भाषा

ENहिગુ
ग्रंथ पाठ

कालिकापुराणम् · अध्याय 40

40.1

कालिकापुराणम् चत्वारिंशोऽध्यायः नरकोपाख्यानम्
अथ श्रीकालिका पुराण अध्याय ४०
॥ मार्कण्डेय उवाच ॥
ऋतुमत्यां तु जायायां काले स नरकः क्रमात् ।
भगदत्तं महाशीर्षं मदवन्तं सुमालिनम्

40.2

चतुरो जनयामास पुत्रानेतान् क्षितेः सुतः ।
महासत्त्वान् महावीर्यान् वीरैरन्यैर्दुरासदान्

40.4

ततो बाणस्य वचनाद् हयग्रीवं तथा मुरुम् ।
सन्धायाथ समानीय सैनापत्येऽभ्यषेचयत् । ३॥
मुरुं सन्निहितं श्रुत्वा हयग्रीवं च भौमिना ।
ये ये क्षितौ तदा ह्यासन्नसुरास्तेऽपि सङ्गताः

40.5

हयग्रीवं मुरुं श्रुत्वा नरकेण समागतम् ।
निसुन्दसुन्दनामानावसुरौ सैनिकैः सह

40.6

विरूपाक्षस्तदा दैत्यः सर्वे तेन समागमन् ।
ततः स पश्चिमद्वारि नरकः सेनया सह

40.7

मुरुं द्वाराधिपं चक्रे हयग्रीवं तथोत्तरे ।
पूर्वद्वारि निसुन्दन्तु विरूपाक्षं तु दक्षिणे

40.8

मध्ये पञ्चजनं सुन्दं सैनापत्येऽभ्यषेचयत् ।
मुरुं क्षुरान्तान् पाशांश्च षट्सहस्राण्ययोजयत् ।
द्वारि तत् पुररक्षार्थं सत्कृतः क्षितिसूनुना

40.9

एवं पूर्वान् पूर्वतरानवमत्य सुमन्त्रिणः

40.10

असुरैरेव सततं सोऽसुरो मुदितोऽभवत् ।
पूर्वं गृहीतं भावं स परित्यज्य क्षितेः सुतः

40.11

आसुरं भावमासाद्य बाधते त्रिदिवौकसः ।
न देवान् न मुनीन् सर्वान् न च जानाति कश्चन

40.12

सुरेश्वरं जिगायाशु हयग्रीवसहायवान् ।
एवं स चासुरं भावं तन्वानो विचरन् क्षितौ

40.13

बाणस्य वचनाच्छक्रं बाधयत्येव वै मुनीन् ।
देवेश्वरं त्रिधा जित्वा हयग्रीवसहायवान्

40.14

अदित्याः कुण्डलयुगं त्रिषु लोकेषु विश्रुतम् ।
सर्वरत्नामृतस्त्रावि दुःखविघ्नहरं परम् ।
जहार नरको भौमो निर्भीतो मुनिशापतः

40.15

एवं देवान् बाधमानो मुनीन् विप्रान् क्षितेः सुतः ।
पञ्चवर्षसहस्राणि राज्यं प्राग्ज्योतिषेऽकरोत्

40.16

एतस्मिन्नन्तरे देवी महाभारार्दिता क्षितिः ।
ब्रह्मविष्णुमुखान् देवान् रक्षार्थं शरणं गता ।
इदं चोवाच धातारं प्रणम्योर्वी समाधवम्

40.17

॥ पृथिव्युवाच ॥
दानवा राक्षसा दैत्या हरिणा ये च सूदिताः ।
ते राज्ञां मन्दिरे जाता अधुना बलगर्विताः

40.18

तेषां भारमहं सोढुं न शक्नोमि महत्तरम् ।
असङ्ख्याताश्च ते सर्वे तान् सङ्ख्यातुं न चोत्सहे

40.19

अष्टौ शतसहस्राणि तेषां मुख्या महाबलाः ।
तेष्वप्यतिबलान् वोढुं न ताञ्छन्नोमि चाधुना

40.20

बाणं बलेः सुतं वीरं कंसं धेनुकमेव च ।
अरिष्टं च प्रलम्बं च सुनामानं मुरुं शलम्

40.22

चाणूरमुष्टिकौ मल्लौ जरासन्धं महाबलम् ।
नरकं च हयग्रीवं निसुन्दं सुन्दमेव च ॥ २१ ।
विरूपाक्षं पञ्चजनं हिडिम्बं च बकं बलम् ।
जटासुरं च किर्मीरमनायुधमलम्बुषम्

40.23

सौभाख्यं च जरासन्धं द्विविदं चापि वानरम् ।
श्रुतायुधं महादैत्यं शतायुधमथापरम्

40.24

ऋष्यशृङ्गसुतं चैव सुबाहुमतिबाहुकम् ।
कालकंजांस्तथा दैत्यान् हिरण्यपुरवासिनः

40.25

एतेषां तु पदक्षो भैर्विशीर्णाहं दिने दिने ।
लोकान् वोढुं न शक्नोमि तान्निघ्नन्तु सुरोत्तमाः

40.26

नचेद्रक्षां प्रकुर्वन्ति भवन्तः सुरसत्तमाः ।
तदा विशीर्णा यास्यामि पातालमवशाऽधुना

40.27

॥ मार्कण्डेय उवाच ॥
ततस्तस्या वचः श्रुत्वा ब्रह्मविष्णुमहेश्वराः ।
इत्यूचुस्ते करिष्यामः क्षितेः भारविमोक्षणम्

40.28

विसृज्य पृथिवीं देवीं सर्वे देवाः सनातनम् ।
माधवं तोषयामासुर्भारावतरणं प्रति

40.29

स तु तुष्टः सुरान् सर्वान् स्वांशैरवतरन्तु वै ।
क्षितौ भारावतारायेत्युक्त्वा स्वयमिह प्रभुः ।
अवतीर्णोऽथ देवक्या गर्भे भारावतारणे

40.30

विष्णुं चावतरिष्यन्तं ज्ञात्वा देवाः सनातनम्

40.31

रम्भातिलोत्तमाद्याश्च देव्यो रूपगुणान्विताः ।
क्षितावुत्पादयामासुः सहस्राणि तु षोडश

40.32

ता: सर्वा हिमवत्पृष्ठे क्रीडमाना वरस्त्रियः ।
अपश्यन्नरको भौमस्तान् जहार तदा हठात्

40.33

तेन ता धर्षिता देव्यो नीताः प्राग्ज्योतिषं प्रति ।
नरकं प्रार्थयामासुः समयं मैथुनं प्रति

40.34

नारदो यावदायाति नगरं प्रति भौम ते ।
अस्माकं कुरु रक्षां च तावन्नो मुंच मैथुने

40.35

स समेष्यति वीर त्वां न चिरान्नो ह्यनुग्रहात् ।
तेन दृष्टा वयं सार्धमेष्यामः सङ्गमं त्वया

40.36

इति सम्प्रार्थितस्ताभिर्नरको भूमिनन्दनः ।
ब्रह्मवाक्यं तदा स्मृत्वा एवमस्तूचिवान् मुहुः

40.37

एतस्मिन्नन्तरे देवो भगवान् लोकभावनः ।
देवक्या जठराज्जातो वृद्धो नन्दगृहेऽभवत्

40.38

कंसकेशिप्रलंबादीन् हत्वा दैत्याननेकशः ।
अकरोद् द्वारकावासं सागरे सलिलान्तरे

40.39

तत्राष्टौ कन्यकास्तेन स्वधर्मेण च स्वीकृताः ।
कालिन्दी सत्यभामा च रूक्मिणी रमणी तथा

40.40

नग्नजित्तनया भद्रा लक्ष्मणा चारुहासिनी ।
सुशीला मित्रवृन्देति तथा जाम्बवती सती

40.41

एतासु स्त्रीषु च ततो ह्यनुरक्तस्य तस्य वै ।
षट्त्रिंशद्वत्सरा जाता बलदेवसहायिनः

40.42

प्रद्युम्नसाम्बप्रमुखाः पुत्रास्तस्य महाबलाः ।
जातोस्तत्र द्विजश्रेष्ठाः शास्त्रे शस्त्रे च कोविदाः

40.43

अनेके निहता दैत्या भारभूतास्तदा क्षितेः ।
प्रहृष्ट: क्रीडमानश्च द्वारकायामुवास सः

40.45

अथ शक्रस्तदायातो नरकेणार्दितो भृशम् ।
द्वारकां प्रति कृष्णस्य दर्शनाय गणैः सह ॥ ४४ । ।
तत्र गत्वा परिष्वज्य कृष्णं लोकनमस्कृतम् ।
पूजितस्तेन बहुशः आसने काञ्चने स्थितः

40.46

कथयामास हरये नरकस्य विचेष्टितम् ।
शक्रो यथा पूर्ववृत्तं यथा वा वर्ततेऽधुना

40.47

॥ शक्र उवाच ॥
शृणु कृष्ण महाबाहो यदर्थमहमागतः ।
कथयिष्यामि तत् सर्वं तत्र शङ्कां न संकुरु

40.48

भूमिपुत्रोऽसुरो नाम्ना नरकः सुरमर्दनः ।
चिरंजीवी पुरा विष्णुक्षितिभ्यां परिपालितः

40.49

अधुना स क्षितिं विष्णुमवज्ञाय दुरासदः ।
बाणस्य वचनाद् भौमो ब्रह्माणं पर्यंतोषयत्

40.50

ब्रह्मतः स वरान् लब्ध्वा ह्यतीवाभूत् प्रदर्पितः ।
माधवं पृथिवीं वापि सस्मार न कदाचन

40.51

पूर्वमासीत् स धर्मात्मा ह्याराधितसुरो व्रती ।
अधुना बाधते सर्वानासुरं भावमाश्रितः

40.52

अदितेः कुण्डले मोहाज्जहारामृतसम्भवे ।
देवानृषीन् बाधमानो विप्राणामप्रिये रतः

40.53

मां चापि बाधते नित्यं कामगामी दुरासदः ।
जेता तु सुरदैत्यानामवध्यः सर्वदेहिनाम् ।
तव चाप्यन्तरप्रेक्षी तं पापं जहि भूतये

40.55

त्वदर्थं सर्वदेवैर्या देवगन्धर्वकन्यकाः ॥ ५४ । ।
पुरा पर्वतमुख्ये तु हिमवत्यवतारिताः ।
चतुर्दश सहस्राणि सहस्रे द्वे शताधिके

40.56

ताः सर्वाः कन्यकाः पापः प्रसह्य वरदर्पितः ।
जहार स दुराधर्षो हयग्रीवसहायवान्

40.57

सागरे यानि रत्नानि पृथिव्यां च त्रिविष्टपे ।
तानि सर्वाणि संहृत्य प्रमथ्य सुरमानुषान्

40.58

तीरे लौहित्यतीर्थस्य सोऽकरोन्मणिपर्वतम् ।
तस्मिन् गिरौ पुरीं रम्यां कारयित्वाऽलकाह्वयाम्

40.59

ता: सर्वा वासयामास देवगन्धर्वयोषितः ।
एकवेणीधराः सर्वाः सम्भोगपरिवर्जिताः ।
त्वामेव ताः प्रतीक्षन्ते सनाथाः कुरु कृष्ण ताः

40.60

यावदागच्छति पुरं भवतो नारदो मुनिः

40.61

तावन्न मैथुने यत्नं भौम त्वं संकरिष्यसि ।
इति ताः समयं चक्रुर्नरकस्य दुरात्मनः

40.62

नारदश्च तदायातः प्राग्ज्योतिषपुरं प्रति ।
यदा त्वं नरकं हन्तुं गन्ता तत्पुरमुत्तमम्

40.63

तस्मात् त्वं पापकर्माणं नरकं नरकोपमम् ।
जहि देवमनुष्याणां कण्टकं तं दुरासदम्

40.64

बधात् तस्य क्षितिर्देवी पुत्रशोकं न चाप्स्यसि ।
स्वयमेव वधं तस्य देवेभ्यो यदयाचत

40.65

तस्मात् तं जहि पापिष्ठं नरकं पापपूरुषम् ।
स्त्रीरत्नान्यपि रत्नानि तं निहत्य समुद्धर

40.66

इत्युक्तो जगतां नाथः शक्रेण सुमहात्मना ।
प्रतिजज्ञे क्षितिसुतं हन्तुं प्रति तदैव हि

40.67

प्रतिज्ञाय वधं तस्य शक्रेण सह केशवः ।
तदैव यात्रामकरोत् प्राग्ज्योतिषपुरं प्रति

40.68

आरुह्य गरुडं कृष्णः सत्यभामाद्वितीयकः ।
प्राग्ज्योतिषमुखोऽगच्छद्वासवस्त्रिदिवं ययौ

40.69

दिवमाक्रम्य गच्छन्तौ कृष्णशक्रौ महाद्युती ।
यादवाः ददृशुस्तत्र सूर्याचन्द्रमसौ यथा

40.70

संस्तूयमानौ गन्धर्वैर्देवैरप्सरसां गणैः ।
कृष्णः शक्रः क्षणादेव गतौ खे तावदृश्यताम्

40.71

ततः क्षणेन गरुडेनाससाद जगत्पतिः ।
पुरं प्राग्ज्योतिषं रम्यं नरकेण वशीकृतम्

40.72

स दुर्गं मौरवैः पाशैः षट्सहस्रैर्भयङ्करैः ।
क्षुरान्तैर्वेष्टितं पार्श्वे मृत्युपाशैरिवोच्छ्रितम्

40.73

निर्गच्छन्तं पुरात् तस्मात् नारदं च ददर्श सः ।
स तु देवमुनिः श्रीमान् यदागान्नरकं प्रति

40.74

तदा प्राग्ज्योतिषं गत्वा सत्कृतस्तेन नारदः ।
सङ्गमे समयं प्रोचे नरकाय स योषिताम्

40.75

॥ नारद उवाच ॥
प्रवर्ततेऽद्य चैत्रस्य शुक्लपक्षस्य पञ्चमी ।
नवम्यां तु धरापुत्र प्राप्नोति महदापदम्

40.76

तदा यदि चतुर्दश्यां सुस्नाता योषितस्त्विमाः ।
सुरतेषु त्वया तत्र प्रयोक्तव्या यथासुखम्

40.77

नारदस्य वचः श्रुत्वा नरको भयमोहितः ।
आसारं च प्रसारं च नगरे सन्यवेदयत्

40.78

रक्षिभी रक्षितं राज्यं रक्षितं च समन्ततः ।
भयहर्षयुतो भौमः समयं समवैक्षत

40.79

तस्मिन्नवसरे प्राप कृष्णः प्राग्ज्योतिषं पुरम् ।
प्रथमं पश्चिमं द्वारमासाद्य गरुडध्वजः

40.80

पाशानां षट्सहस्राणि क्षुरान् सञ्छिद्य नैकधा ।
जघान स मुरुं दैत्यं सानुगं च सबान्धवम्

40.81

षट्सहस्रा महावीरा दानवा द्वारि संस्थिताः ।
हताश्चक्रेण हरिणा तदैव मुरुणा सह

40.82

मुरुं हत्वा सहस्राणि पुत्रांस्तस्यापरांश्च षट् ।
जघान चक्रेण तदा खण्डशोऽन्यांश्च दानवान्

40.83

ततोऽनेकशिलासङ्घानतिक्रम्य जनार्दनः ।
सगणं सानुगं चैव निसुन्दं समपोथयत्

40.84

एको यो योधयेद्देवान् सहस्रं वत्सरान् पुरा ।
शक्रं च समतिक्रम्य महावीरपराक्रमः ।
तं जघान हयग्रीवं समतिक्रम्य केशवः

40.85

मध्ये लौहित्यसंज्ञस्य भगवान् देवकीसुतः

40.86

औदकायां विरूपाक्षं सुन्दं हत्वा महाबलः ।
ततः पञ्चजनं वीरं जघान परमेश्वरः

40.87

एतान् हत्वा महाकायान् महावीर्यान् दुरासदान् ।
आससाद जगन्नाथः पुरं प्राग्ज्योतिषाह्वयम्

40.88

वियत्स्थैर्दैवतैः सर्वैर्नारदेन महात्मना ।
जयशब्दैः स्तूयमानः प्रविवेश यथेश्वरः

40.89

श्रिया युक्तां दीप्यमानां प्राकाराट्टालभूषिताम् ।
स मेने नगरीं विष्णुः किमिन्द्रस्यामरावती?

40.90

तत्र युद्धं महद्भूतं नानाप्रहरणोद्यतम् ।
भीरूणां त्रासजननं शूराणां हर्षवर्धनम् ।
यथा देवासुरं युद्धं तथैव समपद्यत

40.91

ततः शार्ङ्गविनिर्मुक्तैर्बाणैस्तान् दानवान् बहून् ।
निजघान महाबाहुर्गरुडस्थो जनार्दनः

40.92

अष्टौ शतसहस्राणि अष्टौ शतशतानि च ।
हत्वासुरान् महाबाहुर्नरकं तं समासदत्

40.93

ततः श्रुत्वा स नरकः पतितानसुरान् बहून् ।
दृष्ट्वा कृष्णं महाबाहु गरुडस्थं महाबलम्

40.94

वसिष्ठशापं सस्मार समयं माधवस्य च ।
नारदस्य वचश्चापि वरच्छिद्रं तथा विधेः

40.95

स प्राप्तकालश्च तदा केशवेन समागतः ।
युद्ध वरं मेने स्मरन् बाणवचस्तदा

40.96

सः काञ्चनं समारुह्य रथं वज्रध्वजं वरम् ।
लोहचक्राष्टसंयुक्तं त्रिनत्वप्रमितं रथम्

40.97

युक्तमश्वसहस्रैस्तु वज्रध्वजधिराजितम् ।
नानाप्रहरणोपेतं बहुतूणीरसंयुतम् ।
अगच्छत् समरायाशु नरकः पृथिवीसुतः

40.98

स गच्छन् समरायाशु मानुषं भावमर्चितम् ।
निन्द्यं तथासुरं मेने स्मरन् पूर्ववचो हरेः

40.99

क्षणात् कृष्णं स ददर्श गरुडोपरि संस्थितम् ।
शङ्खचक्रगदाशार्ङ्गवरासिधरमच्युतम्

40.100

किरीटकुण्डलयुतं श्रीवत्सवक्षसं हरिम् ।
कौस्तुभोद्भासितोरस्कं पीताम्बरधरं परम्

40.101

स तेन युयुधे वीरो विष्णुना प्रभविष्णुना ।
प्राग्ज्योतिषाधिपो भीमो नरकः पृथिवीसुतः

40.102

स युध्यत् कृष्णनिकटे कालिकां कालिकोपमाम् ।
रक्तास्यनयनां दीर्घा खड्गशक्तिधरां तदा

40.103

अपश्यज्जगतां धात्रीं कामाख्यामपि मोहिनीम्

40.104

स विस्मितस्तदा भीतस्तां दृष्ट्वा जगतां प्रसूम् ।
योद्धव्यमित्येव तदा युयुधे नरकोऽसुरः

40.105

तेन सार्धं तदा कृष्णः कृत्वा सुमहदद्भुतम् ।
युद्धं यादृक् पुरा भूतं न देवे न च मानुषे

40.106

ततस्तेनाथ भौमेन युद्धकेलिं स माधवः ।
चिरं कृत्वा जघानाथ देवेन्द्रं प्रतिहर्षयन्

40.107

सुदर्शनेन चक्रेण मध्यदेशे तदा हरिः ।
द्विधा चिच्छेद नरकं खण्डितोऽभ्यपतद् भुवि

40.108

विभक्ततच्छरीरं तु भूमौ निपतितं तदा ।
विराजते वज्रभिन्नो यथा गैरिकपर्वतः

40.109

पतिते तनये देवी पृथ्वी दृष्ट्वा शरीरकम् ।
शोकवेगं तदा सेहे ज्ञात्वा कालं तदागतम्

40.110

आदितेः कुण्डलयुगं स्वयमादाय काश्यपी ।
उपातिष्ठत गोविन्दं वचनं चेदमब्रवीत्

40.111

॥ पृथिव्युवाच ॥
त्वया वराहरूपेण यदाहं चोद्धृता पुरा ।
तदा त्वद्गात्रसंस्पर्शात् पुत्रो मे नरकः स्थितः ।
सोऽयं त्वया पालितश्च पातितश्चाधुना सुतः

40.112

गृहाण कुण्डले चेमे अदितेः सर्वकामदे ।
सन्ततिं चास्य गोविन्द प्रतिपालय नित्यदा

40.113

॥ श्रीभगवानुवाच ॥
भारावतरणे देवि नरकस्य वधः पुरा ।
त्वयैव प्रार्थितो यस्मात् तेनासौ निहतो मया

40.114

पालयिष्येऽस्य सन्तानं देवि त्वद्वचनादहम् ।
प्राग्ज्योतिषेऽभिषेक्ष्यामि नप्तारं भगदत्तकम्

40.115

एवमुक्त्वा महाबाहुर्भगवान् मधुसूदनः ।
अन्तःपुरं विवेशाथ नरकस्य धनालयम्

40.116

स तत्र ददृशे वीरो रत्नानि विविधानि च ।
राशीभूतानि शुद्धानि पर्वतानिव राजतः

40.117

मुक्तामणिप्रवालानां वैदूर्यस्य च पर्वतम् ।
तथा रजतकूटानि वज्रकूटानि माधवः

40.118

सुवर्ण संचयात् रुक्मदण्डान् रत्नमयध्वजान् ।
वाहनानि विचित्राणि यानानि शयनानि च

40.119

खचितानि स्वर्णरत्नैर्महार्हाणि महान्ति च ।
यद् यद् दृष्टं च यावच्च धनं रत्नं मणिस्तथा ।
भुवि तादृक् च नो दृष्टमन्यत्र नरकालयात्

40.120

न कुबेरस्य नेन्द्रस्य न यमस्याप्यपां पतेः ।
तावन्ति धनरत्नानि यावन्ति नरकालये

40.121

केशवोऽप्यथ तत्रैव नारदेन च सङ्गतः

40.122

अवेक्ष्यान्तःपुरधनं सारं सारतरं ततः ।
तेषां समाददे ग्राह्यं प्रभूतं परवीरहा

40.123

या दत्ता वैष्णवीशक्तिर्विष्णुना प्रभविष्णुना ।
हत्वा भौमं तु तां शक्तिं जगृहे देवकीसुतः

40.124

पृथिव्या नारदेनैव सहितः केशवस्तदा ।
भगदत्तं भौमसुतं प्राग्ज्योतिषपुरोत्तमे ।
अभिषिच्य तदा भूतं पुरमध्ये न्यवेशयत्

40.125

अभिषिक्तं तु तं दृष्ट्वा भगदत्तं तदा क्षितिः ।
नप्तुरर्थेऽथ तां शक्तिं केशवं समयाचत

40.126

केशवोऽपि क्षितेर्वाक्यान्नारदानुमतेन च ।
तां शक्तिं भगदत्ताय सुप्रीतमनसा ददौ

40.127

यच्छत्रं वरुणं जित्वा काञ्चनस्त्राविसंज्ञकम् ।
समानयत् पुरा भौमस्तच्छत्रं हरिराददे

40.129

अष्टभारसुवर्णानि यत्संस्रवति चान्वहम् ।
यत् क्रोशमात्रविस्तीर्णमर्धयोजनमुच्छ्रितम् ॥ १२८ । ।
रत्नोत्तमानि सर्वाणि चतुर्दन्तांस्तथा गजान् ।
चतुर्दशसहस्राणि पूजिता: प्रमदास्तथा

40.130

द्वारकां प्रति दैत्यौघैर्वाहयामास केशवः

40.131

या देवकन्यकाः पूर्वं नरकेण हृता बलात् ।
तासां कृत्वा हृषीकेशो वेणीबन्धविमोक्षणम्

40.132

वासोभिर्भूषणैर्दिव्यैस्ताः सत्कृत्य मुहुर्मुहुः ।
आरोप्य च विमाने तु रक्षिभिर्बलिभिर्दृढैः ।
नारदाधिष्ठिताः सर्वा द्वारकां प्रत्यवाहयत्

40.133

यः कृतः सुरकन्यार्थे भौमेन मणिपर्वतः

40.134

मणिरत्नौघसम्पूर्णो दिवाकरसमप्रभः ।
उत्पाट्य तं जगन्नाथस्तार्क्षपृष्ठे न्यधापयत्

40.135

तथैव वारुणं छत्रं गरुडोपरि माधवः ।
आरोप्य सत्यभामा सहासीनः सुमना हरिः

40.136

भगदत्तं समाभाष्य पृथिवीं च जगत्पतिः ।
प्रतस्थे द्वारकां वीरो वियन्मार्गेण वै द्रुतम्

40.137

सुपर्णः काञ्चनस्राविच्छत्रं समणिपर्वतम् ।
केशवं सत्यभामां च हेलया खे वहन् ययौ

40.138

क्षणेन द्वारकां प्राप्य केशवः परवीरहा ।
मुदं च लेभे सकलैर्बान्धवैश्च तथा गणैः

40.139

एवं काली महामाया कालिकाख्या जगन्मयी ।
विष्णुं च जगतां नाथं परापरपतिं हरिम्

40.140

जगत्कारणकर्तारं ज्ञानगम्यं जगन्मयम् ।
सन्मोहयत्येव तथा ह्यनुरागविरागवान्

40.141

अनुगृह्णाति मित्राणि ह्यमित्राणि निहन्ति च ।
नारीषु मूढो रमते द्वन्द्वेनापि च मुह्यते

40.142

इति वः कथितं विप्रा यथाभून्नरकोऽसुरः ।
यथा च वरलाभोऽभूद् यथा चास्य विचेष्टितम्

40.143

आराधितो यथा ब्रह्मा बाणबुद्ध्याथ भौमिना ।
किमन्यदुचितं वास्ति तद्ब्रुवन्तु द्विजोत्तमाः

40.40

॥ इति श्रीकालिकापुराणे नरकोपाख्याने चत्वारिंशोऽध्यायः

कालिका पुराण हिन्दी अनुवाद पढने के लिए देखें-[ह्त्त्प्स्:॥प्त्वैस्ह्नवि.ब्लोग्स्पोत्.चोम्।2023।08।कलिक-पुरन्-अध्यय्-40.ह्त्म्ल् द्प् कर्मकन्द्]

मूल पाठ: kālikāpurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc