प्रतं प्रस्तुतं श्राव्यं महाकालस्य भृङ्गिणः ।
वृत्तान्तं शृणु राजेन्द्र तौ भूतौ मनुजौ यथा

46.46

॥ इति श्रीकालिकापुराणे भृङ्गीमहाकालजन्मवर्णननाम षट्चत्वारिंशोऽध्यायः

कालिका पुराण हिन्दी अनुवाद पढने के लिए देखें-द्प् कर्मकन्द्

मूल पाठ: kālikāpurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc