भाषा

ENहिગુ
ग्रंथ पाठ

कालिकापुराणम् · अध्याय 45

45.1

कालिकापुराणम् पञ्चचत्वारिंशोऽध्यायः अर्धनारीश्वरचरितवर्णनम्
अथ श्रीकालिका पुराण अध्याय ४५
॥ ऋषय ऊचुः ।
विचित्रमिदमाख्यानं ब्रह्मन् कालीहरागमम् ।
पुण्यं पापहरं नित्यं श्रुतिसौख्यप्रदं वरम्

45.2

भूयः कथय शर्वस्य कालीतन्वार्धमुत्तमम् ।
कथं जहार गौरी वा कथम्भूताथ कालिका

45.3

केन वा कारणेनाशु कृष्णा गौरीत्वमागता ।
तन्न: कथय तत्त्वेन मुनिश्रेष्ठ द्विजोत्तम

45.4

॥ मार्कण्डेय उवाच ॥
इदं तु महदाख्यानं कथयिष्यामि वोऽधुना ।
महर्षयस्तच्छृण्वन्तु तत्त्वेन शुभदं परम्

45.5

एतदौर्व पुरा राजा सगरः पृष्टवान्मुनिम् ।
स तं यथा समाचष्ट तद्वोऽथ निगदाम्यहम्

45.6

पुराभूत् सोमवंशे च सगरो नाम पार्थिवः ।
स श्रीमान् बलवान् दक्षः सर्वशास्त्रार्थपारगः

45.7

सोऽभूदेकरथेनैव जित्वा सर्वान् महीभुजः ।
सार्वभौमो नरपति: सर्वराजगुणैर्युतः

45.8

तं प्राप्तराज्यं राजानं सगरं पार्थिवोत्तमम् ।
सभाजयितुमत्यर्थं मुनयः समुपागताः

45.9

प्राच्योदीच्या महात्मानो दाक्षिणात्यास्तथोत्तराः ।
मुनयो ब्राह्मणाश्चैव नृपं द्रष्टुं समागमन्

45.10

आगतेष्वथ सर्वेषु महात्मा ज्वलनोपमः ।
और्वो नाम मुनिः श्रीमानागतो नन्दितुं नृपम्

45.11

तमागतं मुनिं दृष्ट्वा ज्वलन्तमिव पावकम् ।
सपर्यया महत्या तु सगरस्तमपूजयत्

45.12

पाद्यमाचमनीयं च दत्त्वैवार्धपुरोगमम् ।
निवेशयामास च तं मुनिश्रेष्ठं वरासने

45.13

उवाच च महात्मानमौर्वं स सगरो नृपः ।
प्रणम्य च यथायोग्यं कुशलं तु इति द्विजम्

45.14

स च प्राह मुनिश्रेष्ठो नरराज सदा मम ।
सर्वत्र कुशलं त्वां तु द्रष्टुं कुशलमुत्सहे

45.15

त्वत्तः कोन्योऽस्ति कुशली पृथिव्यां सर्वराजसु ।
य एकः सञ्जिगायाशु भवान् सकलपार्थिवान्

45.16

कुशलं वर्धतां नित्यं तव राजवरोत्तम ।
यथा नीत्या सदाचारैः पृथिवीं शाधि भूपते

45.17

तव वृद्धौ जगद्वृद्धिर्वृद्धौ चेष्टां ततः कुरु ।
शुभ्रांशुवृद्धौ सततं सागरस्येव वर्धनम्

45.18

प्रथमं सद्गुणैरात्मा क्रियतां नृप योजनम् ।
ततः स्वभार्या महिषी क्रियतां तद्गुणैर्युता

45.19

नित्या संयोजिता चेत् स्याद्वनिता स्वयमेव हि ।
स्वगुणेषु प्रवेक्ष्यन्ती महत्यपि धृतव्रता

45.20

श्रूयते हिमवत्पुत्री शम्भुसंगतमानसा ।
क्रियाभ्युपायैर्बहुभिः शम्भुना सा प्रयोजिता

45.21

ततोऽतिमहता प्रेम्णा शङ्करस्याथ पार्वती ।
शरीरमर्धमहरत्तस्यैवानुमते सती

45.22

अर्धनारीश्वरस्तेन तदा प्रभृति शङ्करः ।
अभवन् नृपशार्दूल नान्यां भार्यां गृहीतवान्

45.23

तस्मात् त्वमपि राजेन्द्र स्वजायामात्मनोत्तरे ।
गुणैः संयोजय लघु संयोजय ततः सुतम्

45.24

॥ मार्कण्डेय उवाच ॥
इत्यौर्वभाषितं श्रुत्वा सगरोऽपि मुदान्वितः ।
इदं मुनिमपृच्छत् स नृपतिः स्मितसन्ततः

45.25

॥ सगर उवाच ॥
कथं सा गिरिजा देवी कायार्धमहरत् सती ।
शङ्करस्य द्विजश्रेष्ठ तदहं श्रोतुमुत्सहे

45.26

नीत्या यया वा योक्तव्या स्वात्मा भार्या सुतोऽथवा ।
तां नीतिं च सदाचारसंहितां श्रोतुमुत्सहे

45.27

राजनीतिं सतां नीतिमन्येषां च कृतात्मनाम् ।
पृथक् पृथक् श्रोतुमिच्छुरहं त्वां नाथये द्विज

45.28

यदि गुह्यमिदं ब्रह्मन्न तदा श्रोतुमुत्सहे ।
तथा नाज्ञापयामि त्वां श्रोतुमिच्छुश्च तत्समम् ।
कृपया कथनीयं चेत्तदा कथय तन्मुने

45.29

॥ मार्कण्डेय उवाच ॥
इत्येवं सगरेणोक्तमौर्वोऽपि द्विजसत्तम ।
प्रत्युवाच महात्मानं कृपालुस्तत्र भूपतौ

45.30

॥ और्व उवाच ॥
शृणु राजन् प्रवक्ष्यामि यद् यत् पृष्टमिह त्वया ।
यथा हरस्य तन्वर्ध भूभृत्पुत्री पुराहरत्

45.31

यथा नीतिस्त्वया कार्या यत्र यत्र नृपोत्तम ।
सर्वेषां च सदाचारं क्रमाद् वक्ष्यामि तच्छृणु

45.32

यदोढा हिमवत्पुत्री शङ्करेण महात्मना ।
कियन्तं स तदा कालं तत्र निन्ये समोमया

45.33

रममाणस्तया सार्धं सानौ कुञ्जे दरीषु च ।
विजहार चिरं तत्र पार्वतीं मोदयन् हरः

45.34

अथ काले तु सम्प्राप्ते शम्भुः कैलासपर्वतम् ।
सगणो भार्यया सार्धमगच्छत्त्रिदिवोपमम्

45.35

स तया क्रीडमानश्च त्यक्तध्यानात्मचिन्तनः ।
तद्वक्त्रचन्द्रे नेत्राणि चकोरानिव चाकरोत्

45.36

पुष्पाणि क्वचिदाहृत्य गिरिजां प्रति शङ्करः ।
सर्वाङ्गसङ्गिनीं मालां विदधेऽतिमनोहराम्

45.37

कदाचिदादर्शतले युगपच्चात्मनो मुखम् ।
मुखं तथैवापर्णायाः वीक्षाञ्चक्रे वृषध्वजः

45.38

कदाचिन्मृगनाभीनां विलेपैर्गन्धपत्रकम् ।
तस्या घनस्तनयुगे विलिलेख स्मरान्तकः

45.39

गन्धसारविलेपेन तिलकान्यम्बिकातनौ ।
ललाटे चाकरोच्चारु चन्द्रवद्घनसन्धिषु

45.40

उमानिर्याससंसक्तकेशपाशेषु चित्रकम् ।
चन्दनागुरुकस्तूरीकुंकुमस्य विलेपनैः

45.41

चकार येन तस्यास्तु केशपाशो व्यराजत ।
नर्तनायावतीर्णस्य शिखिपुच्छस्य साम्यधृक्

45.42

जाम्बूनदमयाञ् शुद्धान् कुण्डलाद्यान् मनोहरान् ।
अलङ्कारानुमा देहे समाकार्षीद् वृषध्वज:

45.43

तैर्जाम्बूनदसम्भूतैर्योजितैर्गिरिजातनुः।
विभाति जलदापूर्णे कालिकेव तडिद्गणैः

45.45

सर्वैर्दिव्यैरलङ्कारैर्नानारत्नैः सदंशुकैः ।
सम्पूर्णमण्डिता काली सादृश्यं प्रकृतेर्दधौ ॥ ४४ ।
एवं सदा सानुरागस्तस्यां शम्भुर्जगत्पतिः ।
जगद्धिताय चिक्रीड काल्या दयितया सह

45.46

काली च जगतां माता महामाया जगन्मयी ।
योगनिद्रा जगद्बुद्धिर्विद्याविद्यात्मिकाखिला

45.47

प्रकृतिः परमामूर्तिः सर्गान्तस्थितिकारिणी ।
सम्मोह्य शङ्करं यत्नाज्जगतां च हितैषिणी ।
रेमे तेन समं देवी चन्द्रिकेव सुधांशुना

45.48

अथैकदा स्मरहरः कैलासाग्रे सहोमया ।
रममाणो मुदा युक्तो ददृशेऽप्सरसः शुभाः

45.49

रूपयौवनसम्पन्नाः सर्वलक्षणसंयुताः ।
तासां मध्यगता वेश्या उर्वशी च मनोहरा

45.50

.
ता: सर्वा रक्तगौरांग्यः सर्वालङ्कारभूषिताः ।
मुनीनां च मनोऽत्यर्थं शक्ता मोहयितुं हठात्

45.52

ताः प्रणम्य हरं दृष्ट्वा गिरिजां च मनोरमाम् ।
अग्रे प्राञ्जलयस्तस्थुस्तद्भीतिनतमस्तकाः ॥ ५१ ।
अथ प्राह तदा भर्गः पार्वतीमिदमद्भुतम् ।
तासां समक्षं तस्यां तु भाषितुं स्याद् यदप्रियम्

45.53

॥ भर्ग उवाच ।
कालि भिन्नाञ्जनश्यामे उर्वश्याद्यप्सरोगणैः ।
त्वयेह स्त्रीस्वभावेन संलापः क्रियतामिति

45.55

॥ और्व उवाच ॥
तच्छ्रुत्वा वचनं तस्य यथायोग्यं च सोर्वशी ।
अप्सरसः समाभाष्य विसृष्टा गिरिजा तया । । ५४ ॥
अथ सा क्रोधवशगा पार्वती भर्गभावितात् ।
काली भिन्नाञ्जनश्यामेत्युदिता ह्यभवत् क्षणात्

45.56

सा चाप्सरसां पुरतो वर्णोद्देशविकत्थनम् ।
न सेहे मन्युना युक्ता गिरिजेन्दुकलाभृतः

45.57

अथ सा रोषसंयुक्ता त्यक्त्वा वृषभवाहनम् ।
अपह्नुते शैलसानौ रोषापह्नुतिमागता

45.58

मार्गमाणोऽथ विरहव्याकुलो वृषवाहनः ।
नाससाद कियत्कालं पार्वतीं पर्वतोत्तमे

45.59

विरहव्याकुलं ज्ञात्वा स्वयं सा पार्वती हरम् ।
आत्मानं दर्शयामास गिरसानापह्नुते

45.60

तामासाद्य ततः शम्भुः किमर्थमभजः प्रिये ।
मानं मनोनुदं देवि विशीर्ण इव चाब्रवीत्

45.61

॥ शिव उवाच ॥
भर्तुरागः पुरन्ध्रीणां मानग्रहणकारणम् ।
तद्विना ग्रहणात्तस्य भीरु प्राप्नोति वाच्यताम्

45.62

तस्मात् किमर्थमकरो रोषं त्वं जलजानने ।
तदाचक्ष्व द्रुतं कान्ते मनो मे न प्रसीदति

45.63

॥ और्व उवाच ॥
इत्युक्त्वा शङ्करो देवीं तामालिङ्गितुमुद्यतः ।
काली तं वारयामास वचनं चाब्रवीदिदम्

45.64

॥ काल्युवाच ॥
न दृष्टपूर्वा किमहं येन भिन्नाञ्जनोपमा ।
क्रियते मयि भूतेश भवताप्सरसां पुरः

45.65

जातिहीनं वृत्तिहीनं रूपहीनमदक्षिणम् ।
हीनांगमतिरिक्ताङ्गं तेन दोषेण नाक्षिपेत्

45.66

इति ब्रह्मा पुरा प्राह वैदौघार्थावनिश्चयम् ।
तं चावमन्य भवता परिहासोऽभ्यभाष्यत

45.67

यावन्न मे शरीरस्य भवित्री स्वर्णगौरता ।
न समेष्ये त्वया तावदिति सत्यं ब्रवीमि ते

45.68

शरीरगौरतां शम्भो न समेष्ये त्वया विना ।
तत्र मे शृणु सन्धाय आत्मनः शिरसा शपे

45.69

॥ और्व उवाच ॥
इत्युक्त्वा सा तदा देवी तस्यैव पुरतो ययौ ।
महाकोषीप्रपाताख्यं हिमवत्सानुमुत्तमम्

45.70

महादेवोऽपि तां भाव्यं ज्ञानेन कृतनिश्चयम् ।
अर्थं ज्ञात्वा तदापर्णां सर्वज्ञो नाप्यवारयत्

45.71

॥ कालीतपवर्णन ॥
सा गत्वा पूर्ववत्तत्र शम्भुसङ्गतमानसा ।
शतमाराधयामास वर्षाणि वृषभध्वजम्

45.72

एकं पादं समुत्क्षिप्य वामेनाक्रम्य सा क्षितिम् ।
उत्तराभिमुखी भूत्वा निराहारा निरन्तरम्

45.73

वैयाघ्रचर्मवसना सोर्ध्वमूर्द्धानना सती ।
ज्योतिर्मयं परं शान्तं शिवं शिवकरं वरम् ।
आत्मस्वरूपतत्त्वज्ञा तत्त्वेनाराधयद्धरम्

45.74

तां चिन्तयन्तीं परमनिश्चलां तत्त्वमानसाम् ।
मेने मुनिगण: स्थाणुर्यो न जानाति तत्त्वतः

45.75

एवं तस्यास्तपस्यन्त्या जग्मुर्वर्षाणि वै शताम् ।
अन्येषां च यथा शश्वदेकं नृपतिसत्तम

45.76

ततस्तां शतवर्षान्त शङ्करो योगतत्परः ।
आत्मानं दर्शयामास क्रमादेकं स सत्रयम्

45.77

प्रथमं दर्शयामास ब्रह्माणं च हरिं ततः ।
ततस्तु शाम्भवं देहं ततस्तेषामथैकताम्

45.78

ज्योतिर्मयत्वं शुद्धत्वं सर्वेषां हेतुतां तथा

45.79

ततस्तु शम्भुरूपं स दर्शयामास शङ्करः ।
योगनिद्रां महामायां योगिनीं कालिकाम्बिकाम्

45.80

प्रथमं दर्शयित्वा तु तस्याः प्रकृतिरूपताम् ।
पश्चात् सा पार्वतीत्येव क्रमात्तस्या अदर्शयत्

45.81

तपसा सम्भृतेनाशु ज्ञानमासाद्य पार्वती ।
अन्तर्दृष्ट्या बहिर्दृष्ट्या तत्त्वं ज्ञात्वा यथातथम्

45.82

शम्भुं जगन्मयं मेने तथात्मानं जगन्मयीम् ।
ब्रह्मा विष्णुर्हरश्चापि ततः सर्वमिदं जगत्

45.83

अहं समस्तप्रकृतिर्योगनिद्रा तथा सती ।
इति ध्यानेन सा देवी प्राप्य ध्यानं तदात्यजत् ।
उन्मील्य नयनद्वन्द्वं बहिः शम्भुं ददर्श च

45.84

सा दृष्ट्वा शङ्करं देवं देवदेवमुमापतिम् ।
तुष्टाव वाग्भिरिष्टाभिर्यमिनं योगतत्परम्

45.85

॥ पार्वत्युवाच ॥
नमस्ते जगतां नाथ नमस्ते केशवाव्यय ।
प्रधानपुरुषातीत कारणत्रयकारण

45.86

योगमोहमनोराग धर्माधर्ममयस्तथा ।
विद्याविद्यास्वरूपश्च शाम्भवः काय एष ते

45.87

त्वं निःश्रेयः श्रेयसा युज्यमानो
दृश्योऽदृश्यो योगमूर्तिर्मनीषी ।
सम्यक् श्रद्धा पौरुषे तत्त्वरूपं
त्वं वै ज्योतिः शान्तिरूपं पुरस्तात्

45.88

ब्रह्मा विष्णुस्त्वं हरस्त्वं महेन्द्रः
सूर्य: सोमो वायुरग्निर्धनेशः ।
त्वं तोयेश: शमनो राक्षसश्च
शेषस्त्वत्तो विद्यते कोऽपि नास्मिन्

45.89

त्वं भूमिर्द्यौर्द्युसदां चापि पन्था-
स्त्वं स्थावरो जङ्गमो भूर्वलस्थ: ।
ज्ञानं ज्ञेयं ध्यानगम्यं च तत्त्वं
परात्परं व्यक्तरूपं परेषाम्

45.90

त्वं पुरुष: परमात्मा प्रधानं
त्वं हि ज्यायानागमो ज्ञानगम्यः ।
भावः कृत्यं पञ्चरूपी समस्तै-
रासाद्यस्ते गोचरास्तद्भवाय

45.91

कीर्तिः कीर्त्यः स्तुत्यरूपी स्तुतिश्च
द्रष्टा दृश्य: स्थैर्यधृक् स्थावरश्च ।
नित्योऽनित्यो मुक्तयोगो वियोगो
दानादाने भेदसामप्रयोगः

45.92

नीतिर्नेयो दीक्षितो दक्षिणाश्च
सारात् सार: संविधाता विधेयः ।
आर्योऽनार्यो रूपधृग्रूपहीनो
दिव्यो देवो मानुषोऽमानुषश्च

45.93

सृज्य: स्रष्टा पालक: पाल्यरूप-
श्चेता चेयो नोर्मियुक्तस्तथोर्मिः ।
विद्याविद्यावेदवादैकरूपो
रूपारूपस्तीक्ष्णसौम्यैकरूपः

45.94

भावाभावः शोभनः शुद्धरूपी
शश्वद्दान्तः शान्तिरूग्रा मुनीनाम् ।
द्वन्द्वोऽद्वन्द्व: सर्वगोऽसर्वगश्च
भ्रान्तोऽ भ्रान्तः सिद्धसिद्धिप्रदश्च

45.95

एकस्थस्त्वं सर्वगोप्ता सुदेहो
निर्देहस्त्वं देह एक: सुराणाम् ।
स्थूलः सूक्ष्मो निर्विकारः शरीरी
विश्वात्मा त्वं नास्ति भिन्नो भवत्तः

45.96

कार्याकार्ये यस्य रूपे समस्ते
व्याप्याव्याप्ये भोगहीनोऽतिपूर्णः ।
योगज्ञानस्थात्मकं यस्य नित्यं
रूपं यस्य श्रीद तस्मै नमस्ते

45.97

प्रधानपुंसोरपि यो विधाता
यः कालरूपी पुरुष: परेशः ।
तमीशमुग्रं वरदं वरेण्यं
नमामि चिन्नीतिवितानकं त्वाम्

45.98

अक्षयो योऽव्ययः साक्षी क्षेत्रज्ञः क्षेत्रधृग्वरः ।
तस्मै नमस्ते विश्वात्मन् वृषध्वज महेश्वर

45.99

ज्ञानामृतविनिस्यन्दि यस्य चिच्चन्द्रमाः सदा ।
तद्रूपमेकं यं ज्ञेयं भक्तिमात्रं नमोऽस्तु ते

45.100

॥ और्व उवाच ॥
इति स्तुतो महादेवः सर्वभूतानुकम्पकः ।
प्रसन्नवदनः प्राह पार्वतीं प्रतिहर्षयन्

45.101

॥ ईश्वर उवाच ॥
प्रीतोऽस्मि देवि भद्रं ते वरं वरय वाञ्छितम् ।
तपसाप्यायितश्चाहं त्वया ब्रह्मा तथा हरिः

45.102

तपसा त्वत्समो नास्ति शीलेन च गुणेन च ।
त्वां विना न हि तृप्यामि प्रिये कुरु यथेप्सितम्

45.103

ततः सा मोहिता प्राह मायया हिमवत्सुता ।
जाम्बुनदाभगौरो मे देहो भवतु साम्प्रतम् ।
अनन्यकान्तस्त्वं चापि भूया मत्तो विना हर

45.104

एवमुक्तो महादेवः पार्वत्या पार्वती ततः ।
आकाशगङ्गातोयौघे मज्जयामास भामिनीम्

45.106

सा निमज्ज्य समुत्तीर्णा विद्युद्गौरी व्यजायत ।
सिताम्भोमध्यगा देवी शारदाभ्रे तडिद्यथा ॥१०५।
शम्भुश्चाङ्गीचकराशु नाहं त्वत्तो विना प्रिये ।
मनसापि ग्रहीष्यामि नान्यां सत्यं ब्रवीमि ते

45.107

॥ और्व उवाच ॥
अथ तोयात् समुत्तीर्णा पार्वती मोदसंयुता ।
तपः क्लेशपरित्यक्ता चन्द्रिकेव विधोर्यथा

45.108

अथ तां पार्वतीं देवीमादाय वृषभध्वजः ।
जगाम शैलं कैलासं स्वमाश्रमपदं लघु

45.109

तदा गत्वा हरो देवीमधिवास्य विभूष्य च ।
पूर्ववन्मोदयामास नर्महासकथादिभिः

45.110

सापि सौवर्णगौराङ्गी वीक्ष्य रूपं मनोहरम् ।
गृहीतसमयं शम्भुं प्राप्यातीव मुमोद ह

45.111

एवं तयोस्तु शिवयोरन्योन्यरममाणयोः ।
जगाम सुचिरं कालं कैलासे पर्वतोत्तमे

45.112

अथैकदा महादेवसमीपे हिमवत्सुता ।
आसीना ददृशे तस्य स्वां छायामुरसि स्थिताम्

45.113

स्फटिकाभ्रसमे स्वच्छे हृदि शम्भोर्मनोहरे ।
योगिज्ञानादर्शतले चार्वङ्गीं प्रतिबिम्बिताम्

45.114

आत्मच्छायां गिरिसुता वामभागे मनोहरे ।
ददर्श वनितारूपं स्मितवक्त्रां मनोहराम्

45.115

भ्रान्त्या दृष्ट्याथ पार्वत्यास्तदा ज्ञानमजायत ।
कृतसत्योऽपि गिरिशः किमन्यां वनितां दधौ ।
मायया स्थापितां गात्रे वीक्षन्तीं कुटिलं च माम्

45.116

इति तस्यास्तदा वक्त्रं मलिनं भ्रुकुटीयुतम् ।
बभूव वृषकेतुश्च श्याम उत्पातको यथा

45.117

सा दृष्ट्वाथ तदा छायां विष्णुमाया-विमोहिता ।
अपह्नुतं गिरे: शृङ्गं मानाद्रोषाद्विवेश ह

45.118

अथ तां मार्गमाणस्तु शङ्करो विरहाकुलः ।
चिरादपह्नुतां देवीमाससाद ततो हरः

45.119

तामासाद्य महादेवो विवर्णवदनां प्रियाम् ।
उवाच रोषणे हेतुं ज्ञातुमिच्छुर्यथातथम्

45.120

॥ ईश्वर उवाच ॥
किमर्थस्त्वं वरारोहे मह्यं कुप्यसि कोपने ।
रोषहेतुमहं वक्तुं तवेच्छामीह वल्लभे

45.121

न तुभ्यमपराध्यामि वाचा वा मानसाथवा ।
कायेन वा कथं कोपं कर्तुमर्हसि भामिनि

45.122

॥ देव्युवाच ।
समयेन मया पूर्वं तथा सम्प्रार्थितो भवान् ।
कथं तं परिहाय त्वमन्यां भार्यां समीहसे

45.123

प्रत्यक्षेण मया दृष्टा तव हृद्यन्तरे हर ।
चार्वङ्गी वनिता काचित्तोयनिर्यातभस्मनि

45.124

भवान् सर्वज्ञानमयः सर्वगः परमेश्वरः ।
तोषितो मे तपोव्रातैर्न तुष्टस्त्वं महेश्वर

45.125

तस्मादहं तपस्तप्तुं शश्वद्गन्तुं समुत्सहे ।
अनुजानीहि मां शम्भो मा विलम्बं वृथा कृथाः

45.126

इति श्रुत्वा वचस्तस्याः स्मितविस्तारिताननः ।
शङ्करः पार्वतीं प्राह सन्दिग्धामिव भामिनीम्

45.127

॥ ईश्वर उवाच ॥
नाहमन्यां स्त्रियं वोढा नाहं समयभेदकः ।
तव मिथ्यामतिर्जाता मुग्धे मूढतयाधुना

45.128

त्वमिच्छसि यदि श्रोतुं तत्र हेतुं च पार्वति ।
तदहं कथये तत्त्वं मानं मानिनि मा कृथाः

45.129

मम वक्षसि विस्तीर्णे दर्पणस्वच्छभासिनि ।
तवैव वपुषश्छायाबिम्बितालोकिता त्वया

45.130

इदानीमेव बुध्यस्व त्वामृते नास्ति सा मयि ।
नात्र मानस्त्वया कार्यों हृदयान्तरसंस्थिते

45.131

॥ देव्युवाच ॥
मयि स्थितायां छायास्ति मामृते नास्ति सा पुनः ।
कथमेतन्मया ज्ञेयं तन्मे वद वृषध्वज

45.132

॥ ईश्वर उवाच ॥
गवाक्षाभ्यन्तरे स्थित्वा तज्जालेन मनोहरे ।
पश्य तोयौघनिर्यातभूतिलेपमुरो मम

45.133

तथा त्वं मण्डितं देहं वीक्ष्यादर्शतले पुनः ।
मद्धृदासन्नमासाद्य तादृक्छायां विलोकय

45.134

यथा द्रक्ष्यसि देहे स्वं तत् कुरु त्वं तथा मम ।
आलोकय निजां छायां त्वां विना नास्ति तत् पुनः

45.135

त्वमेव ज्ञास्यसि च्छायां मद्वक्षसि मनोहरे ।
ज्ञात्वा विसृज्यमानं मां त्वं चाप्युपपत्स्यसि

45.136

॥ और्व्व उवाच ।
एवमुक्ता हरेणाथ पार्वतीन्दुकलाभृतः ।
तोयैर्निर्धाव्य हृदयं स्वां छायां पुनरैक्षत

45.137

दृष्ट्वादर्शत वक्त्रं निजं देहं च पार्वती ।
आलोकयामास तदा शश्वच्छंकरवक्षसि

45.138

यथा सा कुरुते देवी कापट्यं नेत्रविभ्रमम् ।
तथा सा कुरुते च्छाया करकम्पादिकं तथा

45.139

ततः पुनर्गवाक्षस्य जाले स्थित्वा हिमाद्रिजा ।
तथा व्यलोकयच्छम्भोर्हृदयं वीतभूतिकम्

45.140

तया तत्र तु पार्वत्या वृषभध्वजवक्षसि ।
न कापि दृष्टा वनिता दृष्टं जालस्य मण्डलम्

45.141

एवं बहुविधैर्देवी तदोपायैस्तथेतरैः ।
निर्यातसंशया भूत्वा लज्जां प्राप वराङ्गना

45.142

तां लज्जितां गिरिसुतामीषद्धीतामधोमुखीम् ।
शम्भुरालिंग्य पाणिभ्यां मुखं चास्याश्चचुम्ब च ।
स तामाह महादेवो देवीमाश्वासयन् मुहुः

45.143

॥ महादेव उवाच ॥
मा व्रीडस्व महाभागे भ्रान्तिः कस्य न जायते

45.145

मानस्त्वयि वरस्त्रीभिः कार्यः प्रेमकरो यतः ।
त्वयापि विरल: कार्यों मानो देवि न सर्वदा ॥ १४४ । ।
॥ और्व उवाच ॥
इत्युक्ता देवदेवेन मैनाकसहजाम्बिका ।
शङ्करं प्रणयात् प्राह सूनृतं मधुरं वचः

45.146

॥ देव्युवाच ॥
यथा तवाहं सततं छायेवानुगता हर ।
भवेयं साहचर्येण तथा मां कर्तुमर्हसि

45.147

सर्वगात्रेण संस्पर्श नित्यालिङ्गनविभ्रमम् ।
अहमिच्छामि भवतस्तत्त्वं चेत् कर्तुमर्हसि

45.148

॥ भगवानुवाच ।
रोचते तन्मह्यमपि यस्त्वमिच्छसि भामिनि ।
तत्रोपायमहं वक्ष्ये यदि शक्नोषि तं कुरु

45.149

अर्धं मम गृहाण त्वं शरीरस्य मनोहरे ।
अर्धं भवतु मे नारी अथैवार्धं पुमानिति

45.150

यदि त्वमपि शक्नोषि कर्तुं तदर्धमीदृशम् ।
तदाहं हरिष्यामि शरीरार्धं वरानने

45.151

तवैवार्धं तथा नारी ह्यर्धं भवतु पूरुषः ।
विद्यते तत्र शक्तिर्मे त्वमनुज्ञातुमर्हसि

45.152

॥ देव्युवाच ॥
तवैवाहं हरिष्यामि शरीरार्धं वृषध्वज ।
किं त्वहं त्वेकमिच्छामि तच्चेत्त्वं कर्तुमिच्छसि

45.153

यदाहमर्धं भवतो भूत्वा तिष्ठामि तावता ।
त्यजाम्यहं यदा तेऽर्धं सम्पूर्णं स्यात्तदा द्वयम्

45.154

इत्यर्धभागहरणं भवेद्यदि यथेप्सितम् ।
तवैवाहं तदा शम्भो शरीरार्धं हराम्यहम्

45.155

॥ ईश्वर उवाच ॥
एवमस्तु भवेन्नित्यं यथार्थं हर्तुमर्हसि ।
शरीरस्यार्धहरणं भूयस्तव यथेप्सितम्

45.156

॥ और्व्व उवाच ॥
अथ गौरी तदा पूर्वमनुभूतं तपः स्थितौ ।
योगनिद्रास्वरूपं तदात्मनोऽचिन्तयद्धिया

45.157

हरं प्रणम्य प्रथमं ब्रह्माणं च ततः परम् ।
ततस्त्रिजगतामीशं हरिं नारायणं प्रभुम्

45.158

चिन्तयित्वा यदा तेषामेकतां सा जगन्मयी ।
आत्मानं योगनिद्रां च चिन्तयित्वा तपस्विनी

45.159

दक्षिणे स्वशरीरस्य भागार्धं शशभृद्भृतः ।
शरीरस्य तदा वाममतिप्रेम्णा निजं हरे

45.160

हरोऽपि स्वशरीरार्धं गौरीकाये तदा स्वयम् ।
प्रेम्णा न्यवेशयत्तस्याश्चिकीर्षुः प्रियमद्भुतम्

45.162

अथ स्थित्वा तदा भर्गः काल्या सह चिरं तदा ।
परित्यज्य शरीरार्धं पृथगेव बभौ रुचा ॥ १६१।
काली भूत्वा स्वर्णगौरी शरीरार्द्ध च शङ्करम् ।
प्राप्तमोदा तदात्मानं सन्तुष्टा च जगन्मयी

45.164

एवं यदा शरीरार्धमादाय परमेश्वरी ।
रहस्ये तिष्ठति तदा राजतेऽतीव शोभना । । १६३ ॥
अर्द्धं धम्मिल्लसंयुक्तं जटाजूटार्द्धयोजितम् ।
एकस्मिन् श्रवणे भोगी भागे जाम्बूनदार्चितम्

45.165

कुण्डलं श्रवणेऽन्यस्मिन् शीर्षे तस्या व्यराजत ।
अर्द्धं मृगाक्षि चान्यार्द्धं वृषभाक्षि व्यजायत

45.166

अर्द्धं स्थूलनसं चारु तिलपुष्पनसं परम् ।
दीर्घश्मश्रु तथैवार्द्धमर्द्धं श्मश्रुविवर्जितम्

45.167

आरक्तचारुदर्शनं रक्तौष्ठमेकतस्तथा ।
अपरं शुक्लविपुलं दीर्घाकृतिरदं परम्

45.168

अर्द्धनीलगलं चार्द्धमपरं हारसंयुतम् ।
अर्द्धं कंकणकेयूरयुक्तबाहु तथापरम्

45.169

नागकेयूरसंयुक्तं स्थूलबाहुनिरूर्मिकम् ।
अर्धं विलोलसुभुजं परिहस्तभुजं परम्

45.170

एकत्र सोर्मिकाशाखा करस्यान्यत्र तां विना ।
एकस्तनं तु हृदयं रोमावल्यर्धसंयुतम्

45.171

रम्भास्तम्भसमानोरू सुपार्णितम मृदुपादकम् ।
एकं तथापरं स्थूलं संहतोरुपदाम्बुजम्

45.172

एकं चारुमृदुस्थूलजघनं सुमनोहरम् ।
तथापरं दृढकटि संहतोर्द्धपदान्वयम्

45.173

एकं वैयाघ्रचर्मोद्ययुक्तं भूतिविलेपनम् ।
अपरं मृदु कौशेयवसनं चन्दनोक्षितम्

45.174

एवमर्द्धं तथा जातं योषिल्लक्षणसंयुतम् ।
अपरं बलवद् भूरि सुगूढं पुरुषाकृति

45.175

एवमर्द्धं स्मररिपोर्जहार गिरिजा सती ।
हिताय सर्वजगतां कालिका कालिकोपमा

45.176

तस्याः शरीरं राजेन्द्र हरतन्वर्द्धसंयुतम् ।
येनोपमेयं तत्रास्ति मार्गितं भुवनत्रये

45.177

सन्तानः पारिजातो वा एकान्तविशदस्तरुः ।
अमोघया यथा वल्ल्या तौ चापि ययतुर्नहि

45.178

बहुधा च पृथक् तेन तौ रेमाते नरेश्वर ।
अर्द्धनारीश्वरो भूत्वा स तु रेमे कदाचन

45.179

इति यद्यपि भूतेशः स्वयं शक्नोति कालिकाम् ।
गौरीं कर्तुं तदा सर्वभूतकारणकारणः

45.180

तथापि तां गिरिसुतां संयोज्य विविधैः पुरा ।
तपस्ययोजयद् देव; क्रियोपायैरनेकशः

45.181

तपोनिर्धूतसर्वाङ्गी पश्चाद् गौरीमथाकरोत् ।
अर्द्धं च प्रददौ तस्यै शरीरस्य महेश्वरः

45.182

नैवास्य तत्त्वं जानन्ति शक्राद्याः सकलाः सुराः ।
शरीरार्द्धप्रदानस्य तपसे योजनस्य च

45.183

एतस्य तत्त्वं जानन्ति महात्मानो महाबलाः ।
नन्दी भृङ्गी महाकालो वेतालौ भैरवस्तथा

45.184

अङ्गभूता महेशस्य वीतभीतास्तपोधनाः ।
ये मानुषशरीरेण प्रापिरे तपसो बलात् ।
गणानामाधिपत्यं तु ते जानन्ति हरं परम्

45.185

एवं सदा त्वया योज्याः सानुगा नृपसत्तम ।
वनिता सत्क्रियोपायैस्ततो भद्रमवाप्स्यसि

45.187

य इदं शृणुयान्नित्यमद्भुतं पुण्यदायकम् ।
शिवयो: प्रीतिकरणं शरीरार्द्धग्रहं तथा ॥ १८६ ।
गौरीत्वसाधनञ्चैव कालिकायाः शुभावहम्

45.188

न तस्य विघ्ना जायन्ते स च पुण्यतमो मतः ।
दीर्घायुः स सुखी भूयात् पुत्रपौत्रसमन्वितः

45.189

सततं परिशृण्वानः शिवयोश्चरितं महत् ।
शिवलोकमवाप्नोति सुचिरं शिववल्लभः

45.45

॥ इति श्रीकालिकापुराणेऽर्द्धनारीश्वरचरिते पञ्चचत्वारिंशोध्यायः

कालिका पुराण हिन्दी अनुवाद पढने के लिए देखें-द्प् कर्मकन्द्

मूल पाठ: kālikāpurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc